Adhikarana visarpanidAnaM, sa~gkhyA, niruktishca (1-3) · Śloka 4
अथ विसर्पनिदानम् |
लवणाम्लकटूष्णादिसंसेवादोषकोपतः |
विसर्पः सप्तधा ज्ञेयः सर्वतः परिसर्पणात् ||१||
पृथक् त्रयस्त्रिभिश्चैको विसर्पा द्वन्द्वजास्त्रयः |
वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः ||२||
चत्वार एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः |
आग्नेयो वातपित्ताभ्यां ग्रन्थ्याख्यः कफवातजः ||३||
यस्तु कर्दमको घोरः स पित्तकफसम्भवः |४|
(च. चि. अ. २१) |
अम्लपित्तसम्भवच्छर्देर्वेगविधारणाद्रक्तदुष्टौ सत्यां विसर्पोत्पत्तेर्हेतुसाम्यात् तदनन्तरं विसर्पनिदानम्| छर्दिवेगविघातस्य रक्तदूषकत्वे चरकवचनं यथा– “ छर्दिवेगप्रतीघातात् काले चानवसेवनात्| शरत्कालप्रभावाच्च शोणितं सम्प्रदुष्यति||” (च. सू. अ. २४) इति| तस्य निदानपूर्विकां सङ्ख्यां निरुक्तिं चाह– लवणाम्लेत्यादि| “विसर्पो न ह्यसंसृष्टो रक्तपित्तेन लक्ष्यते|” इति वचनात् लवणाम्लादिकं विशेषेण रक्तपित्तनिदानमुक्तम्| संसेवया सततसेवया दोषकोपः संसेवाद्दोषकोपस्ततः| अत्र, आदिग्रहणात् चरकोक्तानां हरितशाकशिण्डाकीप्रभृतीनां ग्रहणम्| सप्तधेति उल्बणैकैकदोषजास्त्रयः, सन्निपातज एकः, त्रयो द्वन्द्वजाः, इति सप्तप्रकारत्वमुक्तम्| सर्वतः परिसर्पणादिति सर्वतः परिसर्पणात् परिसर्पः, विविधं सर्पाणाद्विसर्पः| यदुक्तं चरके– “विविधं सर्पति यतो विसर्पस्तेन स स्मृतः| परिसर्पोऽथवा नाम्ना सर्वतः परिसर्पणात्||” (च. चि. अ. २१) इति||१-३||–
Adhikarana visarpadoShadUShyasa~ggrahaH (4-7) · Śloka 7
रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः ||४||
विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्त धातवः |
(च. चि. अ. २१) तत्र वातात् स वीसर्पो वातज्वरसमव्यथः ||५||
शोथस्फुरणनिस्तोदभेदायासार्तिहर्षवान् |
पित्ताद्द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः ||६||
कफात् कण्डूयुतः स्निग्धः कफज्वरसमानरुक् |
(वा. नि. अ. १३) |
सन्निपातसमुत्थश्च सर्वलिङ्गसमन्वितः ||७||
सर्वेषामेव रक्तादिदूष्यचतुष्टयदोषत्रयजन्यत्वमाह– रक्तमित्यादि| विसर्पस्य समानसामग्रीकत्वेऽपि कुष्ठाद्भेदः कुष्ठाध्याये एव निरूपितः| दोषशब्देनैव वातादिग्रहणे सिद्धे मला इति यत् कृतं, तदत्यर्थदुष्ट्या शरीरमलिनीकरणत्वं दोषाणां प्रतिपादयितुम्| सन्निपातजेऽसाध्यत्वमपि “सर्वात्मकः क्षतकृतश्च न सिद्धिमेति|” (सु. नि. अ. १०) इति वचनात्| तेन विकृतिविषमसमवेतत्वमस्य| चरके त्वन्तर्जबहिर्जभेदेन विसर्पः पठितः| यदाह– “मर्मोपघातात् सम्मोहादयनानां विघट्टनात्| तृष्णातियोगाद्वेगानां विषमं च प्रवर्तनात्|| विद्याद्विसर्पमन्तर्जमाशु चाग्निबलक्षयात्| अतो विपर्ययाद्बाह्यमन्यं विद्यात् स्वलक्षणैः||” (च. चि. अ. २१) इति||४-७||
