Adhikarana 1 (1-12) · Śloka 12
अथातो मिश्रकचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
पाल्यामयास्तु विस्राव्या इत्युक्तं प्राङ्निबोध तान् |
परिपोटस्तथोत्पात उन्मन्थो दुःखवर्धनः ||३||
पञ्चमः परिलेही च कर्णपाल्यां गदाः स्मृताः |
सौकुमार्याच्चिरोत्सृष्टे सहसाऽभिप्रवर्धिते ||४||
कर्णशोफो भवेत् पाल्यां सरुजः परिपोटवान् |
कृष्णारुणनिभः स्तब्धः स वातात् परिपोटकः ||५||
गुर्वाभरणसंयोगात्ताडनाद्धर्षणादपि |
शोफः पाल्यां भवेच्छ्यावो दाहपाकरुनान्वितः ||६||
रक्तो वा रक्तपित्ताभ्यामुत्पातः स गदो मतः |
बलाद्वर्धयतः कर्णं पाल्यां वायुः प्रकुप्यति ||७||
गृहीत्वा सकफं कुर्याच्छोफं तद्वर्णवेदनम् |
उन्मन्थकः सकण्डूको विकारः कफवातजः ||८||
वर्धमाने यदा कर्णे कण्डूदाहरुगन्वितः |
शोफो भवति पाकश्च त्वक्स्थोऽसौ दुःखवर्धनः ||९||
कफासृक्कृमयः कुर्युः सर्षपाभा विकारिणीः |
स्राविणीः पिडकाः पाल्यां कण्डूदाहरुगन्विताः ||१०||
कफासृक्कृमिसम्भूतः स विसर्पन्नितस्ततः |
लिह्यात् सशष्कुलीं पालीं परिलेहीति स स्मृतः ||११||
पाल्यामया ह्यमी घोरा नरस्याप्रतिकारिणः |
मिथ्याहारबिहारस्य पालिं हिंस्युरुपेक्षिताः ||१२||
चिरोत्सृष्टो बहुकालं यावत् परित्यक्तः, सौकुमार्यहेतुत्वात्| शष्कुली बाह्यपाल्यधिष्ठानं||१-१२||
Adhikarana 2 (13-27) · Śloka 28
तस्मादाशु भिषक् तेषु स्नेहादिक्रममाचरेत् |
तथाऽभ्यङ्गपरीषेकप्रदेहासृग्विमोक्षणम् ||१३||
सामान्यतो विशेषाच्च वक्ष्याम्यभ्यञ्जनं प्रति |
खरमञ्जरियष्ट्याह्वसैन्धवामरदारुभिः ||१४||
सुपिष्टैः साश्वगन्धैश्च मूलकावल्गुजैः फलैः |
सर्पिस्तैलवसामज्जमधूच्छिष्टानि पाचयेत् ||१५||
सक्षीराण्यथ तैः पालिं प्रदिह्यात् परिपोटके |
मञ्जिष्ठातिलयष्ट्याह्वसारिवोत्पलपद्मकैः ||१६||
सरोध्रैः सकदम्बैश्च बलाजम्ब्वाम्रपल्लवैः |
सिद्धं धान्याम्लसंयुक्तं तैलमुत्पातनाशनम् ||१७||
तालपत्र्यश्वगन्धार्कबाकुचीफलसैन्धवैः |
तैलं कुलीरगोधाभ्यां वसया सह पाचितम् ||१८||
सरलालाङ्गलीभ्यां च हितमुन्मन्थनाशनम् |
तथाऽश्मन्तकजम्ब्वाम्रपत्रक्वाथेन सेचनम् ||१९||
प्रपौण्डरीकमधुकमञ्जिष्ठारजनीद्वयैः |
चूर्णैरुद्वर्तनैः पालीं तैलाक्तामवचूर्णयेत् ||२०||
लाक्षाविडङ्गकल्केन तैलं पक्त्वाऽवचारयेत् |
स्विन्नां गोमयपिण्डेन प्रदिह्यात् परिलेहिके ||२१||
पिष्टैर्विडङ्गैरथवा त्रिवृच्छ्यामार्कसंयुतैः |
करञ्जेङ्गुदिबीजैर्वा कुटजारग्वधायुतैः ||२२||
सर्वैर्वा सार्षपं तैलं सिद्धं मरिचसंयुतम् |
सनिम्बपत्रैरभ्यङ्गे मधूच्छिष्टान्वितं हितम् ||२३||
पालीषु व्याधियुक्तासु तन्वीषु कठिनासु च |
पुष्ट्यर्थं मार्दवार्थं च कुर्यादभ्यञ्जनं त्विदम् ||२४||
लोपाकानूपमज्जानं वसां तैलं नवं घृतम् |
पचेद्दशगुणं क्षीरमावाप्य मधुरं गणम् ||२५||
अपामार्गाश्वगन्धे च तथा लाक्षारसं शुभम् |
तत्सिद्धं परिपूतं च स्वनुगुप्तं निधापयेत् ||२६||
