Adhikarana shothasamprAptiH (1-2) · Śloka 3
अथ शोथनिदानम् |
रक्तपित्तकफान् वायुर्दुष्टो दुष्टान् बहिःसिराः |
नीत्वा रुद्धगतिस्तैर्हि कुर्यात्त्वङ्मांससंश्रयम् ||१||
उत्सेधं संहतं शोथं तमाहुर्निचयादतः |
सर्वं हेतुविशेषैस्तु रूपभेदान्नवात्मकम् ||२||
दोषैः पृथग्द्वयैः सर्वैरभिघाताद्विषादपि |३|
(वा. नि. अ. १३) |
उदरे शोथस्योपद्रवत्वेनोक्तत्वात्तदनन्तरं शोथनिदानम्| तस्य सम्प्राप्तिमाह– रक्तपित्तकफानित्यादि| रक्तपित्तकफान् स्वहेतुभिः स्वातन्त्र्येण दुष्टान् कुपितान्, दुष्टः स्वहेतुकुपितो वायुर्बहिःसिरा बाह्या अगम्भीराः सिरा नीत्वा गमयित्वा, तैः रक्तपित्तकफैः रुद्धगतिरावृतमार्गो वायुरुत्सेधमुच्छ्रायं कुर्यादिति योजना| बहिःसिराशब्देनात्रागम्भीरतयोक्तानां स्रोतसामपि ग्रहणम्| त्वङ्मांससंश्रयमित्यनेन व्रणशोथाद्भेदं दर्शयति, अष्टसु व्रणवास्तुषु व्रणशोथस्य सम्भवात्| यदुक्तं सुश्रुतेन– “त्वङ्मांससिरास्नाय्वस्थिसन्धिकोष्ठमर्माणीत्यष्टौ व्रणवास्तूनि भवन्ति|” (सु. सू. अ. २२) इति| संहतं संहतात्मकम्| कुतः संहतात्मकमित्यत आह– निचयादत इति| अतोऽस्मात् पूर्वोक्तात् रक्तसहितदोषत्रयसमुदायात्; एतेन रक्तसहितत्रिदोषजन्यत्वमस्योक्तं भवति| सर्वमित्यादि सर्वमिति पूर्वेण सम्बध्यते, सर्वमुत्सेधं शोथमाहुरित्यर्थः| हेतुविशेषैरिति दोषत्रयाभिघातप्रभृतिभिः कारणभेदैर्यो रूपभेदस्तस्मात् सर्वं नवात्मकमाहुरिति पूर्वक्रियया सम्बन्धः| ‘सर्वहेतुविशेषैः’ इति पाठान्तरे सर्वेषां हेतुविशेषैरित्यर्थः| द्वयैरिति द्वन्द्वैः, सर्वैस्त्रिभिः||१-२||–
Adhikarana shothapUrvarUpam (3) · Śloka 3
तत्पूर्वरूपं दवथुः सिरायामोऽङ्गगौरवम् ||३||
(वा. नि. अ. १३) |
पूर्वरूपमाह– तदित्यादि| दवथुरुपतापः| सिरायामः सिराप्रसरणवत् पीडा||३||
Adhikarana shothanidAnam (4-5) · Śloka 5
शुद्ध्यामयाभुक्तकृशाबलानां क्षाराम्लतीक्ष्णोष्णगुरूपसेवा |
दध्याममृच्छाकविरोधिदुष्टगरोपसृष्टान्ननिषेवणं च ||४||
अर्शांस्यचेष्टा न च देहशुद्धिर्मर्मोपघातो विषमा प्रसूतिः |
मिथ्योपचारः प्रतिकर्मणां च निजस्य हेतुः श्वयथोः प्रदिष्टः ||५||
(च. चि. अ. १२) |
पूर्वरूपानन्तरं कामचारान्निदानमाह– शुद्ध्यामयेत्यादि| शुद्धिर्वमनविरेचनादिः, आमया ज्वरादयः; अभुक्तमभोजनं विगुणं च भोजनं, तैः कृशानामबलानां च क्षारादिसेवा निजस्य श्वयथोर्हेतुः| दध्यादयः स्वतन्त्रा एव हेतवः, आममपक्वं, दुष्टं दोषजनकं मन्दकनवोदकादि, गरं संयोगजं विषम्| अचेष्टा निष्क्रियत्वम्| न च देहशुद्धिरिति शोधनार्हेऽपि दोषे देहाशुद्धिः| मर्मोपघात इह दोषकृत एव ज्ञेयः, बाह्यहेतुजस्तु मर्मोपघात आगन्तुशोथहेतुरेव| विषमा प्रसूतिरामगर्भपतनादिका| मिथ्योपचारोऽसम्यक्करणमसम्यगुपचारः| प्रतिकर्मणां वमनादीनाम्||४-५||