Adhikarana AgneyavisarpalakShaNam (8-13) · Śloka 13
वातपित्ताज्ज्वरच्छर्दिमूर्छातीसारतृड्भ्रमैः |
ग्रन्थिभेदाग्निसदनतमकारोचकैर्युतः ||८||
करोति सर्वमङ्गं च दीप्ताङ्गारावकीर्णवत् |
यं यं देशं विसर्पश्च विसर्पति भवेत् स सः ||९||
शान्ताङ्गारासितो नीलो रक्तो वाऽऽशु च चीयते |
अग्निदग्ध इव स्फोटैः शीघ्रगत्वाद्द्रुतं स च ||१०||
मर्मानुसारी वीसर्पः स्याद्वातोऽतिबलस्ततः |
व्यथतेऽङ्गं हरेत् सञ्ज्ञां निद्रां च श्वासमीरयेत् ||११||
हिक्कां च स गतोऽवस्थामीदृशीं लभते न ना |
क्वचिच्छर्मारतिग्रस्तो भूमिशय्यासनादिषु ||१२||
चेष्टमानस्ततः क्लिष्टो मनोदेहप्रमोहवान् |
दुष्प्रबोधोऽश्नुते निद्रां सोऽग्निवीसर्प उच्यते ||१३||
(वा. नि. अ. १३) |
आग्नेयविसर्पमाह– वातपित्तादित्यादिना| दीप्ताङ्गारावकीर्णवदिति ज्वलदङ्गारेणैव व्याप्तमङ्गं मन्यते| शान्ताङ्गारासित इति निर्वाणाङ्गारवत् कृष्णवर्णः स देशो भवति| नीलो रक्तो वेति स देशः स्निग्धनीलो रक्तो वा भवति| अग्निदग्ध इवेति अग्निदग्धदेश इव| शीघ्रगत्वादिति शीघ्रकारित्वात्| मर्मानुसारी हृदयाद्यनुसारी| व्यथतेऽङ्गमित्यत्रान्तर्भावितो ण्यर्थः, तेन व्यथयतीत्यर्थः| निद्रां चेत्यत्र हरेदिति सम्बध्यते| शर्म सुखम्| दुष्प्रबोधोऽश्नुते निद्रामिति निद्रां मरणरूपां प्राप्नोति||८-१३||
Adhikarana granthivisarpalakShaNam (14-16) · Śloka 17
कफेन रुद्धः पवनो भित्त्वा तं बहुधा कफम् |
रक्तं वा वृद्धरक्तस्य त्वक्सिरास्नायुमांसगम् ||१४||
दूषयित्वा तु दीर्घाणुवृत्तस्थूलखरात्मनाम् |
ग्रन्थीनां कुरुते मालां सरक्तां तीव्ररुग्ज्वराम् ||१५||
श्वासकासातिसारास्यशोषहिक्कावमिभ्रमैः |
मोहवैवर्ण्यमूर्छाङ्गभङ्गाग्निसदनैर्युताम् ||१६||
इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः |१७|
(वा. नि. अ. १३) |
ग्रन्थिविसर्पमाह– कफेन रुद्ध इत्यादि| कफेनेति स्वहेतुकुपितेन, पवनः स्वहेतुकुपितः, तेन कफमारुतजत्वमस्योपपन्नं भवति| भित्त्वा तं बहुधा कफमिति कफं विस्तार्य| रक्तं वेति दूषयित्वेत्यनेन वक्ष्यमाणेन सम्बध्यते| दीर्घाणुवृत्तस्थूलखरात्मनामिति वृत्तं वर्तुलं, स्थूलमुच्छूनं, खरं कठिनम्, एवंरूपाणां ग्रन्थीनां मालां करोति, अयं च ग्रन्थिविसर्पः सुश्रुतेऽपचीसञ्ज्ञया पठ्यते||१४-१६||–
Adhikarana kardamavisarpalakShaNam (17-21) · Śloka 22
कफपित्ताज्ज्वरः स्तम्भो निद्रा तन्द्रा शिरोरुजा ||१७||
अङ्गावसादविक्षेपौ प्रलेपारोचकभ्रमाः |
मूर्छाग्निहानिर्भेदोऽस्थ्नां पिपासेन्द्रियगौरवम् ||१८||