तेनाभ्यञ्ज्यात् सदा पालीं सुस्विन्नामतिमर्दिताम् |
एतेन पाल्यो वर्धन्ते निरुजो निरुपद्रवाः ||२७||
मृद्व्यः पुष्टाः समाः स्निग्धा जायन्ते भूषणक्षमाः |२८|
तस्मादित्यादि| स्नेह आदिर्यस्य वमनादेः स तथा| तत्र वातिकेऽभ्यङ्गानुवासनप्रदेहादि, पैत्तिके विरेचनं, श्लैष्मिके वमनं, रक्तपैत्तिके रक्तापकर्षणविरेकपरिषेकादिका क्रिया, कृमिजे कृमिघ्नश्च विधिरिति| खरमञ्जरिः अपामार्गः| अवल्गुजा बाकुचिका| परिपोटके पालिं चतुःस्नेहेन सकिट्टेनैव प्रदिह्यात्| तालपत्री मुशली| कुलीरगोधाभ्यामिति कुलीरः कर्कटः, गोधा ‘गोसाप्’ इति भाषा| सरला धूपकाष्ठः| अश्मन्तकादिपत्रक्वाथपरिषिक्तां लाक्षाविडङ्गकल्कसिद्धेन तैलेनाभ्यक्तां प्रपौण्डरीकादिचूर्णैरवचूर्णयेत्| त्रिवृदादिसंयुतैर्विडङ्गैर्गोमूत्रपिष्टैः प्रदिह्यात्| गयी तु परिलेहिके पिप्पलीकृमिघ्नवचाकल्केन गोमूत्रपिष्टेन च प्रदिह्यादिति व्याख्यानयति; तदनुगतश्च पाठो न लभ्यते| सर्वैरनन्तरोक्तैः; गोमूत्रपिष्टैरेव करञ्जादिभिश्चतुर्भिः| अत्रापि गोमूत्रं चतुर्गुणम्| अन्ये त्वेवं पठन्ति- “निम्बपत्रैर्मूत्रसिक्ते ह्यङ्गे चाभ्यञ्जनं हितम्” इति| लोपाकः लाङ्गटकः| आनूपा महिषादयः| वसा पुनस्तेषामेव| मधुरगणः काकोल्यादिः||१३-२७||-
Adhikarana 3 (28-31) · Śloka 31
नीलीदलं भृङ्गरजोऽर्जुनत्वक् पिण्डीतकं कृष्णमयोरजश्च |
बीजोद्भवं साहचरं च पुष्पं पथ्याक्षधात्रीसहितं विचूर्ण्य ||२८||
एकीकृतं सर्वमिदं प्रमाय पङ्केन तुल्यं नलिनीभवेन |
संयोज्य पक्षं कलशे निधाय लौहे घटे सद्मनि सापिधाने ||२९||
अनेन तैलं विपचेद्विमिश्रं रसेन भृङ्गत्रिफलाभ वेन |
आसन्नपाके च परीक्षणार्थं पत्रं बलाकाभवमाक्षिपेच्च ||३०||
भवेद्यदा तद्भ्रमराङ्गनीलं तदा विपक्वं विनिधाय पात्रे |
कृष्णायसे मासमवस्थितं तदभ्यङ्गयोगात् पलितानि हन्यात् ||३१||
पलिते नीलीतैलमाह- नीलीदलमित्यादि| नीली नीलाञ्जनिका शारदफला, ‘श्रीफली’ इति लोके| भृङ्गराजो मार्कवः| पिण्डीतकं कृष्णं, कृष्णपुष्पो मदनः| बीजोद्भवं साहचरं च पुष्पं बीजकसहचरयोः पुष्पम्; अन्ये तु बीजोद्भवमित्याहुः, अस्मिन् योगे केचित् साहचरं श्यामापुष्पं इति वदन्ति| एकीकृतं सर्वमिदं प्रमायेति अदः एतत्, प्रमाय तोलयित्वा, नलिनीभवेन पङ्केन तुल्यं पद्मतलकर्दमेन सहेत्यर्थः| संयोज्य मेलयित्वा| सद्मनि गृहे| सापिधाने सुष्ठु आवृते सझम्पने कलशे इति ज्ञेयम्| अनेनेत्यादि| पक्षादुद्धृत्यानेन तैलं विपचेत्| स्नेहचतुर्थांशो भेषजकल्कः, स्नेहाच्चतुर्गुणो द्रव इति न्यायः स्वयमेवोह्यः| आसन्नपाके चेत्यादि| तावत् कालं पाचयेद् यावदेव बलाकापक्षं नीलं भवतीति; एतेन पुनः पुनर्द्रवं निक्षिप्य पचेदित्युक्तं भवति||२८-३१||
Adhikarana 4 (32-37) · Śloka 37
सैरीयजम्ब्वर्जुनकाश्मरीजं पुष्पं तिलान्मार्कवचूतबीजे |
पुनर्नवे कर्दमकण्टकार्यौ कासीसपिण्डीतकबीजसारम् ||३२||
फलत्रयं लोहरजोऽञ्जनं च यष्ट्याह्वयं नीरजसारिवे च |
