Adhikarana 1 (1-2) · Śloka 2
अथातो नेत्रबस्तिव्यापच्चिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
नेत्रानन्तरमादिशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः; तेन प्रणिधानद्रव्यशय्याव्यापदोऽपि गृह्यन्ते||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो नेत्रबस्तिव्यापच्चिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
नेत्रानन्तरमादिशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः; तेन प्रणिधानद्रव्यशय्याव्यापदोऽपि गृह्यन्ते||१-२||
Adhikarana 2 (3-5) · Śloka 5
अथ नेत्रे विचलिते तथा चैव विवर्तिते | गुदे क्षतं रुजा वा स्यात्तत्र सद्यःक्षतक्रियाः ||३|| अत्युत्क्षिप्तेऽवसन्ने च नेत्रे पायौ भवेद्रुजा | विधिरत्रापि पित्तघ्नः कार्यः स्नेहैश्च सेचनम् ||४|| तिर्यक्प्रणिहिते नेत्रे तथा पार्श्वावपीडिते | मुखस्यावरणाद्बस्तिर्न सम्यक् प्रतिपद्यते | ऋजु नेत्रं विधेयं स्यात्तत्र सम्यग्विजानता ||५||
🔊 Audio coming soon
तत्र सद्यः क्षतक्रिया मधुघृताभ्यङ्गाद्याः| अत्युत्क्षिप्त इत्यादि| अत्र अत्युत्क्षिप्तेऽवसन्ने च नेत्रेऽभिघातेन वातपैत्तिकपायुवेदनायाम्| पित्तघ्न इति मधुरशीतादिः| स्नेहैश्च सेचनमिति घृतादिस्नेहसेचनं, तच्चानिलापहम्||३-५||
Adhikarana 3 (6-9) · Śloka 10
अतिस्थूले कर्कशे च नेत्रेऽस्त्रिमति घर्षणात् | गुदे भवेत् क्षतं रुक् च साधनं तस्य पूर्ववत् ||६|| आसन्नकर्णिके नेत्रे भिन्नेऽणौ वाऽप्यपार्थकः | अवसेको भवेद्बस्तेस्तस्माद्दोषान् विवर्जयेत् ||७|| प्रकृष्टकर्णिके रक्तं गुदमर्मप्रपीडनात् | क्षरत्यत्रापि पित्तघ्नो विधिर्बस्तिश्च पिच्छिलः ||८|| ह्रस्वे त्वणुस्रोतसि च क्लेशो बस्तिश्च पूर्ववत् | प्रत्यागच्छंस्ततःकुर्याद्रोगान् बस्तिविघातजान् ||९|| दीर्घे महास्रोतसि च ज्ञेयमत्यवपीडवत् |१०|
🔊 Audio coming soon
प्रणिधानदोषानभिधाय नेत्रदोषाभिधानमाह- अतिस्थूल इत्यादि| पूर्ववच्छब्देन सद्यःक्षतवत्क्रियेत्यर्थः| आसन्नकर्णिके बस्तिरपार्थको व्यर्थः| भिन्नेऽणौ अणुभिन्ने नेत्रे| अवसेकः क्षरणम्| प्रकृष्टकर्णिकं त्र्यङ्गुलादूर्ध्वं चतुरङ्गुले सन्निविष्टकर्णिकम्| तत्रार्शोयन्त्रेण पञ्चाङ्गुलेनान्तःप्रविष्टेन स्थूलाग्रत्वाद्गुदक्षणनं न स्यात्, बस्तियन्त्रेण पुनस्तीक्ष्णाग्रेण चतुरङ्गुलेन सद्यः- प्राणहरगुदमर्म सम्पीड्यते, अतस्तच्चिकित्सितं युक्तम्| ह्रस्वे यथोचितप्रमाणहीने| अणुस्रोतसि सूक्ष्मच्छिद्रे | क्लेश इति अणुस्रोतःप्रवाहणोत्पन्नकालातिक्रमेण| बस्तिश्च