मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
चिरजस्यावस्थायामसाध्यत्वमाह– सञ्चित इत्यादि| महावास्तुपरिग्रहः सकलोदरव्यापी| कृतमूलो धात्वन्तरावगाही| सिरानद्धः सिराजालवान्| गृहीत्वेत्यादि| हृदयादौ गृहीत्वा शोथो गुल्मिनं कर्षति, ‘मरणाय’ इति शेषः| श्वासेत्यादि| ग्रन्थिमूढता ग्रन्थिरूपस्य गुल्मस्याकस्माद्विलयनमिति| ननु च, अन्तर्विद्रधिगुल्मयोः को भेदः? समानस्थानसम्भवत्वात्| उच्यते– विद्रधिः पच्यते, गुल्मो न पच्यते निराश्रयत्वात्| यदाह सुश्रुतः– “न निबन्धोऽस्ति गुल्मस्य विद्रधिः सनिबन्धनः| गुल्मस्तिष्ठति दोषेषु विद्रधिर्मांसशोणिते|| विद्रधिः पच्यते तस्माद्गुल्मः क्वापि न पच्यते|” (सु. नि. अ. ९) इति| ननु, गुल्मोऽपि पच्यत एव| यदाह चरकः– “विदाहशूलसङ्क्षोभस्वप्ननाशारतिज्वरैः| विदह्यमानं जानीयाद्गुल्मं तमुपनाहयेत्||” (च. चि. अ. ५) इति| उच्यते– गुल्मो न पच्यते निराश्रयत्वात्; यदा तु कारणवशादाश्रयं मांसादिकमासादयति, वातोपशमनार्थं कृतस्वेदादिभिर्वा रक्तदुष्टिर्भवति, तदा पच्यमानो विदाहनिमित्तकं विद्रधित्वमाप्नोति| उक्तं हि– “ स वै शीघ्रविदाहित्वाद्विद्रधीत्यभिधीयते|” (च. सू. अ. १७) इति| न हि यस्मात् विकारात् यदुत्पद्यते विकारान्तरं तत् स एव भवतीति; माभूत् प्लीहैव उदरम्, अश्मर्येव शर्करा, इत्यादिशास्त्रोक्तविरोधविस्तरः| तस्माद्विद्रधिः पच्यते, गुल्मो न पच्यते इति सिद्धान्तो निरपवादः| ये तु अन्तर्विद्रधिं न पठन्ति तेषामयमभिप्रायः– गुल्मे पक्वे विद्रधौ च पाटनशोधनरोपणादेः, अपक्वे च विरेकलेपविम्लापनादेश्चिकित्सितस्य प्रायो विशेषाभावादलं पृथग्विकारस्वीकारेणेति||१७-२०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
चिरजस्यावस्थायामसाध्यत्वमाह– सञ्चित इत्यादि| अनुपक्रान्तत्वात् चिरकालानुबन्धित्वात्, क्रमशः क्रमेण, सञ्चितो वृद्धिं गतो, गुल्मो महावास्तुपरिग्रहः सकलोदरव्यापी, कृतमूलो धात्वन्तरावगाही| सिरानद्धः सिराजालवान्, यदा कूर्मवदुन्नतः स्यात्, दौर्बल्यादिभिरुपद्रवैर्युक्तो भवति, तदा न सिद्ध्यतीत्यर्थः| पुनरसाध्यलक्षणमाह– गृहीत्वेत्यादि| हृल्लासादिषु गृहीत्वा शोफो गुल्मिनं गुल्मयुक्तं रोगिणं, कर्षति मारयतीत्यर्थः| सज्वरश्वासं ज्वरश्वासाभ्यामुपद्रुतम्| पुनश्चासाध्यलक्षणमाह– श्वासेत्यादि| श्वासादय उपद्रवाः गुल्मिनो मरणाय भवन्ति, ग्रन्थिमूढता ग्रन्थिरूपस्यैव गुल्मस्याकस्माद्विलयनमदर्शनमिति| ननु, वातविद्रधिगुल्मयोः को भेदः, समानस्थानसंस्थानत्वात्? उच्यते, विद्रधिः पच्यते, गुल्मो न पच्यते, निराश्रयत्वात्| यदाह सुश्रुतः– “न निबन्धोऽस्ति गुल्मस्य विद्रधिः सनिबन्धनः| गुल्मस्तिष्ठति दोषे स्वे विद्रधिर्मांसशोणिते|| विद्रधिः पच्यते तस्माद्गुल्मः क्वापि न पच्यते|” इत्यादि| ननु, गुल्मोऽपि पच्यत एव| यदाह चरकः– “विदाहशूलसङ्क्षोभस्वप्ननाशारुचिज्वरैः| विदह्यमानं जानीयाद्गुल्मं तमुपनाहयेत्||” इति| उच्यते– गुल्मो न पच्यते निराश्रयत्वात्, यदि तु कारणवशादाश्रयं मांसादिकमासादयति, वातोपशमनार्थं कृतस्वेदादिभिर्वा रक्तदुष्टिर्भवति, तदा पच्यमानो विदाहनिमित्तकं विद्रधित्वमेवाप्नोतीति| उक्तं हि– “स वै शीघ्रविदाहित्वाद्विद्रधीत्यभिधीयते|” इति| यद्येवं, तदा यस्माद्विकारान्तरमुत्पद्यते तत्स एव भवति| माभूदेवं तदा प्लीहैव उदरं जठर एव शोफः, एवं शास्त्रविरोधः, तस्माद्विद्रधिः पच्यते, गुल्मो न पच्यत इति सिद्धान्तः| ये तु अन्तर्विद्रधिं न पठन्ति, तेषामयमभिप्रायः– गुल्मापेक्षया विद्रधौ च पाटनशोधनरोपणादेः अपक्वे च विरेकलेपनविम्लायनादेश्चिकित्सितस्य प्रायो विशेषाभावादलं पृथग्विकारस्वीकारेणेति||१७-२०||