आमोपवेशनं लेपः स्रोतसां स च सर्पति |
प्रायेणामाशयं गृह्णन्नेकदेशं न चातिरुक् ||१९||
पिडकैरवकीर्णोऽतिपीतलोहितपाण्डुरैः |
स्निग्धोऽसितो मेचकाभो मलिनः शोथवान् गुरुः ||२०||
गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्यते |
पङ्कवच्छीर्णमांसश्च स्पष्टस्नायुसिरागणः ||२१||
शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम् |२२|
(वा. नि. अ. १३) |
कर्दमविसर्पमाह– कफपित्तादित्यादि| स्तम्भ इति गात्रस्य स्तब्धता, आमोपवेशनमामस्य वर्चसस्त्यजनम्| स च सर्पति प्रायेणामाशयं गृह्णन्नेकदेशमिति कफपित्तयोरामाशयस्थत्वात् प्रायेणामाशये भवन्नेकदेशव्यापी भवतीत्यर्थः| पिडकैरिति पिडकाभिः| मलिन इति मलदिग्धः| गम्भीरपाक इत्यन्तःपाकः, प्राज्योष्मा प्रचुरोष्मा| स्पष्टस्नायुसिरागण इति पूतिमांसगलनेन स्नाय्वादीनां स्पष्टता| कर्दमाख्यमुशन्ति तमिति तं कर्दमसारूप्यात् कर्दमाख्यमिच्छन्ति||१७-२१||–
Adhikarana kShatavisarpalakShaNam (22-24) · Śloka 24
बाह्यहेतोः क्षतात् क्रुद्धः सरक्तं पित्तमीरयन् ||२२||
वीसर्पं मारुतः कुर्यात् कुलत्थसदृशैश्चितम् |
स्फोटैः शोथज्वररुजादाहाढ्यं श्यावशोणितम् ||२३||
(वा. नि. अ. १३) |
ज्वरातिसारौ वमथुस्त्वङ्मांसदरणं क्लमः |
अरोचकाविपाकौ च विसर्पाणामुपद्रवाः ||२४||
क्षतविसर्पमाह– बाह्यहेतोरित्यादि| अयं च पित्तजे विसर्पेऽन्तर्भावनीयः, तेन न सङ्ख्याधिक्यम्| तथा च भोजः– “शस्त्रप्रहारैस्तैस्तैस्तु व्याडदन्तनखैरपि| क्षते वाऽप्यथवा भग्ने बहुदोषस्य देहिनः|| रक्तं पित्तं च कुपितं व्रणमाशु प्रपद्यते| कुरुतस्ते समेते तु व्रणोत्सेधं सुदारुणम्|| आचितं तनुविस्फोटैः कृष्णैः पीतकसन्निभैः| पित्तवीसर्पवल्लिङ्गं तस्य शेषं विनिर्दिशेत्||” इति||२२-२४||
Adhikarana visarpasya sAdhyAsAdhyavicAraH (25) · Śloka 25
सिध्यन्ति वातकफपित्तकृता विसर्पाः सर्वात्मकः क्षतकृतश्च न सिद्धिमेति |
पित्तात्मकोऽञ्जनवपुश्च भवेदसाध्यः कृच्छ्राश्च मर्मसु भवन्ति हि सर्व एव ||२५||
(सु. नि. अ. १०) |
साध्यत्वादिकमाह– सिध्यन्तीत्यादि| पित्तात्मकोऽञ्जनवपुरिति अत्यन्तमुद्रिक्तपित्तोऽञ्जनसमवर्णतनुः, अग्निविसर्पाख्यो न साध्य इति व्याख्यानयन्ति| कृच्छ्राश्च मर्मस्विति असाध्यत्वेन कृच्छ्रत्वं बोद्धव्यम्| यदाह भोजः– “वर्ज्यस्तु क्षतजस्तेषां सन्निपातात्तु यो भवेत्| भिषजा जानता त्याज्याः सर्व एव तु मर्मजाः||” इति||२५||
Adhikarana puShpikA · Śloka 52
इति श्रीमाधवकरविरचिते माधवनिदाने विसर्पनिदानं समाप्तम् ||५२||
इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां विसर्पनिदानं समाप्तम्||५२||