Adhikarana 1 (1-3) · Śloka 3
अथातोऽनुवासनोत्तरबस्तिचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
विरेचनात् सप्तरात्रे गते जातबलाय वै |
कृतान्नायानुवास्याय सम्यग्देयोऽनुवासनः ||३||
अनुवास्यः सप्तरात्राद्विरेचित इति यदुक्तं तद्बललाभे एव नान्यथेति दर्शयन्नाह- विरेचनादित्यादि| जातबलायेति जातबलस्यैवानुवासनं देयं, यत उत्पन्नबलस्यैवाग्निर्बलवाननुवासनहेतुः| तथा चोक्तं- “पश्चादग्निबलं ज्ञात्वा सम्यग्देयोऽनुवासनः”| ‘कृताहाराय सायह्ने’ इति केचित् पठन्ति, ‘कृताहाराय सततम्’ इत्यन्ये| तत्र न कदाचिदप्यकृताहारायेति सततग्रहणार्थः||१-३||
Adhikarana 2 (4) · Śloka 4
यथावयो निरूहाणां या मात्राः परिकीर्तिताः |
पादावकृष्टास्ताः कार्याः स्नेहबस्तिषु देहिनाम् ||४||
वयोविशेषानुरूपमात्रामुपदिशन्नाह - यथावयो निरूहाणामित्यादि| वय इह सांवत्सरिकादीनां शरीरावस्थाविशेषः| पादापकृष्टाः चतुर्भागावशिष्टाः| चरकेऽप्युक्तं- “निरूहपादांशसमेन तैलेनाम्लानिलघ्नौषधसाधितेन” (च.सि.अ.३) इति| तन्त्रान्तरेऽपि- “षट्पली तु भवेच्छ्रेष्ठा त्रिपली मध्यमा भवेत्| कनीयस्यर्धपलिका त्रिधा मात्राऽनुवासने”- इति| ‘अर्धार्धकृष्टास्ताः कार्या’ इति अन्ये पठन्ति, तत्रापि अर्धस्यार्धश्चतुर्थो भाग एवेति स एवार्थः||४||
Adhikarana 3 (5-6) · Śloka 6
उत्सृष्टानिलविण्मूत्रे नरे बस्तिं विधापयेत् |
एतैर्हि विहतः स्नेहो नैवान्तः प्रतिपद्यते ||५||
स्नेहबस्तिर्विधेयस्तु नाविशुद्धस्य देहिनः |
स्नेहवीर्यं तथा दत्ते देहं चानुविसर्पति ||६||
बस्तेः पूर्वकर्म निर्दिशन्नाह- उत्सृष्टेत्यादि| यस्मादेतैः कारणैरनुत्सृष्टैरनिलविण्मूत्रैर्नेत्रद्वारावरकैरन्तर्विहतः| अवरुद्धो दत्तः स्नेहो नैवान्तः प्रतिपद्यते नैवान्तः प्रविशतीत्यर्थः| ‘एतैर्हि विहत’ इत्यत्र ‘अन्यथा विहत’ इति केचित् पठन्ति, तत्रान्यथा अन्येन प्रकारेण, अनुत्सृष्टानिलविण्मूत्रत्वेनाविशुद्धस्य देहिन इत्यर्थः| अतो विण्मूत्रनिर्हरणे कृते स्नेहबस्तिर्विधीयते इति दर्शयन्नाह- स्नेहेत्यादि| तथा तेन प्रकारेण शुद्धे शरीरे स्नेहबस्तिः स्नेहवीर्यं दत्ते ददातीत्यर्थः| “स्नेहो दोषैरपिहितः स्रोतःस न विसर्पति”- इति केचिदर्धं पठन्ति| अपिहित आच्छादित इत्यर्थः||५-६||
Adhikarana 4 (7-14) · Śloka 14
अत ऊर्ध्वं प्रवक्ष्यामि तैलानीह यथाक्रमम् |
पानान्वासननस्येषु यानि हन्युर्गदान् बहून् ||७||
शटीपुष्करकृष्णाह्वामदनामरदारुभिः |
शताह्वाकुष्ठयष्ट्याह्ववचाबिल्वहुताशनैः ||८||
सुपिष्टैर्द्विगुणक्षीरं तैलं तोयचतुर्गुणम् |
पक्त्वा बस्तौ विधातव्यं मूढवातानुलोमनम् ||९||
अर्शांसि ग्रहणीदोषमानाहं विषमज्वरम् |
कट्यूरुपृष्ठकोष्ठस्थान् वातरोगांश्च नाशयेत् ||१०||
वचापुष्करकुष्ठैलामदनामरसिन्धुजैः |
काकोलीद्वययष्ट्याह्वमेदायुग्मनराधिपैः ||११||
पाठाजीवकजीवन्तीभार्गीचन्दनकट्फलैः |
सरलागुरुबिल्वाम्बुवाजिगन्धाग्निवृद्धिभिः ||१२||
विडङ्गारग्वधश्यामात्रिवृन्मागधिकर्धिभिः |
पिष्टैस्तैलं पचेत् क्षीरपञ्चमूलरसान्वितम् ||१३||
गुल्मानाहाग्निषङ्गार्शोग्रहणीमूत्रसङ्गिनाम् |
अन्वासनविधौ युक्तं शस्यतेऽनिलरोगिणाम् ||१४||
केचिदत्र वृद्धसुश्रुताध्यायिन आमस्नेहस्य गुदोपदेहेनापि व्यापत्करत्वमालोक्य पक्वतैलानि प्रतिपादयितुकामाः प्रतिज्ञां कुर्वन्ति- अत ऊर्ध्वमित्यादि| यथाक्रममिति वातादिदोषक्रमेणेत्यर्थः| यत्र शट्यादौ पौष्करं कुष्ठं च यत्पठ्यते तत्र पौष्करं मूलं, तद्विटपशाखाश्च कुष्ठमिति ज्ञेयम्| अमरदारुः देवदारुः| सिन्धुजं सैन्धवम्| नराधिपः कृतमालकः| सरतीति सरला त्रिवृत्, विरेचनीयत्वात्| श्यामा वृद्धदारुकः| पञ्चमूलं बिल्वादिपञ्चमूलं, तस्य रसः क्वाथः| अत्र तैले नराधिपारग्वधपाठात् सरलात्रिवृत्पाठाच्च एतयोर्द्विगुणा मात्रा देया| उक्तं च- “घृते तैले च योगे च यद् द्रव्यं पुनरुच्यते| तद्दातव्यमिहाचार्यैर्भागतो द्विगुणं मतम्”- इति||७-१४||
Adhikarana 5 (15-18) · Śloka 18
चित्रकातिविषापाठादन्तीबिल्ववचामिषैः |
सरलांशुमतीरास्नानीलिनीचतुरङ्गुलैः ||१५||
चव्याजमोदकाकोलीमेदायुग्मसुरद्रुमैः |
जीवकर्षभवर्षाभूबस्तगन्धाशताह्वयैः ||१६||
रेण्वश्वगन्धामञ्जिष्ठाशटीपुष्करतस्करैः |
सक्षीरं विपचेत्तैलं मारुतामयनाशनम् ||१७||
गृध्रसीखञ्जकुब्जाढ्यमूत्रोदावर्तरोगिणाम् |
शस्यतेऽल्पबलाग्नीनां बस्तावाशु नियोजितम् ||१८||
आमिषं गुग्गुलुः| सुरद्रुमो देवदारुः| तस्करः चोरकः||१५-१८||
Adhikarana 6 (19-26) · Śloka 26
भूतिकैरण्डवर्षाभूरास्नावृषकरोहिषैः |
दशमूलसहाभार्गीषड्ग्रन्थामरदारुभिः ||१९||
बलानागबलामूर्वावाजिगन्धामृताद्वयैः |
सहाचरवरीविश्वाकाकनासाविदारिभिः ||२०||
यवमाषातसीकोलकुलत्थैः क्वथितैः शृतम् |
जीवनीयप्रतीवापं तैलं क्षीरचतुर्गुणम् ||२१||
जङ्घोरुत्रिकपार्श्वांसबाहुमन्याशिरःस्थितान् |
हन्याद्वातविकारांस्तु बस्तियोगैर्निषेवितम् ||२२||
जीवन्त्यतिबलामेदाकाकोलीद्वयजीवकैः |
ऋषभातिविषाकृष्णाकाकनासावचामरैः ||२३||
रास्नामदनयष्ट्याह्वसरलाभीरुचन्दनैः |
स्वयङ्गुप्ताशटीशृङ्गीकलसीसारिवाद्वयैः ||२४||
पिष्टैस्तैलघृतं पक्वं क्षीरेणाष्टगुणेन तु |
तच्चानुवासने देयं शुक्राग्निबलवर्धनम् ||२५||