पूर्ववदिति सन्निकृष्टकर्णिके यथा अपार्थको बस्तिस्तद्वदिति| ह्रस्वत्वाद्धेतोरत्रापि तथा; अत एव हेतोः प्रत्यागच्छन् व्याघुटन् बस्तिविघातजान् रोगान् मूत्राघातमूत्रकृच्छ्रादीन् कुर्यात्| चिकित्सितं चानुक्तमपि रोगापेक्षया मूत्राघातादिचिकित्सितम्| जेज्जटाचार्यस्तु ईदृशं व्याख्यानयति- पूर्ववद्बस्तिः पिच्छाबस्तिरित्यर्थः| दीर्घे महास्रोतसि च यन्त्रेऽत्यवपीडवन्नासामुखान्निर्गमनं, गलपीडादिचिकित्सितं च ज्ञेयम्||६-९||-
Adhikarana 4 (10-11) · Śloka 11
प्रस्तीर्णे बहले चापि बस्तौ दुर्बद्धदोषवत् ||१०|| बस्तावल्पेऽल्पता वाऽपि द्रव्यस्याल्पा गुणा मताः | दुर्बद्धे चाणुभिन्ने च विज्ञेयं भिन्ननेत्रवत् ||११||
🔊 Audio coming soon
नेत्रदोषं तत्साधनं चाभिधाय बस्तिदोषं तच्चिकित्सितं चाभिधातुमाह- प्रस्तीर्णे इत्यादि| अल्पे यथोचितप्रमाणहीने| बस्तेरल्पतया च द्रव्यस्याप्यल्पता, अत एव अल्पा गुणाः| भिन्ननेत्रवदिति भिन्ननेत्रेण तुल्यं, यथा भिन्ने नेत्रे बस्तेरवसेकः, तद्वद्दुर्बद्धे भिन्ने च बस्तावित्यर्थः||१०-११||
Adhikarana 5 (12-16) · Śloka 16
अतिप्रपीडितो बस्तिः प्रयात्यामाशयं ततः | वातेरितो नासिकाभ्यां मुखतो वा प्रपद्यते ||१२|| तत्र तूर्णं गलापीडं कुर्याच्चाप्यवधूननम् | शिरःकायविरेकौ च तीक्ष्णौ सेकांश्च शीतलान् ||१३|| शनैः प्रपीडितो बस्तिः पक्वाधानं न गच्छति | न च सम्पादयत्यर्थं तस्माद्युक्तं प्रपीडयेत् ||१४|| भूयो भूयोऽवपीडेन वायुरन्तः प्रपीड्यते | तेनाध्मानं रुजश्चोग्रा यथास्वं तत्र बस्तयः ||१५|| कालातिक्रमणात् क्लेशो व्याधिश्चाभिप्रवर्धते | तत्र व्याधिबलघ्नं तु भूयो बस्तिं निधापयेत् ||१६||
🔊 Audio coming soon
बस्तिदोषानभिधाय पीडनदोषानभिधातुमाह- अतिप्रपीडित इत्यादि| प्रपद्यते निर्गच्छतीत्यर्थः| अवधूननं केशादिषूत्क्षिप्य चालनम्| सेकांश्च शीतलान् क्षीरेक्षुरसयष्टिमधुककषायधान्याम्लचुक्रादिशीतद्रव्यपरिषेकान्| शनैः प्रपीडितो मन्दपीडितः| अर्थं न सम्पादयति कार्यं न करोति| अन्तः ‘उदरस्य’ इति शेषः| तेनेति उदरान्तर्गतेन वायुना| तत्राध्मानं रुजश्च| यथास्वं बस्तय इति ये यस्यात्मीया बस्तयः प्रतीकारहेतुत्वेन| कालातिक्रमणादित्यादि| व्याधिश्चाभिप्रवर्धते इति चिरकालनेत्रावस्थानहेतुकगुदमार्गावरोधत्वेन प्रवृत्त्यभिमुखीभूतवातविघातेनानुलोमसाध्यो व्याधिः प्रवर्धत इत्यर्थः||१२-१६||
Adhikarana 6 (17-22) · Śloka 22
