Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

7. aśmarīcikitsitam

Adhikarana 1 (1-4) · Śloka 4

अथातोऽश्मरीचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| अश्मरी दारुणो व्याधिरन्तकप्रतिमो मतः | औषधैस्तरुणः साध्यः प्रवृद्धश्छेदमर्हति ||३|| तस्य पूर्वेषु रूपेषु स्नेहादिक्रम इष्यते | तेनास्यापचयं यान्ति व्याधेर्मूलान्यशेषतः ||४||

🔊 Audio coming soon

Adhikarana 2 (5-7) · Śloka 8

पाषाणभेदो वसुको वशिराश्मन्तकौ तथा | शतावरी श्वदंष्ट्रा च बृहती कण्टकारिका ||५|| कपोतवङ्काऽऽर्तगलः कच्चकोशीरकुब्जकाः | वृक्षादनी भल्लुकश्च वरुणः शाकजं फलम् ||६|| यवाः कुलत्थाः कोलानि कतकस्य फलानि च | ऊषकादिप्रतीवापमेषां क्वाथैर्घृतं कृतम् ||७|| भिनत्ति वातसम्भूतामश्मरीं क्षिप्रमेव तु |८|

🔊 Audio coming soon

Adhikarana 3 (8) · Śloka 9

क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च ||८|| भोजनानि च कुर्वीत वर्गेऽस्मिन् वातनाशने |९|

🔊 Audio coming soon

Adhikarana 4 (9-13) · Śloka 13

कुशः काशः सरो गुन्द्रा इत्कटो मोरटोऽश्मभित् ||९|| वरी विदारी वाराही शालिमूलत्रिकण्टकम् | भल्लूकः पाटला पाठा पत्तूरोऽथ कुरुण्टिका ||१०|| पुनर्नवा शिरीषश्च क्वथितास्तेषु साधितम् | घृतं शिलाजमधुकबीजैरिन्दीवरस्य च ||११|| त्रपुसैर्वारुकादीनां बीजैश्चावापितं शुभम् | भिनत्ति पित्तसम्भूतामश्मरीं क्षिप्रमेव तु ||१२|| क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च | भोजनानि च कुर्वीत वर्गेऽस्मिन् पित्तनाशने ||१३||

🔊 Audio coming soon

Adhikarana 5 (14-16) · Śloka 16

गणो वरुणकादिस्तु गुग्गुल्वेलाहरेणवः | कुष्ठभद्रादिमरिचचित्रकैः ससुराह्वयैः ||१४|| एतैः सिद्धमजासर्पिरूषकादिगणेन च | भिनत्ति कफसम्भूतामश्मरीं क्षिप्रमेव तु ||१५|| क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च | भोजनानि च कुर्वीत वर्गेऽस्मिन् कफनाशने ||१६||

🔊 Audio coming soon

Adhikarana 6 (17) · Śloka 17

पिचुकाङ्कोलकतकशाकेन्दीवरजैः फलैः | चूर्णितैः सगुडं तोयं शर्कराशमनं पिबेत् ||१७||

🔊 Audio coming soon

Adhikarana 7 (18) · Śloka 19

क्रौञ्चोष्ट्ररासभास्थीनि श्वदंष्ट्रा तालमूलिका | अजमोदा कदम्बस्य मूलं नागरमेव च ||१८|| पीतानि शर्करां भिन्द्युः सुरयोष्णोदकेन वा |१९|

🔊 Audio coming soon

Adhikarana 8 (19) · Śloka 20

त्रिकण्टकस्य बीजानां चूर्णं माक्षिकसंयुतम् ||१९|| अविक्षीरेण सप्ताहमश्मरीभेदनं पिबेत् |२०|

🔊 Audio coming soon

Adhikarana 9 (20-21) · Śloka 22

द्रव्याणां तु घृतोक्तानां क्षारोऽविमूत्रगालितः ||२०|| ग्राम्यसत्त्वशकृत्क्षारैः संयुक्तः साधितः शनैः | तत्रोषकादिरावापः कार्यस्त्रिकटुकान्वितः ||२१|| एष क्षारोऽश्मरीं गुल्मं शर्करां च भिनत्त्यपि |२२|

