Adhikarana 1 (1-3) · Śloka 3
अथातोऽनुवासनोत्तरबस्तिचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| विरेचनात् सप्तरात्रे गते जातबलाय वै | कृतान्नायानुवास्याय सम्यग्देयोऽनुवासनः ||३||
🔊 Audio coming soon
Adhikarana 1 (1-3) · Śloka 3
अथातोऽनुवासनोत्तरबस्तिचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| विरेचनात् सप्तरात्रे गते जातबलाय वै | कृतान्नायानुवास्याय सम्यग्देयोऽनुवासनः ||३||
🔊 Audio coming soon
Adhikarana 2 (4) · Śloka 4
यथावयो निरूहाणां या मात्राः परिकीर्तिताः | पादावकृष्टास्ताः कार्याः स्नेहबस्तिषु देहिनाम् ||४||
🔊 Audio coming soon
Adhikarana 3 (5-6) · Śloka 6
उत्सृष्टानिलविण्मूत्रे नरे बस्तिं विधापयेत् | एतैर्हि विहतः स्नेहो नैवान्तः प्रतिपद्यते ||५|| स्नेहबस्तिर्विधेयस्तु नाविशुद्धस्य देहिनः | स्नेहवीर्यं तथा दत्ते देहं चानुविसर्पति ||६||
🔊 Audio coming soon
Adhikarana 4 (7-14) · Śloka 14
अत ऊर्ध्वं प्रवक्ष्यामि तैलानीह यथाक्रमम् | पानान्वासननस्येषु यानि हन्युर्गदान् बहून् ||७|| शटीपुष्करकृष्णाह्वामदनामरदारुभिः | शताह्वाकुष्ठयष्ट्याह्ववचाबिल्वहुताशनैः ||८|| सुपिष्टैर्द्विगुणक्षीरं तैलं तोयचतुर्गुणम् | पक्त्वा बस्तौ विधातव्यं मूढवातानुलोमनम् ||९|| अर्शांसि ग्रहणीदोषमानाहं विषमज्वरम् | कट्यूरुपृष्ठकोष्ठस्थान् वातरोगांश्च नाशयेत् ||१०|| वचापुष्करकुष्ठैलामदनामरसिन्धुजैः | काकोलीद्वययष्ट्याह्वमेदायुग्मनराधिपैः ||११|| पाठाजीवकजीवन्तीभार्गीचन्दनकट्फलैः | सरलागुरुबिल्वाम्बुवाजिगन्धाग्निवृद्धिभिः ||१२|| विडङ्गारग्वधश्यामात्रिवृन्मागधिकर्धिभिः | पिष्टैस्तैलं पचेत् क्षीरपञ्चमूलरसान्वितम् ||१३|| गुल्मानाहाग्निषङ्गार्शोग्रहणीमूत्रसङ्गिनाम् | अन्वासनविधौ युक्तं शस्यतेऽनिलरोगिणाम् ||१४||
🔊 Audio coming soon
Adhikarana 5 (15-18) · Śloka 18
चित्रकातिविषापाठादन्तीबिल्ववचामिषैः | सरलांशुमतीरास्नानीलिनीचतुरङ्गुलैः ||१५|| चव्याजमोदकाकोलीमेदायुग्मसुरद्रुमैः | जीवकर्षभवर्षाभूबस्तगन्धाशताह्वयैः ||१६|| रेण्वश्वगन्धामञ्जिष्ठाशटीपुष्करतस्करैः | सक्षीरं विपचेत्तैलं मारुतामयनाशनम् ||१७|| गृध्रसीखञ्जकुब्जाढ्यमूत्रोदावर्तरोगिणाम् | शस्यतेऽल्पबलाग्नीनां बस्तावाशु नियोजितम् ||१८||
🔊 Audio coming soon
Adhikarana 6 (19-26) · Śloka 26
