Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

24. anāgatabādhāpratiṣēdhaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातोऽनागताबाधाप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अनागत ईषदागतः, नञ् अत्र ईषदर्थे; आबाधा दुःखं व्याधिरित्यर्थः; तस्य प्रतिषेधश्चिकित्सितम्| तच्चिकित्सितं स्वस्थवृत्तमहोरात्रिकाचारक्रम इत्यर्थः, यतोऽहोरात्रेऽपि षण्णामृतूनामन्तर्भावः||१-२||

Adhikarana 2 (3) · Śloka 3

उत्थायोत्थाय सततं स्वस्थेनारोग्यमिच्छता | धीमता यदनुष्ठेयं तत् सर्वं सम्प्रवक्ष्यते ||३||

🔊 Audio coming soon

उत्थायोत्थायेति वीप्सायां, प्रत्यहमितिकर्तव्यताख्यापनायेत्येके; अन्ये तु उत्थायेति अभियोज्येत्यर्थः, अभितो योगमभिसंयोगं कृत्वा; अभियोग उद्यमः, उत्पूर्वस्य स्थाधातोरभियोगार्थत्वात्| सततम् अहरहरित्यर्थः; यदा तु उत्थायोत्थायेत्यस्याहरह इति व्याख्यानं तदा सततमिति व्यर्थं स्यात्| ‘यदनुष्ठेयमस्कन्नं’ इति केचित् पठन्ति, अस्कन्नम् अवश्यमित्यर्थः||३||

Adhikarana 3 (4-12) · Śloka 12

तत्रादौ दन्तपवनं द्वादशाङ्गुलमायतम् | कनिष्ठिकापरीणाहमृज्वग्रन्थितमव्रणम् ||४|| अयुग्मग्रन्थि यच्चापि प्रत्यग्रं शस्तभूमिजम् | अवेक्ष्यर्तुं च दोषं च रसं वीर्यं च योजयेत् ||५|| कषायं मधुरं तिक्तं कटुकं प्रातरुत्थितः | निम्बश्च तिक्तके श्रेष्ठः कषाये खदिरस्तथा ||६|| मधूको मधुरे श्रेष्ठः करञ्जः कटुके तथा | क्षौद्रव्योषत्रिवर्गाक्तं सतैलं सैन्धवेन च ||७|| चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोधयेत् | एकैकं घर्षयेद्दन्तं मृदुना कूर्चकेन च ||८|| दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन् | तद्दौर्गन्ध्योपदेहौ तु श्लेष्माणं चापकर्षति ||९|| वैशद्यमन्नाभिरुचिं सौमनस्यं करोति च | न खादेद्गलताल्वोष्ठजिह्वारोगसमुद्भवे ||१०|| अथास्यपाके श्वासे च कासहिक्कावमीषु च | दुर्बलोऽजीर्णभक्तश्च मूर्च्छार्तो मदपीडितः ||११|| शिरोरुजार्तस्तृषितः श्रान्तः पानक्लमान्वितः | अर्दिती कर्णशूली च दन्तरोगी च मानवः ||१२||

🔊 Audio coming soon

शिरस उत्तमाङ्गत्वात्तत्पूर्वमेव विवृण्वन्नाह- तत्रेत्यादि| अव्रणं कोटरादिरहितम्| प्रत्थग्रं नवम्| त्रिवर्गाक्तं त्रिसुगन्धिनाऽऽक्तं लिप्तं दन्तकाष्ठं कृत्वा, तेनेत्यध्याहारः| दौर्गन्ध्याद्यपकर्षणं तत्फलम्; उपदेहः उपलेपः| वैशद्यं निर्मलता| मदः पूगफलेनेव||४-१२||

Adhikarana 4 (13-14) · Śloka 14

जिह्वानिर्लेखनं रौप्यं सौवर्णं वार्क्षमेव च | तन्मलापहरं शस्तं मृदु श्लक्ष्णं दशाङ्गुलम् ||१३|| मुखवैरस्यदौर्गन्ध्यशोफजाड्यहरं सुखम् | दन्तदार्ढ्यकरं रुच्यं स्नेहगण्डूषधारणम् ||१४||

🔊 Audio coming soon

जिह्वेत्यादि| मृदु कोमलम्| श्लक्ष्णं मसृणम्| जाड्यं जडता स्तब्धतेत्यर्थः||१३-१४||

Adhikarana 5 (15-16) · Śloka 17

क्षीरवृक्षकषायैर्वा क्षीरेण च विमिश्रितैः | भिल्लोटककषायेण तथैवामलकस्य वा ||१५|| प्रक्षालयेन्मुखं नेत्रे स्वस्थः शीतोदकेन वा | नीलिकां मुखशोषं च पिडकां व्यङ्गमेव च ||१६|| रक्तपित्तकृतान् रोगान् सद्य एव विनाशयेत् |१७|

🔊 Audio coming soon

क्षीरवृक्षा न्यग्रोधादयः| क्षीरवृक्षकषायगण्डूषेण रक्तदुष्टिरपि निवर्तते| बहिर्मुखप्रक्षालनमाह- भिल्लेत्यादि| भिल्लोटको हि पर्वते केदारभूमौ प्रसिद्धः| गयी तु भिल्लोटककषायमन्तर्मुखप्रक्षालनमाह| आमलकस्य कषायेण नेत्रे प्रक्षालयेत्, उभयं शीतोदकेन वा||१५-१६||-

Adhikarana 6 (17-20) · Śloka 20

सुखं लघु निरीक्षेत दृढं पश्यति चक्षुषा ||१७|| मतं स्रोतोञ्जनं श्रेष्ठं विशुद्धं सिन्धुसम्भवम् | दाहकण्डूमलघ्नं च दृष्टिक्लेदरुजापहम् ||१८|| तेजोरूपावहं चैव सहते मारुतातपौ | न नेत्ररोगा जायन्ते तस्मादञ्जनमाचरेत् ||१९|| भुक्तवाञ्छिरसा स्नातः श्रान्तश्छर्दनवाहनैः | रात्रौ जागरितश्चापि नाञ्ज्याज्वरित एव च ||२०||

🔊 Audio coming soon

ततोऽञ्जनावसरः| सिन्धुरत्र नदोऽभिप्रेतः, तत्सम्भवं स्रोतोञ्जनम्| विशुद्धं मलरहितं श्रेष्ठं मतं; कुतः? यस्माद्दृष्टेर्दाहादिहरं क्लेदाद्यपहरं तथा तेजोरूपकरं; तस्मादञ्जनेन दृढं चक्षुषा पश्यति, मारुतातपौ सहते, नेत्ररोगाश्च न जायन्त इति योगतन्त्रयुक्त्या योजनीयम्| छर्दनवाहनैरिति बहुवचनेन परिश्रान्तिहेतवो गृह्यन्ते||१७-२०||

Adhikarana 7 (21-24) · Śloka 24

कर्पूरजातीकङ्कोललवङ्गकटुकाह्वयैः | सचूर्णपूगैः सहितं पत्रं ताम्बूलजं शुभम् ||२१|| मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम् | हनुदन्तस्वरमलजिह्वेन्द्रियविशोधनम् ||२२|| प्रसेकशमनं हृद्यं गलामयविनाशनम् | पथ्यं सुप्तोत्थिते भुक्ते स्नाते वान्ते च मानवे ||२३|| रक्तपित्तक्षतक्षीणतृष्णामूर्च्छापरीतिनाम् | रूक्षदुर्बलमर्त्यानां न हितं चास्यशोषिणाम् ||२४||

