Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

13. madhumēhacikitsitam

Adhikarana 1 (1-4) · Śloka 5

अथातो मधुमेहचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| मधुमेहित्वमापन्नं भिषग्भिः परिवर्जितम् | योगेनानेन मतिमान् प्रमेहिणमुपाचरेत् ||३|| मासे शुक्रे शुचौ चैव शैलाः सूर्यांशुतापिताः | जतुप्रकाशं स्वरसं शिलाभ्यः प्रस्रवन्ति हि ||४|| शिलाजत्विति विख्यातं सर्वव्याधिविनाशनम् |५|

🔊 Audio coming soon

मधुमेहित्वमित्यादि| शुक्रो मासो ज्येष्ठः| शुचिराषाढः| यद्यप्यन्यस्मिन् काले शिलाजतुप्रस्रवणं दृश्यते, तथाऽपि शुचिशुक्रमासपरिगृहीतं खरतरतरणिकिरणतापिताभ्यः शिलाभ्यो गुणवत्तरं भवति| जतुप्रकाशं लाक्षाप्रकाशम्| सर्वव्याधिः मधुमेहादिः||१-४||-

Adhikarana 2 (5) · Śloka 6

त्रप्वादीनां तु लोहानां षण्णामन्यतमान्वयम् ||५|| ज्ञेयं स्वगन्धतश्चापि षड्योनि प्रथितं क्षितौ |६|

🔊 Audio coming soon

ननु शिलानां रूक्षकठिनानां कथं स्निग्धद्रवः स्वरसः सम्भवतीत्याह- त्रप्वादीनामित्यादि| त्रप्वादीनि त्रपुसीसताम्ररूप्यसुवर्णकृष्णलौहानि षट्, तेषामन्यतमान्वयमेकतमान्वयम्| षड्योनि षट्कारणकम्| यत्तु शिलाजतुचतुष्टयं तन्त्रान्तरे प्रोक्तं, तत्तेषां चतुर्णामपि मुख्यानां गुणख्यापनाय, नान्ययोनिशिलाजतुनिवारणाय||५||-

Adhikarana 3 (6) · Śloka 7

लोहाद्भवति तद्यस्माच्छिलाजतु जतुप्रभम् ||६|| तस्य लोहस्य तद्वीर्यं रसं चापि बिभर्ति तत् |७|

🔊 Audio coming soon

लोहादित्यादि| रसं चापीति चकारेण वर्णप्रभावं च बिभर्तीत्यनुक्तं समुच्चीयते| तत्र यल्लौहजातं स्यात्, तल्लौहस्यैव वीर्यरसौ बिभर्ति| तानि च लौहानि सुवर्णादीनि, तद्गुणास्तु सुश्रुताध्यायिनोऽन्नपानविध्यध्यायान्ते पठन्ति| यद्यपि जतुप्रकाशो लाक्षासदृशः शिलास्रावः शिलाजतुशब्देनोक्तः, तथाऽपि सुवर्णादिनिर्यासेऽपि शिलाजत्विति प्रयोगः सर्षपादितैलवदौपचारिको द्रष्टव्यः||६||-

Adhikarana 4 (7) · Śloka 8

त्रपुसीसायसादीनि प्रधानान्युत्तरोत्तरम् ||७|| यथा तथा प्रयोगेऽपि श्रेष्ठे श्रेष्ठगुणाः स्मृताः |८|

🔊 Audio coming soon

तेषां परस्परापेक्षं प्राधान्यं निर्दिशन्नाह- त्रप्वित्यादि| त्रपुसीसयोर्लोहत्वस्य नातिप्रसिद्धत्वादय इति विशेषणम्| त्रपुसीसायःसमुद्भवं शिलाजतु त्रपुसीसायसं, तदादिभूतं येषां तानि त्रपुसीसायसादीनि त्रपुसीसताम्ररूप्यसुवर्णकृष्णलोहजानि| प्राधान्यं तेषां कुत इत्याह- श्रेष्ठे श्रेष्ठगुणा इति|- श्रेष्ठे श्रेष्ठद्रव्ये||७||-

Adhikarana 5 (8) · Śloka 9

तत्सर्वं तिक्तकटुकं कषायानुरसं सरम् ||८|| कटुपाक्युष्णवीर्यं च शोषणं छेदनं तथा |९|

🔊 Audio coming soon

इदानीं सामान्यलक्षणाभिधानमाह- तत्सर्वमित्यादि शोषणं दुष्टरक्तादेः| छेदनं कफग्रन्थ्यादिच्छेदकृत्||८||-

Adhikarana 6 (9) · Śloka 10

तेषु यत् कृष्णमलघु स्निग्धं निःशर्करं च यत् ||९|| गोमूत्रगन्धि यच्चापि तत् प्रधानं प्रचक्षते |१०|