पिष्ट्वाऽथ सर्वं सह मोदयन्त्या साराम्भसा बीजकसम्भवेन ||३३||
साराम्भसः सप्तभिरेव पश्चात् प्रस्थैः समालोड्य दशाहगुप्तम् |
लौहे सुपात्रे विनिधाय तैलमक्षोद्भवं तच्च पचेत् प्रयत्नात् ||३४||
पक्वं च लौहेऽभिनवे निधाय नस्यं विदध्यात् परिशुद्धकायः |
अभ्यङ्गयोगैश्च नियुज्यमानं भुञ्जीत माषान् कृशरामथो वा ||३५||
मासोपरिष्टाद्धनकुञ्चिताग्राः केशा भवन्ति भ्रमराञ्जनाभाः |
केशास्तथाऽन्ये खलतौ भवेयुर्जरा न चैनं सहसाऽभ्युपैति ||३६||
बलं परं सम्भवतीन्द्रियाणां भवेच्च वक्त्रं वलिभिर्विमुक्तम् |
नाकामिनेऽनर्थिनि नाकृताय नैवारये तैलमिदं प्रदेयम् ||३७||
सैरीयकादीनां पुष्पाणि| सैरीयकः कण्टसेलीयाकः, मार्कवचूतयोर्बीजे, मार्कवो भृङ्गराजः| चूत आम्रः| पुनर्नवे द्वे शुक्ललोहिते| कर्दमः पद्मिनीमूलपङ्कः| पिण्डीतको मदनकः, तस्य यत्फलं पाण्डुरवर्णं भवति तदिह ग्राह्यम्| बीजसारं असनसारम्| अञ्जनं नीलवर्णं रसाञ्जनं, अन्ये स्रोतोऽञ्जनमाहुः| नीरजं नीलोत्पलम्| पिष्ट्वा सर्वं कर्षप्रमाणमित्यर्थः| मोदयन्ती मल्लिकेति लोके ख्याता| साराम्भसा बीजकसम्भवेन बीजकसारोदकेन| तैलमक्षोद्भवं बिभीतकतैलं, तदाढकप्रमाणं पचेदिति| लौहपात्रे निधाय स्थापयेत्, ‘मासमात्रम्’ इति शेषः| एष पलिते खलतौ च योगः; वलिः त्वक्सङ्कोचः, अनर्थिनि अतात्पर्यार्थपरे, अकृताय कृतघ्नाय||३२-३७||
Adhikarana 5 (38-42) · Śloka 42
लाक्षा रोध्रं द्वे हरिद्रे शिलाले कुष्ठं नागं गैरिका वर्णकाश्च |
मञ्जिष्ठोग्रा स्यात् सुराष्ट्रोद्भवा च पत्तङ्गं वै रोचना चाञ्जनं च ||३८||
हेमाङ्गत्वक् पाण्डुपत्रं वटस्य कालीयं स्यात् पद्मकं पद्ममध्यम् |
रक्तं श्वेतं चन्दनं पारदं च काकोल्यादिः क्षीरपिष्टश्च वर्गः ||३९||
मेदो मज्जा सिक्थकं गोघृतं च दुग्धं क्वाथः क्षीरिणां च द्रुमाणाम् |
एतत् सर्वं पक्वमैकध्यतस्तु वक्त्राभ्यङ्गे सर्पिरुक्तं प्रधानम् ||४०||
हन्याद् व्यङ्गं नीलिकां चातिवृद्धां वक्त्रे जाताः स्फोटिकाश्चापि काश्चित् |
पद्माकारं निर्वलीकं च वक्त्रं कुर्यादेतत् पीनगण्डं मनोज्ञम् ||४१||
राज्ञामेतद्योषितां चापि नित्यं कुर्याद्वैद्यस्तत्समानां नृणां च |
कुष्ठघ्नं वै सर्पिरेतत् प्रधानं येषां पादे सन्ति वैपादिकाश्च ||४२||
लाक्षामित्यादि| वलिः त्वक्सङ्कोचः||३८-४२||
Adhikarana 6 (43) · Śloka 43
हरीतकीचूर्णमरिष्टपत्रं चूतत्वचं दाडिमपुष्पवृन्तम् |
पत्रं च दद्यान्मदयन्तिकाया लेपोऽङ्गरागो नरदेवयोग्यः ||४३||
हरीतकीत्यादि| अरिष्टपत्रं निम्बपत्रं, फेनिलवृक्षपत्रं वा| चूतत्वक् आम्रत्वक्| मदयन्तिका ‘मेन्दी’ इति लोके, यस्याः पिष्टैः पत्रैर्नखानां रागं स्त्रिय उत्पादयन्ति||४३||
Adhikarana puShpikA · Śloka 25
इति सुश्रुतसंहितायां चिकित्सास्थाने मिश्रकचिकित्सितं नाम पञ्चविंशोऽध्यायः ||२५||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने पञ्चविंशतितमोऽध्यायः||२५||