भूतिकैरण्डवर्षाभूरास्नावृषकरोहिषैः | दशमूलसहाभार्गीषड्ग्रन्थामरदारुभिः ||१९|| बलानागबलामूर्वावाजिगन्धामृताद्वयैः | सहाचरवरीविश्वाकाकनासाविदारिभिः ||२०|| यवमाषातसीकोलकुलत्थैः क्वथितैः शृतम् | जीवनीयप्रतीवापं तैलं क्षीरचतुर्गुणम् ||२१|| जङ्घोरुत्रिकपार्श्वांसबाहुमन्याशिरःस्थितान् | हन्याद्वातविकारांस्तु बस्तियोगैर्निषेवितम् ||२२|| जीवन्त्यतिबलामेदाकाकोलीद्वयजीवकैः | ऋषभातिविषाकृष्णाकाकनासावचामरैः ||२३|| रास्नामदनयष्ट्याह्वसरलाभीरुचन्दनैः | स्वयङ्गुप्ताशटीशृङ्गीकलसीसारिवाद्वयैः ||२४|| पिष्टैस्तैलघृतं पक्वं क्षीरेणाष्टगुणेन तु | तच्चानुवासने देयं शुक्राग्निबलवर्धनम् ||२५|| बृंहणं वातपित्तघ्नं गुल्मानाहहरं परम् | नस्ये पाने च संयुक्तमूर्ध्वजत्रुगदापहम् ||२६||
🔊 Audio coming soon
Adhikarana 7 (27-29) · Śloka 29
मधुकोशीरकाश्मर्यकटुकोत्पलचन्दनैः | श्यामापद्मकजीमूतशक्राह्वातिविषाम्बुभिः ||२७|| तैलपादं पचेत् सर्पिः पयसाऽष्टगुणेन च | न्यग्रोधादिगणक्वाथयुक्तं बस्तिषु योजितम् ||१८|| दाहासृग्दरवीसर्पवातशोणितविद्रधीन् | पित्तरक्तज्वराद्यांश्च हन्यात् पित्तकृतान् गदान् ||२९||
🔊 Audio coming soon
Adhikarana 8 (30-32) · Śloka 32
मृणालोत्पलशालूकसारिवाद्वयकेशरैः | चन्दनद्वयभूनिम्बपद्मबीजकसेरुकैः ||३०|| पटोलकटुकारक्तागुन्द्रापर्पटवासकैः | पिष्टैस्तैलघृतं पक्वं तृणमूलरसेन च ||३१|| क्षीरद्विगुणसंयुक्तं बस्तिकर्मणि योजितम् | नस्येऽभ्यञ्जनपाने वा हन्यात् पित्तगदान् बहून् ||३२||
🔊 Audio coming soon
Adhikarana 9 (33-42) · Śloka 42
त्रिफलातिविषामूर्वात्रिवृच्चित्रकवासकैः | निम्बारग्वधषड्ग्रन्थासप्तपर्णनिशाद्वयैः ||३३|| गुडूचीन्द्रसुराकृष्णाकुष्ठसर्षपनागरैः | तैलमेभिः समैः पक्वं सुरसादिरसाप्लुतम् ||३४|| पानाभ्यञ्जनगण्डूषनस्यबस्तिषु योजितम् | स्थूलतालस्यकण्ड्वादीन् जयेत्कफकृतान् गदान् ||३५|| पाठाजमोदाशार्ङ्गेष्टापिप्पलीद्वयनागरैः | सरलागुरुकालीयभार्गीचव्यामरद्रुमैः ||३६|| मरिचैलाभयाकट्वीशटीग्रन्थिककट्फलैः | तैलमेरण्डतैलं वा पक्वमेभिः समायुतम् ||३७|| वल्लीकण्टकमूलाभ्यां क्वाथेन द्विगुणेन च | हन्यादन्वासनैर्दत्तं सर्वान् कफकृतान् गदान् ||३८|| विडङ्गोदीच्यसिन्धूत्थशटीपुष्करचित्रकैः | कट्फलातिविषाभार्ङ्गीवचाकुष्ठसुराह्वयैः ||३९|| मेदामदनयष्ट्याह्वश्यामानिचुलनागरैः | शताह्वानीलिनीरास्नाकलसीवृषरेणुभिः ||४०|| बिल्वाजमोदकृष्णाह्वादन्तीचव्यनराधिपैः | तैलमेरण्डतैलं वा मुष्ककादिरसाप्लुतम् ||४१|| प्लीहोदावर्तवातासृग्गुल्मानाहकफामयान् | प्रमेहशर्करार्शांसि हन्यादाश्वनुवासनैः ||४२||
🔊 Audio coming soon
Adhikarana 10 (43) · Śloka 43