बृंहणं वातपित्तघ्नं गुल्मानाहहरं परम् |
नस्ये पाने च संयुक्तमूर्ध्वजत्रुगदापहम् ||२६||
भूतिकं कत्तृणं गन्धतृणापरपर्यायम्| गुडूची हरीतकी चेति अमृताद्वयम्| सहाचरः सैरीयः , वरी शतावरी, विश्वा शुण्ठी, काकनासा वायसफला||१९-२६||
Adhikarana 7 (27-29) · Śloka 29
मधुकोशीरकाश्मर्यकटुकोत्पलचन्दनैः |
श्यामापद्मकजीमूतशक्राह्वातिविषाम्बुभिः ||२७||
तैलपादं पचेत् सर्पिः पयसाऽष्टगुणेन च |
न्यग्रोधादिगणक्वाथयुक्तं बस्तिषु योजितम् ||१८||
दाहासृग्दरवीसर्पवातशोणितविद्रधीन् |
पित्तरक्तज्वराद्यांश्च हन्यात् पित्तकृतान् गदान् ||२९||
श्यामा प्रियङ्गुः| जीमूतो मुस्तकः| तैलस्य पादश्चतुर्थांशो यस्मिन् सर्पिषि तत् तैलपादम्||२७-२९||
Adhikarana 8 (30-32) · Śloka 32
मृणालोत्पलशालूकसारिवाद्वयकेशरैः |
चन्दनद्वयभूनिम्बपद्मबीजकसेरुकैः ||३०||
पटोलकटुकारक्तागुन्द्रापर्पटवासकैः |
पिष्टैस्तैलघृतं पक्वं तृणमूलरसेन च ||३१||
क्षीरद्विगुणसंयुक्तं बस्तिकर्मणि योजितम् |
नस्येऽभ्यञ्जनपाने वा हन्यात् पित्तगदान् बहून् ||३२||
रक्ता मञ्जिष्ठा, गुन्द्रा पट्टोरकभेदः| तृणमूलं कुशकाशादितृणपञ्चमूलम्||३०-३२||
Adhikarana 9 (33-42) · Śloka 42
त्रिफलातिविषामूर्वात्रिवृच्चित्रकवासकैः |
निम्बारग्वधषड्ग्रन्थासप्तपर्णनिशाद्वयैः ||३३||
गुडूचीन्द्रसुराकृष्णाकुष्ठसर्षपनागरैः |
तैलमेभिः समैः पक्वं सुरसादिरसाप्लुतम् ||३४||
पानाभ्यञ्जनगण्डूषनस्यबस्तिषु योजितम् |
स्थूलतालस्यकण्ड्वादीन् जयेत्कफकृतान् गदान् ||३५||
पाठाजमोदाशार्ङ्गेष्टापिप्पलीद्वयनागरैः |
सरलागुरुकालीयभार्गीचव्यामरद्रुमैः ||३६||
मरिचैलाभयाकट्वीशटीग्रन्थिककट्फलैः |
तैलमेरण्डतैलं वा पक्वमेभिः समायुतम् ||३७||
वल्लीकण्टकमूलाभ्यां क्वाथेन द्विगुणेन च |
हन्यादन्वासनैर्दत्तं सर्वान् कफकृतान् गदान् ||३८||
विडङ्गोदीच्यसिन्धूत्थशटीपुष्करचित्रकैः |
कट्फलातिविषाभार्ङ्गीवचाकुष्ठसुराह्वयैः ||३९||
मेदामदनयष्ट्याह्वश्यामानिचुलनागरैः |
शताह्वानीलिनीरास्नाकलसीवृषरेणुभिः ||४०||
बिल्वाजमोदकृष्णाह्वादन्तीचव्यनराधिपैः |
तैलमेरण्डतैलं वा मुष्ककादिरसाप्लुतम् ||४१||
प्लीहोदावर्तवातासृग्गुल्मानाहकफामयान् |
प्रमेहशर्करार्शांसि हन्यादाश्वनुवासनैः ||४२||
इन्द्रसुरा इन्द्रवारुणी| शार्ङ्गेष्टा भुम्भुरुट्टाको वेष्टितफलः काकमाच्यनुकारः| कट्वी कटुका| विदार्यादिकं पञ्चमूलं वल्लीसञ्ज्ञकम्| करमर्दादिकं तु कण्टकसञ्ज्ञं पञ्चमूलम्| श्यामा वृद्धदारुकः| निचुलो जलवेतसः| रेणुः पर्पटकः| मुष्ककादिरसेन “मुष्ककपलाशधव- ” (सू.अ.३८) इत्यादिगणस्य रसेन क्वाथेन चतुर्गुणेन, प्लुतं मिश्रितं तिलतैलमेरण्डतैलं वेति तैलद्वयं कल्प्यते| तत्र शट्यादिवचादिचित्रकादिभूतीकादितैलानि प्रायशो वातरोगेषु, जीवन्त्यादिमधुकादिमृणालादितैलानि पित्तरक्तरोगार्दितेषु, त्रिफलादिपाठादितैलद्वयं कफग्रस्तेषु, विडङ्गादितैलं वाते कफभूयिष्ठे, संसर्गसन्निपातेषु पुनरेतान्येव यथायथमभ्य्ह्यू योज्यानीति ज्ञेयम्| एतानि शट्यादितैलानि सामान्यस्नेहपाकपरिभाषया साधनीयानि||३३-४२||
Adhikarana 10 (43) · Śloka 43
अशुद्धमपि वातेन केवलेनातिपीडितम् |
अहोरात्रस्य कालेषु सर्वेष्वेवानुवासयेत् ||४३||
पूर्वं विशुद्धदेहस्य स्नेहबस्तिं प्रदर्श्य क्वचिदशुद्धस्यापि दर्शयन्नाह- अशुद्धमित्यादि| केवलेन धातुक्षयहेतुना| रिक्ते हि शरीरे प्रायेण विवृतस्रोतोमुखमेव शरीरं, तत्र शुद्ध्या पुनरतिधातुक्षयेणातितरामेव वातरोगः स्यात्, तेनाशुद्धेऽपि तत्र स्नेहबस्तिरिति| अहोरात्रस्य कालेषु पूर्वाह्णादिषु, ‘जीर्णान्नं भोजयित्वाऽनुवासयेत्’ इति वक्ष्यमाणेन पूरणीयम्||४३||
Adhikarana 11 (44) · Śloka 44
रूक्षस्य बहुवातस्य द्वौ त्रीनप्यनुवासनान् |
दत्त्वा स्निग्धतनुं ज्ञात्वा ततः पश्चान्निरूहयेत् ||४४||
रूक्षस्य वाताधिकस्य वातवेगविधारणाय प्रागेव स्नेहबस्तिं दत्त्वा पश्चाच्छोधनो बस्तिर्देय इति दर्शयन्नाह- रूक्षस्येत्यादि||४४||
Adhikarana 12 (45) · Śloka 45
अस्निग्धमपि वातेन केवलेनातिपीडितम् |
स्नेहप्रगाढैर्मतिमान्निरूहैः समुपाचरेत् ||४५||
किञ्चिदस्निग्धोऽपि यथाऽऽस्थापनविशेषेणास्थापनीयस्तथा दर्शयन्नाह- अस्निग्धमपीत्यादि|- अस्निग्धं ईषत्स्निग्धं, नञ् ईषदर्थे, अनुदरा कन्येति यथा| स्नेहप्रगाढैः स्नेहबहुलैः| एतेन प्राक् स्नेहविधिविरहिते स्निग्धमास्थापनं विगम्यते||४५||
Adhikarana 13 (46) · Śloka 46
अथ सम्यङ्निरूढं तु वातादिष्वनुवासयेत् |
बिल्वयष्ट्याह्वमदनफलतैलैर्यथाक्रमम् ||४६||
निरूहस्य पश्चात्कर्म निर्दिशन्नाह- अथेत्यादि| बिल्वमूलमधुयष्टीमदनफलक्वाथसिद्धैस्तैलैः; केचित्तु बिल्वमूलादीनां कल्कैरिति वदन्ति; अन्ये तु बिल्वतैलं- “शताह्वाफलबिल्वाख्यैस्तैलं सिद्धं समीरणे”- इति तन्त्रान्तरोक्तं बिल्वादिपञ्चमूलेन वा सिद्धं तैलं बिल्वतैलम्| यष्ट्याह्वतैलं जीवनीयं, तच्च तन्त्रान्तरे ‘दशमूलीबलारास्ना’ इत्यादिपाठेनोक्तम्; अत्रापि तदेव भूतीकादिद्रव्यजीवनीययुक्तमभिहितं; फलबिल्वतिवृत्कृष्णारास्नाभूनिम्बदारुभिः सिद्धं तैलं फलतैलं, केचित्तु मदनफलैरण्डतैलं फलतैलमित्याहुः||४६||
