Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

2. sadyōvraṇacikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातः सद्योव्रणचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अथात इत्यादि||१-२||

Adhikarana 2 (3) · Śloka 3

धन्वन्तरिर्धर्मभृतां वरिष्ठो वाग्विशारदः | विश्वामित्रसुतं शिष्यमृषिं सुश्रुतमन्वशात् ||३||

🔊 Audio coming soon

गुरुपूर्वक्रमं निर्दिशन्नाह- धन्वन्तरिरित्यादि| धर्मभृतामन्येषामपि राजर्षीणां मध्ये वरिष्ठः प्रधानतमः| वाग्विशारद इति अर्थवतीं सलक्षणां हृदयग्राहिणीमपुनरुक्तां वाचं वदतीति वाग्विशारदः| अन्वशात् शिक्षितवान्||३||

Adhikarana 3 (4) · Śloka 4

नानाधारामुखैः शस्त्रैर्नानास्थाननिपातितैः | नानारूपा व्रणा ये स्युस्तेषां वक्ष्यामि लक्षणम् ||४||

🔊 Audio coming soon

व्रणाकृतिमात्रे विशेषहेतुं निर्दिशन्नाह- नानाधारामुखैरित्यादि| नानास्थानानि देहस्थानानि, तेषु निपातितैर्निक्षिप्तैरित्यर्थः| अनेन श्लोकेन नानाप्रकारशस्त्रधारा, नानाप्रकारशस्त्रमुखानि, नानाप्रकारदेहस्थानानि चेति त्रीणि व्रणाकृतिकारणान्युक्तानि||४||

Adhikarana 4 (5-6) · Śloka 7

आयताश्चतुरस्राश्च त्र्यस्रा मण्डलिनस्तथा | अर्धचन्द्रप्रतीकाशा विशालाः कुटिलास्तथा ||५|| शरावनिम्नमध्याश्च यवमध्यास्तथाऽपरे | एवम्प्रकाराकृतयो भवन्त्यागन्तवो व्रणाः ||६|| दोषजा वा स्वयं भिन्ना, न तु वैद्यनिमित्तजाः |७|

🔊 Audio coming soon

इदानीं व्रणाकृतिमाह- आयता इत्यादि| चतुरस्राश्चतुष्कोणाः| त्र्यस्रास्त्रिकोणाः| मण्डलिनो वर्तुलाः| विशाला विस्तीर्णाः| कुटिला वक्राः| स्वयं भिन्नाः स्वयं पक्वभिन्ना इत्यर्थः| न तु वैद्यनिमित्तजाः तेषामायतविशालसमप्रविभक्तलक्षणा आकृतयो व्रणगुणत्वेनैवोक्ताः, यतस्ता आकृतीर्भिषजः प्रदेशविशेष एव कुर्वन्ति||५-६||-

Adhikarana 5 (7) · Śloka 8

भिषग्व्रणाकृतिज्ञो हि न मोहमधिगच्छति ||७|| भृशं दुर्दर्शरूपेषु व्रणेषु विकृतेष्वपि |८|

🔊 Audio coming soon

व्रणाकृतिज्ञानफलमाह - भिषग्व्रणाकृतिज्ञ इत्यादि| दुर्दर्शरूपेषु गोशृङ्गवदुद्गतमांसप्ररोहादिषु||७||-

Adhikarana 6 (8) · Śloka 9

अनन्ताकृतिरागन्तुः स भिषग्भिः पुरातनैः ||८|| समासतो लक्षणतः षड्विधः परिकीर्तितः |९|

🔊 Audio coming soon

आगन्तुव्रणाकृतिमाह- अनेकाकृतिरित्यादि||८||-

Adhikarana 7 (9) · Śloka 10

छिन्नं भिन्नं तथा विद्धं क्षतं पिच्चितमेव च ||९|| घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम् |१०|

🔊 Audio coming soon

तदेव षड्विधत्वमाह- छिन्नमित्यादि| छिन्नं भिन्नं च सधारेण शस्त्रेण, विद्धं पुनरणुमुखेन शस्त्रेण, क्षतादीनि तु पाषाणलगुडादिभिरपि स्युः||९||-

Adhikarana 8 (10) · Śloka 11

तिरश्चीन ऋजुर्वाऽपि यो व्रणश्चायतो भवेत् ||१०|| गात्रस्य पातनं चापि छिन्नमित्युपदिश्यते |११|

🔊 Audio coming soon

तेषां प्रत्येकं लक्षणमाह- तिरश्चीन इत्यादि| तिरश्चीनः तिर्यग्व्यवस्थित इत्यर्थः; ऋजुरवक्रः; अनयोर्द्वयोरपि आयत इति विशेषणम्| गात्रपातनं शस्त्रादिप्रहारेण हस्तादिपातनं, चकारादपातनं च किञ्चिच्छिन्नमात्रम्||१०||-

Adhikarana 9 (11) · Śloka 12

कुन्तशक्त्यृष्टिखङ्गाग्रविषाणादिभिराशयः ||११|| हतः किञ्चित् स्रवेत्तद्धि भिन्नलक्षणमुच्यते |१२|

🔊 Audio coming soon

भिन्नमाह- कुन्तेत्यादि| शक्तिस्त्रिमुखी, ऋष्टिः शर्बला, विषाणं शृङ्गम्; अग्रशब्दः कुन्तादिभिः प्रत्येकं सम्बध्यते| आशय आमादिस्थानम्| किञ्चित् स्रवेदिति किमप्यनिर्दिष्टमित्यर्थः| तत्रोदरं यकृत् प्लीहा च रक्तं, बस्तिर्मूत्रं, पुरीषाशयः पुरीषमिति||११||-

Adhikarana 10 (12) · Śloka 13

स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च ||१२|| हृदुण्डुकः फुप्फुसश्च कोष्ठ इत्यभिधीयते |१३|

🔊 Audio coming soon

के पुनराशया इत्याह- स्थानान्यामाग्निपक्वानामित्यादि| स्थानशब्द आमादिभिः प्रत्येकमभिसम्बध्यते||१२||-

Adhikarana 11 (13-15) · Śloka 16

तस्मिन् भिन्ने रक्तपूर्णे ज्वरो दाहश्च जायते ||१३|| मूत्रमार्गगुदास्येभ्यो रक्तं घ्राणाच्च गच्छति | मूर्च्छाश्वासतृडाध्मानमभक्तच्छन्द एव च ||१४|| विण्मूत्रवातसङ्गश्च स्वेदास्रावोऽक्षिरक्तता | लोहगन्धित्वमास्यस्य गात्रदौर्गन्ध्यमेव च ||१५|| हृच्छूलं पार्श्वयोश्चापि... |१६|

🔊 Audio coming soon

तस्मिन्नित्यादि| तस्मिन् कोष्ठे इत्यर्थः| रक्तपूर्ण इति सर्वत्रैव रक्तस्य विद्यमानत्वात्| अत्राधो नाभे रक्तं गुदमूत्रमार्गाभ्यां प्रवर्तते, नाभेरूर्ध्वं मुखघ्राणाभ्यामिति| अभक्तच्छन्दो भोजनानभिलाषः| विडादिसङ्गः पुरीषादिनिरोधः| स्वेदास्रावः स्वेदस्रुतिः| लोहगन्धित्वं लोहगन्धिभावो मुखस्य||१३-१५||-

Adhikarana 12 (16-17) · Śloka 18

... विशेषं चात्र मे शृणु | आमाशयस्थे रुधिरे रुधिरं छर्दयेत् पुनः ||१६|| आध्मानमतिमात्रं च शूलं च भृशदारुणम् | पक्वाशयगते चापि रुजो गौरवमेव च ||१७|| शीतता चाप्यधो नाभेः खेभ्यो रक्तस्य चागमः |१८|