🔊 Audio coming soon

कर्पूरेत्यादि| जातीशब्देन जातीफलं कथ्यते||२१-२४||

Adhikarana 8 (25-26) · Śloka 26

शिरोगतांस्तथा रोगाञ्छिरोभङ्गोऽपकर्षति | केशानां मार्दवं दैर्ध्यं बहुत्वं स्निग्धकृष्णताम् ||२५|| करोति शिरसस्तृप्तिं सुत्वक्कमपि चाननम् | सन्तर्पणं चेन्द्रियाणां शिरसः प्रतिपूरणम् ||२६||

🔊 Audio coming soon

शिरसः प्रतिपूरणमिति शून्यभूतस्य शिरसः पुनः पूरणमित्यर्थः| ‘शिरोगतांस्तथा रोगान्’ इत्यत्र ‘केशभूमिगतान् रोगान्’ इत्येके पठन्ति; ‘शिरसः प्रतिपूरणं’ इत्यत्र ‘दत्तं मस्तकतैलकम्’ इत्यपरे पठन्ति||२५-२६||

Adhikarana 9 (27-28) · Śloka 28

मधुकं क्षीरशुक्ला च सरलं देवदारु च | क्षुद्रकं पञ्चनामानं समभागानि संहरेत् ||२७|| तेषां कल्ककषायाभ्यां चक्रतैलं विपाचयेत् | सदैव शीतलं जन्तोर्मूर्ध्नि तैलं प्रदापयेत् ||२८||

🔊 Audio coming soon

शिरोभ्यङ्गर्थं तैलमाह- मधुकमित्यादि| क्षीरशुक्ला क्षीरविदारिका| क्षुद्रकं पञ्चनामानमिति अल्पा पञ्चमूली| चक्रतैलं यन्त्रपीडिततैलम्| मधुकादिद्रव्याणां क्वाथार्थं पलशतम्, उदकस्य द्वादशाधिकपञ्चशतपलानि, तावत् विपचेद्यावद्विंशत्यधिकं शतं भवति, ततो वस्त्रपूतं ग्राह्यं, तेन क्वाथेन तथा तद्द्रव्याणामेव कल्कैरष्टभिः पलैश्चक्रतैलस्य द्वात्रिंशत्पलानि विपचेत्, यावत्तैलपाकलक्षणानि भवन्ति, एवमानुमानिकं कल्पनीयम् ||२७-२८||

Adhikarana 10 (29) · Śloka 29

केशप्रसाधनी केश्या रजोजन्तुमलापहा |२९|

🔊 Audio coming soon

केशप्रसाधनी कङ्कतिका ‘काकुंइ’ इति लोके| रजो धूलिः| जन्तुः यूका|२९|-

Adhikarana 11 (29) · Śloka 29

हनुमन्याशिरःकर्णशूलघ्नं कर्णपूरणम् ||२९||

🔊 Audio coming soon

हन्वित्यादि| कर्णपूरणकालस्य सङ्ख्यां श्रीवाग्भटः प्राह- “धारयेत् पूरणं कर्णे कर्णमूलं विमर्दयन्| रुजः स्यान्मार्दवं यावन्मात्राशतमवेदने” (वा.सू.अ.२२)- इति||२९||

Adhikarana 12 (30) · Śloka 30

अभ्यङ्गो मार्दवकरः कफवातनिरोधनः | धातूनां पुष्टिजननो मृजावर्णबलप्रदः ||३०||

🔊 Audio coming soon

अभ्यङ्ग इत्यादि| अभ्यङ्गोऽत्र सकलदेहस्य स्नेहाभ्यङ्गः| मृजा शुद्धप्रभा, वर्णो गौरादिः| स्नेहस्य सिरामुखादिभिः शरीरसन्तर्पणकालं केचिदत्र पठन्ति- “रोमान्तेष्वनु देहस्य स्थित्वा मात्राशतत्रयम्| ततः प्रविशति स्नेहश्चतुर्भिर्गच्छति त्वचम्||रक्तं गच्छति मात्राणां शतैः पञ्चभिरेव तु| षड्भिर्मांसं प्रपद्येत मेदः सप्तभिरेव च||शतैरष्टाभिरस्थीनि मज्जानं नवभिर्व्रजेत्| तत्रस्थाञ्छमयेद्रोगान् वातपित्तकफात्मकान्” इति||३०||

Adhikarana 13 (31-32) · Śloka 32

सेकः श्रमघ्नोऽनिलहृद्भग्नसन्धिप्रसाधकः | क्षताग्निदग्धाभिहतविघृष्टानां रुजापहः ||३१|| जलसिक्तस्य वर्धन्ते यथा मूलेऽङ्कुरास्तरोः | तथा धातुविवृद्धिर्हि स्नेहसिक्तस्य जायते ||३२||

🔊 Audio coming soon

सेकः सर्वाङ्गपरिषेकः||३१-३२||

Adhikarana 14 (33) · Śloka 33

सिरामुखै रोमकूपैर्धमनीभिश्च तर्पयन् | शरीरबलमाधत्ते युक्तः स्नेहोऽवगाहने ||३३||

🔊 Audio coming soon

युक्तः प्रयुक्तः| अवगाहनं मज्जनम्||३३||

Adhikarana 15 (34) · Śloka 34

तत्र प्रकृतिसात्म्यर्तुदेशदोषविकारवित् | तैलं घृतं वा मतिमान् युञ्ज्यादभ्यङ्गसेकयोः ||३४||

🔊 Audio coming soon

तेषां योग्यतामाह- तत्रेत्यादि||३४||

Adhikarana 16 (35-37) · Śloka 37

केवलं सामदोषेषु न कथञ्चन योजयेत् | तरुणज्वर्यजीर्णी च नाभ्यक्तव्यौ कथञ्चन ||३५|| तथा विरिक्तो वान्तश्च निरूढो यश्च मानवः | पूर्वयोः कृच्छ्रता व्याधेरसाध्यत्वमथापि वा ||३६|| शेषाणां तदहः प्रोक्ता अग्निमान्द्यादयो गदाः | सन्तर्पणसमुत्थानां रोगाणां नैव कारयेत् ||३७||

🔊 Audio coming soon

अभ्यङ्गस्य निषेधमाह- केवलमित्यादि| आमज्वरे तत्कृतकम्पादीनामपि सम्भव इत्यर्थः| पूर्वयोस्तरुणज्वर्यजीर्णिनोः; शेषाणां विरिक्तानां तदहःक्रियमाणेऽभ्यङ्गेऽग्निमान्द्यादयो भवन्ति||३५-३७||

Adhikarana 17 (38-50) · Śloka 51

शरीरायासजननं कर्म व्यायामसञ्ज्ञितम् | तत् कृत्वा तु सुखं देहं विमृद्गीयात् समन्ततः ||३८|| शरीरोपचयः कान्तिर्गात्राणां सुविभक्तता | दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा ||३९|| श्रमक्लमपिपासोष्णशीतादीनां सहिष्णुता | आरोग्यं चापि परमं व्यायामादुपजायते ||४०|| न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम् | न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात् ||४१|| न चैनं सहसाऽऽक्रम्य जरा समधिरोहति | स्थिरीभवति मांसं च व्यायामाभिरतस्य च ||४२|| व्यायामस्विन्नगात्रस्य पद्भ्यामुद्वर्तितस्य च | व्याधयो नोपसर्पन्ति सिंहं क्षुद्रमृगा इव ||४३|| वयोरूपगुणैर्हीनमपि कुर्यात् सुदर्शनम् | व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम् ||४४|| विदग्धमविदग्धं वा निर्दोषं परिपच्यते | व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम् ||४५|| स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः | सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः ||४६|| बलस्यार्धेन कर्तव्यो व्यायामो हन्त्यतोऽन्यथा | हृदि स्थानस्थितो वायुर्यदा वक्त्रं प्रपद्यते ||४७|| व्यायामं कुर्वतो जन्तोस्तद्बलार्धस्य लक्षणम् | वयोबलशरीराणि देशकालाशनानि च ||४८|| समीक्ष्य कुर्याद्व्यायाममन्यथा रोगमाप्नुयात् | क्षयतृष्णारुचिच्छर्दिरक्तपित्तभ्रमक्लमाः ||४९|| कासशोषज्वरश्वासा अतिव्यायामसम्भवाः | रक्तपित्ती कृशः शोषी श्वासकासक्षतातुरः ||५०|| भुक्तवान् स्त्रीषु च क्षीणस्तृड्भ्रमार्तश्च वर्जयेत् |५१|