Adhikarana 14 (47) · Śloka 47
रात्रौ बस्तिं न दद्यात्तु दोषोत्क्लेशो हि रात्रिजः |
स्नेहवीर्ययुतः कुर्यादाध्मानं गौरवं ज्वरम् ||४७||
रात्रौ बस्तिदाननिषेधमाह- रात्रावित्यादि| दोषोत्क्लेश इति यस्माद्रात्रावाहारविदाहेन कालशैत्यात् स्रोतोमुखसंवृतत्वेन च दोषधातुमलेषु विक्लेदनलक्षण उत्क्लेशो भवति| अन्यत्राप्युक्तम्- “अविशुद्धे तु हृदये निशि क्लिन्नेषु धातुषु| विदग्धेऽन्नरसे स्रोतःसूपलिप्तेषु देहिनाम्||व्यापारेभ्यो निवृत्तानां दोषोत्क्लेशो भवेदिति”||४७||
Adhikarana 15 (48) · Śloka 48
अह्नि स्थानस्थिते दोषे वह्नौ चान्नरसान्विते |
स्फुटस्रोतोमुखे देहे स्नेहौजः परिसर्पति ||४८||
दिवा बस्तिप्रदानगुणं सकारणं निर्दिशन्नाह- अह्नीत्यादि| अह्नि दिवा| विवृतस्रोतोमुखे शरीरे, तथा स्थानस्थितेषु दोषेषु, तथा निःशेषपरिपक्वस्यान्नस्य रसेन वीर्येणाग्निसंवर्धितेनोपचिते पक्तुं समर्थे च वह्नौ, स्नेहौजः स्नेहवीर्यं, शरीरं परिसर्पति अनुक्रामति||४८||
Adhikarana 16 (49-50) · Śloka 50
पित्तेऽधिके कफे क्षीणे रूक्षे वातरुगर्दिते |
नरे रात्रौ तु दातव्यं काले चोष्णेऽनुवासनम् ||४९||
उष्णे पित्ताधिके वाऽपि दिवा दाहादयो गदाः |
सम्भवन्ति यतस्तस्मात् प्रदोषे योजयेद्भिषक् ||५०||
रात्रावपि प्रतिप्रसवमुद्दिशन्नाह- पित्ते इत्यादि| रात्रिशब्दोऽत्र प्रथमप्रहरवाचकः, प्रदोषे योजयेद्भिषगिति वक्ष्यमाणवचनात्| कुतः पुनरुष्णकाले पित्तेऽधिके वा दिवा न देयमित्याह- उष्ण इत्यादि| प्रदोषशब्दात् सन्ध्यापरनिशानिवृत्तिः||४९-५०||
Adhikarana 17 (51) · Śloka 51
शीते वसन्ते च दिवा ग्रीष्मप्रावृड्घनात्यये |
स्नेह्यो दिनान्ते पानोक्तान् दोषान् परिजिहीर्षता ||५१||
इदानीमह्नि स्थानस्थिते दोष इत्यादिवाक्यैर्युक्तिप्राप्तं कालनियमं प्रकटयन्नाह- शीत इत्यादि| परिजिहीर्षता परिहर्तुमिच्छता||५१||
Adhikarana 18 (52) · Śloka 52
अहोरात्रस्य कालेषु सर्वेष्वेवानिलाधिकम् |
तीव्रायां रुजि जीर्णान्नं भोजयित्वाऽनुवासयेत् ||५२||
विशिष्टावस्थायामस्यापवादमाह- अहोरात्रस्येत्यादि| कालेषु सर्वेष्विति ‘तत्तत्कालविरुद्धकृत्रिमगुणोपधानं कृत्वैव’ इति शेषः | प्रागशुद्धस्य केवलवातपीडितस्य सर्वेष्वप्यहोरात्रावयवेष्वनुवासनमभिहितम्, इह तु शुद्धस्येति न पौनरुक्त्यम्||५२||
Adhikarana 19 (53) · Śloka 53
न चाभुक्तवतः स्नेहः प्रणिधेयः कथञ्चन |
शुद्धत्वाच्छून्यकोष्ठस्य स्नेह ऊर्ध्वं समुत्पतेत् ||५३||
अभुक्तवतः प्रतिषेधमाह- न चेत्यादि| स्नेह ऊर्ध्वं समुत्पतेत् सम्यगूर्ध्वं गच्छेत्| ततश्चातिपीडितवद् व्यापत् स्यात्| शुद्धत्वादित्यत्र सूक्ष्मत्वादिति पठित्वा गयदासः सूक्ष्ममार्गानुसरणशीलत्वात्तस्येति व्याख्यानयति||५३||
Adhikarana 20 (54-57) · Śloka 57
सदाऽनुवासयेच्चापि भोजयित्वाऽऽर्द्रपाणिनम् |
ज्वरं विदग्धभुक्तस्य कुर्यात् स्नेहः प्रयोजितः ||५४||
न चातिस्निग्धमशनं भोजयित्वाऽनुवासयेत् |
मदं मूर्च्छां च जनयेद् द्विधा स्नेहः प्रयोजितः ||५५||
रूक्षं भुक्तवतो ह्यन्नं बलं वर्णं च हापयेत् |
युक्तस्नेहमतो जन्तुं भोजयित्वाऽनुवासयेत् ||५६||
यूषक्षीररसैस्तस्माद्यथाव्याधि समीक्ष्य वा |
यथोचितात् पादहीनं भोजयित्वाऽनुवासयेत् ||५७||
भोजनोत्तरकालमेवानुवासनमविलम्बितमाह- सदेत्यादि| भोजनाद्विलम्बितदाने दोषं दर्शयन्नाह- ज्वरमित्यादि| कीदृशमन्नं भुक्तवन्तमनुवासयेत्तदाह- न चेत्यादि| हापयेदित्यत्र स्नेहः प्रयोजित इति सम्बध्यते| युक्तस्नेहम् अल्पस्नेहम्| यथाव्याधीति रोगानतिक्रमेण, रोगानुरूपमिति यावत्| अत्रैवानुक्तमप्यवेक्षमाण आह- समीक्ष्य वेति|- सम्यगीक्षित्वा ‘सात्म्यं दोषं च’ इति शेषः| अत्र यूषो मुद्गयूषः, स च कृतो ग्राह्यः; क्षीरं गव्यं, रसो मांसरसः, तैर्यथासङ्ख्यं कफपित्तवातप्रत्यनीकैर्भोजयित्वा, यथोचितात् पादहीनमिति प्राक्संशुद्धस्य कृतसंसर्जनस्य उचिताद्भक्तात् पादहीनमुत्तममध्यममन्दाग्निविशेषेण पादेन पादाभ्यां पादैर्वा हीनमिति ज्ञेयं, “अर्धहीनं त्रिभागं वा भोजयित्वाऽनुवासयेत्” इति मुनिना प्रोक्तत्वात्||५४-५७||
Adhikarana 21 (58-59) · Śloka 59
अथानुवास्यं स्वभ्यक्तमुष्णाम्बुस्वेदितं शनैः |
भोजयित्वा यथाशास्त्रं कृतचङ्क्रमणं ततः ||५८||
विसृज्य च शकृन्मूत्रं योजयेत् स्नेहबस्तिना |
प्रणिधानविधानं तु निरूहे सम्प्रवक्ष्यते ||५९||
अनुवासनविधिं दर्शयन्नाह- अथानुवास्यमित्यादि||५८-५९||
Adhikarana 22 (60-62) · Śloka 62
ततः प्रणिहितस्नेह उत्तानो वाक्शतं भवेत् |
प्रसारितैः सर्वगात्रैस्तथा वीर्यं विसर्पति ||६०||
ताडयेत्तलयोरेनं त्रींस्त्रीन् वाराञ्छनैः शनैः |
स्फिचोश्चैनं ततः शय्यां त्रीन् वारानुत्क्षिपेत्ततः ||६१||
एवं प्रणिहिते बस्तौ मन्दायासोऽथ मन्दवाक् |
स्वास्तीर्णे शयने काममासीताचारिके रतः ||६२||
प्रणिहितस्नेहस्य पश्चात्कर्म निर्दिशन्नाह- तत इत्यादि| आतुरस्य करणीयमभिधाय वैद्यस्य करणीयं निर्दिशन्नाह- ताडयेदित्यादि| तलयोः हस्तपादतलयोः, शनैः शनैस्त्रीन् त्रीन् वारान् हन्यात् स्नेहशीघ्रागमननिषेधार्थं स्फिचोश्चैनमिति ताडयेदिति सम्बन्धः| स्फिचोश्चेति चकारो भिन्नक्रमे, तेन ताडयेदित्यत्र द्रष्टव्यः| अतस्तलयोर्गृहीतत्वात् कूर्परे जानुनी चोत्क्षिपेदित्यनुक्तो वृद्धवैद्यव्यवहारः शुद्धो भवति| शय्यामुत्क्षिपेदिति काष्ठफलकादिकृतां सहातुरेणोर्ध्वं नयेदित्यर्थः, ‘शय्यास्थमातुरं स्फिग्देशे’ इत्यन्ये| आसीताचारिके रत इति क्रोधादीन् वर्जयेदित्यर्थः||६०-६२||