🔊 Audio coming soon

विशेषमित्यादि| पक्वाशयगते पक्वाशयस्थे, ‘रुधिरे’ इति शेषः| खेभ्यः स्रोतोभ्यः||१६-१७||-

Adhikarana 13 (18) · Śloka 19

अभिन्नेऽप्याशयेऽन्त्राणां खैः सूक्ष्मैरन्त्रपूरणम् ||१८|| पिहितास्ये घटे यद्वल्लक्ष्यते तस्य गौरवम् |१९|

🔊 Audio coming soon

अभिन्ने इत्यादि| कथमभिन्नेऽप्यन्त्राशये रक्तेनान्त्रपूरणं युज्यत इत्याह- पिहितास्य इत्यादि| यथा पिहितास्ये आच्छादितमुखे घटे सूक्ष्मैः खै रन्ध्रैरुदकपूरणं लक्ष्यत इत्यर्थः| तस्य चान्त्राशयस्य, गौरवं ‘भवति’ इति शेषः||१८||-

Adhikarana 14 (19) · Śloka 20

सूक्ष्मास्यशल्याभिहतं यदङ्गं त्वाशयाद्विना ||१९|| उत्तुण्डितं निर्गतं वा तद्विद्धमिति निर्दिशेत् |२०|

🔊 Audio coming soon

विद्धलक्षणमाह- सूक्ष्मास्येत्यादि| आशयाद्विनेति आशयम् आमादिस्थानम्| उत्तुण्डितम् उन्नमितमुखं, निर्गतं निर्गतशल्यम्||१९||-

Adhikarana 15 (20) · Śloka 21

नातिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्वितम् ||२०|| विषमं व्रणमङ्गे यत्तत् क्षतं त्वभिनिर्दिशेत् |२१|

🔊 Audio coming soon

क्षतलक्षणमाह- नातिच्छिन्नमित्यादि| नातिच्छिन्नं नात्यर्थद्विधाभूतम्| नातिभिन्नं नात्यर्थविदीर्णम्| उभयोरिति च्छिन्नभिन्नयोरित्यर्थः| विषमं व्रणमिति व्रणस्य वैषम्यं निम्नोन्नतत्वं, न तु कृच्छ्रसाध्यत्वम्||२०||-

Adhikarana 16 (21) · Śloka 22

प्रहारपीडनाभ्यां तु यदङ्गं पृथुतां गतम् ||२१|| सास्थि तत् पिच्चितं विद्यान्मज्जरक्तपरिप्लुतम् |२२|

🔊 Audio coming soon

पिच्चितलक्षणमाह- प्रहारेत्यादि| प्रहारो मुद्गराद्यभिघातः, पीडनं कपाटादियन्त्रेण| पृथुतां विस्तीर्णतां गतमिति| सास्थि अस्थियुक्तम्| मज्जरक्तपरिप्लुतमिति मज्जरक्ताभिव्याप्तमित्यर्थः||२१||-

Adhikarana 17 (22) · Śloka 23

विगतत्वग्यदङ्गं हि सङ्घर्षादन्यथाऽपि वा ||२२|| उषास्रावान्वितं तत्तु घृष्टमित्युपदिश्यते |२३|

🔊 Audio coming soon

घृष्टलक्षणमाह- विगतत्वगित्यादि| विगतत्वक् त्वग्रहितम्| सङ्घर्षाद् द्रव्यान्तरेण सङ्घर्षणात्| अन्यथा अन्येन प्रकारेणेत्यर्थः| ‘अन्यथाऽपि वा’ इत्यस्य स्थाने केचित् ‘अन्यजादपि’ इति पठन्ति, तत्रान्यजात् सङ्घर्षात् द्रव्यान्तरजात् सङ्घर्षणादित्यर्थः| उषा दाहविशेषः||२२||-

Adhikarana 18 (23-25) · Śloka 26

छिन्ने भिन्ने तथा विद्धे क्षते वाऽसृगतिस्रवेत् ||२३|| रक्तक्षयाद्रुजस्तत्र करोति पवनो भृशम् | स्नेहपानं हितं तत्र तत्सेको विहितस्तथा ||२४|| वेशवारैः सकृशरैः सुस्निग्धैश्चोपनाहनम् | धान्यस्वेदांश्च कुर्वीत स्निग्धान्यालेपनानि च ||२५|| वातघ्नौषधसिद्धैश्च स्नेहैर्बस्तिर्विधीयते |२६|

🔊 Audio coming soon

लक्षणैः षङ्विधं सद्योव्रणं निर्दिश्येदानीं चतुर्षु छिन्नादिषु चिकित्सामाह- छिन्ने इत्यादि| तत्सेको विहित इति कोष्णस्नेहसेक इत्यर्थः| वेशवारैर्निरस्थिस्विन्नस्निग्धपिष्टमांसैः| कृशरा तिलतण्डुमाषकृता यवागूः| उपनाहनं बन्धनम्| धान्यस्वेदानित्यादि धान्यस्वेदो माषादिकोष्णधान्यस्वेद इत्येके; अन्ये तु धान्यं धान्याम्लम्, अम्लशब्दोत्तरपदलोपेन| आलेपनशब्दो लेपने| स्नेहपानमूर्ध्वनाभिजेषु व्रणेषु, नाभेरधोगतेषु बस्तिरिति||२३-२५||-

Adhikarana 19 (26-27) · Śloka 28

पिच्चिते च विघृष्टे च नातिस्रवति शोणितम् ||२६|| अगच्छति भृशं तस्मिन् दाहः पाकश्च जायते | तत्रोष्मणो निग्रहार्थं तथा दाहप्रपाकयोः ||२७|| शीतमालेपनं कार्यं परिषेकश्च शीतलः |२८|

🔊 Audio coming soon

इदानीं पिच्चितघृष्टयोरस्रुतशोणितत्वेन समानधर्मणोरेकमेव चिकित्सितमाह- पिच्चित इत्यादि| अगच्छति अस्रवति सति| तस्मिन् रुधिरे| भृशम् अत्यर्थम्| अन्ये तु ‘शीतमालेपनं कार्यं परिषेकश्च शीतलः’- इत्यस्य स्थाने ‘शीतमालेपनं सेकः शुद्धी रक्तविमोक्षणम्’ इति पठन्ति| शुद्धिर्वमनादिः; तत्रोर्ध्वनाभिजेषु वमनं, दाहोत्तरे मध्यकायजे रेचनम्, अधोनाभिजेषु पुनरास्थापनं, स्त्यानरक्तेषु रक्तमोक्षणम्||२६-२७||-

Adhikarana 20 (28) · Śloka 29

षट्स्वेतेषु यथोक्तेषु छिन्नादिषु समासतः ||२८|| ज्ञेयं समर्पितं सर्वं सद्योव्रणचिकित्सितम् |२९|

🔊 Audio coming soon

उक्तमेवोपसंहरन्नाह- षट्स्वेतेष्वित्यादि| समर्पितं सम्यगर्पितम्| ज्ञेयं ज्ञातव्यम्||२८||-

Adhikarana 21 (29-30) · Śloka 30

अत ऊर्ध्वं प्रवक्ष्यामि छिन्नानां तु चिकित्सितम् ||२९|| ये व्रणा विवृताः केचिच्छिरःपार्श्वावलम्बिनः | तान् सीव्येद्विधिनोक्तेन बध्नीयाद्गाढमेव च ||३०||