🔊 Audio coming soon

शरीरेत्यादि| शरीरस्योपचयः सम्यक्पुष्टिः| गात्राणां सुविभक्तता गात्राणामिति सर्वेषामङ्गानां, सुविभक्तता सुसन्निबिष्टता सुघटितशरीरतेत्यर्थः| मृजा शुद्धिः | शत्रवो यथा च व्यायामिनं बलाद्धेतोर्न मर्दयन्ति उद्वर्तनकारिणं जनं तथा व्याधयो नोपसर्पन्ति नाभिभवन्तीत्यर्थः| स्थिरीभवति मांसं चेति उपचयलक्षणस्यापि बलस्य हेतुरित्यर्थः| व्यायामस्विन्नगात्रस्येति गात्रे स्वेदागमे सति व्यायामादुपरमः कार्य इत्यर्थः, अन्ये तु ‘व्यायामस्विन्नगात्रस्य’ इत्यत्र ‘व्यायामक्षुण्णगात्रस्य’ इति पठन्ति| पद्भ्यामुद्वर्तितस्य पादाभ्यां बहुकृतमर्दनस्येत्यर्थः| विरुद्धं हिताहितीयाध्यायोक्तम्| विदग्धम् अम्लपाकम्, अविदग्धं विदग्धादन्यत्, तेनामं विदग्धं च गृह्यते| परिः सर्वतोऽर्थे| वसन्ते चेति चकारः पथ्यतमत्वे हेमन्ताद्वसन्तस्यापकर्षं सूचयति| बलार्धलक्षणं केचिदन्यथा पठन्ति,- “कक्षाललाटनासासु हस्तपादादिसन्धिषु| प्रस्वेदान्मुखशोषाच्च बलार्धं तद्धि निर्दिशेत्”- इति| वयोबलेत्यादि वयो यौवनं, बलं शक्त्युपचयलक्षणं, शरीरं मध्यं स्थूलं च, देशमानूपं साधारणं च; कालं नित्यगमावस्थिकं च द्विविधमपि, तत्र नित्यगे शीते वसन्ते च, आवस्थिके यौवने बले सति; अशनानि स्निग्धभोजनानि; समीक्ष्य दृष्ट्वा उपचयप्रभृतौ व्यायामं कुर्यात्| व्यायामादग्निप्रदीप्तौ सत्यां सर्वरोगोपशम इति||३८-५०||-

Adhikarana 18 (51) · Śloka 52

उद्वर्तनं वातहरं कफमेदोविलापनम् ||५१|| स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम् |५२|

🔊 Audio coming soon

व्यायामे पद्भ्यामुद्वर्तितस्येत्युक्तस्योद्वर्तनस्य गुणं निर्दिशन्नाह- उद्वर्तनमित्यादि| उद्वर्तनं गात्रमर्दनम्| विलापनं द्रवीकरणम्||५१||

Adhikarana 19 (52-56) · Śloka 56

सिरामुखविविक्तत्वं त्वक्स्थस्याग्नेश्च तेजनम् ||५२|| उद्धर्षणोत्सादनाभ्यां जायेयातामसंशयम् | उत्सादनाद्भवेत् स्त्रीणां विशेषात् कान्तिमद्वपुः ||५३|| प्रहर्षसौभाग्यमृजालाघवादिगुणान्वितम् | उद्धर्षणं तु विज्ञेयं कण्डूकोठानिलापहम् ||५४|| ऊर्वोः सञ्जनयत्याशु फेनकः स्थैर्यलाघवे | कण्डूकोठानिलस्तम्भमलरोगापहश्च सः ||५५|| तेजनं त्वग्गतस्याग्नेः सिरामुखविवेचनम् | उद्धर्षणं त्विष्टिकया कण्डूकोठविनाशनम् ||५६||

🔊 Audio coming soon

सिरेत्यादि| तेजनं त्वग्गतस्याग्नेः, सिरामुखविवर्धनम्| उद्धर्षणम् अस्नेहौषधचूर्णादिभिर्घर्षणम्, अन्ये तु फेनकेष्टकादिघर्षणम्| उद्धर्षणोत्सादनाभ्यां जायेयातामिति सिरामुखविविक्तत्वाग्निदीपने उद्धर्षणोत्सादनाभ्यामुत्पद्येयातां;| केचिदत्र यथासङ्ख्यमाहुः- सिरामुखविविक्तत्वमुद्धर्षणेन, त्वक्स्थस्याग्नेस्तेजनमुत्सादनेन; सस्नेहकल्केनोद्धर्षणमुत्सादनम्| मृजा शुद्धप्रभा| ऊर्वोरूर्ध्वमधश्च फेनकः, ऊरुः ‘जाङ्घ’ इति लोके| कण्डूकोठविनाशनमिति इयमिष्टिकोद्धर्षणगुणोक्तिः||५२-५६||

Adhikarana 20 (57-63) · Śloka 64

निद्रादाहश्रमहरं स्वेदकण्डूतृषापहम् | हृद्यं मलहरं श्रेष्ठं सर्वेन्द्रियविबोधनम् ||५७|| तन्द्रापाप्मोपशमनं तुष्टिदं पुंस्त्ववर्धनम् | रक्तप्रसादनं चापि स्नानमग्नेश्च दीपनम् ||५८|| उष्णेन शिरसः स्नानमहितं चक्षुषः सदा | शीतेन शिरसः स्नानं चक्षुष्यमिति निर्दिशेत् ||५९|| श्लेष्ममारुतकोपे तु ज्ञात्वा व्याधिबलाबलम् | काममुष्णं शिरःस्नानं भैषज्यार्थं समाचरेत् ||६०|| अतिशीताम्बु शीते च श्लेष्ममारुतकोपनम् | अत्युष्णमुष्णकाले च पित्तशोणितकोपनम् ||६१|| तच्चातिसारज्वरितकर्णशूलानिलार्तिषु | आध्मानारोचकाजीर्णभुक्तवत्सु च गर्हितम् ||६२|| सौभाग्यदं वर्णकरं प्रीत्योजोबलवर्धनम् | स्वेददौर्गन्ध्यवैवर्ण्यश्रमघ्नमनुलेपनम् ||६३|| स्नानं येषां निषिद्धं तु तेषामप्यनुलेपनम् |६४|

🔊 Audio coming soon

निद्रेत्यादि| कामं यथेष्टम्| स्नानस्य निषेधमाह- तदित्यादि| येषां स्नानं नेष्यते तेषामनुलेपनमपि निषिध्यते||५७-६३||-

Adhikarana 21 (64) · Śloka 65

रक्षोघ्नमथ चौजस्यं सौभाग्यकरमुत्तमम् ||६४|| सुमनोम्बररत्नानां धारणं प्रीतिवर्धनम् |६५|