अशुद्धमपि वातेन केवलेनातिपीडितम् | अहोरात्रस्य कालेषु सर्वेष्वेवानुवासयेत् ||४३||
🔊 Audio coming soon
Adhikarana 11 (44) · Śloka 44
रूक्षस्य बहुवातस्य द्वौ त्रीनप्यनुवासनान् | दत्त्वा स्निग्धतनुं ज्ञात्वा ततः पश्चान्निरूहयेत् ||४४||
🔊 Audio coming soon
Adhikarana 12 (45) · Śloka 45
अस्निग्धमपि वातेन केवलेनातिपीडितम् | स्नेहप्रगाढैर्मतिमान्निरूहैः समुपाचरेत् ||४५||
🔊 Audio coming soon
Adhikarana 13 (46) · Śloka 46
अथ सम्यङ्निरूढं तु वातादिष्वनुवासयेत् | बिल्वयष्ट्याह्वमदनफलतैलैर्यथाक्रमम् ||४६||
🔊 Audio coming soon
Adhikarana 14 (47) · Śloka 47
रात्रौ बस्तिं न दद्यात्तु दोषोत्क्लेशो हि रात्रिजः | स्नेहवीर्ययुतः कुर्यादाध्मानं गौरवं ज्वरम् ||४७||
🔊 Audio coming soon
Adhikarana 15 (48) · Śloka 48
अह्नि स्थानस्थिते दोषे वह्नौ चान्नरसान्विते | स्फुटस्रोतोमुखे देहे स्नेहौजः परिसर्पति ||४८||
🔊 Audio coming soon
Adhikarana 16 (49-50) · Śloka 50
पित्तेऽधिके कफे क्षीणे रूक्षे वातरुगर्दिते | नरे रात्रौ तु दातव्यं काले चोष्णेऽनुवासनम् ||४९|| उष्णे पित्ताधिके वाऽपि दिवा दाहादयो गदाः | सम्भवन्ति यतस्तस्मात् प्रदोषे योजयेद्भिषक् ||५०||
🔊 Audio coming soon
Adhikarana 17 (51) · Śloka 51
शीते वसन्ते च दिवा ग्रीष्मप्रावृड्घनात्यये | स्नेह्यो दिनान्ते पानोक्तान् दोषान् परिजिहीर्षता ||५१||
🔊 Audio coming soon
Adhikarana 18 (52) · Śloka 52
अहोरात्रस्य कालेषु सर्वेष्वेवानिलाधिकम् | तीव्रायां रुजि जीर्णान्नं भोजयित्वाऽनुवासयेत् ||५२||
🔊 Audio coming soon
Adhikarana 19 (53) · Śloka 53
न चाभुक्तवतः स्नेहः प्रणिधेयः कथञ्चन | शुद्धत्वाच्छून्यकोष्ठस्य स्नेह ऊर्ध्वं समुत्पतेत् ||५३||
🔊 Audio coming soon
Adhikarana 20 (54-57) · Śloka 57
सदाऽनुवासयेच्चापि भोजयित्वाऽऽर्द्रपाणिनम् | ज्वरं विदग्धभुक्तस्य कुर्यात् स्नेहः प्रयोजितः ||५४|| न चातिस्निग्धमशनं भोजयित्वाऽनुवासयेत् | मदं मूर्च्छां च जनयेद् द्विधा स्नेहः प्रयोजितः ||५५|| रूक्षं भुक्तवतो ह्यन्नं बलं वर्णं च हापयेत् | युक्तस्नेहमतो जन्तुं भोजयित्वाऽनुवासयेत् ||५६|| यूषक्षीररसैस्तस्माद्यथाव्याधि समीक्ष्य वा | यथोचितात् पादहीनं भोजयित्वाऽनुवासयेत् ||५७||
🔊 Audio coming soon
Adhikarana 21 (58-59) · Śloka 59
अथानुवास्यं स्वभ्यक्तमुष्णाम्बुस्वेदितं शनैः | भोजयित्वा यथाशास्त्रं कृतचङ्क्रमणं ततः ||५८|| विसृज्य च शकृन्मूत्रं योजयेत् स्नेहबस्तिना | प्रणिधानविधानं तु निरूहे सम्प्रवक्ष्यते ||५९||