🔊 Audio coming soon

अथ मूर्धाद्यवयवाश्रयं चिकित्साविशेषमाह- अत ऊर्ध्वमित्यादि| विवृता व्यात्तमुखाः| शिरःपार्श्वावलम्बिनो मस्तकपार्श्वावलम्बनशीलाः, अन्ये तु शिरोऽवलम्बिनस्तथा पार्श्वावलम्बिनश्चेत्येवं व्याख्यानयन्ति| विधिनोक्तेन ऋजुग्रन्थिसेवनादिना सीव्येदित्यर्थः||२९-३०||

Adhikarana 22 (31-33) · Śloka 33

कर्णं स्थानादपहृतं स्थापयित्वा यथास्थितम् | सीव्येद्यथोक्तं तैलेन स्रोतश्चाभिप्रतर्पयेत् ||३१|| कृकाटिकान्ते छिन्ने तु गच्छत्यपि समीरणे | सम्यङ्निवेश्य बध्नीयात् सीव्येच्चापि निरन्तरम् ||३२|| आजेन सर्पिषा चैवं परिषेकं तु कारयेत् | उत्तानोऽन्नं समश्नीयाच्छयीत च सुयन्त्रितः ||३३||

🔊 Audio coming soon

कर्णमित्यादि| स्थानादपहृतं निःशेषतश्छिन्नम्| तैलेन वातघ्नौषधसिद्धेन| कृकाटिकान्ते ग्रीवायाः पश्चात् कृकाटिकापर्यन्ते| गच्छत्यपि समीरणे इति वाते निर्वहत्यपि सीव्येदित्यर्थः, ‘असाध्या वायुनिर्वाहिण’ (सू. २३) इत्यस्यायमपवादः| सम्यङ्निवेश्य यथास्थानं स्थापयित्वा| उत्तानोऽन्नं समश्नीयादिति तथैव कृकाटिकायाः सुस्थितत्वात्; अन्नमित्युपलक्षणं, तेन शयनमूत्रपुरीषोत्सर्गादि चोत्तानस्यैवेति| शयीत च सुयन्त्रित इति यथा कृकाटिका स्थिरा भवति||३१-३३||

Adhikarana 23 (34-35) · Śloka 35

शाखासु पतितांस्तिर्यक् प्रहारान् विवृतान् भृशम् | सीव्येत् सम्यङ्निवेश्याशु सन्ध्यस्थीन्यनुपूर्वशः ||३४|| बद्ध्वा वेल्लितकेनाशु ततस्तैलेन सेचयेत् | चर्मणा गोफणाबन्धः कार्यो यो वा हितो भवेत् ||३५||

🔊 Audio coming soon

शाखासु पतितानित्यादि| शाखासु चतसृषु| सम्यङ्निवेश्येत्यादि आशु सन्ध्यस्थीनि सम्यङ्निवेश्य यथास्थानं स्थापयित्वा सीव्येत्| अनुपूर्वश इति अनुशब्दः सदृशार्थः; तेन पूर्वसदृशेन| वेल्लितकेनेति ‘बन्धेन’ इति शेषः||३४-३५||

Adhikarana 24 (36) · Śloka 36

पृष्ठे व्रणो यस्य भवेदुत्तानं शाययेत्तु तम् | अतोऽन्यथा चोरसिजे शाययेत् पुरुषं व्रणे ||३६||

🔊 Audio coming soon

पृष्ठे इत्यादि| उत्तानं शाययेदिति दोषस्रुत्यर्थम्, अन्यथाऽनिर्गच्छन् अन्तरवस्थितो दोष उत्सङ्गं कृत्वा विकरोति; अन्यथेति अधोमुखमित्यर्थः| उक्तं च- “उरोव्रणी उत्तानशय्यां परिहरेत्, पृष्ठव्रणी तु स्तनोरोऽवष्टभ्य, दोषस्त्वन्यथा न प्रसिच्यते, अनिर्गच्छन् विकारानुत्पादयति”- इति जेज्जटः| गयी तु “पृष्ठे व्रणो यस्य भवेदनुत्तानः शयीत सः| अतोऽन्यथा चोरसिजे शयीत पुरुषो व्रणे”- इति पठति, व्याख्यानयति च- अनुत्तानोऽवाङ्मुखोऽधोमुखः शयीत, उरसिजेषु व्रणेष्वन्यथा उत्तान एव शयीतेति||३६||

Adhikarana 25 (37) · Śloka 37

छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन बुद्धिमान् | बध्नीयात् कोशबन्धेन प्राप्तं कार्यं च रोपणम् ||३७||

🔊 Audio coming soon

शाखानां निःशेषच्छेदे विधानान्तरमाह- छिन्नामित्यादि| कोशबन्धेन स्थगिकाबन्धेन| प्राप्तं युक्तम्| रोपणमिति शोधनस्याग्निनैव कृतत्वात्||३७||

Adhikarana 26 (38) · Śloka 39

चन्दनं पद्मकं रोध्रमुत्पलानि प्रियङ्गवः | हरिद्रा मधुकं चैव पयः स्यादत्र चाष्टमम् ||३८|| तैलमेभिर्विपक्वं तु प्रधानं व्रणरोपणम् |३९|

🔊 Audio coming soon

अस्य रोपणार्थं तैलमाह- चन्दनमित्यादि| पयो दुग्धं, स्यात् भवेत्, तच्चतुर्गुणमानम्| ननु सङ्ख्येयनिर्देशादेव सङ्ख्यासिद्धावष्टमग्रहणं किमर्थम्? उच्यते- नात्र पाको जलेनेष्यते, पयसैव पाकं मन्यते; अन्ये त्वष्टमग्रहणेनाष्टाङ्गसञ्ज्ञकमिदं तैलमिति कथयन्ति ||३८||-

Adhikarana 27 (39-40) · Śloka 41

चन्दनं कर्कटाख्या च सहे मांस्याह्वयाऽमृता ||३९|| हरेणवो मृणालं च त्रिफला पद्मकोत्पले | त्रयोदशाङ्गं त्रिवृतमेतद्वा पयसाऽन्वितम् ||४०|| तैलं विपक्वं सेकार्थे हितं तु व्रणरोपणे |४१|

🔊 Audio coming soon

अस्य रोपणार्थं द्वितीयं चन्दनादितैलमाह- चन्दनमित्यादि| कर्कटाख्या कर्कटशृङ्गी| सहे माषपर्णी मुद्गपर्णी च| अमृता गुडूची| हरेणवः कलायाः| मृणालम् उशीरम्| उत्पलं नीलोत्पलम्| त्रिवृतमिति त्रिभिर्घृतवसामज्जभिर्वृतं तैलं त्रिवृतम्| एतत् त्रयोदशाङ्गं तैलम्| पयसा क्षीरेण चतुर्गुणेन पक्वम्| वाशब्दः पूर्वोक्ततैलापेक्षया| ‘मांस्याह्वया’ इत्यस्य स्थाने ‘सोमाह्वया’ इति केचित् पठन्ति; सोमाह्वया त्रिसन्धिका, ‘सोमलता’ इत्यपरे| गयी तु मज्जवर्जं त्रयः स्नेहास्त्रिवृतमित्याह, तन्मते त्रिवृतं पयसा विपक्वं व्रणरोपणमिति व्याख्यानम्||३९-४०||-