Adhikarana 23 (63-66) · Śloka 66
स तु सैन्धवचूर्णेन शताह्वेन च योजितः |
देयः सुखोष्णश्च तथा निरेति सहसा सुखम् ||६३||
यस्यानुवासनो दत्तः सकृदन्वक्षमाव्रजेत् |
अत्यौष्ण्यादतितैक्ष्ण्याद्वा वायुना वा प्रपीडितः ||६४||
सवातोऽधिकमात्रो वा गुरुत्वाद्वा सभेषजः |
तस्यान्योऽल्पतरो देयो न हि स्निह्यत्यतिष्ठति ||६५||
विष्टब्धानिलविण्मूत्रः स्नेहहीनेऽनुवासने |
दाहक्लमप्रवाहार्तिकरश्चात्यनुवासनः ||६६||
सर्वस्नेहबस्तिद्रव्यपूर्वकर्म निर्दिशन्नाह- स इत्यादि| स स्नेहः, तु पुनः, पक्वोऽपि सैन्धवशतपुष्पासमन्वितो देयः| मध्यमवयस्कमाश्रित्य चूर्णस्य मात्रामाह- “चूर्णमाषः पले स्नेहे सिन्धुजन्म शताह्वयोः”- इति| तस्यानुवासनस्नेहस्य प्रणिधानमात्रप्रत्यावृत्त्याऽस्य निदानपरिहारार्थं हेतुं पुनः करणीयं च दर्शयन्नाह- यस्येत्यादि| सकृत् एकवारम्| अक्षस्य यन्त्रस्यानुपश्चादन्वक्षम्| आव्रजेत् आगच्छेत्| कुतः? अत्यौष्ण्यात् उष्णगुणातिरेकात्| अतितैक्ष्ण्यात् अतितीक्ष्णैः संस्कारकद्रव्यैराहितात्| अनुच्छ्वास्य बन्धनात् वायुना प्रपीडितः सवातो बस्तिः स्यात्; अतिमात्रोऽतिभेषजश्च गुरुत्वात्| तस्यान्योऽल्पतर इति अन्योऽत्यौष्ण्यादिगुणविपरीतः, अल्पतरः प्राचीनमात्रातः, प्रथमस्नेहेनैव किञ्चित्स्निग्धत्वात्| कुतः पुनरपि देय इत्याह- न हि स्निह्यत्यतिष्ठतीति; हि यतोऽतिष्ठति स्नेहे न स्निह्यति नरः| स्नेहहीनेऽनुवासने विष्टब्धानिलविण्मूत्रो ‘भवति’ इति शेषः| हीन इति हीनगुणमाने इत्यर्थः| दाहक्लमप्रवाहार्तिकरश्चेति चकाराद्धीनानुवासितविष्टब्धानिलविण्मूत्रलिङ्गविपरीतातिसृष्टानिलविण्मूत्रार्तिकरश्चेति समुच्चिनोति| प्रवाहस्थाने पिपासेति केचित् पठन्ति||६३-६६||
Adhikarana 24 (67-69) · Śloka 69
सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु |
ओषचोषौ विना शीघ्रं स सम्यगनुवासितः ||६७||
जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः |
लघ्वन्नं भोजयेत् कामं दीप्ताग्निस्तु नरो यदि ||६८||
प्रातरुष्णोदकं देयं धान्यनागरसाधितम् |
तेनास्य दीप्यते वह्निर्भक्ताकाङ्क्षा च जायते ||६९||
यादृशः स्नेहः सम्यगनुवासितस्तमाह- सानिल इत्यादि| सपुरीषश्चेति चकारेण समूत्रश्चेत्यनुक्तं समुच्चीयते| प्रत्येति प्रत्यागच्छति| ओष ईषद्दाहः| चोष आकृष्यमाणस्येव दाहप्रकारः| गयी तु- ओषचोषौ विनेति दाहपिपासे विनेत्यर्थ इत्याह| शीघ्रमिति त्रिचतुरादियामात्| अपरेद्युराहारं नियमयन्नाह- जीर्णान्नमित्यादि| जीर्णान्नं परिणताहारं, सायाह्नग्रहणं पूर्वाह्णभोजननिषेधार्थम्| लघ्वन्नमिति मात्रालघुं द्रव्यलघुं च; कामं दीप्ताग्निस्त्विति दीप्ताग्निश्चेन्नरो भवति तदा कामं यथेष्टं लघ्वेव भोजयेत्||६७-६९||
Adhikarana 25 (70) · Śloka 70
स्नेहबस्तिक्रमेष्वेवं विधिमाहुर्मनीषिणः |७०|
इदानीं शल्यतन्त्रस्य कर्ता सुश्रुताचार्यः कायचिकित्साप्रधानस्य बस्तेरुक्तविधौ कायचिकित्सितमनुमतमिति दर्शयन्नाह- स्नेहेत्यादि| मनीषिणः स्नेहबस्तिक्रमविदः कायचिकित्सका इत्यर्थः|७०|-
Adhikarana 26 (70) · Śloka 71
अनेन विधिना षड् वा सप्त वाऽष्टौ नवैव वा ||७०||
विधेया बस्तयस्तेषामन्तरा तु निरूहणम् |७१|
तमेव क्रमं दीयमानाशेषबस्तिषूपदिशन्नाह- अनेनेत्यादि| षड्वेत्यादिसङ्ख्याविकल्पा वक्ष्यमाणस्नेहादिधात्वन्तरगतदोषापेक्षया| तत्र दीयमानेषु स्नेहबस्तिषु तृतीये चतुर्थे पञ्चमे वा स्नेहेऽग्न्याद्यपेक्षया स्नेहस्योपरतिं कृत्वा (स्नेहस्वेदावधिकृत्य ) संसर्जनविधानेनोपबृंहितबलाय अन्तरा निरूहणं दद्याद् दोषसञ्चयसंशोधनाय| तथा च चरकः- “त्रीन् पञ्च वारांश्चतुरोऽथ षड्वा वाताधिकानामनुवासनीयान्| स्नेहान् प्रदत्वाऽऽशु भिषग् विदध्यात् स्रोतोविशुद्ध्यर्थमतो निरूहान्” (च.सि.अ.१) इति||७०||-
Adhikarana 27 (71-74) · Śloka 74
दत्तस्तु प्रथमो बस्तिः स्नेहयेद्बस्तिवङ्क्षणौ ||७१||
सम्यग्दत्तो द्वितीयस्तु मूर्धस्थमनिलं जयेत् |
जनयेद्बलवर्णौ च तृतीयस्तु प्रयोजितः ||७२||
रसं चतुर्थो रक्तं तु पञ्चमः स्नेहयेत्तथा |
षष्ठस्तु स्नेहयेन्मांसं मेदः सप्तम एव च ||७३||
अष्टमो नवमश्चास्थि मज्जानं च यथाक्रमम् |
एवं शुक्रगतान् दोषान् द्विगुणः साधु साधयेत् ||७४||
इदानीं स्नेहबस्तेः प्रथमादिदानेन कार्यं निर्दिशन्नाह- दत्त इत्यादि| बस्तिवङ्क्षणावित्युपलक्षणमधःकायस्य| मूर्धस्थमनिलं जयेदिति मूर्धस्थमूर्ध्वकायस्थं, जैज्जटाचायस्तु आदिपदलोपाद् बस्तिमूर्धस्थमनिलं जयेदिति व्याख्यानयति| एवमनेन क्रमेण| शुक्रगतान् दोषान् व्याधिसमुद्देशीयोक्तान् क्लैब्याप्रहर्षजनकान्| द्विगुणः स्नेहबस्तिरष्टादशसङ्ख्यः| साधु सम्यग्दत्तः साधयेदिति| बस्त्यादिदेशरसादिधातुस्नेहनमाश्रित्य दत्तस्नेहबस्तेः प्रथमादिदानमाभिहितम्| दोषसमाश्रितस्नेहदानं तन्त्रान्तराज्ज्ञेयम्| यथा- “एकं त्रीन् वा बलासे तु स्नेहबस्तीन् प्रकल्पयेत्| पञ्च वा सप्त वा पित्ते नवैकादश वाऽनिले” (वा.सू.अ.१९) इति||७१-७४||
