Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

23. śōphacikitsitam

Adhikarana 1 (1-3) · Śloka 3

अथातः शोफानां चिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| षड्विधोऽवयवसमुत्थः शोफोऽभिहितो लक्षणतः प्रतीकारतश्च; सर्वसरस्तु पञ्चविधः, तद्यथा- वातपित्तश्लेष्मसन्निपातविषनिमित्तः ||३||

🔊 Audio coming soon

अवयवे समुत्तिष्ठतीति अवयवसमुत्थः, स्था गतिनिवृत्तौ, स्थिरत्वादित्यर्थः | अभिहित उक्तः| केन? अतीतेन शास्त्रेण| चकारोऽनुक्तहेत्वादिसमुच्चयार्थः , अन्ये तु लक्षणशब्देनैव हेत्वादिं निर्दिशन्ति, अपरे तु असाध्यानामप्रतीकारसमुच्चयार्थं वर्णयन्ति| सर्वं सरतीति सर्वसरः; गतिमत्त्वात् सर्वसरणयोग्यः||१-३||

Adhikarana 2 (4) · Śloka 4

तत्रापतर्पितस्याध्वगमनादतिमात्रमभ्यवहरतो वा पिष्टान्नहरितकशाकलवणानि क्षीणस्य वाऽतिमात्रमम्लमुपसेवमानस्य मृत्पक्वलोष्टकटशर्करानूपौदकमांससेवनादजीर्णिनो वा ग्राम्यधर्मसेवनाद्विरुद्धाहारसेवनात् वा हस्त्यश्वोष्ट्ररथपदातिसङ्क्षोभणादयो सितस्य दोषा धातून् प्रदूष्य श्वयथुमापादयन्त्यखिले शरीरे ||४||

🔊 Audio coming soon

पञ्चविधस्यैव सर्वसरस्याहारविहाराभ्यां सर्वाङ्गगतदोषकोपहेतुं निर्दिशन्नाह- तत्रेत्यादि| अपतर्पितः लङ्घनव्यायामवमनादिरूक्षादिभिराहारविहारैः कर्शितः, तस्यात्यर्थमध्वगमनलक्षणाद्विहारात्| पिष्टान्नादिमतिमात्रमभ्यवहरतः इत्येवंविधादाहारात्| हरितकः कुठेरशिग्रुसुरसासुमुखासुरिभूतृणादिः| पिष्टान्नग्रहणेन सर्वविधगुर्वाहारावरोधः| क्षीणस्य वेति स्वयमेव कृशस्यात्यर्थमम्लमुपसेवमानस्य| मृदाद्याहाररतस्य; मृत् मृत्तिका, पक्वलोष्टः अग्निपक्वलोष्टः, कटशर्करा अग्निदग्धशर्करा, आनूपा महिषादयः, औदका मत्स्यादयः| अजीर्णिनो वेत्यादि| ग्राम्यधर्मो मैथुनं, साजीर्णस्य मैथुनसेवनात्| विरुद्धं हिताहितीयाध्याये प्रोक्तम्| सङ्क्षोभणात् चलनादित्यर्थः | अखिले शरीरे सकले काये||४||

Adhikarana 3 (5-6) · Śloka 7

तत्र वातश्वयथुररुणः कृष्णो वा मृदुरनवस्थितास्तोदादयश्चात्र वेदनाविशेषाः; पित्तश्वयथुः पीतः सरक्तो वा मृदुः शीघ्रानुसार्यूषादयश्चात्र वेदनाविशेषाः; श्लेष्मश्वयथुः पाण्डुः शुक्लो वा स्निग्धः कठिनः शीतो मन्दानुसारी, कण्ड्वादयश्चात्र वेदनाविशेषाः; सन्निपातश्वयथुः सर्ववर्णवेदनः; विषनिमित्तस्तु गरोपयोगाद्दुष्टतोयसेवनात् प्रकुथितोदकावगाहनात् सविषसत्त्वदिग्धचूर्णेनावचूर्णनाद्वा सविषमूत्रपुरीषशुक्रस्पृष्टानां वा तृणकाष्ठादीनां संस्पर्शनात्, स तु मृदुः क्षिप्रोत्थानोऽवलम्बी चलोऽचलो वा दाहपाकरागप्रायश्च भवति ||५|| भवन्ति चात्र- दोषाः श्वयथुमूर्ध्वं हि कुर्वन्त्यामाशयस्थिताः | पक्वाशयस्था मध्ये च वर्चःस्थानगतास्त्वधः ||६|| कृत्स्नं देहमनुप्राप्ताः कुर्युः सर्वसरं तथा |७|

🔊 Audio coming soon

तत्रेत्यादि| अरुण ईषद्रक्तः| ऊषादयः ऊषचोषपरितापादयः| कण्ड्वादयः कण्डूर्गुरुत्वमित्यादयः| गरोपयोगो बहिरन्तश्च| प्रकोथः पूतिभावः, सविषकीटादिकोथप्रकुथितोदकावगाहनात्, अयं पुनर्बहिरेव| सविषसत्त्वलालास्पर्शादिविषात् तद्दिग्धचूर्णेनावचूर्णनाद्वेति सविषसत्त्वादिमिश्रचूर्णैरवधूलनात्; सविषसत्त्वचूर्णं वृश्चिकालीनामकं क्षुपभेदं केचित् कथयन्ति||५-६||-