Adhikarana 28 (41-43) · Śloka 43

अत ऊर्ध्वं प्रवक्ष्यामि भिन्नानां तु चिकित्सितम् ||४१|| भिन्नं नेत्रमकर्मण्यमभिन्नं लम्बते तु यत् | तन्निवेश्य यथास्थानमव्याविद्धसिरं शनैः ||४२|| पीडयेत् पाणिना सम्यक् पद्मपत्त्रान्तरेण तु | ततोऽस्य तर्पणं कार्यं नस्यं चानेन सर्पिषा ||४३||

🔊 Audio coming soon

अत ऊर्ध्वमित्यादि| यद्यपि आशयविषये भिन्नलक्षणं प्रागुक्तं, तथाऽपि नेत्रमप्याशय एव व्यवहर्तव्यमत आह- भिन्नं नेत्रमित्यादि| अकर्मण्यम् अवलोकनादिस्वकर्मणोऽसम्पादकम्; अन्ये तु, अकर्मण्यमसाध्यमाहुः| तच्चाभिन्नं कर्मण्यं च साध्यं चिकित्सितव्यम्| निवेश्य स्थापयित्वा| अव्याविद्धसिरम् अनाकुलितसिरम्; अन्ये तु ‘अव्याविद्धशिरं’ इति पठित्वा अकुटिलमस्तकमिति व्याख्यानयन्ति| पाणिना हस्तेन| पद्मपत्राणामन्तरत्वमूष्मत्वव्युदासार्थं मार्दवार्थं च| ततो मधुसर्पिर्दानानन्तरं तर्पणं पूरणं कार्यम्| अनेन वक्ष्यमाणेनेत्यर्थः| अन्ये तु ‘अनेन’ इत्यस्य स्थाने ‘आजेन’ इति पठन्ति||४१-४३||

Adhikarana 29 (44) · Śloka 45

आजं घृतं क्षीरपात्रं मधुकं चोत्पलानि च | जीवकर्षभकौ चैव पिष्ट्वा सर्पिर्विपाचयेत् ||४४|| सर्वनेत्राभिघाते तु सर्पिरेतत् प्रशस्यते |४५|

🔊 Audio coming soon

तदेवाजं घृतमुत्पादयन्नाह- आजं घृतमित्यादि| अजाघृतं मधुकादिभिः समांशं पिष्ट्वा सर्पिर्गव्यं क्षीरपात्रं क्षीराढकं दत्त्वा विपाचयेत्| ननु चाजघृतस्य किं पेषणेन? उच्यते- यथासम्भवं पेषणं कार्यम्| द्रव्यसमत्वमत्राभिधीयते यथाऽन्येषु योगेष्वर्कक्षीरादीनां; ततश्च पञ्चद्रव्याणि यथा मात्रयाऽष्टौ पलानि भवन्ति तथा मात्रां परिकल्प्य घृतस्य प्रस्थं क्षीराढकमावाप्य विपचेदित्येष शास्त्रवृद्धव्यवहारः| अन्ये तु आजं घृतं गव्यं च तुल्यं कृत्वा मधुकादिकल्केन पचेत्, शेषं पूर्ववत्; नैवम्, वृद्धा आढकशब्देन द्रवद्रव्यस्य द्विगुणतया परिभाषितत्वादष्टाविंशत्यधिकपलशतं गृह्णन्ति| पिष्ट्वा सर्पिर्विपाचयेदिति सर्पिरिति च सर्पिषो द्विरुच्चारणं नियमार्थं; तेन, अनेनैव घृतेन तर्पणं नस्यं च प्रशस्तं न त्वन्येनेति| गयी तु, “अजाघृतस्य प्रस्थं, क्षीरस्य पुनराढकं, मधुकादीनि चत्वारि द्विपलिकान्यष्टपलत्वेन घृतस्य पादिकानि” इत्याह||४४||-

Adhikarana 30 (45-49) · Śloka 49

उदरान्मेदसो वर्तिर्निर्गता यस्य देहिनः ||४५|| कषायभस्ममृत्कीर्णां बद्ध्वा सूत्रेण सूत्रवित् | अग्नितप्तेन शस्त्रेण छिन्द्यान्मधुसमायुतम् ||४६|| बद्ध्वा व्रणं सुजीर्णेऽन्ने सर्पिषः पानमिष्यते | स्नेहपानादृते चापि पयःपानं विधीयते ||४७|| शर्करामधुयष्टिभ्यां लाक्षया वा श्वदंष्ट्रया | चित्रासमन्वितं चैव रुजादाहविनाशनम् ||४८|| आटोपो मरणं वा स्याच्छूलो वाऽच्छिद्यमानया | मेदोग्रन्थौ तु यत्तैलं वक्ष्यते तच्च योजयेत् ||४९||

🔊 Audio coming soon

उदरभेदचिकित्सितमाह- उदरादित्यादि| कषायभस्ममृत्कीर्णां ‘तां वर्तिम्’ इति शेषः; कषायाः सर्जकार्जुनादयः, तेषां भस्म क्षारः , मृत् कृष्णमृत्, कीर्णां गुण्डिताम् ; अन्ये तु ‘कषायचूर्णमृत्कीर्णाम्’ इति पठन्ति| बद्ध्वेति मूलमिति शेषः| सूत्रवित् शास्त्रवित्| अग्नितप्तेन शस्त्रेण छिन्द्यात्, अन्यथा अतप्तशस्त्रच्छेदने पाकभयं स्यात्| सा पुनः क्षतं यदा प्रवेश्यमाना न प्रविशति प्रविष्टा वा नावतिष्ठते तदा तस्याश्छेदः| चित्रा एरण्डः, दन्तीत्यन्ये| कल्पना चेयं- क्षीरस्य यष्टिमधुक्वथितस्य सशर्करैरण्डतैलप्रक्षेपस्य पानमित्येको योगः, श्वदंष्ट्राक्वथितं क्षीरं सलाक्षाचित्रातिलतैलप्रक्षेपं पीयत इति द्वितीयो योगः| वाशब्दात् केचिदेकमेव योगमामनन्ति, तथा च वृद्धवाग्भटः- “सक्षौद्रे च व्रणे बद्धे सुजीर्णेऽन्ने घृतं पिबेत्| क्षीरं वा शर्कराचित्रालाक्षागोक्षुरकैः शृतम्|| रुग्दाहजित् सयष्ट्याह्वैः परं पूर्वोदितो विधिः” (अ. सं. उ. ३१) इति| क्षीरपाकविधिरयं- “द्रव्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम्| क्षीरावशेषः कर्तव्यः क्षीरपाके त्वयं विधिः”- इति| प्रतिदिनं क्षीरचतुष्पलं पेयं, शर्करैरण्डतैलं तु प्रत्येकं कार्षिकम्; एवं द्वितीययोगेऽपि| रुजादाहविनाशनमिति पयः- पानमिति सम्बन्धः| मेदोवर्तेरच्छेदे फलमाह- आटोप इत्यादि| अच्छिद्यमानया अकृत्तमानया| मेदोग्रन्थौ तु यत्तैलमिति “द्विकरञ्ज” (चि. १८) इत्यादिकम्||४५-४९||

Adhikarana 31 (50) · Śloka 50

त्वचोऽतीत्य सिरादीनि भित्त्वा वा परिहृत्य वा | कोष्ठे प्रतिष्ठितं शल्यं कुर्यादुक्तानुपद्रवान् ||५०||