Adhikarana 28 (75-76) · Śloka 76
अष्टादशाष्टादशकान् बस्तीनां यो निषेवते |
यथोक्तेन विधानेन परिहारक्रमेण च ||७५||
स कुञ्जरबलोऽश्वस्य जवैस्तुल्योऽमरप्रभः |
वीतपाप्मा श्रुतधरः सहस्रायुर्नरो भवेत् ||७६||
एवमेतैरष्टादशभिः स्नेहबस्तिभिर्धातुगतदोषहरणमभिधाय पुनः पुनरभ्यस्तैरेतैरेव विशिष्टं रसायनफलं दर्शयन्नाह- अष्टादशेत्यादि| यथोक्तेनेति इह चानन्तरातिक्रान्तेन| परिहारक्रमेणेति आतुरोपद्रवीये वक्ष्यमाणेन| कुञ्जरबल इति उपचयशक्तिलक्षणबलयुक्तः| अश्वस्य जवैस्तुल्य इति गज इवोपचितधातुरपि क्रियाविशेषप्रभावात्तुरङ्गवत्तरस्वी| अमरवत् प्रकर्षेण भातीति अमरप्रभः अत्यद्भुतवर्णाद्युपेत इत्यर्थः| वीतपाप्मा क्रियाविशेषप्रभावादेव गतप्राक्तनजन्मकृतसकलकल्मषः| श्रुतधर इति चित्तस्य शक्त्युत्कर्षयुक्तः| सहस्रायुरिति शरीरेन्द्रियसत्त्वात्मसंयोगोत्कर्षः| यद्यप्यत्र स्नेहबस्तीनामष्टादशकम्, अन्तरा तु निरूहणमिति पूर्ववाक्यादनियतनिरूहान्वितोऽभिहितस्तथाऽपि तन्त्रान्तरदर्शनान्नियतद्वादशयापनाख्यनिरूहोपेतो ज्ञेयः, तादृशस्य च तन्त्रान्तरे कर्म इति सञ्ज्ञा| तथाहि- “त्रिंशन्मताः कर्मतु बस्तयो हि कालस्ततोऽर्धेन ततश्च योगः| सान्वासना द्वादश वै निरूहाः प्राक् स्नेह एकः परतस्तु पञ्च” (च.सि.अ.१) इति; ततश्च “अष्टादशाष्टादशकान् बस्तीनां यो निषेवते”- इत्यनेन कर्मबस्तीनष्टादशवारान् यो निषेवते इत्यर्थो गम्यते| तथा श्रीवाग्भटेनापि कर्मकालयोगबस्तयोऽभिहिताः| तथा च- “प्राक् स्नेह एकः पञ्चान्ते द्वादशास्थापनानि च| सान्वासनानि कर्मैवं बस्तयस्त्रिंशदीरिताः||कालः पञ्चदशैकोऽत्र प्राक्स्नेहोऽन्ते त्रयस्तथा| षट् पञ्चबस्त्यन्तरिताः, योगोऽष्टौ बस्तयोऽत्र तु||त्रयो निरूहाः स्नेहाश्च स्नेहावाद्यन्तयोरुभौ” (वा.सू.अ.१९) इति| यापनबस्तिविषयोऽयं ग्रन्थः, निरूहा एव यापनबस्तयः; अत एवैकान्तरिताः स्नेहाः, यापनबस्तयो हि नातिस्निग्धरूक्षा ‘नपुंसकबस्तयः’ इत्युच्यन्ते| कर्मकालयोगसञ्ज्ञया यथासङ्ख्यं वातपित्तकफहरो बस्तिप्रयोगो ज्ञेयः| गयदासस्तु बलवद्विग्रहादिजनितोपचयपूर्वकवातादिदोषप्रकोपे बलीयसि त्रिंशद्बस्तयः, स्वस्थे पुनः कालैकप्रभावजनितवातादिप्रकोपे मध्यबले पञ्चदश, कालेनाप्यकृतदोषकोपस्य स्वस्थस्यापूर्ववृष्यत्वादिलाभार्थमष्टौ||७५-७६||
Adhikarana 29 (77-78) · Śloka 78
स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत् |
स्नेहादग्निवधोत्क्लेशौ निरूहात् पवनाद्भयम् ||७७||
तस्मान्निरूढोऽनुवास्यो निरूह्यश्चानुवासितः |
नैवं पित्तकफोत्क्लेशौ स्यातां न पवनाद्भयम् ||७८||
द्वयोरेकस्यातिशीलननिषेधाय दोषं दर्शयन्नाह- स्नेहबस्तिमित्यादि| अन्ये त्वेवं पठन्ति- “स्यातामग्निवधोत्क्लेशावत्यभ्यस्तेऽनुवासने| निरूहसेवनाच्चापि भवेयुर्वातजा गदाः”- इति||७७-७८||
Adhikarana 30 (79) · Śloka 79
रूक्षाय बहुवाताय स्नेहबस्तिं दिने दिने |
दद्याद्वैद्यस्ततोऽन्येषामग्न्याबाधभयात्त्र्यहात् ||७९||
स्नेहबस्तेरवस्थाविशेषेण प्रतिदिनं विधानमुद्दिशन्नाह- रूक्षायेत्यादि||७९||
Adhikarana 31 (80) · Śloka 80
स्नेहोऽल्पमात्रो रूक्षाणां दीर्घकालमनत्ययः |
तथा निरूहः स्निग्धानामल्पमात्रः प्रशस्यते ||८०||
अभ्यासेऽपि स्नेहबस्तिर्यथा निरापदस्तथोपदिशन्नाह- स्नेहोऽल्पमात्र इत्यादि| अर्धहीनता चतुर्भागावशिष्टता वाऽल्पशब्दार्थः, तेन षट्पलप्रमाणास्त्रिपलप्रमाणो वा स्नेहबस्तिर्दीर्घकालमभ्यस्तो रूक्षाणां निरत्ययः निर्गतव्यापत्| तथा निरूहोऽपि दीर्घकालं स्निग्धानामल्पमात्र एव पादहीनोऽर्धभागहीना वा शस्यते, अनत्ययत्वादित्यर्थः||८०||
Adhikarana 32 (81-85) · Śloka 85
अत ऊर्ध्वं प्रवक्ष्यामि व्यापदः स्नेहबस्तिजाः |
बलवन्तो यदा दोषाः कोष्ठे स्युरनिलादयः ||८१||
अल्पवीर्यं तदा स्नेहमभिभूय पृथग्विधान् |
कुर्वन्त्युपद्रवान् स्नेहः, स चापि न निवर्तते ||८२||
तत्र वाताभिभूते तु स्नेहे मुखकषायता |
जृम्भा वातरुजस्तास्ता वेपथुर्विषमज्वरः ||८३||
पित्ताभिभूते स्नेहे तु मुखस्य कटुता भवेत् |
दाहस्तृष्णा ज्वरः स्वेदो नेत्रमूत्राङ्गपीतता ||८४||
श्लेष्माभिभूते स्नेहे तु प्रसेको मधुरास्यता |
गौरवं छर्दिरुच्छ्वासः कृच्छ्राच्छीतज्वरोऽरुचिः ||८५||
स्नेहबस्तिव्यापल्लक्षणं सचिकित्सितं प्रतिपादयितुकामः स्नेहबस्तिव्यापद्व्याख्यानप्रतिज्ञामाह- अत ऊर्ध्वमित्यादि| दोषाभिभूतस्नेहव्यापदां सामान्यां सम्प्राप्तिमुद्दिशन्नाह- बलवन्त इत्यादि| स स्नेहः| न निवर्तते न निर्गच्छतीत्यर्थः||८१-८५||
Adhikarana 33 (86) · Śloka 86
तत्र दोषाभिभूते तु स्नेहे बस्तिं निधापयेत् |
यथास्वं दोषशमनान्युपयोज्यानि यानि च ||८६||
तत्र प्रतीकारमाह- तत्र दोषाभिभूते इत्यादि| बस्तिमिति मारुतादिहरकषायं संशोधनद्रव्यावापं च निरूहं स्नेहस्यापकर्षणं दद्यात्| यानि च दोषशमनानि तानि च यथास्वमुपयोज्यानि| एतद्यथास्वं बस्तिदानमजीर्णज्वरादिकामामाशयस्थदोषजां व्यापदं परित्यज्य ज्ञेयम्| तत्रामान्वये लङ्घनादिकमेव||८६||
Adhikarana 34 (87-92) · Śloka 92
अत्याशितेऽन्नाभिभवात् स्नेहो नैति यदा तदा |