Adhikarana 4 (7-9) · Śloka 9

श्वयथुर्मध्यदेशे यः स कष्टः सर्वगश्च यः ||७|| अर्धाङ्गेऽरिष्टभूतश्च यश्चोर्ध्वं परिसर्पति | श्वासः पिपासा दौर्बल्यं ज्वरश्च्छर्दिररोचकः ||८|| हिक्कातीसारकासाश्च शूनं सङ्क्षपयन्ति हि | सामान्यतो विशेषाच्च तेषां वक्ष्यामि भेषजम् ||९||

🔊 Audio coming soon

तस्य देहदेशजन्मस्वभावेन कृच्छ्रत्वादि निर्दिशन्नाह- श्वयथुरित्यादि| मध्यदेशे यः श्वयथुः स सन्निपातज्वरवद्विरुद्धोपक्रमत्वात् कष्टः| अर्धाङ्ग इति अर्धनासार्धहृदयार्धनाभिः शोफावच्छिन्नैकपक्षः अर्धाङ्गः, तिर्यग्वा नाभ्यवच्छिन्नपूर्वार्धेऽपारार्धे वा| अरिष्टभूतः अरिष्टवत्, भूतशब्दोऽत्र उपमानार्थः, रिष्टाभास इत्यर्थः| यश्चोर्ध्वं परिसर्पतीति यः शोफः पादाभिनिवृत्त ऊर्ध्वमुपरितनकाये परिसर्पति स पुरुषविषयेऽरिष्टभूतः; चकारो भिन्नक्रमे, तेन यश्चाधः परिसर्पति उत्तमाङ्गात् स स्त्रीविषयेऽरिष्टभूतः| उक्तं च- “ऊर्ध्वगामी नरं पभ्द्यामधोगामी मुखात् स्त्रियम्”- इति| ऊर्ध्वमध्याधःस्थितशोफेऽपि सर्वसराभिधानमेकदेशेऽपि दग्धे पटो दग्ध इतिवत्| उपद्रवेणासाध्यत्वं निर्दिशन्नाह- श्वास इत्यादि| सामान्यत इत्यादि सामान्यं विशेषं च||७-९||

Adhikarana 5 (10-11) · Śloka 11

शोफिनः सर्व एव परिहरेयुरम्ललवणदधिगुडवसापयस्तैलघृतपिष्टमयगुरूणि ||१०|| तत्र वातश्वयथौ त्रैवृतमेरण्डतैलं वा मासमर्धमासं वा पाययेत्, न्यग्रोधादिककषायसिद्धं सर्पिः पित्तश्वयथौ, आरग्वधादिसिद्धं सर्पिः श्लेष्मश्वयथौ, सन्निपातश्वयथौ स्नुहीक्षीरपात्रं द्वादशभिरम्लपात्रैः प्रतिसंसृज्य दन्तीद्रवन्तीप्रतीवापं सर्पिः पाचयित्वा पाययेत्, विषनिमित्तेषु कल्पेषु प्रतीकारः ||११||

🔊 Audio coming soon

प्रथमं विशेषचिकित्सामाह- तत्रेत्यादि| त्रैवृतमिति मज्जवर्जं घृतादिभिस्त्रिभिर्वृतं त्रिवृतं, त्रिवृतमेव त्रैवृतं, स्वार्थिकोऽण्| जेज्जटाचार्यस्तु चतुःस्नेहमाह| मासमर्धमासं वा पुरुषबलापेक्षया दोषबलापेक्षया वा विकल्पः| पात्रम् आढकम्| अम्लं काञ्जिकम्| दन्तीद्रवन्तीप्रतीवापमिति द्रवन्ती चीरितपत्रा दन्तीभेदः; दन्तीद्रवन्तीकल्कः, स च स्नेहचतुर्थांशेन| सर्पिः आढकप्रमाणम्||१०-११||