🔊 Audio coming soon
Adhikarana 22 (60-62) · Śloka 62
ततः प्रणिहितस्नेह उत्तानो वाक्शतं भवेत् | प्रसारितैः सर्वगात्रैस्तथा वीर्यं विसर्पति ||६०|| ताडयेत्तलयोरेनं त्रींस्त्रीन् वाराञ्छनैः शनैः | स्फिचोश्चैनं ततः शय्यां त्रीन् वारानुत्क्षिपेत्ततः ||६१|| एवं प्रणिहिते बस्तौ मन्दायासोऽथ मन्दवाक् | स्वास्तीर्णे शयने काममासीताचारिके रतः ||६२||
🔊 Audio coming soon
Adhikarana 23 (63-66) · Śloka 66
स तु सैन्धवचूर्णेन शताह्वेन च योजितः | देयः सुखोष्णश्च तथा निरेति सहसा सुखम् ||६३|| यस्यानुवासनो दत्तः सकृदन्वक्षमाव्रजेत् | अत्यौष्ण्यादतितैक्ष्ण्याद्वा वायुना वा प्रपीडितः ||६४|| सवातोऽधिकमात्रो वा गुरुत्वाद्वा सभेषजः | तस्यान्योऽल्पतरो देयो न हि स्निह्यत्यतिष्ठति ||६५|| विष्टब्धानिलविण्मूत्रः स्नेहहीनेऽनुवासने | दाहक्लमप्रवाहार्तिकरश्चात्यनुवासनः ||६६||
🔊 Audio coming soon
Adhikarana 24 (67-69) · Śloka 69
सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु | ओषचोषौ विना शीघ्रं स सम्यगनुवासितः ||६७|| जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः | लघ्वन्नं भोजयेत् कामं दीप्ताग्निस्तु नरो यदि ||६८|| प्रातरुष्णोदकं देयं धान्यनागरसाधितम् | तेनास्य दीप्यते वह्निर्भक्ताकाङ्क्षा च जायते ||६९||
🔊 Audio coming soon
Adhikarana 25 (70) · Śloka 70
स्नेहबस्तिक्रमेष्वेवं विधिमाहुर्मनीषिणः |७०|
🔊 Audio coming soon
Adhikarana 26 (70) · Śloka 71
अनेन विधिना षड् वा सप्त वाऽष्टौ नवैव वा ||७०|| विधेया बस्तयस्तेषामन्तरा तु निरूहणम् |७१|
🔊 Audio coming soon
Adhikarana 27 (71-74) · Śloka 74
दत्तस्तु प्रथमो बस्तिः स्नेहयेद्बस्तिवङ्क्षणौ ||७१|| सम्यग्दत्तो द्वितीयस्तु मूर्धस्थमनिलं जयेत् | जनयेद्बलवर्णौ च तृतीयस्तु प्रयोजितः ||७२|| रसं चतुर्थो रक्तं तु पञ्चमः स्नेहयेत्तथा | षष्ठस्तु स्नेहयेन्मांसं मेदः सप्तम एव च ||७३|| अष्टमो नवमश्चास्थि मज्जानं च यथाक्रमम् | एवं शुक्रगतान् दोषान् द्विगुणः साधु साधयेत् ||७४||
🔊 Audio coming soon
Adhikarana 28 (75-76) · Śloka 76
अष्टादशाष्टादशकान् बस्तीनां यो निषेवते | यथोक्तेन विधानेन परिहारक्रमेण च ||७५|| स कुञ्जरबलोऽश्वस्य जवैस्तुल्योऽमरप्रभः | वीतपाप्मा श्रुतधरः सहस्रायुर्नरो भवेत् ||७६||
🔊 Audio coming soon
Adhikarana 29 (77-78) · Śloka 78