गुरुरामाशयः शूलं वायोश्चाप्रतिसञ्चरः ||८७||
हृत्पीडा मुखवैरस्यं श्वासो मूर्च्छा भ्रमोऽरुचिः |
तत्रापतर्पणस्यान्ते दीपनो विधिरिष्यते ||८८||
अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः |
तदाऽङ्गसदनाध्माने श्वासः शूलं च जायते ||८९||
पक्वाशयगुरुत्वं च तत्र दद्यान्निरूहणम् |
तीक्ष्णं तीक्ष्णौषधैरेव सिद्धं चाप्यनुवासनम् ||९०||
शुद्धस्य दूरानुसृते स्नेहे स्नेहस्य दर्शनम् |
गात्रेषु सर्वेन्द्रियाणामुपलेपाऽवसादनम् ||९१||
स्नेहगन्धि मुखं चापि कासश्वासावरोचकः |
अतिपीडितवत्तत्र सिद्धिरास्थापनं तथा ||९२||
अशुद्धस्य अकृतविरेचननिरूहस्य| शुद्धस्य दूरानुसृते उदरानुसृते| उपलेपो मलवृद्धिः| अवसादनं ग्लानिः| अतिपीडितवत्तत्र सिद्धिः साधनं चिकित्सितमित्यर्थः| तत् पुनर्गलावपीडादिशीतसेकान्तं, तथाऽऽस्थापनमवस्थायां स्नेहापकर्षकशोधनद्रव्यकषायगोमूत्रावापम्||८७-९२||
Adhikarana 35 (93-94) · Śloka 94
अस्विन्नस्याविशुद्धस्य स्नेहोऽल्पः सम्प्रयोजितः |
शीतो मृदुश्च नाभ्येति ततो मन्दं प्रवाहते ||९३||
विबन्धगौरवाध्मानशूलाः पक्वाशयं प्रति |
तत्रास्थापनमेवाशु प्रयोज्यं सानुवासनम् ||९४||
अस्विन्नस्येत्यादि| मन्दं प्रवाहते मन्दवेगं प्रवर्तते; तत्र यथादोषप्रत्यनीकमास्थापनमनुवासनं च तीक्ष्णं शीघ्रं प्रयोक्तव्यम्||९३-९४||
Adhikarana 36 (95-96) · Śloka 96
अल्पं भुक्तवतोऽल्पो हि स्नेहो मन्दगुणस्तथा |
दत्तो नैति क्लमोत्क्लेशौ भृशं चारतिमावहेत् ||९५||
तत्राप्यास्थापनं कार्यं शोधनीयेन बस्तिना |
(अन्वासनं च स्नेहेन शोधनीयेन शस्यते ) ||९६||
अल्पमित्यादि| नैति न प्रत्यागच्छति||९५-९६||
Adhikarana 37 (97) · Śloka 97
अहोरात्रादपि स्नेहः प्रत्यागच्छन्न दुष्यति |
कुर्याद्बस्तिगुणांश्चापि जीर्णस्त्वल्पगुणो भवेत् ||९७||
स्नेहस्तु अष्टभिः कारणैर्न निवर्तत इति अनिवृत्तिर्व्यापदुक्ता, तत् कियतः कालादित्याह- अहोरात्रादित्यादि| अपिशब्दात्त्रिचतुरादियामनिवृत्तिस्तावन्न दुष्यत्येवाहोरात्रादपीत्यपिशब्दार्थः| न दुष्यति न दोषं करोति, न व्यापद्यत इत्यर्थः||९७||
Adhikarana 38 (98) · Śloka 98
यस्य नोपद्रवं कुर्यात् स्नेहबस्तिरनिःसृतः |
सर्वोऽल्पोवाऽऽवृतो रौक्ष्यादुपेक्ष्यः स विजानता ||९८||
सर्वथाऽनिवृत्तोऽप्यवयवेन वा निरुपद्रवो न व्यापद्यत इति बोधयन्नाह- यस्येत्यादि| आवृतो रौक्ष्यादिति आभ्यां वाशब्दः प्रत्येकं सम्बन्धनीयः; तेनावृतो वा रौक्ष्याद्वा स्नेहबस्तिरनिःसृत इति सम्बन्धनीयम्| तत्रावृतो दोषत्रयेण, अत्यशनेन, मलसञ्चयेन वेत्यर्थः; रौक्ष्यादित्यनेन दूरानुसृतो अस्विन्नस्याल्पं भुक्तवतोऽल्पश्चेति त्रितयमपि गृहीतम्, एषु त्रिष्वप्यतिरौक्ष्येण वायुरेव विधारयतीति; एवमष्टौ व्यापदो गृहीताः| उपेक्ष्यः उपेक्षणीयः, तदाऽऽकृष्ट्यां यत्नं न कुर्यादित्यर्थः||९८||
Adhikarana 39 (99) · Śloka 99
अनायान्तं त्वहोरात्रात् स्नेहं संशोधनैर्हरेत् |९९|
अनायान्तमित्यादि| सोपद्रवं तु स्नेहमहोरात्रादनागच्छन्तं हरेत् निर्हरेच्छोधनैरेव बस्तिभिः|९९|-
Adhikarana 40 (99) · Śloka 99
स्नेहबस्तावनायाते नान्यः स्नेहो विधीयते ||९९||
स्नेहबस्तावनायते इत्यादि| अनायाते सोपद्रवस्नेहे निरूहबस्तिरेव शोधनार्थं दीयते, नेतर इत्यर्थः||९९||
Adhikarana 41 (100) · Śloka 100
इत्युक्ता व्यापदः सर्वा सलक्षणचिकित्सिताः |१००|
उक्तं हि नियमयन्नाह- इत्युक्ता व्यापद इत्यादि| सर्वा इति व्यापदः सलक्षणचिकित्सिता ‘स्नेहबस्तेश्च वक्ष्यन्ते तच्चिकित्सिते’ इत्यनेन याः प्रागुद्दिष्टास्ता अशेषा इत्यर्थः|१००|-
Adhikarana 42 (100-101) · Śloka 101
बस्तेरुत्तरसञ्ज्ञस्य विधिं वक्ष्याम्यतः परम् ||१००||
चतुर्दशाङ्गुलं नेत्रमातुराङ्गुलसम्मितम् |
मालतीपुष्पवृन्ताग्रं छिद्रं सर्षपनिर्गमम् ||१०१||
उत्तरबस्तेरिदानीमवसरः- बस्तेरुत्तरसञ्ज्ञस्येत्यादि| तत्र नेत्रस्य प्राक् प्रमाणमाह- चतुर्दशेत्यादि| तच्च नेत्रं पुंसां चतुर्दशाङ्गुलं जातीपुष्पवृन्तसदृशाग्रं सर्षपच्छिद्रं मध्यसन्निविष्टकर्णिकं सुवर्णादिमयं मूले द्विकर्णिकं च| उक्तं च तन्त्रान्तरे- “तत् सौवर्णं राजतं वा श्लक्ष्णं गोपुच्छवत् समम्| अश्मघ्नकुन्दसुमनःपुष्पवृन्ताग्रमण्डलम्||सिद्धार्थकप्रवेशाग्रं मूले मध्ये सकर्णिकम्| चतुर्दशाङ्गुलं नेत्रं तत्र कार्यं विजानता”- इति| सप्ताङ्गुलं च परमं प्रणिधानं; तथा च क्षारपाणिः,- “अङ्गुलान्यथ चत्वारि पञ्च षट् सप्त वा तथा| सप्ताङ्गुलं परं नेत्रं प्रणिधेयं भिषग्विदा||हिंस्याद्बस्तिं नरं चेह प्रमाणादधिकं ततः”- इति||१००-१०१||
Adhikarana 43 (102) · Śloka 102
स्नेहप्रमाणं परमं प्रकुञ्चश्चात्र कीर्तितः |
पञ्चविंशादधो मात्रां विदध्याद्बुद्धिकल्पिताम् ||१०२||
नेत्रमानमभिधाय स्नैहिकनैरूहिकभेदाभ्यां द्विविधे उत्तरबस्तौ वक्तव्ये स्नैहिकस्य प्राक् प्रयोज्यत्वात् स्नेहमानमाह- स्नेहप्रमाणमित्यादि| अत्रेति सुश्रुतमते| प्रकुञ्चः पलं, पञ्चविंशादध इत्यादि वक्ष्यमाणवाक्यात् पञ्चविंशद्वर्षमारभ्य स्नेहप्रमाणं परमं प्रकीर्तितम्| चरकाचार्यः पुनरर्धपलम्| पञ्चविंशादित्यादि| अधः अर्वाक्| मात्रां बुद्धिकल्पितामिति| अयमर्थः- सांवत्सरिकबालके स्नेहपलस्य पञ्चविंशतितममंशमारभ्य द्विसांवत्सरिकादौ प्रतिवत्सरं पञ्चविंशतितमस्यांशस्य वृद्धिं विदध्याद् यावत् पञ्चविंशतिवार्षिकस्य पलमिति||१०२||