Adhikarana 6 (12) · Śloka 12

अत ऊर्ध्वं सामान्यचिकित्सितमुपदेक्ष्यामः- तिल्वकघृतचतुर्थानि यान्युक्तान्युदरेषु ततोऽन्यतममुपयुज्यमानं श्वयथुमपहन्ति, मूत्रवर्तिक्रियां वा सेवेत, नवायसं वाऽहरहर्मधुना, विडङ्गातिविषाकुटजफलभद्रदारुनागरमरिचचूर्णं वा धरणमुष्णाम्बुना, त्रिकटुक्षारायश्चूर्णानि वा त्रिफलाकषायेण, मूत्रं वा तुल्यक्षीरं, हरीतकीं वा तुल्यगुडामुपयुञ्जीत, देवदारुशुण्ठीं वा, गुग्गुलुं वा मूत्रेण वर्षाभूकषायानुपानं वा, तुल्यगुडं शृङ्गवेरं वा, वर्षाभूकषायं मूलकल्कं वा सशृङ्गवेरं पयोऽनुपानमहरहर्मासं, व्योषवर्षाभूकषायसिद्धेन वा सर्पिषा मुद्गोलुम्बान् भक्षयेत्, पिप्पलीपिप्पलीमूलचव्यचित्रकमयूरकवर्षाभूसिद्धं वा क्षीरं पिबेत्, सहौषधमुरङ्गीमूलसिद्धं वा, त्रिकटुकैरण्डश्यामामूलसिद्धं वा, वर्षाभूशृङ्गवेरसहादेवदारुसिद्धं वा, तथाऽलाबूबिभीतकफलकल्कं वा तण्डुलाम्बुना; क्षारपिप्पलीमरिचशृङ्गवेरानुसिद्धेन च मुद्गयूषेणालवणेनाल्पस्नेहेन भोजयेद्यवान्नं गोधूमान्नं वा; वृक्षकार्कनक्तमालनिम्बवर्षाभूक्वाथैश्च परिषेकः; सर्षपसुवर्चलासैन्धवशार्ङ्गेष्टाभिश्च प्रदेहः कार्यः; यथादोषं च वमनविरेचनास्थापनानि तीक्ष्णान्यजस्रमुपसेवेत, स्नेहस्वेदोपनाहांश्च; सिराभिश्चाभीक्ष्णं शोणितमवसेचयेदन्यत्रोपद्रवशोफादिति ||१२||

🔊 Audio coming soon

हरीतकीचूर्णप्रस्थादीनि त्रीणि घृतानि तिल्वकघृतं चतुर्णां पूरणं येषां तानि तिल्वकचतुर्थानि; हरीतकीचूर्णप्रस्थेत्यादिना एकं, गव्ये पयसि महावृक्षक्षीरेत्यादि द्वितीयं, चव्यचित्रकेत्यादि तृतीयं, तिल्वकं वातव्याध्युक्तं चतुर्थम्| वमनविरेचनेत्यादिना उदरोक्ता एव मूत्रवर्तिक्रिया| नवायसं प्रमेहपिडकाचिकित्सिते पठितम्| धरणं कर्षम्| क्षारो यवक्षारः| अयो लोहम्| तुल्यक्षीरमिति गोमूत्रं पलद्वयं, गोक्षीरमपि द्विपलम्| तुल्यगुडामिति शोफहरद्रवानुपानाम्| देवदारुशुण्ठीकल्कं कृत्वा सुखाम्बुना, सामान्यशोफहरद्रवेण सुखोष्णेन वा| सगुडमार्द्रकं वा कर्षमानम्| वर्षाभूकषायः पलद्वयमनुपानं; वर्षाभूः रक्तपुनर्नवा| व्योषादिकल्कसिद्धेन जलचतुर्गुणेन सर्पिषा मुद्गोलुम्बान्, स्विन्नाः किञ्चिद्भृष्टा मुद्गा मुद्गोलुम्बाः| मयूरकः अपामार्गः| सहा माषपर्णी, मुरङ्गी शोभाञ्जनकः| क्षारो यवक्षारः| अनुविद्धेन अनुगतेन, ‘अनुसिद्धेन’ इति क्वचित् पाठः| यवान्नं गोधूमान्नं वेति सात्म्यापेक्षो विकल्पः| वृक्षकः कुटजः, नक्तमालः महाकरञ्जः| सुवर्चला सूर्यावर्तः| शार्ङ्गेष्टा काकजङ्घा| प्रदेहः प्रलेपः| अजस्रं पुनः पुनः, उपसेवेत ‘बलवान्’ इति वाक्यशेषः| उपद्रवशोफादित्यत्र सर्वाङ्गशोफादिति केचित्| शीतोष्णस्निग्धरूक्षाद्यैरप्रशाम्यति शोफे सिराभिरभीक्ष्णं शोणितमवसेचयेदित्यर्थः| अविस्राव्यश्च सर्वाङ्गशोफीति केचिदमुं पाठमनार्षमाचक्षते; अन्येऽवयवगतं सर्वसरं शीतोष्णस्निग्धरूक्षादिभिरप्रशाम्यन्तं शोणितावसेचनेन साधयेदिति विषयभेदेन विधिनिषेधौ चरितार्थौ कुर्वन्ति||१२||

Adhikarana 7 (13) · Śloka 13

भवति चात्र- पिष्टान्नमम्लं लवणानि मद्यं मृदं दिवास्वप्नमजाङ्गलं च | स्त्रियो घृतं तैलपयोगुरूणि शोफं जिघांसुः परिवर्जयेत्तु ||१३||

🔊 Audio coming soon

पिष्टान्नमित्यादि| ‘स्त्रियो गुडं’ इति क्वचित् पाठः||१३||

Adhikarana puShpikA · Śloka 23

इति सुश्रुतसंहितायां चिकित्सास्थाने शोथचिकित्सितं नाम त्रयोविंशोऽध्यायः ||२३||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने त्रयोविंशतितमोऽध्यायः||२३||