🔊 Audio coming soon

मेदोवर्तिप्रत्यासत्त्या जठरगतशल्यलक्षणमाह- त्वचोऽतीत्येत्यादि| त्वचोऽतीत्य त्वचोऽतिक्रम्य, त्वचः सप्त; सिरादीनि सिरामांसस्नायुसन्ध्यस्थीनि| सिराच्छेदलिङ्गं तु “सुरेन्द्रगोपप्रतिमं” (सू. २५) इत्यादि पूर्वमुक्तम्| प्रतिष्ठितम् अवस्थितम्| उक्तानुपद्रवानिति प्रणष्टशल्यविज्ञानीये “कोष्ठगते त्वाटोपानाहविद्रध्यादीन्” (सू. २६) इति||५०||

Adhikarana 32 (51) · Śloka 51

तत्रान्तर्लोहितं पाण्डुं शीतपादकराननम् | शीतोच्छ्वासं रक्तनेत्रमानद्धं च विवर्जयेत् ||५१||

🔊 Audio coming soon

कोष्ठगतशल्यस्यासाध्यस्य लक्षणमाह- तत्रान्तर्लोहितमित्यादि| अन्तर्लोहितं कोष्ठमध्यपतितरुधिरमित्यर्थः| पाण्डुं श्वेतम्| शीतपादकराननं शीतचरणहस्तमुखम्| आनद्धं स्वमार्गादप्रवर्तमानदोषमलम्| एवंविधं शल्यवन्तं पुमांसं विवर्जयेत् परिहरेदित्यर्थः||५१||

Adhikarana 33 (52-54) · Śloka 54

आमाशयस्थे रुधिरे वमनं पथ्यमुच्यते | पक्वाशयस्थे देयं च विरेचनमसंशयम् ||५२|| आस्थापनं च निःस्नेहं कार्यमुष्णैर्विशोधनैः | यवकोलकुलत्थानां निःस्नेहेन रसेन च ||५३|| भुञ्जीतान्नं यवागूं वा पिबेत् सैन्धवसंयुताम् | अतिनिःस्रुतरक्तो वा भिन्नकोष्ठः पिबेदसृक् ||५४||

🔊 Audio coming soon

साध्यस्य चिकित्सितमाह- आमाशयस्थे इत्यादि| पक्वाशयस्थे पित्ताशयस्थे इत्यर्थः| वाताशयस्थे पुनरास्थापनमेव; आस्थापनं निरूहः| उष्णैर्विशोधनैर्गोमूत्रादिभिरास्थापनं कार्यमिति सम्बन्धः| विशुद्धस्य रक्तानुलोमनमन्नमाह- यवकोलेत्यादि| अनिःस्रुतरक्तस्य चिकित्सामभिधायातिनिःस्रुतरक्तस्य चिकित्सां निर्दिशन्नाह- अतिनिःस्रुतेत्यादि| पिबेदसृगिति जीवितानुबन्धनार्थम्||५२-५४||

Adhikarana 34 (55) · Śloka 55

स्वमार्गप्रतिपन्नास्तु यस्य विण्मूत्रमारुताः | व्युपद्रवः स भिन्नेऽपि कोष्ठे जीवति मानवः ||५५||

🔊 Audio coming soon

भिन्नकोष्ठस्य साध्यस्य लक्षणमाह- स्वमार्गेत्यादि| व्युपद्रवः विगता उपद्रवा यस्य सः, उपद्रवा ज्वराध्मानादयः||५५||

Adhikarana 35 (56-65) · Śloka 66

अभिन्नमन्त्रं निष्क्रान्तं प्रवेश्यं नान्यथा भवेत् | पिपीलिकाशिरोग्रस्तं तदप्येके वदन्ति तु ||५६|| प्रक्षाल्य पयसा दिग्धं तृणशोणितपांशुभिः | प्रवेशयेत् कृत्तनखो घृतेनाक्तं शनैः शनैः ||५७|| प्रवेशयेत् क्षीरसिक्तं शुष्कमन्त्रं घृताप्लुतम् | अङ्गुल्याऽभिमृशेत् कण्ठं जलेनोद्वेजयेदपि ||५८|| हस्तपादेषु सङ्गृह्य समुत्थाप्य महाबलाः | भवत्यन्तःप्रवेशस्तु यथा निर्धुनुयुस्तथा ||५९|| तथाऽन्त्राणि विशन्त्यन्तः स्वां कलां पीडयन्ति च | व्रणाल्पत्वाद्बहुत्वाद्वा दुष्प्रवेशं भवेत्तु यत् ||६०|| तदापाट्य प्रमाणेन भिषगन्त्रं प्रवेशयेत् | यथास्थानं निविष्टे च व्रणं सीव्येदतन्द्रितः ||६१|| स्थानादपेतमादत्ते प्राणान् गुपितमेव वा | वेष्टयित्वा तु पट्टेन घृतसेकं प्रदापयेत् ||६२|| घृतं पिबेत् सुखोष्णं च चित्रातैलसमन्वितम् | मृदुक्रियार्थं शकृतो वायोश्चाधःप्रवृत्तये ||६३|| ततस्तैलमिदं कुर्याद्रोपणार्थं चिकित्सकः | त्वचोऽश्वकर्णधवयोर्मोचकीमेषशृङ्गयोः ||६४|| शल्लक्यर्जुनयोश्चापि विदार्याः क्षीरिणां तथा | बलामूलानि चाहृत्य तैलमेतैर्विपाचयेत् ||६५|| व्रणं संरोपयेत्तेन वर्षमात्रं यतेत च |६६|