🔊 Audio coming soon

रक्षोघ्नमित्यादि| रत्नानि माणिक्यमरकतादीनि| अस्याग्रे आदर्शगुणं गोरोचनाधारणगुणं च केचिदधीयते; स चाभावान्न लिखितः||६४||-

Adhikarana 22 (65) · Śloka 66

मुखालेपाद्दृढं चक्षुः पीनगण्डं तथाऽऽननम् ||६५|| अव्यङ्गपिडकं कान्तं भवत्यम्बुजसन्निभम् |६६|

🔊 Audio coming soon

मुखेत्यादि| कान्तं कमनीयं मनोहरमित्यर्थः||६५||-

Adhikarana 23 (66-67) · Śloka 68

पक्ष्मलं विशदं कान्तममलोज्ज्वलमण्डलम् ||६६|| नेत्रमञ्जनसंयोगाद्भवेच्चामलतारकम् | यशस्यं स्वर्ग्यमायुष्यं धनधान्यविवर्धनम् ||६७|| देवतातिथिविप्राणां पूजनं गोत्रवर्धनम् |६८|

🔊 Audio coming soon

सामान्यमञ्जनगुणमाह- पक्ष्मलमित्यादि| पक्ष्मलं घनरोमान्वितम् विशदं चिप्पौरहितम्| अमलोज्ज्वलमण्डलमिति निर्मलोज्ज्वलचक्षुर्बहिर्भागम् ||६६-६७||-

Adhikarana 24 (68) · Śloka 69

आहारः प्रीणनः सद्यो बलकृद्देहधारकः ||६८|| आयुस्तेजःसमुत्साहस्मृत्योजोग्निविवर्धनः |६९|

🔊 Audio coming soon

आहार इत्यादि| तेजो भ्राजिष्णुता, समुत्साहः सम्यक्चित्तव्यवसायः, ओजो हृदिस्थं प्राणायतनम्||६८||-

Adhikarana 25 (69) · Śloka 70

पादप्रक्षालनं पादमलरोगश्रमापहम् ||६९|| चक्षुःप्रसादनं वृष्यं रक्षोघ्नं प्रीतिवर्धनम् |७०|

🔊 Audio coming soon

चक्षुःप्रसादनं दृष्टिप्रसादनं, दृष्टिसंयुक्तपादनिबन्धननाडीप्रसादनत्वात् ; प्रभावादित्यपरे| वृष्यं शुक्रवृद्धिकरं, प्रभावात्||६९||-

Adhikarana 26 (70) · Śloka 71

निद्राकरो देहसुखश्चक्षुष्यः श्रमसुप्तिनुत् ||७०|| पादत्वङ्मृदुकारी च पादाभ्यङ्गः सदा हितः |७१|

🔊 Audio coming soon

निद्रेत्यादि| पादाभ्यङ्गोऽत्रापि दृष्टिप्रदः पूर्ववत्||७०||-

Adhikarana 27 (71-74) · Śloka 74

पादरोगहरं वृष्यं रक्षोघ्नं प्रीतिवर्धनम् ||७१|| सुखप्रचारमोजस्यं सदा पादत्रधारणम् | अनारोग्यमनायुष्यं चक्षुषोरुपघातकृत् ||७२|| पादाभ्यामनुपानद्भ्यां सदा चङ्क्रमणं नृणाम् | पाप्मोपशमनं केशनखरोमापमार्जनम् ||७३|| हर्षलाघवसौभाग्यकरमुत्साहवर्धनम् | बाणवारं मृजावर्णतेजोबलविवर्धनम् ||७४||

🔊 Audio coming soon

पादेत्यादि| पादत्रं पादहितं पादुकादि| अनुपानद्भ्यां पादत्राणरहिताभ्याम्| बाणवारं वर्म||७१-७४||

Adhikarana 28 (75) · Śloka 75

पवित्रं केश्यमुष्णीषं वातातपरजोपहम् |७५|

🔊 Audio coming soon

पवित्रमित्यादि| उष्णीषं शिरोवेष्टनम्|७५|-

Adhikarana 29 (75) · Śloka 76

वर्षानिलरजोघर्महिमादीनां निवारणम् ||७५|| वर्ण्यं चक्षुष्यमौजस्यं शङ्करं छत्रधारणम् |७६|

🔊 Audio coming soon

वर्षेत्यादि| शङ्करं सुखकरम्||७५||-

Adhikarana 30 (76-77) · Śloka 78

शुनः सरीसृपव्यालविषाणिभ्यो भयापहम् ||७६|| श्रमस्खलनदोषघ्नं स्थविरे च प्रशस्यते | सत्त्वोत्साहबलस्थैर्यधैर्यवीर्यविवर्धनम् ||७७|| अवष्टम्भकरं चापि भयघ्नं दण्डधारणम् |७८|

🔊 Audio coming soon

शुन इत्यादि| सरीसृपाः कृष्णसर्पादयः| व्याला व्याघ्रादयः| विषाणिभ्यः शृङ्गिभ्यः| सत्त्वं सत्त्वगुणः, उत्साहो बलं, बलम् ओजः, स्थैर्यं अचलत्वं, धैर्यं धीरत्वं, वीर्यं शक्तिः| अवष्टम्भः अवलम्बनम्| भयघ्नं भयनाशकम्||७६-७७||-

Adhikarana 31 (78) · Śloka 78

आस्या वर्णकफस्थौल्यसौकुमार्यकरी सुखा ||७८||

🔊 Audio coming soon

आस्येत्यादि| आस्या स्थितिः||७८||

Adhikarana 32 (79-80) · Śloka 80

अध्वा वर्णकफस्थौल्यसौकुमार्यविनाशनः | अत्यध्वा विपरीतोऽस्माज्जरादौर्बल्यकृच्च सः ||७९|| यत्तु चङ्क्रमणं नातिदेहपीडाकरं भवेत् | तदायुर्बलमेधाग्निप्रदमिन्द्रियबोधनम् ||८०||

🔊 Audio coming soon

अध्वेत्यादि| अत्यध्वा अतिशयेन मार्गगमनम्| चङ्क्रमणं कुटिलगत्या परिभ्रमणम्||७९-८०||

Adhikarana 33 (81-82) · Śloka 82

श्रमानिलहरं वृष्यं पुष्टिनिद्राधृतिप्रदम् | सुखं शय्यासनं, दुःखं विपरीतगुणं मतम् ||८१|| बालव्यजनमौजस्यं मक्षिकादीनपोहति | शोषदाहश्रमस्वेदमूर्च्छाघ्नो व्यजनानिलः ||८२||

🔊 Audio coming soon

श्रमेत्यादि| सुखं शय्यासनं विस्तृतमास्तीर्णं मृदुगण्डोपधानादियुक्तम्| दुःखं सङ्कोच्यासनं , दुःखं विपरीतगुणम्| बालव्यजनं चामराख्यव्यजनम्| व्यजनानिलः तालवृन्तवायुः||८१-८२||

Adhikarana 34 (83) · Śloka 83

प्रीतिनिद्राकरं वृष्यं कफवातश्रमापहम् | संवाहनं मांसरक्तत्वक्प्रसादकरं सुखम् ||८३||

🔊 Audio coming soon

प्रीतीत्यादि| संवाहनं सुखकरस्पर्शः, मर्दनं तु गाढं पादाभ्यामारभ्य कटिपर्यन्तं, अमितप्रभटीकाकारस्तु हस्ताभ्यां शनैः शनैराहननमिति वदति||८३||