Adhikarana shothasAmAnyalakShaNam (6) · Śloka 6
सगौरवं स्यादनवस्थितत्वं सोत्सेधमूष्माऽथ सिरातनुत्वम् |
सलोमहर्षश्च विवर्णता च सामान्यलिङ्गं श्वयथोः प्रदिष्टम् ||६||
सामान्यलिङ्गमाह– सेत्यादि| सगौरवमिति अनवस्थितत्वविशेषणं, तथा सोत्सेधमिति च||६||
Adhikarana vAtashothali~ggam (7) · Śloka 7
चलस्तनुत्वक् परुषोऽरुणोऽसितः सुषुप्तिहर्षार्तियुतोऽनिमित्ततः |
प्रशाम्यति प्रोन्नमति प्रपीडितो दिवाबली च श्वयथुः समीरणात् ||७||
(च. चि. अ. १२) |
वातशोथलिङ्गमाह– चल इत्यादि| तनुत्वक् अबहलत्वक्| असितः कृष्णः| सुषुप्तिः स्पर्शाज्ञता; हर्षो झिणिझिणिवद्वेदना, किंवा रोमहर्षः| अनिमित्ततः प्रशाम्यतीति वायोश्चलत्वेन कदाचिन्निमित्तं विनाऽपि लीनो भवति; ‘निमित्तत’ इति पाठे स्नेहोष्णमर्दनादेर्निमित्ततः प्रशाम्यति उपशमं प्राप्नोतीति, उपशयार्थमेतदुक्तम्| प्रोन्नमति प्रपीडित इति प्रपीडितः सन्नन्तरुन्नमतीत्यर्थः| दिवाबलीति दिवा बलवान्, नत्वबली| स्नेहोष्णमर्दनाद्यैश्च प्रशाम्येत्, स च वातिकः; “यश्चाप्यरुणवर्णाभः शोथो नक्तं प्रणश्यति|” (च. सू. अ. १८) इति चरकवचनात्||७||
Adhikarana paittikashothali~ggam (8) · Śloka 8
मृदुः सगन्धोऽसितपीतरागवान् भ्रमज्वरस्वेदतृषामदान्वितः |
य उष्यते स्पष्टरुगक्षिरागकृत् स पित्तशोथो भृशदाहपाकवान् ||८||
(च. चि. अ. १२) |
पैत्तिकमाह– मृदुरित्यादि| उष्यते इति दह्यते||८||
Adhikarana kaphajashothali~ggam (9) · Śloka 9
गुरुः स्थिरः पाण्डुररोचकान्वितः प्रसेकनिद्रावमिवह्निमान्द्यकृत् |
स कृच्छ्रजन्मप्रशमो निपीडितो न चोन्नमेद्रात्रिबली कफात्मकः ||९||
(च. चि. अ. १२) |
कफजमाह– गुरुरित्यादि| अरोचकान्वित इति अरोचकव्याधिसहचारी| कृच्छ्रजन्मप्रशम इति चिरोत्पत्तिविनाशः| रात्रिबलीति रात्रौ स्रोतोऽवरोधजेन देहक्लेदेनाचेष्टया च कफस्य वृद्धत्वात् तज्जः शोथो बलवान् भवति; दिवा तु स्फुटस्रोतसि शरीरे सचेष्टे च न कफो बली भवति, किं तर्हि वायुः, तेन तज्जः शोथो दिवाबली भवति||९||
Adhikarana dvidoShaja-sannipAtajashothali~ggam (10) · Śloka 10
निदानाकृतिसंसर्गाच्छ्वयथुः स्याद्द्विदोषजः |
सर्वाकृतिः सन्निपाताच्छोथो व्यामिश्रलक्षणः ||१०||
(च. सू. अ. १८) |