🔊 Audio coming soon

इदानीं कोष्ठगतान्त्रभेदमाह- अभिन्नेत्यादि| नान्यथेति यथैव स्थितानि तथैव प्रवेश्यानि तेनैव प्रकारेणेत्यर्थः| अपरे त्वन्यथा व्याख्यानयन्ति, यथा- अभिन्नादन्यथा अपरप्रकारं भिन्नमन्त्रं प्रवेश्यं न भवेत्; तथाच वृद्धवाग्भटः- “अभिन्नमन्त्रं निष्क्रान्तं प्रवेश्यं नह्यतोऽन्यथा” (अ. सं. उ. ३२)- इति| भिन्नमपि मतान्तरेण प्रवेश्यमिति निर्दिशन्नाह- पिपीलिकाशिरोग्रस्तमित्यादि| तदपि भिन्नमपि, अन्त्रं प्रवेश्यमिति सम्बन्धः| पिपीलिकाशिरोग्रस्तमित्यनेन पिपीलिकावदनसन्दंशसंहिते अन्त्रे तासां कबन्धच्छेदः कार्य इति व्याख्यानयन्ति | गयी तु ‘अलाङ्गुलशिरोग्रस्तम्’ इति पठति; तत्र अलाङ्गुलः स्थूलपिपीलिकः| प्रक्षाल्येत्यादि| पयसा क्षीरेण, दिग्धं गुण्डितं, आवृतमित्यर्थः | पांशुः धूलिः| कृत्तनखः छिन्ननखः| प्रविष्टेऽन्त्रे स्वस्थाननयनार्थमन्त्रस्योपायत्रयमाह- अङ्गुल्येत्यादि| अभिमृशेत् स्पृशेत्| उद्वेजयेत् त्रासयेत्| समुत्थाप्य ऊर्ध्वं नीत्वा अन्त्रभेदवन्तं पुरुषं महाबलाः पुरुषास्तथा निर्धुनुयुर्यथाऽन्त्रस्यान्तःप्रवेशो भवतीति सम्बन्धः; निर्धुनुयुः आलोडयेयुरित्यर्थः | एभिः प्रयोगैः किं भवतीत्याह- तथाऽन्त्राणीत्यादि| (अन्त्राणि यथाऽन्तः विशन्ति तथा) स्वां कलां पीडयन्ति स्वकीया कला पञ्चमी मलधरा तां पीडयन्ति स्वस्थानं निर्विशन्तीत्यर्थः| दुःप्रवेशस्य चिकित्सामाह- व्रणाल्पत्वादित्यादि| व्रणाल्पत्वात् व्रणसूक्ष्मत्वात्, बहुत्वाद् व्रणस्य बहुलत्वात्, तत्र विपुलत्वे सति स व्रणः सीव्यः| केचिद्बहुत्वादित्यन्त्रविशेषणमङ्गीकृत्य व्रणसूक्ष्मत्वे अन्त्रबहुत्वे चोभयत्रापि पाटनपूर्वं प्रवेशं मन्यन्ते; तच्च पाटनं यावताऽन्त्रं प्रविशति तावत् कार्यम्| अतन्द्रितः अनलसः| स्वस्थानेऽनिविष्टं व्याकुलितं चान्त्रं किं करोतीत्याह- स्थानादपेतमित्यादि| अपेतम् अपगतम्| प्राणानादत्ते गृह्णाति मारयतीत्यर्थः| गुपितं व्याकुलितं परस्परमतिक्रान्तमित्यर्थः| अतः परं क्रियाविधिः- वेष्टयित्वेत्यादि| मधुघृताभ्यक्तं पट्टवेष्टितं घृतेन कोष्णेन सिञ्चेत्| चित्रातैलसमन्वितमिति चित्रातैलम् एरण्डतैलं, तत्फलं पुरीषमार्दवं वातानुलोमनं च| इदं वक्ष्यमाणम्| त्वचोऽश्वकर्णेत्यादि| अश्वकर्णः पूर्वदेशप्रसिद्धोऽश्वत्थसदृशः; मोचकी शाल्मली, मेषशृङ्गं कर्कटशृङ्गं, पुत्रञ्जीवकभेद इत्यन्ये, क्षीरिण्यो न्यग्रोधोदुम्बराश्वत्थप्लक्षगर्दभाण्डाः, एषां त्वग्भिर्बलामूलैश्च तैलपादेन कल्कीकृतैर्जलं दत्त्वा चतुर्गुणं तैलप्रस्थं पाचयेदिति जेज्जटः; गयी तु “एषां द्रव्याणामाढकं सलिलाढकैश्चतुर्भिः क्वथितमाढकशेषं, तेन कषायेणाश्वकर्णादित्वक्पादकल्कं तैलप्रस्थं पाचयेत्” इत्याह| वर्षमात्रं यतेतेति मैथुनव्यायामादि परिहरन् यत्नं कुर्वीतेत्यर्थः||५६-६५||

Adhikarana 36 (66-68) · Śloka 69

पादौ निरस्तमुष्कस्य जलेन प्रोक्ष्य चाक्षिणी ||६६|| प्रवेश्य तुन्नसेवन्या मुष्कौ सीव्येत्ततः परम् | कार्यो गोफणिकाबन्धः कट्यामावेश्य यन्त्रकम् ||६७|| न कुर्यात् स्नेहसेकं च तेन क्लिद्यति हि व्रणः | कालानुसार्यागुर्वेलाजातीचन्दनपद्मकैः ||६८|| शिलादार्व्यमृतातुत्थैस्तैलं कुर्वीत रोपणम् |६९|

🔊 Audio coming soon

मुष्कभेदचिकित्सितमाह- पादौ निरस्तमुष्कस्येत्यादि| पादावक्षिणी च जलेन प्रोक्ष्य सिक्त्वेत्यर्थः; ‘मुष्कफले’ इत्यध्याहारः| मुष्कौ अण्डकोषौ, तुन्नसेवन्या सेवनीविशेषेण, सीव्येत्| गोफणिका कौपीनं कच्छोटक इत्यर्थः| कट्यामावेश्य यन्त्रकमित्यादि| पट्टयन्त्रमावेश्य, चलनभयादित्यर्थः| कालानुसार्येत्यादि| कालानुसार्या तगरं, शिला मनःशिला||६६-६८||-

Adhikarana 37 (69-70) · Śloka 71

शिरसोऽपहृते शल्ये बालवर्तिं निवेशयेत् ||६९|| बालवर्त्यामदत्तायां मस्तुलुङ्गं व्रणात् स्रवेत् | हन्यादेनं ततो वायुस्तस्मादेवमुपाचरेत् ||७०|| व्रणे रोहति चैकैकं शनैर्बालमपक्षिपेत् |७१|

🔊 Audio coming soon

अतः परं विद्धचिकित्सारम्भः, तत्र प्रागेवोत्तमाङ्गे विद्धचिकित्सितमाह- शिरस इत्यादि| अपहृते कर्षिते| बालवर्तिमिति केशरचितवर्तिं व्रणमुखपिधानार्थं निवेशयेत् निरवशेषेण प्रवेशयेत्| बालवर्त्यदाने दोषमाह- बालवर्त्यामित्यादि| मस्तुलुङ्गमिति शिरसो बलाधानं स्त्यानघृताकारं मस्तुलुङ्गमुच्यते| एनम् आतुरम्| ततो मस्तुलुङ्गस्रवणात्| एवमिति पूर्वोक्तप्रकारेण| उपाचरेत् चिकित्सां कुर्यात्| अपक्षिपेत् कर्षेत्||६९-७०||-

Adhikarana 38 (71) · Śloka 72

गात्रादपहृतेऽन्यस्मात् स्नेहवर्तिं प्रवेशयेत् ||७१|| कृते निःशोणिते चापि विधिः सद्यःक्षते हितः |७२|

🔊 Audio coming soon

सामान्यशरीरावयवस्य चिकित्सामाह- गात्रादपहृते इत्यादि| गात्रादिति स्फुटम्| अन्यस्माद् गात्रादवयवात्, अपहृते ‘शल्ये’ इति शेषः| स्नेहाक्ता पट्टवर्तिः स्नेहवर्तिः; स्नेहोऽत्र तैलम्, उपरिष्टाच्चक्रतैलोपदेशात्| प्रवेशयेदिति अपहृतशल्ये गात्र इति विभक्तिविपरिणामेन सम्बन्धः| तस्मिन्नपि गात्रे पाकभयान्निःशोणिते कृते, विधिः सद्यःक्षते हित इति सद्यःक्षतविषये यो विधिः सोऽत्रापि हितो मधुघृतादिः सन्धानार्थम्||७१||-

Adhikarana 39 (72) · Śloka 73

दूरावगाढाः सूक्ष्माः स्युर्ये व्रणास्तान् विशोणितान् ||७२|| कृत्वा सूक्ष्मेण नेत्रेण चक्रतैलेन तर्पयेत् |७३|

🔊 Audio coming soon

विषयविशेषेण विद्धचिकित्सितमाह- दूरावगाढा इत्यादि| दूरावगाढा दूरानुप्रविष्टा इत्यर्थः| सूक्ष्मेण नेत्रेणेति| नेत्रेण व्रणप्रक्षालनयन्त्रेण, तच्चाष्टाङ्गुलं मुद्गतुल्यस्रोतः| चक्रतैलेनेति तिलतैलपीडनोपकरणकाष्ठेभ्योऽणुतैलन्यायेन गृहीतं तैलं चक्रतैलं, सद्यःपीडनोद्धृतमात्रं वा| तर्पयेत् पूरयेत्||७२||-

Adhikarana 40 (73-74) · Śloka 74

समङ्गां रजनीं पद्मां त्रिवर्गं तुत्थमेव च ||७३|| विडङ्गं कटुकां पथ्यां गुडूचीं सकरञ्जिकाम् | संहृत्य विपचेत् काले तैलं रोपणमुत्तमम् ||७४||