Adhikarana 35 (84-88) · Śloka 88

प्रवातं रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपक्तिनुत् | स्वेदमूर्च्छापिपासाघ्नमप्रवातमतोऽन्यथा ||८४|| सुखं वातं प्रसेवेत ग्रीष्मे शरदि मानवः | निवातं ह्यायुषे सेव्यमारोग्याय च सर्वदा ||८५|| आतपः पित्ततृष्णाग्निस्वेदमूर्च्छाभ्रमास्रकृत् | दाहवैवर्ण्यकारी च छाया चैतानपोहति ||८६|| अग्निर्वातकफस्तम्भशीतवेपथुनाशनः | आमाभिष्यन्दजरणो रक्तपित्तप्रदूषणः ||८७|| पुष्टिवर्णबलोत्साहमग्निदीप्तिमतन्द्रिताम् | करोति धातुसाम्यं च निद्रा काले निषेविता ||८८||

🔊 Audio coming soon

सुखमित्यादि| “सुखं प्रवातं सेवेत ग्रीष्मे शरदि वाऽन्तरा” इत्यन्ये पठन्ति, व्याख्यानयन्ति च- ग्रीष्मशरदौ प्रवातसेवनकालः, परं तयोरपि प्रवातसेवनं सान्तरम्| ज्योत्स्नातमसोर्गुणाः पुनश्छायानिवातगुणैः सदृशा ज्ञेया इतीह नोक्ताः| अद्रव्यत्वेऽपि आतपादीनां प्रभावजं कर्म; अन्ये पुनरातपं तेजःपरमाणुपुञ्जं, छायामपि तमःपरमाणुजामाहुः||८४-८८||

Adhikarana 36 (89) · Śloka 89

तत्रादित एव नीचनखरोम्णा शुचिना शुक्लवाससा लघूष्णीषच्छत्रोपानत्केन दण्डपाणिना काले हितमितमधुरपूर्वाभिभाषिणा बन्धुभूतेन भूतानां गुरुवृद्धानुमतेन सुसहायेनानन्यमनसा खलूपचरितव्यं, तदपि न रात्रौ, न केशास्थिकण्टकाश्मतुषभस्मोत्करकपालाङ्गारामेध्यस्नानबलिभूमिषु, न विषमेन्द्रकीलचतुष्पथश्वभ्राणामुपरिष्टात् ||८९||

🔊 Audio coming soon

प्रातरुत्थितस्य दन्तकाष्ठखादनादीन्द्रियशरीरमनसामुपकारकमन्तरङ्गमभिधाय बहिरङ्गोपचरणे सद्धृत्तमुद्दिशन्नाह- तत्रेत्यादि| लघूष्णीषम् अल्पतनुकृतं शिरोवेष्टनं; केचिल्लघुपदं छत्रेणोपानदाऽपि सम्बन्धयन्ति| उपचरितव्यम् उपगमनं कर्तव्यम्| उत्करः तृणादिसमूहः; आच्छादितखनितमृत्तिकादिरित्यपरे| यागार्थं निखातो यूपोपलक्षितः प्रदेश इन्द्रकीलः, इन्द्रार्थं कीला न्यस्यन्ते यस्मिन् देशे स प्रदेश इन्द्रकीलः| चतुष्पथो मार्गचतुष्टयसङ्गमः| श्वभ्रं गर्तः||८९||

Adhikarana 37 (90) · Śloka 90

न राजद्विष्टपरुषपैशुन्यानृतानि वदेत्, न देवब्राह्मणपितृपरिवादांश्च; न नरेन्द्रद्विष्टोन्मत्तपतितक्षुद्रनीचानुपासीत ||९०||

🔊 Audio coming soon

पैशुन्यं सूचकता, दौर्जन्यमिति यावत्| परिवादो दोषकथनम्| उन्मत्तो वातूलः, पतितः स्वकीयधर्माद्भ्रष्टः , क्षुद्रो लघुः, नीचा म्लेच्छादयः| नोपासीत नोपसेवेत||९०||

Adhikarana 38 (91) · Śloka 91

वृक्षपर्वतप्रपातविषमवल्मीकदुष्टवाजिकुञ्जराद्यधिरोहणानि परिहरेत्, पूर्णनदीसमुद्राविदितपल्वलश्वभ्रकूपावतरणानि, भिन्नशून्यागारश्मशानविजनारण्यवासाग्निसम्भ्रमव्यालभुजङ्गकीटसेवाश्च, ग्रामाघातकलहशस्त्रसन्निपातव्यालसरीसृपशृङ्गिसन्निकर्षांश्च ||९१||

🔊 Audio coming soon

प्रपातो निर्झरपतनम्| कूपान्तावतरणानि परिहरेदिति सम्बन्धः; अविदितोऽज्ञातस्वरूपः; पल्वलं खातगर्तः, अवतरणं प्रवेशः; अत्रापि परिहरेदिति सम्बन्धः| भिन्नशून्यागारं पतितगृहं जनरहितगृहं च, विजनं निर्जनम्, अरण्यं अटवी, अग्निसम्भ्रम उत्पातप्रदीप्तः, व्याला व्याघ्रादयः, कीटा वृश्चिकादयः, ग्रामाघातो मारीभयजन्यग्रामहननं, सरीसृपः कृष्णसर्पः, सन्निकर्षं नैकट्यं परिहरेदिति सम्बन्धः| पूर्वमग्नेर्हेमन्तादावतिशैत्यादभिप्रेतस्यापि सेवा अत्यन्तोपासनं निषिद्धम्, अत्र तु ग्रीष्मादौ तस्य सान्निध्यमपि निषिद्धमिति बुध्यते| तथा पूर्वं व्यालभुजङ्गयोरपि सेवा पुनः पुनर्निकटोपासनं निषिद्धम्, अत्र तु विश्वस्तयोः सान्निध्यमपि निषिध्यत इति न पौनरुक्त्यम्||९१||

Adhikarana 39 (92) · Śloka 92

नाग्निगोगुरुब्राह्मणप्रेङ्खादम्पत्यन्तरेण यायात् | न शवमनुयायात् | देवगोब्राह्मणचैत्यध्वजरोगिपतितपापकारिणां च छायां नाक्रमेत | नास्तं गच्छन्तमुद्यन्तं वाऽऽदित्यं वीक्षेत | गां धापयन्तीं धयन्तीं परशस्यं वा चरन्तीं न कस्मैचिदाचक्षीत, न चोल्कापातोत्पातेन्द्रधनूंषि | नाग्निं मुखेनोपधमेत् | नापो भूमिं वा पाणिपादेनाभिहन्यात् ||९२||

🔊 Audio coming soon

अग्न्योर्गुर्वोर्ब्राह्मणयोः प्रेङ्खयोर्दम्पत्योश्चान्तरेण न गच्छेत्; प्रेङ्खा दोला, दम्पती जायापती| शवं मृतप्राणिशरीरम्| अनुगमनं पश्चाद्गमनम्; स्कन्धदानाद्यधिकारं विनेति शेषः| चैत्यः श्मशानवृक्षः| नाक्रमेत न लङ्घयेत्| गां सुरभीम्| धापयन्तीं पाययन्तीं, वत्समिति गम्यते, धेट् पाने| धयन्तीं स्वयं पिबन्तीं कुण्डादिनिक्षिप्तपानीयप्रभृतीनीति गम्यते| परशस्यं परक्षेत्रम्| नाचक्षीत न कथयेत्| उल्कापात आकाशाज्ज्वलदग्निपातः; उत्पाता दिव्यभौमान्तरीक्षास्त्रयः; तत्र दिव्याः प्रतिमारोदनगन्धर्वनगरदर्शनादिकाः, भौमा भूकम्पप्रभृतयः, आन्तरिक्षास्तारापतनरविपरिवेषादयः; एतानि कस्मैचिन्नाचक्षीतेत्यर्थः| उपधमेत् नाग्निं मुखेन ज्वालयेदित्यर्थः| अभिहन्यादिति कारणं विनेति शेषः||९२||

