Adhikarana shUlasya sannikRuShTanidAnam (1) · Śloka 1
अथ शूलपरिणामशूलान्नद्रवशूलनिदानम् |
दोषैः पृथक् समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत् |
सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः ||१||
आमवातेऽपि शूलं भवतीत्यतस्तदनन्तरं शूलनिदानम्| ज्वरादिवत् शूलस्यापि प्रागुत्पत्तिरस्ति| यदाह हारीतः– “अनङ्गनाशाय हरस्त्रिशूलं मुमोच कोपान्मकरध्वजश्च| तमापतन्तं सहसा निरीक्ष्य भयार्दितो विष्णुतनुं प्रविष्टः|| स विष्णुहुङ्कारविमोहितात्मा पपात भूमौ प्रथितः स शूलः| स पञ्चभूतानुगतं शरीरं प्रदूषयत्यस्य हि पूर्वसृष्टिः||” इति| एतेन शूलसम्भवत्वादस्य शूलमिति सञ्ज्ञा, शूलनिखातवद्वेदनाजनकत्वाच्च| तदाह वृद्धसुश्रुतः– “शङ्कुस्फोटनवत्तस्य यस्मात्तीव्रा हि वेदना| शूलासक्तस्य भवति तस्माच्छूलमिहोच्यते||” (सु. उ. तं. अ. ४२) इति| कफपित्तादिशूलेष्ववश्यम्भावी वायुरित्याह– सर्वेष्वित्यादि| प्रभुः कर्ता||१||
Adhikarana vAtikashUlasya nidAnAdipUrvakaM lakShaNam (2-5) · Śloka 5
व्यायामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात् |
कलायमुद्गाढकिकोरदूषादत्यर्थरूक्षाध्यशनाभिघातात् ||२||
कषायतिक्तातिविरूढजान्नविरुद्धवल्लूरकशुष्कशाकात् |
विट्शुक्रमूत्रानिलवेगरोधाच्छोकोपवासादतिहास्यभाष्यात् ||३||
वायुः प्रवृद्धो जनयेद्धि शूलं हृत्पार्श्वपृष्ठत्रिकबस्तिदेशे |
जीर्णे प्रदोषे च घनागमे च शीते च कोपं समुपैति गाढम् ||४||
मुहुर्मुहुश्चोपशमप्रकोपी विड्वातसंस्तम्भनतोदभेदैः |
संस्वेदनाभ्यञ्जनमर्दनाद्यैः स्निग्धोष्णभोज्यैश्च शमं प्रयाति ||५||
वातिकमाह– व्यायामेत्यादि| शीतजलातिपानात् शीतलजलस्य प्रभूतपानात्| आढकी तुवरी, कोरदूषः कोद्रवः, विरूढजान्नमङ्कुरितधान्यकृतमन्नं, विरुद्धं क्षीरमत्स्यादिकं, वल्लूरं शुष्कमांसम्| यद्यपि सर्वैरेव वातकोपनैर्वातशूलं स्यात्तथाऽपि व्यायामादिपाठेनैतद्दर्शयति– व्यायामादयो यथा वातहेतवस्तथा शूलहेतवोऽपीति; दोषव्याधिहेतव इत्यर्थः| एवं पित्तशूलादिषु द्रष्टव्यम्| जीर्णे इत्याहारे| घनागमे वर्षासु, मेघोदये च| मुहुर्मुहुरुपशमप्रकोपौ वायोश्चलत्वेन||२-५||
Adhikarana paittikashUlasya nidAnAdipUrvakaM lakShaNam (6-8) · Śloka 8
क्षारातितीक्ष्णोष्णविदाहितैलनिष्पावपिण्याककुलत्थयूषैः |
कट्वम्लसौवीरसुराविकारैः क्रोधानलायासरविप्रतापैः ||६||
ग्राम्यातियोगादशनैर्विदग्धैः पित्तं प्रकुप्याशु करोति शूलम् |
तृण्मोहदाहार्तिकरं हि नाभ्यां संस्वेदमूर्छाभ्रमचोषयुक्तम् ||७||
मध्यन्दिने कुप्यति चार्धरात्रे विदाहकाले जलदात्यये च |
शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतैरपि भोजनश्च ||८||