व्यामिश्रौषधविधानार्थं क्वापि क्वापि प्रकृतिसमसमवेता अपि शिष्यहितैषितया द्वन्द्वसन्निपाता अतिदेशेन पठ्यन्ते, ये तु विकृतिविषमसमवेतास्तान् कण्ठरवेण पठन्ति; अतोऽतिदेशेन द्वन्द्वत्रयसन्निपातानाह– निदानाकृतिसंसर्गादित्यादि| व्यामिश्रलक्षण इति मिलितवातादित्रयलिङ्गः| अनेनैव सर्वाकृतिरित्यस्यार्थे सिद्धे तदभिधानं वातादिप्रत्येकं कृत्स्नलिङ्गनियमार्थम्||१०||
Adhikarana abhighAtajashothali~ggam (11-12) · Śloka 12
अभिघातेन शस्त्रादिच्छेदभेदक्षतादिभिः |
हिमानिलोदध्यनिलैर्भल्लातकपिकच्छुजैः ||११||
रसैः शूकैश्च संस्पर्शाच्छ्वयथुः स्याद्विसर्पवान् |
भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः ||१२||
(वा. नि. अ. १३) |
अभिघातजं श्वयथुमाह– अभिघातेनेत्यादि| अभिघातेन यः शोथः स शस्त्रादिभिर्भवति| हिमानिलोदध्यनिलैरिति हिमानिलैरुदध्यनिलैश्च; उदधिः समुद्रः| भल्लातकपिकच्छुजै रसैः शूकैरिति भल्लातकरसैः, कपिकच्छ्वा शूकैश्च; कपिकच्छुः शूकशिम्बी||११-१२||
Adhikarana viShajashvayathuli~ggam (13-14) · Śloka 15
विषजः सविषप्राणिपरिसर्पणमूत्रणात् |
दंष्ट्रादन्तनखाघातादविषप्राणिनामपि ||१३||
विण्मूत्रशुक्रोपहतमलवद्वस्त्रसङ्करात् |
विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनात् ||१४||
मृदुश्चलोऽवलम्बी च शीघ्रो दाहरुजाकरः |१५|
(वा. नि. अ. १३) |
विषजमाह– विषज इत्यादि| सविषप्राणिनः सर्पादयस्तेषां परिसर्पणं भ्रमणं तस्मात्, सविषप्राणिनां मूत्रणाच्च| दंष्ट्रादन्तेति दंष्ट्रा कुटिला ‘दाढ’ इति ख्याता, तद्विपरीतश्च दन्तो गोबलीवर्दन्यायात्| विण्मूत्रशुक्रोपहतमलवद्वस्त्रसङ्करादिति सविषप्राणिनां विण्मूत्राद्युपहतं मलवच्च वस्त्रं यत्तस्य संस्पर्शात्| अवलम्बी अधोगमनशीलः| शीघ्रः शीघ्रोत्पत्तिः| अयं चागन्तुरपि विशिष्टलिङ्गचिकित्सोपयोगात् पृथक् पठितः||१३-१४||–
Adhikarana yatrasthA doShA yatra deshe shothaM kurvanti tannirUpaNam (15-16) · Śloka 16
दोषाः श्वयथुमूर्ध्वं हि कुर्वन्त्यामाशयस्थिताः ||१५||
पक्वाशयस्था मध्ये तु वर्चःस्थानगतास्त्वधः |
कृत्स्नदेहमनुप्राप्ताः कुर्युः सर्वसरं तथा ||१६||
(सु. चि. अ. २३) |
यत्रस्था दोषा यत्र देशे शोथं कुर्वन्ति तमाह– दोषा इत्यादि| ऊर्ध्वमिति उरःप्रभृत्यूर्ध्वदेहे| मध्य इति उरःपक्वाशयमध्ये| अध इति पक्वाशयादधः| सर्वसरं सर्वशरीरसरणशीलम्||१५-१६||
Adhikarana shothasya sAdhyAsAdhyavicAraH (17-20) · Śloka 20
यो मध्यदेशे श्वयथुः स कष्टः सर्वगश्च यः |
अर्धाङ्गे रिष्टभूतः स्याद्यश्चोर्ध्वं परिसर्पति ||१७||
श्वासः पिपासा छर्दिश्च दौर्बल्यं ज्वर एव च |