Adhikarana 40 (93) · Śloka 93

न वेगान् धारयेद् वातमूत्रपुरीषादीनाम् | न बहिर्वेगान् ग्रामनगरदेवतायतनश्मशानचतुष्पथसलिलाशयपथि सन्निकृष्टानुत्सृजेन्न प्रकाशं न वाय्वग्निसलिलसोमार्कगोगुरुप्रतिमुखम् ||९३||

🔊 Audio coming soon

बहिर्वेगा वातमूत्रपुरीषादीनाम्| न प्रकाशमिति प्रकाशो यथा भवत्येवं नोत्सृजेत्||९३||

Adhikarana 41 (94) · Śloka 94

न भूमिं विलिखेत्, नासंवृतमुखः सदसि जृम्भोद्गारकासश्वासक्षवथूनुत्सृजेत्, न पर्यङ्किकावष्टम्भपादप्रसारणानि गुरुसन्निधौ कुर्यात् ||९४||

🔊 Audio coming soon

विलिखेत् नखादिभिः| न सभायामसंवृतमुखो जृम्भादीन् विसृजेत्| क्षवथुः छिक्का| पर्यङ्किका पर्यस्तिका| अवष्टम्भोऽग्रपृष्ठपार्श्वस्थितस्तम्भादिष्ववलम्बनं; परमार्थतस्तु अवष्टम्भोऽवलम्बो न पर्यायशब्दः||९४||

Adhikarana 42 (95) · Śloka 95

न बालकर्णनासास्रोतोदशनाक्षिविवराण्यभिकुष्णीयात् , न वीजयेत् केशमुखनखवस्त्रगात्राणि, न गात्रनखवक्त्रवादित्रं कुर्यात्, न काष्ठलोष्टतृणादीनभिहन्याच्छिन्द्याद्भिन्द्याद्वा ||९५||

🔊 Audio coming soon

स्रोतांसि पायूपस्थादीनि, एतेषां विवराणि छिद्राणि; नाभिकुष्णीयात् नाभिकर्षेत्, न मलं स्पृशेदित्यर्थः| न वीजयेत् न कम्पयेत्| न गात्रवादित्रं न गात्रं वाद्यभाण्डं कुर्यात्||९५||

Adhikarana 43 (96) · Śloka 96

न प्रतिवातातपं सेवेत, न भुक्तमात्रोऽग्निमुपासीत, नोत्कटकाल्पकाष्ठासनमध्यासीत, न ग्रीवां विषमं धारयेत्, न विषमकायः क्रियां भजेत भुञ्जीत वा, न प्रततमीक्षेत विशेषाज्ज्योतिर्भास्करसूक्ष्मचलभ्रान्तानि, न भारं शिरसा वहेत्, न स्वप्नजागरणशयनासनस्थानचङ्क्रमणयानवाहनप्रधावनलङ्घनप्लवनप्रतरणहास्यभाष्यव्यवायव्यायामादीनुचितानप्यतिसेवेत ||९६||

🔊 Audio coming soon

न प्रतिवातातपमिति अभिमुखं वातमातपं वा न सेवेत| नाध्यासीत नोपविशेदित्यर्थः| आसनशब्द उत्कटकादिभिस्त्रिभिः सह प्रत्येकमभिसम्बध्यते| प्रततं विस्फारिताक्षं नेक्षेत; ज्योतिरग्निशिखा, तारकेत्यन्ये| दिवा स्वप्नजागरणादीनि स्वभ्यस्तान्यप्येतानि हिताहितानि नातिक्रान्तप्रमाणं भजेत्| स्थानम् ऊर्ध्वस्थितिं, चङ्क्रमणं गतागतं, यानं रथादि, वाहनं हस्त्यश्वादि, लङ्घनं खेयगर्ताद्युत्क्रमणं, प्लवनम् उत्प्लुत्योत्प्लुत्य गमनं, प्रतरणं नद्यादीनां बाहुभ्यां तरणम्||९६||

Adhikarana 44 (97) · Śloka 97

उचितादप्यहितात् क्रमशो विरमेत्, हितमनुचितमप्यासेवेत क्रमशः, न चैकान्ततः पादहीनात् ||९७||

🔊 Audio coming soon

स्वभ्यस्तादपि यवकादेः क्रमेणैव निवर्तयेदित्यर्थः; सहसा परिवर्तने रोगो मरणं वा| क्रमशो हितं रक्तशाल्यादि| अनुचितम् अनभ्यस्तं, क्रमश इति तत्राभ्यस्तादहिताद्विरामे यथाक्रमं पादस्यापचयः, तथा तस्याभ्यसनीयस्य यथाक्रममभ्यासे पादस्यैव प्रक्षेपः; एवं हिताहितयोश्चतुर्थांशस्य षोडशांशस्य वाऽऽवापोद्धाराभ्यां षोडशाहोभिरहितस्य सर्वस्य त्यागो हितस्य सर्वस्य प्राप्तिरिति||९७||

Adhikarana 45 (98) · Śloka 98

नावाक्शिराः शयीत, न भिन्नपात्रे भुञ्जीत, न विना पात्रेण, नाञ्जलिपुटेनापः पिबेत्, काले हितमितस्निग्धमधुरप्रायमाहारं वैद्यप्रत्यवेक्षितमश्नीयात्, ग्रामगणगणिकापणिकशत्रुसत्रशठपतितभोजनानि परिहरेत्, शेषाण्यपि चानिष्टरूपरसगन्धस्पर्शशब्दमानसानि, अन्यान्येवङ्गुणान्यपि सम्भ्रमदत्तानि, (तान्यपि) मक्षिकाबालोपहतानि , नाप्रक्षालितपादो भुञ्जीत न मूत्रोच्चारपीडितो न सन्ध्ययोर्नानुपाश्रितो नातीतकालं हीनमतिमात्रं (नोद्धृतस्नेहं) चेति ||९८||

🔊 Audio coming soon

अवाक्शिरा अधःशिरा इत्यर्थः| भिन्नपात्रे विदीर्णपात्रे| प्रत्यवेक्षितं विलोकितम्| ग्रामस्थाः सर्वे मिलित्वा क्वचित् किञ्चिद् यद्भोजनं सम्पादयन्ति तद्ग्रामभोजनम्| गणा कथकचारणादयः, गणिका वेश्या, पणिक इतरवणिक्, शत्रुः विपक्षः, सत्रं यज्ञः, पतितः स्वकीयाचारभ्रष्टः| अनिष्टशब्दो रूपादिभिः सह प्रत्येकं सम्बध्यते| अनिष्टशब्दः कुत्सितध्वनिः; अनिष्टमानसं चित्तानभिप्रेतम्| अन्यानीति अनिष्टरूपादिभ्योऽन्यानि इष्टरूपरसादीनि वा, एवङ्गुणान्यपीति ग्रामादिभ्यः शेषाण्यपीत्यर्थः| सम्भ्रमदत्तानीति मिलित्वा दत्तानि, भोजनानि परिहरेदिति शेषः| (सर्वाण्येव किं त्वरया दत्तानि परिहरेदित्याह- तान्यपीत्यादि|) उच्चारो विष्ठा| नानुपाश्रित आश्रितान्वितो न भुञ्जीत| नातीतकालं नातिक्रान्तकालमित्यर्थः, (सस्नेहवस्तुनि पीडनेन स्नेहाद्भिन्नं यत्तदुद्धृतस्नेहम्|)||९८||