पैत्तिकमाह– क्षारेत्यादि| क्षारो यवक्षारादिः मुष्ककादिकृतक्षारद्रव्यं च, तीक्ष्णोष्णं मरिचराजिकादि, विदाहि वंशकरीरादि, तैलं तिलविकृतिः, निष्पावः शिम्बिः, पिण्याको निःस्नेहः सर्षपादिकल्कः, कुलत्थयूषोऽत्र कुलत्थान्नपानोपलक्षणः| सौवीरं सन्धानविशेषः| रविप्रतापो रौद्रः| ग्राम्यातियोगो मैथुनातिसेवा| विदाहीति पूर्वं पठित्वाऽपि अशनैर्विदग्धैरित्यनेनाविदाहिवस्तुनोऽपि दोषवशेन विदाहित्वं दर्शितम्| यदाह सुश्रुतः– “स्रोतस्यन्नवहे पित्तमग्नौ वा यस्य तिष्ठति| विदाहि भुक्तमन्यद्वा तस्याप्यन्नं विदह्यते||” (सु. सू. अ. ४६) इति| विदाहकाल इत्याहारस्य| जलदात्यये शरदि||६-८||
Adhikarana shlaiShmikashUlasya nidAnAdipUrvakaM lakShaNam (9-10) · Śloka 10
आनूपवारिजकिलाटपयोविकारैर्मांसेक्षुपिष्टकृशरातिलशष्कुलीभिः |
अन्यैर्बलासजनकैरपि हेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोति शूलम् ||९||
हृल्लासकाससदनारुचिसम्प्रसेकैरामाशये स्तिमितकोष्ठशिरोगुरुत्वैः |
भुक्ते सदैव हि रुजं कुरुतेऽतिमात्रं सूर्योदयेऽथ शिशिरे कुसुमागमे च ||१०||
श्लैष्मिकमाह– आनूपेत्यादि| आनूपवारिजं मांसादिकं, किलाटं तक्रकूर्चिका, कृशरा तिलतण्डुलमाषयवागूः| सूर्योदये प्रातः| कुसुमागमे वसन्ते||९-१०||
Adhikarana sAnnipAtikashUlalakShaNam (11) · Śloka 11
सर्वेषु दोषेषु च सर्वलिङ्गं विद्याद्भिषक् सर्वभवं हि शूलम् |
सुकष्टमेनं विषवज्रकल्पं विवर्जनीयं प्रवदन्ति तज्ज्ञाः ||११||
सान्निपातिकमाह– सर्वेष्वित्यादि| त्रिदोषाणां मिलितैर्लक्षणैस्त्रिदोषजं जानीयात्| सुकष्टमसाध्यम्| विषवज्रतुल्यं मारणात्मकत्वात्||११||
Adhikarana AmashUlalakShaNam (12) · Śloka 12
आटोपहृल्लासवमीगुरुत्वस्तैमित्यकानाहकफप्रसेकैः |
कफस्य लिङ्गेन समानलिङ्गमामोद्भवं शूलमुदाहरन्ति ||१२||
आमशूलमाह– आटोपेत्यादि| कफस्य लिङ्गेन कफशूलोक्तलिङ्गेन||१२||
Adhikarana dvandvajashUlalakShaNam (13-14) · Śloka 14
द्विदोषलक्षणैरेतैर्विद्याच्छूलं द्विदोषजम् |
बस्तौ हृत्पार्श्वपृष्ठेषु स शूलः कफवातिकः |
कुक्षौ हृन्नाभिमध्येषु स शूलः कफपैत्तिकः ||१३||
दाहज्वरकरो घोरो विज्ञेयो वातपैत्तिकः |१४|
वातपैत्तिकश्चरकोक्तवातपैत्तिकशूलस्थाने द्रष्टव्यः| एवं सान्निपातिकोऽपि उक्तदोषत्रयस्थाने| यदुक्तम्– “वातात्मकं बस्तिगतं वदन्ति, पित्तात्मकं चापि वदन्ति नाभ्याम्| हृत्पार्श्वकुक्षौ कफसन्निविष्टं, सर्वेषु देशेषु च सन्निपातात्||” इति||१३-१४||–
Adhikarana shUlasya sAdhyAsAdhyatvam (14) · Śloka 15
एकदोषोत्थितः साध्यः, कृच्छ्रसाध्यो द्विदोषजः ||१४||
सर्वदोषोत्थितो घोरस्त्वसाध्यो भूर्युपद्रवः |१५|
साध्यत्वादिलक्षणमाह– एकेत्यादि| भूर्युपद्रव इति उपद्रवास्तु वेदनादयः| यदुक्तम्– “वेदना च तृषा मूर्छा आनाहो गौरवारुची| कासः श्वासश्च हिक्का च शूलस्योपद्रवाः स्मृताः||” इति||१४||–