गुदोपदेहशोफौ तु स्नेहोऽपक्वः करोति हि | तत्र संशोधनो बस्तिर्हितं चापि विरेचनम् ||१७|| हीनमात्रावुभौ बस्ती नातिकार्यकरौ मतौ | अतिमात्रौ तथाऽऽनाहक्लमातीसारकारकौ ||१८|| मूर्च्छां दाहमतीसारं पित्तं चात्युष्णतीक्ष्णकौ | मृदुशीतावुभौ वातविबन्धाध्मानकारकौ ||१९|| तत्र हीनादिषु हितः प्रत्यनीकः क्रियाविधिः | गुदबस्त्युपदेहं तु कुर्यात् सान्द्रो निरूहणः ||२०|| प्रवाहिकां वा जनयेत्तनुरल्पगुणावहः | तत्र सान्द्रे तनुं बस्तिं तनौ सान्द्रं च दापयेत् ||२१|| स्निग्धोऽतिजाड्यकृद्रूक्षः स्तम्भाध्मानकृदुच्यते | बस्तिं रूक्षमतिस्निग्धे स्निग्धं रूक्षे च दापयेत् ||२२||
🔊 Audio coming soon
पीडनदोषानभिधाय द्रव्यदोषान्निर्दिशन्नाह- गुदोपदेह इत्यादि| उपदेह उपलेपः| ‘हितं चापि विरेचनम्’ इत्यत्र ‘रूक्षं चापि विरेचनम्’ इति गयदासः| हीनमात्रावित्यादि| उभौ बस्ती स्नेहबस्तिनिरूहबस्ती| प्रत्यनीक इति हीनमात्रेऽधिकमात्रोऽतिमात्रे हीनमात्रः, तीक्ष्णे मृदुः, मृदौ तीक्ष्णः, उष्णे शीतः, शीते पुनरुष्णः| अतिजाड्यकृत् अतिशयेन क्लेदकारी ||१७-२२||
Adhikarana 7 (23-29) · Śloka 30
अतिपीडितवद्दोषान् विद्धि चाप्यवशीर्षके | उच्छीर्षके समुन्नाहं बस्तिः कुर्याच्च मेहनम् ||२३|| तत्रोत्तरो हितो बस्तिः सुस्विन्नस्य सुखावहः | न्युब्जस्य बस्तिर्नाप्नोति पक्वाधानं विमार्गगः ||२४|| हृद्गुदं बाधते चात्र वायुः कोष्ठमथापि च | उत्तानस्यावृते मार्गे बस्तिर्नान्तः प्रपद्यते ||२५|| नेत्रसंवेजनभ्रान्तो वायुश्चान्तः प्रकुप्यति | देहे सङ्कुचिते दत्तः सक्थ्नोरप्युभयोस्तथा ||२६|| न सम्यगनिलाविष्टो बस्तिः प्रत्येति देहिनः | स्थितस्य बस्तिर्दत्तस्तु क्षिप्रमायात्यवाङ्मुखः ||२७|| न चाशयं तर्पयति तस्मान्नार्थकरो हि सः | नाप्नोति बस्तिर्दत्तस्तु कृत्स्नं पक्वाशयं पुनः ||२८|| दक्षिणाश्रितपार्श्वस्य वामपार्श्वानुगो यतः | न्युब्जादीनां प्रदानं च बस्तेर्नैव प्रशस्यते ||२९|| पश्चादनिलकोपोऽत्र यथास्वं तत्र कारयेत् |३०|
🔊 Audio coming soon
द्रव्यदोषानभिधाय शय्यादिदोषानभिधातुमाह- अतिपीडितवदित्यादि| विद्धि जानीहि| अतिप्रपीडितो बस्तिः प्रयात्यामाशयमित्यादिवदित्यर्थः | उच्छीर्षके उच्छ्रितशिरस्के पुरुषे बस्तिर्दत्तः मेहनं मेढ्रं समुन्नाहं सम्यगुन्नाहो यत्र तत्तादृशमाध्मातं कुर्यादित्यर्थः| तस्यामापदि सुन्निग्धस्य पुरुषस्योत्तरो बस्तिः हितः सुखावह इति गयी| जेज्जटाचार्यस्तु “उच्छीर्षके समुन्नाहं कुर्यात् सस्नेहमेहनम्| तत्रोत्तरो हितो बस्तिः सुस्निग्धश्च सुखावहः”- इति पठित्वा व्याख्यानयति- सस्नेहमेहनं स्नेहसंसृष्टमूत्रप्रवर्तनं; तत्र प्रतीकार उत्तरो