Adhikarana 44 (103) · Śloka 104
निविष्टकर्णिकं मध्ये, नारीणां चतुरङ्गुले |
मूत्रस्रोतःपरीणाहं मुद्गवाहि दशाङ्गुलम् ||१०३||
मेढ्रायामसमं केचिदिच्छन्ति खलु तद्विदः |१०४|
पुरुषाणां नेत्रादिमानमुक्त्वा, इदानीं पुरुषनेत्रेऽनुक्तं कर्णिकानिवेशस्थानं, तथा स्त्रीणां नेत्रकर्णिकास्थानं परिणाहायामैर्दर्शयन्नाह- निविष्टकर्णिकं मध्ये इति; पुरुषस्य ‘नेत्रम्’ इति वाक्यशेषः| नारीणां चतुरङ्गुले इति निविष्टकर्णिकमित्यत्रापि सम्बन्धनीयम्| स्थौल्यमाह- मूत्रस्रोतःपरीणाहं मूत्रस्रोतःस्थौल्यम्| मुद्गवाहीति अन्तश्छिद्रमानम् | दशाङ्गुलमिति दैर्ध्येण| मेढ्रायामसममिति अपत्यमार्गे पुरुषेन्द्रियस्थूलं नेत्रं किञ्चिदधिकच्छिद्रं च||१०३||-
Adhikarana 45 (104-105) · Śloka 105
तासामपत्यमार्गे तु निदध्याच्चतुरङ्गुलम् ||१०४||
द्व्यङ्गुलं मूत्रमार्गे तु कन्यानां त्वेकमङ्गुलम् |
विधेयं चाङ्गुलं तासां विधिवद्धक्ष्यते यथा ||१०५||
नेत्रमानमभिधाय मार्गभेदेन प्रणिधानविधानमाह- तासामित्यादि| तासां प्रसूतानामप्रसूतानां च प्राप्तगर्भग्रहणकालानां गर्भाशयशोधनार्थमपत्यमार्गे चतुरङ्गुलं निदध्यात्; मूत्रकृच्छ्रादिविकारेषु तासामुभयरूपाणामपि मूत्रवर्त्मनि द्व्यङ्गुलं निदध्यात्| कन्यानामप्राप्तद्वादशवर्षाणां मूत्रकृच्छ्रादौ मूत्रवर्त्मनि एकमङ्गुलं निदध्यात्||१०४-१०५||
Adhikarana 46 (106) · Śloka 106
स्नेहस्य प्रसृतं चात्र स्वाङ्गुलीमूलसम्मितम् |
देयं प्रमाणं परममर्वाग् बुद्धिविकल्पितम् ||१०६||
स्त्रीणामुत्तरबस्तौ स्नेहमानमाह- स्नेहस्येत्यादि| अत्र स्त्रीविषये| स्वाङ्गुलीमूलसम्मितः प्रसृतो देयः; तच्च परममुत्तमं प्रमाणं सर्ववयोऽवस्थासु बलीयसि रोगे; मध्यहीनबलरोगे तु सर्वास्वपि वयोऽवस्थासूत्तमप्रमाणादर्वाङ्मध्यं हीनं च बुद्ध्या विकल्पितं मानं ज्ञेयम्| गर्भाशयशोधनार्थं च स्नेहमात्राद्वैगुण्यमग्रे वक्ष्यति||१०६||
Adhikarana 47 (107) · Śloka 108
औरभ्रः शौकरो वाऽपि बस्तिराजश्च पूजितः |
तदलाभे प्रयुञ्जीत गलचर्म तु पक्षिणाम् ||१०७||
(तस्यालाभे दृतेः पादो मृदुचर्म ततोऽपि वा ) |१०८|
औरभ्रो मेषस्य, शौकरो वन्यशूकरस्य, आजः छागस्य, बस्तिः पूजितः||१०७||-
Adhikarana 48 (108-113) · Śloka 114
अथातुरमुपस्निग्धं स्विन्नं प्रशिथिलाशयम् ||१०८||
यवागूं सघृतक्षीरां पीतवन्तं यथाबलम् |
निषण्णमाजानुसमे पीठे सोपाश्रये समम् ||१०९||
स्वभ्यक्तबस्तिमूर्धानं तैलेनोष्णेन मानवम् |
ततः समं स्थापयित्वा नालमस्य प्रहर्षितम् ||११०||
पूर्वं शलाकयाऽन्विष्य ततो नेत्रमनन्तरम् |
शनैः शनैर्घृताभ्यक्तं विदध्यालानि षट् ||१११||
मेढ्रयामसमं केचिदिच्छन्ति प्रणिधानकम् |
ततोऽवपीडयेद्बस्तिं शनैर्नेत्रं च निर्हरेत् ||११२||
ततः प्रत्यागतस्नेहमपराह्णे विचक्षणः |
भोजयेत् पयसा मात्रां यूषेणाथ रसेन वा ||११३||
अनेन विधिना दद्याद्बस्तींस्त्रींश्चतुरोऽपि वा |११४|
परं प्रणिधानमाह- अथातुरमित्यादि| स्नैहिकस्योत्तरबस्तेः सघृतक्षीरयवागूभोजनं पूर्वकर्म, पयोयूषरसैरपराह्णे भोजनं पश्चात्कर्म; तेन पूर्वाह्णे चोत्तरबस्तिप्रणिधानम्| प्रशिथिलाशयमिति वातमूत्रपुरीषनिर्गमेन| सोपाश्रये सावष्टम्भके, समं यथा स्यादेवं निषण्णम्| स्वभ्यक्तेत्यादि स्वभ्यक्तो बस्तेर्मूत्राधारस्य मूर्धा उपरितनभागो यस्य तं तथा, समम् ऋजुम्| नालं मेहनम्| प्रहर्षितं स्तब्धम्| अङ्गुलानि षडिति मध्यमप्रमाणमेढ्रस्य मध्यमं प्रणिधानमानमवेक्ष्य| निविष्टकर्णिकं मध्य इति सूत्रमुत्तमं प्रणिधानमवेक्ष्य| तथा च प्रागुक्तं- सप्ताङ्गुलं परं नेत्रमित्यादि| एकीयमतेन प्रणिधानमाह- मेढ्रायामसममित्यादि| पयोयूषरसैर्भोजनं कफपित्तवातापेक्षया| अनेन विधिनेति अनन्तरोक्तेन| बस्तींस्त्रिश्चतुरोऽपि वेति| अयमर्थः- प्राग्दत्तस्नेहप्रत्यागमने कालान्तरितस्तदहरेव त्रिश्चतुर्वा मात्रां वर्धयित्वा स्नेहो देयः, एवं त्रीणि दिनानि स्नैहिकमुत्तरबस्तिं दत्त्वा त्र्यहमेव विश्रम्य पुनस्त्र्यहं दद्यादाव्याधिनिवृत्तेः| तथाच वाग्भटः- “बस्तींस्त्रिरात्रमेवं च स्नेहमात्रां विवर्धयेत्| त्र्यहमेव च विश्रम्य प्रणिदध्यात् पुनस्त्र्यहम्” (वा.सू. अ.१९) इति||१०८-११३||
Adhikarana 49 (114-115) · Śloka 115
ऊर्ध्वजान्वै स्त्रियै दद्यादुत्तानायै विचक्षणः ||११४||
सम्यक् प्रपीडयेद्योनिं दद्यात् सुमृदुपीडितम् |
त्रिकर्णिकेन नेत्रेण दद्याद्योनिमुखं प्रति ||११५||
स्त्रीणामुत्तरबस्तिप्रणिधाने विशेषमाह- ऊर्ध्वेत्यादि| ‘विचक्षणः’ इत्यत्र केचित् ‘समाहिन’ इति पठन्ति; कामसङ्कल्परहितत्वेनाऽचलितचित्तप्रकृतिरित्यर्थः, ‘बस्तिं दद्यात्’ इति शेषः| त्रिकर्णिकेन नेत्रेणेत्यनेनात्रापि बस्तिनिबन्धनं कर्णिकाद्वयमिति सूचयति||११४-११५||
Adhikarana 50 (116) · Śloka 116
गर्भाशयविशुद्ध्यर्थं स्नेहेन द्विगुणेन तु |११६|
कार्यविशेषे द्विगुणस्नेहेन स्नेहप्रकारमाह - गर्भाशयेत्यादि| स्नेहेन द्विगुणेन तु पूर्वोक्तवदत्राङ्गुलीमूलसम्मितप्रसृत्यपेक्षया द्विगुणेनेति ज्ञेयम्|११६|-