स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत् | स्नेहादग्निवधोत्क्लेशौ निरूहात् पवनाद्भयम् ||७७|| तस्मान्निरूढोऽनुवास्यो निरूह्यश्चानुवासितः | नैवं पित्तकफोत्क्लेशौ स्यातां न पवनाद्भयम् ||७८||
🔊 Audio coming soon
Adhikarana 30 (79) · Śloka 79
रूक्षाय बहुवाताय स्नेहबस्तिं दिने दिने | दद्याद्वैद्यस्ततोऽन्येषामग्न्याबाधभयात्त्र्यहात् ||७९||
🔊 Audio coming soon
Adhikarana 31 (80) · Śloka 80
स्नेहोऽल्पमात्रो रूक्षाणां दीर्घकालमनत्ययः | तथा निरूहः स्निग्धानामल्पमात्रः प्रशस्यते ||८०||
🔊 Audio coming soon
Adhikarana 32 (81-85) · Śloka 85
अत ऊर्ध्वं प्रवक्ष्यामि व्यापदः स्नेहबस्तिजाः | बलवन्तो यदा दोषाः कोष्ठे स्युरनिलादयः ||८१|| अल्पवीर्यं तदा स्नेहमभिभूय पृथग्विधान् | कुर्वन्त्युपद्रवान् स्नेहः, स चापि न निवर्तते ||८२|| तत्र वाताभिभूते तु स्नेहे मुखकषायता | जृम्भा वातरुजस्तास्ता वेपथुर्विषमज्वरः ||८३|| पित्ताभिभूते स्नेहे तु मुखस्य कटुता भवेत् | दाहस्तृष्णा ज्वरः स्वेदो नेत्रमूत्राङ्गपीतता ||८४|| श्लेष्माभिभूते स्नेहे तु प्रसेको मधुरास्यता | गौरवं छर्दिरुच्छ्वासः कृच्छ्राच्छीतज्वरोऽरुचिः ||८५||
🔊 Audio coming soon
Adhikarana 33 (86) · Śloka 86
तत्र दोषाभिभूते तु स्नेहे बस्तिं निधापयेत् | यथास्वं दोषशमनान्युपयोज्यानि यानि च ||८६||
🔊 Audio coming soon
Adhikarana 34 (87-92) · Śloka 92
अत्याशितेऽन्नाभिभवात् स्नेहो नैति यदा तदा | गुरुरामाशयः शूलं वायोश्चाप्रतिसञ्चरः ||८७|| हृत्पीडा मुखवैरस्यं श्वासो मूर्च्छा भ्रमोऽरुचिः | तत्रापतर्पणस्यान्ते दीपनो विधिरिष्यते ||८८|| अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः | तदाऽङ्गसदनाध्माने श्वासः शूलं च जायते ||८९|| पक्वाशयगुरुत्वं च तत्र दद्यान्निरूहणम् | तीक्ष्णं तीक्ष्णौषधैरेव सिद्धं चाप्यनुवासनम् ||९०|| शुद्धस्य दूरानुसृते स्नेहे स्नेहस्य दर्शनम् | गात्रेषु सर्वेन्द्रियाणामुपलेपाऽवसादनम् ||९१|| स्नेहगन्धि मुखं चापि कासश्वासावरोचकः | अतिपीडितवत्तत्र सिद्धिरास्थापनं तथा ||९२||
🔊 Audio coming soon
Adhikarana 35 (93-94) · Śloka 94
अस्विन्नस्याविशुद्धस्य स्नेहोऽल्पः सम्प्रयोजितः | शीतो मृदुश्च नाभ्येति ततो मन्दं प्रवाहते ||९३|| विबन्धगौरवाध्मानशूलाः पक्वाशयं प्रति | तत्रास्थापनमेवाशु प्रयोज्यं सानुवासनम् ||९४||
🔊 Audio coming soon
Adhikarana 36 (95-96) · Śloka 96
अल्पं भुक्तवतोऽल्पो हि स्नेहो मन्दगुणस्तथा | दत्तो नैति क्लमोत्क्लेशौ भृशं चारतिमावहेत् ||९५|| तत्राप्यास्थापनं कार्यं शोधनीयेन बस्तिना | (अन्वासनं च स्नेहेन शोधनीयेन शस्यते ) ||९६||