यस्य चान्ने रुचिर्नास्ति श्वयथुं तं विवर्जयेत् ||१८||
(सु. चि. अ. २३) |
अनन्योपद्रवकृतः शोथः पादसमुत्थितः |
पुरुषं हन्ति नारीं च मुखजो गुह्यजो द्वयम् |
नवोऽनुपद्रवः शोथः साध्योऽसाध्यः पुरेरितः ||१९||
(वा. नि. अ. १३) |
विवर्जयेत् कुक्ष्युदराश्रितं च तथा गले मर्मणि संश्रितं च |
स्थूलः खरश्चापि भवेद्विवर्ज्यो यश्चापि बालस्थविराबलानाम् ||२०||
अतः परं कृच्छ्रादिभेदमाह– यो मध्यदेश इत्यादि| मध्यदेहगस्य कष्टत्वं तद्देशगशोथप्रभावात्| सर्वग इति सर्वदेहगामी| सर्वज इति पाठान्तरे सर्वजः सान्निपातिकः| रिष्टभूत इति रिष्टतुल्यः, भूतशब्द उपमाने; यथा– मातृभूतः, पितृभूत इति| व्याधेरेवात्र रिष्टभूतत्वं, तस्य च निमित्तकृतत्वात् भूतशब्द उपात्त इति कार्तिकः| अन्ये तु भूतशब्दं स्वरूपवचनमाहुः| यश्चोर्ध्वं परिसर्पतीति पुरुषविषयकमेतत्; चकारात् स्त्रियाश्च उपरिजो योऽधो याति स गृह्यते, तथा गुह्यजो यः सर्वगः| वचनं हि– “यस्तु पादाभिनिर्वृत्तः शोथः सर्वाङ्गगो भवेत्| पुरुषं हन्ति, नारीं च मुखजो, गुह्यजो द्वयम्||” (च. सू. अ. १८) इति| अनन्योपद्रवकृत इति अन्यस्य उपद्रवा अन्योपद्रवास्तद्विपरीता अनन्योपद्रवाः; एतेनायमर्थः– शोथस्यैव ये उपद्रवास्तैः कृतः| ते च– “श्वासः पिपासा दौर्बल्यं ज्वरश्छर्दिररोचकः| हिक्कातीसारकासाश्च शोथिनं क्षपयन्ति हि||” (सु. चि. अ. २३) इति सुश्रुतोक्ताः| चरकेऽप्युक्तम्– “छर्दिस्तृष्णाऽरुचिः श्वासो ज्वरोऽतीसार एव च| सप्तकोऽयं सदौर्बल्यः शोथोपद्रवसङ्ग्रहः||” (च. चि. अ. १८) इति| अथवा अन्यमुपद्रवं करोतीति अन्योपद्रवकृन्निदानम्| नान्योपद्रवकृदनन्योपद्रवकृत्, ततः स्वनिदानात् ‘जातः’ इति शेषः; तेन शोथजनकनिदानादेव उत्पन्न इत्यर्थः| पाण्डुरोगादौ तु यः शोथः पादसमुत्थितः सोऽन्योपद्रवकृतो निदानान्तराज्जातः साध्य एव| ‘आननोपद्रवगत’ इति पाठान्तरे अयमर्थः– पादयोरुत्थितः पूर्वं पश्चादाननमुपद्रवेण प्रसारेण उपद्रवत्वेन वा गतः| तथाच तन्त्रान्तरम्– “ पादप्रवृत्तः श्वयथुर्नृणां यः प्राप्नुयान्मुखम्| स्त्रीणां वक्त्रादधो याति, बस्तिजश्च न सिध्यति||” इति| क्षारपाणिनाऽप्युक्तम्– “ऊर्ध्वगामी नरं पद्भ्यामधोगामी मुखात् स्त्रियम्| उभयं बस्तिसञ्जातः शोथो हन्ति न संशयः||” इति| गुह्यज इति बस्तिजातः| द्वयमिति नरं नारीं च| असाध्यः पुरेरित इति “अर्धाङ्गे रिष्टभूत” इत्यादिना||१७-२०||
Adhikarana puShpikA · Śloka 36
इति श्रीमाधवकरविरचिते माधवनिदाने शोथनिदानं समाप्तम् ||३६||
इति श्रीकण्ठदत्तविरचितायां मधुकोशव्याख्यायां शोथनिदानं समाप्तम्||३६||