🔊 Audio coming soon

Adhikarana 10 (22) · Śloka 23

तिलापामार्गकदलीपलाशयवकल्कजः ||२२|| क्षारः पेयोऽविमूत्रेण शर्करानाशनः परः |२३|

🔊 Audio coming soon

Adhikarana 11 (23) · Śloka 23

पाटलाकरवीराणां क्षारमेवं समाचरेत् ||२३||

🔊 Audio coming soon

Adhikarana 12 (24) · Śloka 24

श्वदंष्ट्रायष्टिकाब्राह्मीकल्कं वाऽक्षसमं पिबेत् |२४|

🔊 Audio coming soon

Adhikarana 13 (24) · Śloka 24

सहैडकाख्यौ पेयौ वा शोभाञ्जनकमार्कवौ ||२४||

🔊 Audio coming soon

Adhikarana 14 (25) · Śloka 25

कपोतवङ्कामूलं वा पिबेदम्लैः सुरादिभिः | तत्सिद्धं वा पिबेत् क्षीरं वेदनाभिरुपद्रुतः ||२५||

🔊 Audio coming soon

Adhikarana 15 (26) · Śloka 26

हरीतक्यादिसिद्धं वा वर्षाभूसिद्धमेव वा |२६|

🔊 Audio coming soon

Adhikarana 16 (26) · Śloka 26

सर्वथैवोपयोज्यः स्याद्गणो वीरतरादिकः ||२६||

🔊 Audio coming soon

Adhikarana 17 (27) · Śloka 27

घृतैः क्षारैः कषायैश्च क्षीरैः सोत्तरबस्तिभिः | यदि नोपशमं गच्छेच्छेदस्तत्रोत्तरो विधिः ||२७||

🔊 Audio coming soon

Adhikarana 18 (28) · Śloka 28

कुशलस्यापि वैद्यस्य यतः सिद्धिरिहाध्रुवा | उपक्रमो जघन्योऽयमतः सम्परिकीर्तितः ||२८||

🔊 Audio coming soon

Adhikarana 19 (29) · Śloka 29

अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् | तस्मादापृच्छ्य कर्तव्यमीश्वरं साधुकारिणा ||२९||