बस्तिरिति सुस्निग्धस्य शोधनो निरूह इति, न पुनरुत्तरबस्तिरिति| वृद्धसुश्रुते चायं पाठोऽन्यथा; तथा च- “उच्छीर्षके समुन्नाहो बस्तेः कृच्छ्राच्च मेहनम्”- इति| न्युब्जस्य पुरुषस्य विमार्गगो बस्तिः पक्वाधानं पक्वाशयं नाप्नोति| हृद्गुदं बाधते वायुः कोष्ठं च बाधते इत्यर्थः| उत्तानस्येत्यादि| नेत्रसंवेजनं नेत्रकम्पनं, तेन भ्रान्तो वायुरित्यर्थः| सक्थ्नोरूर्वोर्न प्रत्येति न प्रत्यागच्छति न निष्कासयतीत्यर्थः| अवाङ्मुखः अधोमुखः| दक्षिणाश्रितपार्श्वस्य पुरुषस्य बस्तिर्दत्तः सन् कृत्स्नं पक्वाशयं न प्राप्नोति| कुत इत्याह- यतः पक्वाशयो वामपार्श्वानुगो वामपार्श्वमनुगच्छति| उपसंहारव्याजेन निदानवर्जनं चिकित्सितमाह- न्युब्जादीनामित्यादि| अत्रैव दोषसाधनं निर्दिशन्नाह- पश्चादनिलकोप इत्यादि| हृदयपृष्ठगुदादिबाधासु तत्तद्व्याध्युपरमेण भेषजेनैव साधितेन बस्तिना साध्य इत्यर्थः||२३-२९||-
Adhikarana 8 (30) · Śloka 30
व्यापदः स्नेहबस्तेस्तु वक्ष्यन्ते तच्चिकित्सिते ||३०||
🔊 Audio coming soon
एवं प्रणिधाननेत्रद्रव्यपीडनशय्यादोषजा वैद्यनिमित्ता एव व्यापदश्चतुश्चत्वारिंशतमभिधाय वैद्यातुरनिमित्ताः स्नेहबस्तिभवा वक्तुकामः प्राह- व्यापदः स्नेहबस्तेरित्यादि||३०||
Adhikarana 9 (31-50) · Śloka 50
अयोगाद्यास्तु वक्ष्यामि व्यापदः सचिकित्सिताः | अनुष्णोऽल्पौषधो हीनो बस्तिर्नैति प्रयोजितः ||३१|| विष्टम्भाध्मानशूलैश्च तमयोगं प्रचक्षते | तत्र तीक्ष्णो हितो बस्तिस्तीक्ष्णं चापि विरेचनम् ||३२|| सशेषान्नेऽथवा भुक्ते बहुदोषे च योजितः | अत्याशितस्यातिबहुर्बस्तिर्मन्दोष्ण एव च ||३३|| अनुष्णलवणस्नेहो ह्यतिमात्रोऽथवा पुनः | तथा बहुपुरीषं च क्षिप्रमाध्मापयेन्नरम् ||३४|| हृत्कटीपार्श्वपृष्ठेषु शूलं तत्रातिदारुणम् | तत्र तीक्ष्णतरो बस्तिर्हितं चाप्यनुवासनम् ||३५|| अतितीक्ष्णोतिलवणो रूक्षो बस्तिः प्रयोजितः | सपित्तं कोपयेद्वायुं कुर्याच्च परिकर्तिकाम् ||३६|| नाभिबस्तिगुदं तत्र छिनत्तीवातिदेहिनः | पिच्छाबस्तिर्हितस्तस्य स्नेहश्च मधुरैः शृतः ||३७|| अत्यम्ललवणस्तीक्ष्णः परिस्रावाय कल्पते | दौर्बल्यमङ्गसादश्च जायते तत्र देहिनः ||३८|| परिस्रवेत्ततः पित्तं दाहं सञ्जनयेद्गुदे | पिच्छाबस्तिर्हितस्तत्र बस्तिः क्षीरघृतेन च ||३९|| प्रवाहिका भवेत्तीक्ष्णान्निरूहात् सानुवासनात् | सदाहशूलं कृच्छ्रेण कफासृगुपवेश्यते ||४०|| पिच्छाबस्तिर्हितस्तत्र पयसा चैव भोजनम् | सर्पिर्मधुरकैः सिद्धं तैलं चाप्यनुवासनम् ||४१|| अतितीक्ष्णो निरूहो