🔊 Audio coming soon

समङ्गामित्यादि| समङ्गा मञ्जिष्ठा, रजनी हरिद्रा, पद्मा भार्गी, त्रिवर्गः त्रिफला, पथ्या हरीतकी, त्रिवर्गग्रहणेनैव पथ्यायां लब्धायां पुनः पथ्याग्रहणं भागद्वयप्रक्षेपार्थं; (यथा पुष्यानुगे मधुकस्य द्विः पाठः) यदुक्तं- “घृते तैले च योगे च यद्द्रव्यं पुनरुच्यते| तज्ज्ञातव्यमिहाचार्यैर्भागतो द्विगुणं भवेत्”- इति| करञ्जिका नक्तमालफलमित्यर्थः| काले इति अदोषोपप्लवकाले व्रणसंरोहणकाले इत्यर्थः||७३-७४||

Adhikarana 41 (75) · Śloka 76

तालीशं पद्मकं मांसी हरेण्वगुरुचन्दनम् | हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः ||७५|| पक्वं सद्योव्रणेषूक्तं तैलं रोपणमुत्तमम् |७६|

🔊 Audio coming soon

अपरमपि रोपणतैलमाह- तालीशमित्यादि| हरेणु रेणुकानाम गन्धद्रव्यम्||७५||-

Adhikarana 42 (76) · Śloka 76

क्षते क्षतविधिः कार्यः पिच्चिते भग्नवद्विधिः ||७६||

🔊 Audio coming soon

क्षतपिच्चितयोश्चिकित्सितमाह- क्षते क्षतविधिरित्यादि| क्षते इति “नातिच्छिन्नं नातिभिन्नं” इत्यादिना परिभाषिते, क्षतविधिः सामान्यक्षतविधिः क्षौद्रघृततैलाभ्यङ्गादिरित्यर्थः| पिच्चिते भग्नवद्विधिः भग्नाभिहितो बन्धसेकरूक्षभोजनादिः (अत्र पाठात्तु बन्धादिचिकित्सितसमावेशः)||७६||

Adhikarana 43 (77) · Śloka 77

घृष्टे रुजो निगृह्याशु चूर्णैरुपचरेद्व्रणम् |७७|

🔊 Audio coming soon

घृष्टचिकित्सितमाह- घृष्टे इत्यादि| रुजो निगृह्य मधुकशीतादिभिर्निगृह्य निर्वाप्य, गयी तु मधुघृतसेकादिना निर्वाप्येति व्याख्याति| चूर्णैः शालसर्जार्जुनादीनाम्||७७|-

Adhikarana 44 (77-78) · Śloka 78

विश्लिष्टदेहं पतितं मथितं हतमेव च ||७७|| वासयेत्तैलपूर्णायां द्रोण्यां मांसरसाशनम् | अयमेव विधिः कार्यः क्षीणे मर्महते तथा ||७८||

🔊 Audio coming soon

इदानीं सद्योव्रणप्रसङ्गेन विश्लिष्टादिदेहस्य सद्यःक्षतव्रणसामान्येन चिकित्सां निर्दिशन्नाह- विश्लिष्टदेहमित्यादि| विश्लिष्टदेहमिति नमनाकर्षणारोहणपतनवधसाहसादिभिः स्वस्थानच्युतावयवदेहं, पतितं वृक्षादिभ्यः, मथितं बलीयसा विलोडितं, हतं वेगवता द्रव्येण दण्डमुष्ट्यादिभिर्वा| वासयेत् स्थापयेत्| द्रोणी दारुरचिता नौसदृशी| अयमेवेत्यादि| क्षीणे अध्वादिक्षीणे| मर्महत इति| मर्माणि हृदयादीनि||७७-७८||

Adhikarana 45 (79) · Śloka 79

रोपणे सपरीषेके पाने च व्रणिनां सदा | तैलं घृतं वा संयोज्यं शरीरर्तूनवेक्ष्य हि ||७९||

🔊 Audio coming soon

इदानीं विषयविशेषोक्तस्यापि तैलस्य सद्योव्रणेषु निषेधमनुक्तस्यापि घृतस्य विधिं दर्शयन्नाह- रोपणे इत्यादि| वातकफप्रकृतिकं शरीरं कालं शिशिरादिकमपेक्ष्य तैलं प्रयोज्यं, रक्तपित्तप्रकृतिकं शरीरं कालं शरदादिकं पुनरवेक्ष्य घृतं प्रयोज्यमिति||७९||

Adhikarana 46 (80) · Śloka 80

घृतानि यानि वक्ष्यामि यत्नतः पित्तविद्रधौ | सद्योव्रणेषु देयानि तानि वैद्येन जानता ||८०||

🔊 Audio coming soon

अथ सङ्क्षेपार्थं घृतान्यन्यातिदेशेन निर्दिशन्नाह- घृतानीत्यादि| तानीति “प्रपौण्डरीकमञ्जिष्ठामधुकोशीरपद्मकैः” (चि. १६) इत्यादीनि||८०||

Adhikarana 47 (81) · Śloka 81

सद्यःक्षतव्रणं वैद्यः सशूलं परिषेचयेत् | सर्पिषा नातिशीतेन बलातैलेन वा पुनः ||८१||

🔊 Audio coming soon

अथ यस्यामवस्थायां घृततैलपरिषेकाः कार्यास्तां निर्दिशन्नाह- सद्य इत्यादि| सर्पिषा नातिशीतेनेति पित्तरक्तप्रकृतिके शरीरे काले च शरदादिके परिषेकः; बलातैलेन वातकफप्रकृतौ देहे काले च शीते इति||८१||

Adhikarana 48 (82-84) · Śloka 85

समङ्गां रजनीं पद्मां पथ्यां तुत्थं सुवर्चलाम् | पद्मकं रोध्रमधुकं विडङ्गानि हरेणुकाम् ||८२|| तालीशपत्रं नलदं चन्दनं पद्मकेशरम् | मञ्जिष्ठोशीरलाक्षाश्च क्षीरिणां चापि पल्लवान् ||८३|| प्रियालबीजं तिन्दुक्यास्तरुणानि फलानि च | यथालाभं समाहृत्य तैलमेभिर्विपाचयेत् ||८४|| सद्योव्रणानां सर्वेषामदुष्टानां तु रोपणम् |८५|

🔊 Audio coming soon

सामान्येन सर्वव्रणानामदुष्टानां रोपणार्थं तैलमाह- समङ्गामित्यादि| समङ्गा मञ्जिष्ठा | पद्मा भार्गी| सुवर्चला सूर्यभक्ता| हरेणुका रेणुका| तरुणानि आमानि||८२-८४||

Adhikarana 49 (85) · Śloka 86

कषायमधुराःशीताः क्रियाः स्निग्धाश्च योजयेत् ||८५|| सद्योव्रणानां सप्ताहं पश्चात् पूर्वोक्तमाचरेत् |८६|

🔊 Audio coming soon

अथ कियन्तं कालं सद्योव्रणक्रियेत्याह- कषायेत्यादि| पूर्वोक्तं द्विव्रणीयोक्तम्| अमुं श्लोकं जेज्जटाचार्योऽनार्षमाह; गयी त्वार्षम्, इत्यस्माभिरप्यङ्गीकृतः||८५||-

Adhikarana 50 (86-88) · Śloka 88

दुष्टव्रणेषु कर्तव्यमूर्ध्वं चाधश्च शोधनम् ||८६|| विशोषणं तथाऽऽहारः शोणितस्य च मोक्षणम् | कषायं राजवृक्षादौ सुरसादौ च धावनम् ||८७|| तयोरेव कषायेण तैलं शोधनमिष्यते | क्षारकल्पेन वा तैलं क्षारद्रव्येषु साधितम् ||८८||