🔊 Audio coming soon

Adhikarana 20 (30-36) · Śloka 36

अथ रोगान्वितमुपस्निग्धमपकृष्टदोषमीषत्कर्शितमभ्यक्तस्विन्नशरीरं भुक्तवन्तं कृतबलिमङ्गलस्वस्तिवाचनमग्रोपहरणीयोक्तेन विधानेनोपकल्पितसम्भारमाश्वास्य, ततो बलवन्तमविक्लवमाजानुसमे फलके प्रागुपविष्टान्यपुरुषस्योत्सङ्गे निषण्णपूर्वकायमुत्तानमुन्नतकटीकं वस्त्राधारकोपविष्टं सङ्कुचितजानुकूर्परमितरेण सहावबद्धं सूत्रेण शाटकैर्वा, ततः स्वभ्यक्तनाभिप्रदेशस्य वामपार्श्वं विमृद्य मुष्टिनाऽवपीडयेदधोनाभेर्यावदश्मर्यधः प्रपन्नेति, ततः स्नेहाभ्यक्ते क्लृप्तनखे वामहस्तप्रदेशिनीमध्यमे अङ्गुल्यौ पायौ प्रणिधायानुसेवनीमासाद्य प्रयत्नबलाभ्यां पायुमेढ्रान्तरमानीय, निर्व्यलीकमनायतमविषमं च बस्तिं सन्निवेश्य, भृशमुत्पीडयेदङ्गुलिभ्यां यथा ग्रन्थिरिवोन्नतं शल्यं भवति ||३०|| स चेद्गृहीतशल्ये तु विवृताक्षो विचेतनः | हतवल्लम्बशीर्षश्च निर्विकारो मृतोपमः ||३१|| न तस्य निर्हरेच्छल्यं निर्हरेत्तु म्रियेत सः | विना त्वेतेषु रूपेषु निर्हर्तुं प्रयतेत वै ||३२|| ततः सव्ये पार्श्वे सेवनीं यवमात्रेण मुक्त्वाऽवचारयेच्छस्त्रमश्मरीप्रमाणं, दक्षिणतो वा क्रियासौकर्यहेतोरित्येके, यथा सा न भिद्यते चूर्ण्यते वा तथा प्रयतेत, चूर्णमल्पमप्यवस्थितं हि पुनः परिवृद्धिमेति, तस्मात् समस्तामग्रवक्रेणाददीत; स्त्रीणां तु बस्तिपार्श्वगतो गर्भाशयः सन्निकृष्टः, तस्मात्तासामुत्सङ्गवच्छस्त्रं पातयेत्, अतोऽन्यथा खल्वासां मूत्रस्रावी व्रणो भवेत्, पुरुषस्य वा मूत्रप्रसेकक्षणनान्मूत्रक्षरणम्; अश्मरीव्रणादृते भिन्नबस्तिरेकधाऽपि न भवति, द्विधा भिन्नबस्तिराश्मरिको न सिध्यति, अश्मरीव्रणनिमित्तमेकधाभिन्नबस्तिर्जीवति ,क्रियाभ्यासाच्छास्त्रविहितच्छेदान्निः - स्यन्दपरिवृद्धत्वाच्च शल्यस्येति | उद्धृतशल्यं तूष्णोदकद्रोण्यामवगाह्य स्वेदयेत्, तथा हि बस्तिरसृजा न पूर्यते; पूर्णे वा क्षीरवृक्षकषायं पुष्पनेत्रेण विदध्यात् ||३३|| भवति चात्र- क्षीरवृक्षकषायस्तु पुष्पनेत्रेण योजितः | निर्हरेदश्मरीं तूर्णं रक्तं बस्तिगतं च यत् ||३४|| मूत्रमार्गविशोधनार्थं चास्मै गुडसौहित्यं वितरेत्; उद्धृत्य चैनं मधुघृताभ्यक्तव्रणं मूत्रविशोधनद्रव्यसिद्धामुष्णां सघृतां यवागूं पाययेतोभयकालं त्रिरात्रं; त्रिरात्रादूर्ध्वं गुडप्रगाढेन पयसा मृद्वोदनमल्पं भोजयेद्दशरात्रं (मूत्रासृग्विशुद्ध्यर्थं व्रणक्लेदनार्थं च), दशरात्रादूर्ध्वं फलाम्लैर्जाङ्गलरसैरुपाचरेत्; ततो दशरात्रं चैनमप्रमत्तः स्वेदयेत् स्नेहेन द्रवस्वेदेन वा; क्षीरवृक्षकषायेण चास्य व्रणं प्रक्षालयेत्; रोध्रमधुकमञ्जिष्ठाप्रपौण्डरीककल्कैर्व्रणं प्रतिग्राहयेत्; एतेष्वेव हरिद्रायुतेषु तैलं घृतं वा विपक्वं व्रणाभ्यञ्जनमिति; स्त्यानशोणितं चोत्तरबस्तिभिरुपाचरेत्; सप्तरात्राच्च स्वमार्गमप्रतिपद्यमाने मूत्रे व्रणं यथोक्तेन विधिना दहेदग्निना, स्वमार्गप्रतिपन्ने चोत्तरबस्त्यास्थापनानुवासनैरुपाचरेन्मधुरकषायैरिति; यदृच्छया वा मूत्रमार्गप्रतिपन्नामन्तरासक्तां शुक्राश्मरीं शर्करां वा स्रोतसाऽपहरेत्, एवं चाशक्ये विदार्य नाडीं शस्त्रेण बडिशेनोद्धरेत् | रूढव्रणश्चाङ्गनाश्वनगनागरथद्रुमान् नारोहेत वर्षं, नाप्सु प्लवेत, भुञ्जीत वा गुरु ||३५|| मूत्रवहशुक्रवहमुष्कस्रोतोमूत्रप्रसेकसेवनीयोनिगुदबस्तीनष्टौ परिहरेत् | तत्र मूत्रवहच्छेदान्मरणं मूत्रपूर्णबस्तेः, शुक्रवहच्छेदान्मरणं क्लैब्यं वा, मुष्कस्रोत-उपघाताद् ध्वजभङ्गः, मूत्रप्रसेकक्षणनान्मूत्रप्रक्षरणं, सेवनीयोनिच्छेदाद्रुजः प्रादुर्भावः, बस्तिगुदविद्धलक्षणं प्रागुक्तमिति ||३६||

🔊 Audio coming soon

Adhikarana 21 (37) · Śloka 37

भवति चात्र- मर्माण्यष्टावसम्बुध्य स्रोतोजानि शरीरिणाम् | व्यापादयेद्बहून्मर्त्यान् शस्त्रकर्मापटुर्भिषक् ||३७||

🔊 Audio coming soon

Adhikarana 22 (38) · Śloka 38

सेवनी शुक्रहरणी स्रोतसी फलयोर्गुदम् | मूत्रसेकं मूत्रवहं योनिर्बस्तिस्तथाऽष्टमः ||३८||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 7

इति सुश्रुतसंहितायां चिकित्सास्थानेऽश्मरीचिकित्सितं नाम सप्तमोऽध्यायः ||७||

🔊 Audio coming soon