🔊 Audio coming soon
Adhikarana 37 (97) · Śloka 97
अहोरात्रादपि स्नेहः प्रत्यागच्छन्न दुष्यति | कुर्याद्बस्तिगुणांश्चापि जीर्णस्त्वल्पगुणो भवेत् ||९७||
🔊 Audio coming soon
Adhikarana 38 (98) · Śloka 98
यस्य नोपद्रवं कुर्यात् स्नेहबस्तिरनिःसृतः | सर्वोऽल्पोवाऽऽवृतो रौक्ष्यादुपेक्ष्यः स विजानता ||९८||
🔊 Audio coming soon
Adhikarana 39 (99) · Śloka 99
अनायान्तं त्वहोरात्रात् स्नेहं संशोधनैर्हरेत् |९९|
🔊 Audio coming soon
Adhikarana 40 (99) · Śloka 99
स्नेहबस्तावनायाते नान्यः स्नेहो विधीयते ||९९||
🔊 Audio coming soon
Adhikarana 41 (100) · Śloka 100
इत्युक्ता व्यापदः सर्वा सलक्षणचिकित्सिताः |१००|
🔊 Audio coming soon
Adhikarana 42 (100-101) · Śloka 101
बस्तेरुत्तरसञ्ज्ञस्य विधिं वक्ष्याम्यतः परम् ||१००|| चतुर्दशाङ्गुलं नेत्रमातुराङ्गुलसम्मितम् | मालतीपुष्पवृन्ताग्रं छिद्रं सर्षपनिर्गमम् ||१०१||
🔊 Audio coming soon
Adhikarana 43 (102) · Śloka 102
स्नेहप्रमाणं परमं प्रकुञ्चश्चात्र कीर्तितः | पञ्चविंशादधो मात्रां विदध्याद्बुद्धिकल्पिताम् ||१०२||
🔊 Audio coming soon
Adhikarana 44 (103) · Śloka 104
निविष्टकर्णिकं मध्ये, नारीणां चतुरङ्गुले | मूत्रस्रोतःपरीणाहं मुद्गवाहि दशाङ्गुलम् ||१०३|| मेढ्रायामसमं केचिदिच्छन्ति खलु तद्विदः |१०४|
🔊 Audio coming soon
Adhikarana 45 (104-105) · Śloka 105
तासामपत्यमार्गे तु निदध्याच्चतुरङ्गुलम् ||१०४|| द्व्यङ्गुलं मूत्रमार्गे तु कन्यानां त्वेकमङ्गुलम् | विधेयं चाङ्गुलं तासां विधिवद्धक्ष्यते यथा ||१०५||
🔊 Audio coming soon
Adhikarana 46 (106) · Śloka 106
स्नेहस्य प्रसृतं चात्र स्वाङ्गुलीमूलसम्मितम् | देयं प्रमाणं परममर्वाग् बुद्धिविकल्पितम् ||१०६||
🔊 Audio coming soon
Adhikarana 47 (107) · Śloka 108
औरभ्रः शौकरो वाऽपि बस्तिराजश्च पूजितः | तदलाभे प्रयुञ्जीत गलचर्म तु पक्षिणाम् ||१०७|| (तस्यालाभे दृतेः पादो मृदुचर्म ततोऽपि वा ) |१०८|
🔊 Audio coming soon
Adhikarana 48 (108-113) · Śloka 114
अथातुरमुपस्निग्धं स्विन्नं प्रशिथिलाशयम् ||१०८|| यवागूं सघृतक्षीरां पीतवन्तं यथाबलम् | निषण्णमाजानुसमे पीठे सोपाश्रये समम् ||१०९|| स्वभ्यक्तबस्तिमूर्धानं तैलेनोष्णेन मानवम् | ततः समं स्थापयित्वा नालमस्य प्रहर्षितम् ||११०|| पूर्वं शलाकयाऽन्विष्य ततो नेत्रमनन्तरम् | शनैः शनैर्घृताभ्यक्तं विदध्यालानि षट् ||१११|| मेढ्रयामसमं केचिदिच्छन्ति प्रणिधानकम् | ततोऽवपीडयेद्बस्तिं शनैर्नेत्रं च निर्हरेत् ||११२|| ततः प्रत्यागतस्नेहमपराह्णे विचक्षणः | भोजयेत् पयसा मात्रां यूषेणाथ रसेन वा ||११३|| अनेन विधिना दद्याद्बस्तींस्त्रींश्चतुरोऽपि वा |११४|