Adhikarana 46 (99-100) · Śloka 100

न भुञ्जीतोद्धृतस्नेहं नष्टं पर्युषितं पयः | न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम् ||९९|| नामुद्गयूषं नाक्षौद्रं नोष्णं नामलकैर्विना | अन्यथा जनयेत् कुष्ठविसर्पादीन् गदान् बहून् | नात्मानमुदके पश्येन्न नग्नः प्रविशेज्जलम् ||१००||

🔊 Audio coming soon

उद्धृतस्नेहं च सुमन्थनेनैव स्नेहाद्भिन्नम्, अत्र स्नेहो घृतम्| न नक्तं दधीत्यादि| न चाप्यलवणं न वाऽप्युदकवर्जितं दधि भुञ्जीत||९९-१००||

Adhikarana 47 (101) · Śloka 101

द्यूतमद्यातिसेवाप्रतिभूत्वसाक्षित्वसमाह्वानगोष्ठीवादित्राणि न सेवेत, स्रजं छत्रोपानहौ कनकमतीतवासांसि न चान्यैर्धृतानि धारयेत्, ब्राह्मणमग्निं गां च नोच्छिष्टः स्पृशेत् ||१०१||

🔊 Audio coming soon

प्रतिभूः लग्नकः, निष्कारणमाहूय स्वेच्छालापकथनं समाह्वानम्| वादित्राणि मृदङ्गादीनि| अतीतवासांसि जीर्णवस्त्राणि, अन्यैर्विधृतानि न प्रक्षाल्य धारयेत्||१०१||

Adhikarana 48 (102-106) · Śloka 107

भवन्ति चात्र- यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम् | तेषु तेषु प्रदातव्या रसास्ते ते विजानता ||१०२|| वर्षासु न पिबेत्तोयं पिबेच्छरदि मात्रया | वर्षासु चतुरो मासान् मात्रावदुदकं पिबेत् ||१०३|| उष्णं हैमे वसन्ते च कामं ग्रीष्मे तु शीतलम् | हेमन्ते च वसन्ते च सीध्वरिष्टौ पिबेन्नरः ||१०४|| शृतशीतं पयो ग्रीष्मे प्रावृट्काले रसं पिबेत् | यूषं वर्षति, तस्यान्ते प्रपिबेच्छीतलं जलम् ||१०५|| स्वस्थ एवमतोऽन्यस्तु दोषाहारगतानुगः | स्नेहं सैन्धवचूर्णेन पिप्पलीभिश्च संयुतम् ||१०६|| पिबेदग्निविवृद्ध्यर्थं न च वेगान् विधारयेत् |१०७|

🔊 Audio coming soon

अन्नं नियम्य कालेन वर्षादिऋतुलक्षणेनापि पानं नियमयन्नाह- वर्षास्वित्यादि| न पिबेत् ईषत् पिबेदित्यर्थः| पिबेच्छरदि मात्रयेति मात्राशब्दोऽल्पवचनः| एतेनैतदुक्तं भवति- काममभिलाषपूर्णं, न त्वतिशयेन| सीध्वरिष्टौ मद्यारिष्टयोरुदकं पिबेदित्यर्थः| सीधुः सस्यकः, अरिष्टः अभयारिष्टादिकः, पयोऽत्र क्षीरम्| तस्यान्ते वर्षान्ते| अतोऽन्य इति अस्वस्थः| दोषाहारगतानुगो भवेत् दोषा वातादयः; तत्र वाते स्निग्धमुष्णं, पित्ते शीतं, कफे रूक्षोष्णम्; आहारगतानुग इति ‘उष्णोदकानुपानं तु स्नेहानामथ शस्यते’ इत्यादि| वेगविधारणं हि अग्निनाशनम्||१०२-१०६||-

Adhikarana 49 (107-109) · Śloka 109

अग्निदीप्तिकरं नॄणां रोगाणां शमनं प्रति ||१०७|| प्रावृट्शरद्वसन्तेषु सम्यक् स्नेहादिमाचरेत् | कफे प्रच्छर्दनं पित्ते विरेको बस्तिरीरणे ||१०८|| शस्यते त्रिष्वपि सदा व्यायामो दोषनाशनः | भुक्तं विरुद्धमप्यन्नं व्यायामान्न प्रदुष्यति ||१०९||

🔊 Audio coming soon

स्वस्थातुरयोरुभयोरपि वक्ष्यमाणं शोधनं निर्दिशन्नाह- कफ इत्यादि| ईरणे वाते| अपिशब्दो व्यायामक्रियाफलानां प्रागुक्तानामपीहानुवर्तनं समुच्चिनोति| न प्रदुष्यति न दोषकरं भवति||१०७-१०९||

Adhikarana 50 (110-129) · Śloka 130

उत्सर्गमैथुनाहारशोधने स्यात्तु तन्मनाः | नेच्छेद्दोषचयात् प्राज्ञः पीडां वा कायमानसीम् ||११०|| अतिस्त्रीसम्प्रयोगाच्च रक्षेदात्मानमात्मवान् | शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयाः ||१११|| अतिव्यवायाज्जायन्ते रोगाश्चाक्षेपकादयः | आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः ||११२|| स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः | त्रिभिस्त्रिभिरहोभिर्वा समीयात् प्रमदां नरः ||११३|| सर्वेष्वृतुषु, घर्मेषु पक्षात् पक्षाद्व्रजेद्बुधः | रजस्वलामकामां च मलिनामप्रियां तथा ||११४|| वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम् | हीनाङ्गीं गर्भिणीं द्वेष्यां योनिदोषसमन्विताम् ||११५|| सगोत्रां गुरुपत्नीं च तथा प्रव्रजितामपि | सन्ध्यापर्वस्वगम्यां च नोपेयात् प्रमदां नरः ||११६|| गोसर्गे चार्धरात्रे च तथा मध्यन्दिनेषु च | लज्जासमावहे देशे विवृतेऽशुद्ध एव च ||११७|| क्षुधितो व्याधितश्चैव क्षुब्धचित्तश्च मानवः | वातविण्मूत्रवेगी च पिपासुरतिदुर्बलः ||११८|| तिर्यग्योनावयोनौ च प्राप्तशुक्रविधारणम् | दुष्टयोनौ विसर्गं तु बलवानपि वर्जयेत् ||११९|| रेतसश्चातिमात्रं तु मूर्धावरणमेव च | स्थितावुत्तानशयने विशेषेणैव गर्हितम् ||१२०|| क्रीडायामपि मेधावी हितार्थी परिवर्जयेत् | रजस्वलां प्राप्तवतो नरस्यानियतात्मनः ||१२१|| दृष्ट्यायुस्तेजसां हानिरधर्मश्च ततो भवेत् | लिङ्गिनीं गुरुपत्नीं च सगोत्रामथ पर्वसु ||१२२|| वृद्धां च सन्ध्ययोश्चापि गच्छतो जीवितक्षयः | गर्भिण्या गर्भपीडा स्याद् व्याधितायां बलक्षयः ||१२३|| हीनाङ्गीं मलिनां द्वेष्यां कामं वन्ध्यामसंवृते | देशेऽशुद्धे च शुक्रस्य मनसश्च क्षयो भवेत् ||१२४|| क्षुधितः क्षुब्धचित्तश्च मध्याह्ने तृषितोऽबलः | स्थितश्च हानिं शुक्रस्य वायोः कोपं च विन्दति ||१२५|| अतिप्रसङ्गाद्भवति शोषः शुक्रक्षयावहः | व्याधितस्य रुजा प्लीह्नि मृत्युर्मूर्च्छा च जायते ||१२६|| प्रत्यूषस्यर्धरात्रे च वातपित्त प्रकुप्यतः | तिर्यग्योनावयोनौ च दुष्टयोनौ तथैव च ||१२७|| उपदंशस्तथा वायोः कोपः शुक्रस्य च क्षयः | उच्चारिते मूत्रिते च रेतसश्च विधारणे ||१२८|| उत्ताने च भवेच्छीध्रं शुक्राश्मर्यास्तु सम्भवः | सर्वं परिहरेत्तस्मादेतल्लोकद्वयेऽहितम् ||१२९|| शुक्रं चोपस्थितं मोहान्न सन्धार्यं कथञ्चन |१३०|