Adhikarana 51 (116) · Śloka 117
क्वाथप्रमाणं प्रसृतं, स्त्रिया द्विप्रसृतं भवेत् ||११६||
कन्येतरस्याः, कन्यायास्तद्वद्बस्तिप्रमाणकम् |११७|
स्नैहिकोत्तरबस्तेः प्रमाणं निर्दिश्यावसरप्राप्तं निरूहोत्तरबस्तिप्रमाणमाह- क्वाथप्रमाणमित्यादि| क्वाथप्रमाणं प्रसृतमिति ‘पुरुषस्य’ इति शेषः, तेनातुरपुरुषस्य यथावयः स्वहस्तसम्मितं प्रसृतं मात्राप्रमाणम्| स्त्रिया इत्यादि प्रसूतायाः प्रसूतिरहिताया वा गर्भग्रहणयोग्याया गर्भाशयशोधनार्थम्| प्रसूतानामप्रसूतानां च बस्तिशोधनार्थमाह- कन्येतरस्या इत्यादि| कन्येतरस्या अप्रसूतायाः प्रसूताया वा गर्भग्रहणायोग्यायाः| कन्याया अप्राप्तद्वादशवर्षायाः| तद्वदिति पुरुषवद् यथावयः स्वहस्तसम्मितं प्रसृतं प्रमाणं बस्तिशोधनार्थं, नतु द्विप्रसृतं तस्य गर्भाशयशोधनार्थं विहितत्वादिति||११६||-
Adhikarana 52 (117-122) · Śloka 123
अप्रत्यागच्छति भिषग् बस्तावुत्तरसञ्ज्ञिते ||११७||
भूयो बस्तिं निदध्यात्तु संयुक्तं शोधनैर्गणैः |
गुदे वर्तिं निदध्याद्वा शोधनद्रव्यसम्भृताम् ||११८||
प्रवेशयेद्वा मतिमान् बस्तिद्वारमथैषणीम् |
पीडयेद्वाऽप्यधो नाभेर्बलेनोत्तरमुष्टिना ||११९||
आरग्वधस्य पत्रैस्तु निर्गुण्ड्याः स्वरसेन च |
कुर्याद्गोमूत्रपिष्टेषु वर्तीर्वाऽपि ससैन्धवाः ||१२०||
मुद्गैलासर्षपसमाः प्रविभज्य वयांसि तु |
बस्तेरागमनार्थाय ता निदध्याच्छलाकया ||१२१||
आगारधूमबृहतीपिप्पलीफलसैन्धवैः |
कृता वा शुक्तगोमूत्रसुरापिष्टैः सनागरैः ||१२२||
अनुवासनसिद्धिं च वीक्ष्य कर्म प्रयोजयेत् |१२३|
अनागच्छति स्नेहे प्रत्यागमनोपायमाह- अप्रत्यागच्छतीत्यादि| अत्र गयदासः स्नैहिकस्योत्तरबस्तेर्भालुकिदर्शनान्मात्राशतादूर्ध्वं प्रत्यागमनकालं वर्णयति| तथाहि भालुकिः,- “बस्तिर्मात्राशतादूर्ध्वं प्रत्यागच्छति, अनागच्छति वर्तिं पायौ नाले प्रदापयेत्- ” इति| दृढबलस्तु प्रत्यागमनकालमनुवासनोत्तरबस्तेरिति मन्यते| तथा च तद्वाक्यम्- “प्रत्यागते द्वितीयं च तृतीयं चैव दापयेत्| अनागच्छन्नुपेक्ष्यस्तु रजनीम्- ” इत्यादि| ‘तत्रोपद्रवकारी मात्राशतादूर्ध्वं स्नेहो यत्नेनानयितव्यः, नत्वनुवासनवत्त्रियामात्परत इति, अनागच्छन्निरुपद्रवश्चाहोरात्रमुपेक्षणीय इति मतद्वयमप्यवस्थावशेन प्रमाणयितव्यम्| एवंविधे च प्रत्यागमनकाले अनागच्छति स्नैहिके निरूहोत्तरबस्तिः संशोधनैस्त्रिवृदादिभिर्बस्तिशोधनैश्च तृणपञ्चमूलादिगणद्रव्यैः क्वाथरूपैर्युक्तं बस्तिं प्रसृतिमात्रं मूत्रमार्गेण, स्त्रिया द्विप्रसृतिमात्रमपत्यमार्गेण स्नेहापकर्षणं दद्यात्| गुद इत्यादि शोधनद्रव्यसम्भृतामिति विरेचनद्रव्यनिर्मिताम्| एषणीं शलाकाम्| यच्चावशेषं तद्बलेन सामर्थ्येन, उत्तरमुष्टिना मुष्टेरग्रभागेन| गुदवर्तिमभिधाय मूत्रमार्गे वयोभेदेन दर्शयन्नाह- आरग्वधेत्यादि| ता वर्तीः तन्त्रान्तरदर्शनाच्छायाशुष्का घृताक्ताः स्रोतसि मूत्रमार्गे शलाकया निदध्यात् प्रवेशयेत् स्नेहापकर्षणार्थं, अपत्यमार्गे स्थूला वर्तिश्चतुरङ्गुला प्रणिधेया| प्रकारान्तरेण वर्तिमाह- आगारेत्यादि| फलं मदनफलम्| कृता वर्तीः मुद्गादिप्रमाणाः| शुक्तं चुक्रम्| अनुवासनचिकित्सावेक्षणमाह- अनुवासनसिद्धिमित्यादि| स्नैहिकोत्तरबस्तिदानानन्तरं यदनुक्तं स्फिक्ताडनादिकं कर्म तदनुवासनचिकित्सितं वीक्ष्य प्रयोजयेत्; तथा च वाग्भटः,- “पीडितेऽन्तर्गते स्नेहे स्नेहबस्तिक्रमो हितः” (वा.सू. अ.१९) इति||११७-१२२||
Adhikarana 53 (123-124) · Śloka 124
शर्करामधुमिश्रेण शीतेन मधुकाम्बुना ||१२३||
दह्यमाने तदा बस्तौ दद्याद्बस्तिं विचक्षणः |
क्षीरवृक्षकषायेण पयसा शीतलेन च ||१२४||
तत्र स्नेहप्रदानकुपितपित्तेनानिर्गच्छतः स्नेहस्य निर्गमनार्थं दत्ततीक्ष्णोष्णनिरूहकुपितपित्तेन वा दह्यमाने बस्तौ बस्तिविशेषमुपदिशन्नाह- शर्करेत्यादि| शर्करामधुमिश्रेणेति त्रिष्वपि योगेषु योजनीयमिति||१२३-१२४||
Adhikarana 54 (125-126) · Śloka 126
शुक्रं दुष्टं शोणितं चाङ्गनानां पुष्पोद्रेकं तस्य नाशं च कष्टम् |
मूत्राघातान्मूत्रदोषान् प्रवृद्धान् योनिव्याधिं संस्थितिं चापरायाः ||१२५||
शुक्रोत्सेकं शर्करामश्मरीं च शूलं बस्तौ वङ्क्षणे मेहने च |
घोरानन्यान् बस्तिजांश्चापि रोगान् हित्वा मेहानुत्तरो हन्ति बस्तिः ||१२६||
इदानीमुत्तरबस्तेर्विषयं दर्शयन्नाह- शुक्रमित्यादि| पुष्पं ऋतुस्तस्योद्रेकोऽकालप्रवृत्तिः, कष्टं कष्टसाध्यम्| मूत्राघातान् मूत्रावरोधान्| मूत्रदोषान् मूत्रकृच्छ्रान्| संस्थितिं निर्गमरोधमित्यर्थः| अपरा गर्भावरणविशेषः, यस्या ‘उल्ब’ इति लोके प्रसिद्धिः| अशेषबस्तिरोगपरिहारार्थमाह- बस्तिजांश्चापि रोगानिति||१२५-१२६||
Adhikarana 55 (127) · Śloka 127
सम्यग्दत्तस्य लिङ्गानि व्यापदः क्रम एव च |
बस्तेरुत्तरसञ्ज्ञस्य समानं स्नेहबस्तिना ||१२७||
क्रमः चिकित्सितमित्यर्थः||१२७||
Adhikarana puShpikA · Śloka 37
इति सुश्रुतसंहितायां चिकित्सास्थानेऽनुवासनोत्तरबस्तिचिकित्सितं नाम सप्तत्रिंशोऽध्यायः ||३७||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने सप्तत्रिंशत्तमोऽध्यायः||३७||