Adhikarana pariNAmashUlasya nidAnapUrvakaM lakShaNam (15-16) · Śloka 17
स्वैर्निदानैः प्रकुपितो वायुः सन्निहितस्तदा ||१५||
कफपित्ते समावृत्य शूलकारी भवेद्बली |
भुक्ते जीर्यति यच्छूलं तदेव परिणामजम् ||१६||
तस्य लक्षणमप्येतत् समासेनाभिधीयते |१७|
परिणामशूलमाह– स्वैरित्यादि| अस्य च त्रिदोषजस्यापि नियतपरिणामकालसम्भवत्वेन पित्तोल्बणत्वं द्रष्टव्यम्| यदुक्तमन्यत्र– “बलासः प्रच्युतः स्थानात् पित्तेन सह मूर्छितः| वायुमादाय कुरुते शूलं जीर्यति भोजने|| कुक्षौ जठरपार्श्वेषु नाभौ बस्तौ स्तनान्तरे| पृष्ठमूलप्रदेशेषु सर्वेष्वेतेषु वा पुनः|| भुक्तमात्रेऽथवा वान्ते जीर्णेऽन्ने च प्रशाम्यति| षष्टिकव्रीहिशालीनामोदनेन विवर्धते|| तत् परिणामजं शूलं दुर्विज्ञेयं महागदम्| तमाहू रसवाहानां स्रोतसां दुष्टिहेतुकम्|| केचिदन्नद्रवं प्राहुरन्ये तत् पक्तिदोषतः| पक्तिशूलं वदन्त्येके केचिदन्नविदाहजम्||” इति| भुक्ते जीर्यति आहारे पच्यमाने||१५-१६||—
Adhikarana pariNAmashUlasya vAtAdibhedena lakShaNAni (17-20) · Śloka 21
आध्मानाटोपविण्मूत्रविबन्धारतिवेपनैः ||१७||
स्निग्धोष्णोपशमप्रायं वातिकं तद्वदेद्भिषक् |
तृष्णादाहारतिस्वेदं कट्वम्ललवणोत्तरम् ||१८||
शूलं शीतशमप्रायं पैत्तिकं लक्षयेद्बुधः |
छर्दिहृल्लाससम्मोहं स्वल्परुग्दीर्घसन्तति ||१९||
कटुतिक्तोपशान्तं च तच्च ज्ञेयं कफात्मकम् |
संसृष्टलक्षणं बुद्ध्वा द्विदोषं परिकल्पयेत् ||२०||
त्रिदोषजमसाध्यं तु क्षीणमांसबलानलम् |२१|
तस्य वातादिभेदेन लक्षणान्याह– आध्मानेत्यादि| तृष्णादाहारतिस्वेदा यत्र सन्ति तत्तृष्णादाहारतिस्वेदम्| कट्वम्ललवणोत्तरं कट्वम्ललवणैर्वृद्धम्| शीतशमप्रायं शीतलोपशम(य)बहुलम्| छर्दिहृल्लाससम्मोहलिङ्गानि यस्मिन् सन्ति तच्छर्दिहृल्लाससम्मोहम्| दीर्घसन्ततीति चिरानुबन्धि||१७-२०||–
Adhikarana annadravashUlalakShaNam (21-22) · Śloka 1
जीर्णे जीर्यत्यजीर्णे वा यच्छूलमुपजायते ||२१||
पथ्यापथ्यप्रयोगेण भोजनभोजनन च |
न शमं याति नियमात् सोऽन्नद्रव उदाहृतः ||२२||
(अन्नद्रवाख्यशूलेषु न तावत् स्वास्थ्यमश्नुते |
वान्तमात्रे जरत्पित्तं शूलमाशु व्यपोहति) ||१||
त्रिदोषविकृतिविशेषमन्नद्रवाख्यं शूलमाह– जीर्ण इत्यादि| जीर्णे ‘आहारे’ इति शेषः, एवं जीर्यत्यजीर्णे वेत्यत्र, सर्वदेत्यर्थः| न शमं याति नोपशेते इत्यर्थः, न त्वसाध्यं, चिकित्साविधानादिति||२१-२२||
Adhikarana puShpikA · Śloka 26
इति श्रीमाधवकरविरचिते माधवनिदाने शूलपरिणामशूलान्नद्रवशूलनिदानं समाप्तम् ||२६||
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां शूलनिदानं समाप्तम्||२६||