वा सवाते चानुवासनः | हृदयस्योपसरणं कुरुते चाङ्गपीडनम् ||४२|| दोषैस्तत्र रुजस्तास्ता मदो मूर्च्छाऽङ्गगौरवम् | सर्वदोषहरं बस्तिं शोधनं तत्र दापयेत् ||४३|| रूक्षस्य बहुवातस्य तथा दुःशायितस्य च | बस्तिरङ्गग्रहं कुर्याद्रूक्षो मृद्वल्पभेषजः ||४४|| तत्राङ्गसादः प्रस्तम्भो जृम्भोद्वेष्टनवेपकाः | पर्वभेदश्च तत्रेष्टाः स्वेदाभ्यञ्जनबस्तयः ||४५|| अत्युष्णतीक्ष्णोऽतिबहुर्दत्तोऽतिस्वेदितस्य च | अल्पदोषस्य वा बस्तिरतियोगाय कल्पते ||४६|| विरेचनातियोगेन समानं तस्य लक्षणम् | पिच्छाबस्तिप्रयोगश्च तत्र शीतः सुखावहः ||४७|| अतियोगात् परं यत्र जीवादानं विरिक्तवत् | देयस्तत्र हितश्चाप्सु पिच्छाबस्तिः सशोणितः ||४८|| नवैता व्यापदो यास्तु निरूहं प्रत्युदाहृताः | स्नेहबस्तिष्वपि हि ता विज्ञेयाः कुशलैरिह ||४९|| इत्युक्ता व्यापदः सर्वाः सलक्षणचिकित्सिताः | भिषजा च तथा कार्यं यथैता न भवन्ति हि ||५०||
🔊 Audio coming soon
अयोगादिव्यापदः सचिकित्सिता आह- अयोगेत्यादि| अल्पौषध इति अल्पानि औषधानि यत्र, एतेनाल्पौषधत्वादतैक्ष्ण्येन हीनवीर्यत्वमुक्तं, हीन इति समुदायस्याल्पमात्रत्वेन| नैति नागच्छति, बस्तिः विष्टम्भादिभिरुपलक्षितः| तीक्ष्णो हितो बस्तिरित्युपलक्षणं, तेन पूर्वोक्तगुणत्रयविपरीत उष्णो बहुलभेषजो यथोचितप्रमाणो हितः पूजित इत्यर्थः| सशेषान्ने इत्यादि| सशेषान्ने अन्नाजीर्णशेषे, भुक्ते च निरूहबस्तिः, तथा बहुदोषेऽनुष्णलवणस्नेहो निरूहबस्तिर्योजितो नरमाध्मापयेत्; नत्वनुवासनः, तस्य सान्न एव हितत्वात्| अत्यशितस्य स्नेहबस्तिस्तथा मात्राशितस्यातिबहुर्मन्दोष्णतायुक्तः स्नेहबस्तिराध्मानं जनयेत् | परिस्रावाय कल्पते इति परिस्रावोऽयं केवलपित्तजो न तु वमनविरेचनपरिस्राववत् कफपित्तसम्भवः| तत्र पित्तरक्तभूयिष्ठायां सर्पिषा, वातरक्तभूयिष्ठायां तैलेनानुवासनम्| क्षीरेण भोजनं वातपित्तकफप्रत्यनीकं; कफसंसर्गे तु कफहरद्रव्यसंस्कृतक्षीरभोजनमिति ज्ञेयं, तन्त्रान्तरदर्शनात्| रुजस्तास्ताः तोदादयः, ओषचोषादयः, कण्ड्वादयश्च| सर्वदोषहरमिति सर्वदोषहरद्रव्यक्वाथं, गोमूत्रत्रिवृदादिकल्कं शोधनं बस्तिं; शोधनत्वेनोर्ध्वगतदोषमधो नयति, सर्वदोषहरत्वेन सर्वानेव दोषान् दुष्टाञ्छमयति| रूक्षोऽत्र वातप्रकृतिः| शीतः शीतोपचारश्च सुखावह इत्यर्थः| विरिक्तशब्देनात्र विरेकातियोगोत्पन्नं जीवादानम्; अतो विरेकातियोगोत्पन्नजीवादानवल्लिङ्गचिकित्सिताभ्यामेतद्बस्त्यतियोगोत्पन्नं जीवादानं ज्ञेयम्| तत्र विशेषचिकित्सितमाह- देय इत्यादि| सशोणित इति हेतुगर्भं विशेषणं, यतः पिच्छाबस्तिः सशोणितोऽतः शोणितापगमरूपजीवादाने देय इत्यर्थः||३१-५०||