🔊 Audio coming soon

शोधने वमनविरेचने| तन्मना उत्सर्गादिमना नान्यचित्त इत्यर्थः| दोषचयादिशङ्कामप्राप्तः प्राज्ञः शोधनादिना कायमानसीं पीडां नेच्छेदित्यर्थः| अत्र आत्मा शरीरम्| आत्मवान् बुद्धिवान्| स्थिरोपचितमांसा इति कठिनस्थिरमांसा इत्यर्थः| समीयात् गच्छेत्| अकामां मैथुनानभिलाषिणीम्| वर्णवृद्धां वर्णश्रेष्ठामित्यर्थः, यथा शूद्रो न वैश्यां, वैश्यो न क्षत्रियां, क्षत्रियो न ब्राह्मणीमिति| द्वेष्यां शत्रुभूताम्| प्रव्रजितां गृहीतव्रताम्| सन्ध्यापर्वसु पक्षान्तरे नान्वष्टकादिषु| अगम्या स्वसृदुहितृप्रभृतयः| नोपेयात् न गच्छेत्| गोसर्गे प्रभाते| विवृते अनाच्छादिते देशे इत्यर्थः| अशुद्धे मनसोऽप्रिये कलुषितदेशे इत्यर्थः| क्षुब्धचित्तः भीतचित्तः | तिर्यग्योनिः अजादिः| अयोनि मुखादिमैथुनं, यथा दाक्षिणात्याः स्त्रियो मुखे मैथुनं कारयन्ति| प्राप्तशुक्रविधारणमिति एषु शुक्रपातो न कार्य इत्यर्थः, चलितशुक्रविधारणं न कार्यमिति वाऽर्थः| दुष्टयोनौ स्वभावदुष्टयोनौ| रेतसश्चातिमात्रं तु विसर्गं विवर्जयेदिति सम्बन्धः| मूर्धावरणं लिङ्गमणेरावरणं, यथा दाक्षिणात्याः कृत्त्रिममणिं कारयन्तीति जेज्जटः; क्वचित् पुस्तके ‘मूर्धाहननमेव च’ इति पाठः, तत्र रहसि हर्षेण शिरस्ताडनं परित्यजेत्| यथाऽऽह वृद्धवाग्भटः “मूर्धाभिघातं परिहरेत्”, (अ.सं.सू.अ.९) लघुवाग्भटोऽपि,- “पर्वाण्यनङ्गं दिवसं शिरोहृदयताडनम्” (वा.सू.अ.७) इति | स्थिताविति स्थानं स्थितिरूर्ध्वीभावः, तत्र रेतसो विसर्गं वर्जयेत्| उत्तानशयनेऽपि रेतसो विसर्गं परिवर्जयेत्| एतयोः क्रीडायामपि रेतोविसर्गं परिवर्जयेत्| अनियतात्मनः अजितेन्द्रियस्य| वृद्धां वर्णवयोभ्यां वृद्धाम्| असंवृते देशे अनाच्छादितदेशे इत्यर्थः| अशुद्धे कलुषे इत्यर्थः| मनसः क्षयोऽप्रकर्षता, वन्ध्यामिति यद्यपि उद्देशशास्त्रे वन्ध्यापदं नास्ति तथाऽपि योनिदोषसमन्वितामित्यनेन पदेनोपगृहीतम् | उच्चारिते पुरीषवेगवति| मूत्रिते मूत्रवेगयुक्ते| अधःस्थितः पुमानुत्तानः, तदुपरिस्था नारी, यद्यपि अप्रियाऽगम्यामूर्धाभिघातानां सेवने दूषणं नाभिहितं, तथाऽप्यप्रियायां द्वेष्यामिव शुक्रस्य मनसश्च क्षयो भवति, अगम्यासु च वर्णवृद्धायामिव जीवितक्षयः, मूर्धाभिघाते च तन्त्रान्तराद्दूषणं ज्ञेयं, तथा च वृद्धवाग्भटः,- “तिमिरादिगदोत्पत्तिर्मूर्धाभिहननाद् ध्रुवम्” (अ.सं.सू.अ.९)- इति||११०-१२९||-

Adhikarana 51 (130-132) · Śloka 132

वयोरूपगुणोपेतां तुल्यशीलां कुलान्विताम् ||१३०|| अभिकामोऽभिकामां तु हृष्टो हृष्टामलङ्कृताम् | सेवेत प्रमदां युक्त्या वाजीकरणबृंहितः ||१३१|| भक्ष्याः सशर्कराः क्षीरं ससितं रस एव च | स्नानं सव्यजनं स्वप्नो व्यवायान्ते हितानि तु ||१३२||

🔊 Audio coming soon

गुणो दाक्षिण्यादिः| तुल्यशीलां समानस्वभावाम्| अभिकामः साभिलाषः| अभिकामां वृषस्यन्तीं सकामामित्यर्थः| रसो मांसरसः| व्यजनं व्यजनानिलः| ननु चास्य विधेरसम्भव एव, तथाहि- रात्रावेवाभिगमनमुक्तं, रात्रौ च स्नानभोजनादिभिरजीर्णादिदोषः स्यात्, तत् कथं मैथुनान्ते स्नानादिविधिः? सत्यम्, अधिकशुक्राणां नराणां दिवा मैथुनगामिनामयं स्नानविधिर्व्यवस्थापित इति भावः; अथवा ग्रीष्मे सायं स्नानं भोजनं च सम्भाव्यते एवेति न दोषः||१३०-१३२||

Adhikarana 52 (133) · Śloka 133

मुखमात्रं समासेन सद्वृत्तस्यैतदीरितम् | आरोग्यमायुरर्थो वा नासद्भिः प्राप्यते नृभिः ||१३३||

🔊 Audio coming soon

इदानीमतिविस्तृतत्वात् प्रधानमात्रमेवैतदीरितं न पुनरत्राप्रधानमपीत्याह- मुखमात्रमित्यादि| मुखमात्रं प्रधानमात्रं, समासेन सङ्क्षेपेण| नासद्भिः अनाचारैः| नृभिः पुरुषैः| (केचिदस्मिन्नध्याये ‘यस्मिन् यस्मिन्नृतौ’ इत्यादिकं तथा स्त्रीप्रयोगक्रमं चाधीयन्ते; तदसम्यक्, पञ्जिकायां दूषितत्वात्)||१३३||

Adhikarana puShpikA · Śloka 24

इति सुश्रुतसंहितायां चिकित्सास्थानेऽनागताबाधचिकित्सितं नाम चतुर्विंशोऽध्यायः ||२४||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने चतुर्विंशतितमोऽध्यायः||२४||