🔊 Audio coming soon

सर्वेषामदुष्टानां रोपणमुक्तं, दुष्टानां किं विधानमिति तदाह- दुष्टव्रणेष्वित्यादि| ऊर्ध्वं शोधनं वमनशिरोविरेचने, अधःशोधनं विरेचनास्थापनं, विशोषणं लङ्घनम्| आहारोऽपि विशोषण एव तिक्तकटुकषायादिः| तत्रोर्ध्वनाभिजेषु कफजेषु वमनं, पित्तजेषु पित्ताशयजेषु च विरेचनं, वाताशयाधःकायजेषु मलेन मार्गावरणदुष्टसमीरणदूषितेषु पुनरास्थापनं, शिरसिजेषु तु कफजेषु शिरोविरेचनम्| राजवृक्षादाविति आरग्वधादावित्यर्थः| तयोरेव गणयोः कषायेण पादकल्कं तैलं शोधनं साध्यते| क्षारकल्पेन वेति क्षारप्रस्थमुदकप्रस्थैः षड्भिरेकविंशतिवारान् स्रावितं तस्मिंस्तैलप्रस्थाच्चतुर्गुणे क्षारोदके तैलं पाचयेत्; अत्र तु ‘क्षारद्रव्याण्येव कल्कानि’ इत्येके, ‘अकल्कमेवैतत्तैलम्’ इत्यन्ये| क्षारद्रव्येषु मुष्ककपलाशादिषु||८६-८८||

Adhikarana 51 (89-92) · Śloka 92

द्रवन्ती चिरबिल्वश्च दन्ती चित्रकमेव च | पृथ्वीका निम्बपत्राणि कासीसं तुत्थमेव च ||८९|| त्रिवृत्तेजोवती नीली हरिद्रे सैन्धवं तिलाः | भूमिकदम्बः सुवहा शुकाख्या लाङ्गलाह्वया ||९०|| नैपाली जालिनी चैव मदयन्ती मृगादनी | सुधामूर्वार्ककीटारिहरितालकरञ्जिकाः ||९१|| यथोपपत्ति कर्तव्यं तैलमेतैस्तु शोधनम् | घृतं वा यदि वा प्राप्तं कल्काः संशोधनास्तथा ||९२||

🔊 Audio coming soon

इदानीं सर्वदुष्टव्रणानां तैलघृतयोगितया व्रणकल्कद्रव्ययोगिद्रव्यं निर्दिशन्नाह- द्रवन्तीत्यादि| द्रवन्ती चीरितपत्रा| दन्ती चिरबिल्वो वृक्षकरञ्जकः| दन्ती उदुम्बरपर्णी| पृथ्वीका स्थूलजीरकः, एलेत्यन्ये, हिङ्गुपत्रिकेत्यपरे| तेजोवती काकमर्दनिका, नीलि निलाञ्जनिका शारदा| भूमिकदम्बो मुण्डितिका| सुवहा गोधापदी| शुकाख्या चर्मकारवटः| लाङ्गलाह्वया कलिहारिका| नैपाली मनःशिला| जालिनी कोशातकी| मदयन्ती मेन्दिका नखरञ्जनी| मृगादनी इन्द्रवारुणी| सुधा सेहुण्डः| मूर्वा चोरस्नायुः| कीटारिः विडङ्गः, कीटमारिणीत्यन्ये; करञ्जिका नक्तमालफलम्| यथोपपत्ति यथालाभम्| प्राप्तमिति युक्तं पूर्वोक्तशरीरकालाद्यपेक्षया| कल्का इति ‘प्राप्ता’ इति शेषः| तैलं प्राप्तमेषु “उत्सन्नमांसानस्निग्धानल्पस्रावान् व्रणांस्तथा” (चि. १) इत्यादिषु, घृतं पुनरेषु प्राप्तं “पित्तप्रदुष्टान् गम्भीरान् दाहपाकप्रपीडितान्” (चि. १) इत्यादिषु, कल्काः पुनरेषु युक्ताः “पूतिमांसप्रतिच्छन्नान् महादोषांश्च” (चि. १) इत्यादिषु||८९-९२||

Adhikarana 52 (93-94) · Śloka 94

सैन्धवत्रिवृदेरण्डपत्रकल्कस्तु वातिके | त्रिवृद्धरिद्रामधुककल्कः पैत्ते तिलैर्युतः ||९३|| कफजे तिलतेजोह्वादन्तीस्वर्जिकचित्रकाः | दुष्टव्रणविधिः कार्यो मेहकुष्ठव्रणेष्वपि ||९४||

🔊 Audio coming soon

अथ वातादिभेदेन कल्कानाह- सैन्धवमित्यादि||९३-९४||

Adhikarana 53 (95) · Śloka 95

षड्विधः प्राक् प्रदिष्टो यः सद्योव्रणविनिश्चयः | नातः शक्यं परं वक्तुमपि निश्चितवादिभिः ||९५||

🔊 Audio coming soon

इदानीं छिन्नादिषट्के कस्यचिद्विप्रतिपत्तिं निराकुर्वन्नाह- षड्विध इत्यादि| अतः षड्विधत्वात् परं सप्तविधत्वादि; नियमेन वक्तुं शीलैरपि वक्तुं न शक्यमित्यर्थः||९५||

Adhikarana 54 (96-97) · Śloka 97

उपसर्गैर्निपातैश्च तत्तु पण्डितमानिनः | केचित् संयोज्य भाषन्ते बहुधा मानगर्विताः ||९६|| बहु तद्भाषितं तेषां षट्स्वेष्वेवावतिष्ठते | विशेषा इव सामान्ये षट्त्वं तु परमं मतम् ||९७||

🔊 Audio coming soon

उपसर्गैरित्यादि- उपसर्गाः प्रपरादयः, निपाताश्चादयः, तैः संयोज्य भाषन्ते; यथा- सम्यक् छिन्नं सञ्छिन्नं, परितः छिन्नं परिच्छिन्नम्, अल्पं हि छिन्नमाच्छिन्नमिति; निपातैर्यथा- अतिक्रम्य च्छिन्नमतिच्छिन्नं, पूजितं छिन्नं सुच्छिन्नम्, अल्पं छिन्नमीषच्छिन्नमिति| तदिति छिन्नादिषट्कम्| तथाऽपि षट्कमेवेति दृष्टान्तेन दर्शयन्नाह- बहु तद्भाषितमित्यादि| तेषां वादिनाम्| तत् पूर्वोक्तं बहुभाषितम्, एषु षट्सु च्छिन्नादिषु, अवतिष्ठते अन्तर्भवतीत्यर्थः| विशेषा इव सामान्ये इति यथैव हि कर्मसामान्ये नमनोन्नमनप्रसारणाकुञ्चनादीनां कर्मविशेषाणामवरोधः, तथा छेदसामान्ये सर्वेषामेव सञ्च्छिन्नपरिच्छिन्नातिच्छिन्नादीनां छेदविशेषाणामवरोधः, एवं शेषेष्वपि पञ्चसु| षट्कं तु इति तुशब्दोऽवधारणे, तेन षट्कमेवेत्यर्थः||९६-९७||

Adhikarana puShpikA · Śloka 2

इति सुश्रुतसंहितायां चिकित्सास्थाने सद्योव्रणचिकित्सितं नाम द्वितियोऽध्यायः ||२||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सितस्थाने द्वितीयोऽध्यायः||२||