🔊 Audio coming soon
Adhikarana 49 (114-115) · Śloka 115
ऊर्ध्वजान्वै स्त्रियै दद्यादुत्तानायै विचक्षणः ||११४|| सम्यक् प्रपीडयेद्योनिं दद्यात् सुमृदुपीडितम् | त्रिकर्णिकेन नेत्रेण दद्याद्योनिमुखं प्रति ||११५||
🔊 Audio coming soon
Adhikarana 50 (116) · Śloka 116
गर्भाशयविशुद्ध्यर्थं स्नेहेन द्विगुणेन तु |११६|
🔊 Audio coming soon
Adhikarana 51 (116) · Śloka 117
क्वाथप्रमाणं प्रसृतं, स्त्रिया द्विप्रसृतं भवेत् ||११६|| कन्येतरस्याः, कन्यायास्तद्वद्बस्तिप्रमाणकम् |११७|
🔊 Audio coming soon
Adhikarana 52 (117-122) · Śloka 123
अप्रत्यागच्छति भिषग् बस्तावुत्तरसञ्ज्ञिते ||११७|| भूयो बस्तिं निदध्यात्तु संयुक्तं शोधनैर्गणैः | गुदे वर्तिं निदध्याद्वा शोधनद्रव्यसम्भृताम् ||११८|| प्रवेशयेद्वा मतिमान् बस्तिद्वारमथैषणीम् | पीडयेद्वाऽप्यधो नाभेर्बलेनोत्तरमुष्टिना ||११९|| आरग्वधस्य पत्रैस्तु निर्गुण्ड्याः स्वरसेन च | कुर्याद्गोमूत्रपिष्टेषु वर्तीर्वाऽपि ससैन्धवाः ||१२०|| मुद्गैलासर्षपसमाः प्रविभज्य वयांसि तु | बस्तेरागमनार्थाय ता निदध्याच्छलाकया ||१२१|| आगारधूमबृहतीपिप्पलीफलसैन्धवैः | कृता वा शुक्तगोमूत्रसुरापिष्टैः सनागरैः ||१२२|| अनुवासनसिद्धिं च वीक्ष्य कर्म प्रयोजयेत् |१२३|
🔊 Audio coming soon
Adhikarana 53 (123-124) · Śloka 124
शर्करामधुमिश्रेण शीतेन मधुकाम्बुना ||१२३|| दह्यमाने तदा बस्तौ दद्याद्बस्तिं विचक्षणः | क्षीरवृक्षकषायेण पयसा शीतलेन च ||१२४||
🔊 Audio coming soon
Adhikarana 54 (125-126) · Śloka 126
शुक्रं दुष्टं शोणितं चाङ्गनानां पुष्पोद्रेकं तस्य नाशं च कष्टम् | मूत्राघातान्मूत्रदोषान् प्रवृद्धान् योनिव्याधिं संस्थितिं चापरायाः ||१२५|| शुक्रोत्सेकं शर्करामश्मरीं च शूलं बस्तौ वङ्क्षणे मेहने च | घोरानन्यान् बस्तिजांश्चापि रोगान् हित्वा मेहानुत्तरो हन्ति बस्तिः ||१२६||
🔊 Audio coming soon
Adhikarana 55 (127) · Śloka 127
सम्यग्दत्तस्य लिङ्गानि व्यापदः क्रम एव च | बस्तेरुत्तरसञ्ज्ञस्य समानं स्नेहबस्तिना ||१२७||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 37
इति सुश्रुतसंहितायां चिकित्सास्थानेऽनुवासनोत्तरबस्तिचिकित्सितं नाम सप्तत्रिंशोऽध्यायः ||३७||
🔊 Audio coming soon