Adhikarana 10 (51) · Śloka 51
पक्षाद्विरेको वान्तस्य ततश्चापि निरूहणम् | सद्यो निरूढोऽनुवास्यः सप्तरात्राद्विरेचितः ||५१||
🔊 Audio coming soon
इदानीं पञ्चानां कर्मणां क्रमेण क्रियमाणानां यतो यतो यद्यद्यावता कालेन करणीयं तत्तदुपदिशन्नाह- पक्षादित्यादि| सम्यग्योगेन वान्तस्य पुरुषस्य विरेचनं पक्षान्नार्वाङ्नापि परतः; तत्रार्वाक् क्रियमाणं पुरुषानलबलयोरबलत्वाद् व्यापदमावहति, अतिपरतः पुनः स्नेहस्वेदादिगुणोऽन्तरितः स्यात्; तस्मात् पक्षादेव वान्तो विरेचनीयः| तत्र प्रधानशुद्धिमपेक्ष्यान्नसंसर्गेण दिनानि षडतिक्रम्य मधुरादिरससंसर्गमाचरेत्| स्नेहपानेनापि दिनानि षडतिक्रमेत्| ततः स्वेदं समाचरन् लघूष्णं भुज्यमानस्त्र्यहं स्थितश्चतुर्थेऽहनि विरेकं कुर्यात्| ततस्तस्माद्विरेकादन्नसंसर्गेण दिनानि षडतिक्रम्यानन्तरं मधुरादिरससंसर्गं समाचरन् सप्तरात्राद्विरेचित इति वाक्यादष्टमादिदिवसेष्वनुवासनानि यथादोषं विदध्यात्| ततः षोडशेऽह्नि स्नेहाभ्यक्तः स्वेदितश्चास्थापनं सेवेत| गयदासस्तु चरकाचायाभिप्रायेण विरेचनादूर्ध्वं षडहं कृतान्नसंसर्गस्यावस्थाविशेषेण स्नेहपानमनुवासनं च द्वयमपि मन्यते| तथा च चरकाचार्यवचनम्- “संसृष्टभक्तं नवमेऽह्नि सर्पिस्तं पाययेताप्यनुवासयेद्वा”- (च.सि.अ.१) इति| तत्र विरेचनादूर्ध्वमन्नसंसर्गेण दिनानि षट्, ततो मधुरादिरससंसर्गमाचरेत्, स्नेहपानेनापि दिनानि षडतिक्रामेन्, ततो दिनत्रयं लघूष्णं भुञ्जानश्चतुर्थेऽहनि स्नेहाभ्यक्तः स्वेदितश्चास्थापनं सेवेत| स्नेहपानपूर्वकस्यानुवासनपूर्वकस्य चास्थापनस्यावस्था गयदासेन दर्शिता; यथा- हीनविरिक्तस्यावशिष्टपरिपक्वामसञ्चयावृत वायौ स्नेहपानपूर्वकमास्थापनं क्वचिद्व्याध्यवस्थावशात् प्राक् स्नेहनविरेचितस्यास्थापनमिति| निरूढः पुरुषः सद्य एव तद्दिवसे एवानुवास्यः| एतेन दत्तनिरूहो यथोक्तं भोजयित्वाऽऽर्द्रपाणिरेवानुवास्यः| विरेचितस्तु सप्तरात्रात् परतोऽनुवास्यो नार्वाक्| उक्तं हि- “विरेचनात् सप्तरात्रे गते जातबलाय वै| कृतान्नायानुवास्याय सम्यग्देयोऽनुवासनः” (चि.अ.३७) इति| केचिदन्यादृशं व्याख्यानं कुर्वन्ति; तच्च गयदासाचायण बहुधा दूषितत्वादस्माभिरप्युपेक्षितम्||५१||
Adhikarana puShpikA · Śloka 36
इति सुश्रुतसंहितायां चिकित्सास्थाने नेत्रबस्तिव्यापच्चिकित्सितं नाम षट्त्रिंशोऽध्यायः ||३६||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने षट्त्रिंशत्तमोऽध्यायः||३६||