🔊 Audio coming soon

तेषां प्रधानलक्षणमुपादानार्थमुपदिशन्नाह- तेष्वित्यादि||९||

Adhikarana 7 (10-16) · Śloka 17

तद्भावितं सारगणैर्हृतदोषो दिनोदये ||१०|| पिबेत् सारोदकेनैव श्लक्ष्णपिष्टं यथाबलम् | जाङ्गलेन रसेनान्नं तस्मिञ्जीर्णे तु भोजयेत् ||११|| उपयुज्य तुलामेवं गिरिजादमृतोपमात् | वपुर्वर्णबलोपेतो मधुमेहविवर्जितः ||१२|| जीवेद्वर्षशतं पूर्णमजरोऽमरसन्निभः | शतं शतं तुलायां तु सहस्रं दशतौलिके ||१३|| भल्लातकविधानेन परिहारविधिः स्मृतः | मेहं कुष्ठमपस्मारमुन्मादं श्लीपदं गरम् ||१४|| शोषं शोफार्शसी गुल्मं पाण्डुतां विषमज्वरम् | अपोहत्यचिरात्कालाच्छिलाजतु निषेवितम् ||१५|| न सोऽस्ति रोगो यं चापि निहन्यान्न शिलाजतु | शर्करां चिरसम्भूतां भिनत्ति च तथाऽश्मरीम् ||१६|| भावनालोडने चास्य कर्तव्ये भेषजैर्हितैः |१७|

🔊 Audio coming soon

इदानीमस्योपयोगविधिं निर्दिशन्नाह- तद्भावितमित्यादि| सारगणैः शालसारादिभिः| तत्र भाव्यद्रव्यसमं क्वथनीयमष्टगुणे जले निष्क्वाथ्याष्टभागावशिष्टेन कषायमानम्| दशाहं विंशतिदिनानि त्रिंशद्दिनानि वा भावयेत्| हृतदोषः संशुद्धदेहः| दिनोदये प्रभाते एव, सारोदकेनैव पिबेत्| जाङ्गलेन रसेन भोजयेत्, अन्यथा शोषणच्छेदनत्वाद्वातकोपः स्यात्| तुला पलशतम्| गिरिजाच्छिलाजतुनः| न सोऽस्ति रोग इत्यत्र रोगशब्दो दोषेषु वर्तते, अथवा शस्त्रसाध्येष्वश्मर्यादिषु| नानाविधस्वास्थ्यकरद्रव्यभावनां चोपदिशन्नाह- भावनालोडने इत्यादि||१०-१६||-

Adhikarana 8 (17-18) · Śloka 19

एवं च माक्षिकं धातुं तापीजममृतोपमम् ||१७|| मधुरं काञ्चनाभासमम्लं वा रजतप्रभम् | पिबन् हन्ति जराकुष्ठमेहपाण्ड्वामयक्षयान् ||१८|| तद्भावितः कपोतांश्च कुलत्थांश्च विवर्जयेत् |१९|

🔊 Audio coming soon

शिलाजतुप्रयोगेणैव माक्षिकधातुप्रयोगमतिदिशन्नाह- एवं च माक्षिकमित्यादि| तापीजं तापीनदीजं सुवर्णमाक्षिकं रजतमाक्षिकं च| तद्भावित इत्यादि ताभ्यां शिलाजतुमाक्षिकधातुभ्यां भावितो व्याप्तदेहः| कुलत्थकपोतौ यावज्जीवं विवर्जयेत्||१७-१८||-

Adhikarana 9 (19) · Śloka 20

पञ्चकर्मगुणातीतं श्रद्धावन्तं जिजीविषुम् ||१९|| योगेनानेन मतिमान् साधयेदपि कुष्ठिनम् |२०|

🔊 Audio coming soon

इदानीं मधुमेहहरमपि योगमुद्दिशन्नाह- पञ्चेत्यादि| पञ्चकर्मगुणातीतमित्यत्र वमनादीनां पञ्चकर्मगुणानामप्राप्तफलमित्येके; तत्तु न सम्यक्, यतः पञ्चशब्देन पञ्चमधात्वस्थिस्थितं कुष्ठमुक्तं, तत्र कर्माणि संशोधनसंशमनाभ्यङ्गगुग्गुलुशिलाजतुप्रभृतीनि, तेषां गुणाः फलानि, तान्यतीतम्; एतदुक्तं भवति- अस्थिगतं कुष्ठं संशोधनादिभिरप्यप्राप्तविशेषं साधयेदिति; अन्ये तु, पूर्वरूपक्रियया सह रसादिधातूनां चतुर्णां क्रियासमूहः पञ्चकर्माणीति मन्यन्ते; प्रमेहस्य तु पञ्च गुणाः पश्चिमाध्याये कथिताः| जिजीविषुः जीवितुमिच्छुः| प्रमेहिणं तावत्साधयेदेव कुष्ठिनमपीत्यपिशब्दार्थः||१९||-

Adhikarana 10 (20-34) · Śloka 34

वृक्षास्तुवरका ये स्युः पश्चिमार्णवभूमिषु ||२०|| वीचीतरङ्गविक्षेपमारुतोद्धूतपल्लवाः | तेषां फलानि गृह्णीयात् सुपक्वान्यम्बुदागमे ||२१|| मज्जां तेभ्योऽपि संहृत्य शोषयित्वा विचूर्ण्य च | तिलवत् पीडयेद्द्रोण्यां स्रावयेद्वा कुसुम्भवत् ||२२|| तत्तैलं संहृतं भूयः पचेदातोयसम्क्षयात् | अवतार्य करीषे च पक्षमात्रं निधापयेत् ||२३|| स्निग्धः स्विन्नो हृतमलः पक्षादूर्ध्वं प्रयत्नवान् | चतुर्थभक्तान्तरितः शुक्लादौ दिवसे शुभे ||२४|| मन्त्रपूतस्य तैलस्य पिबेन्मात्रां यथाबलम् | तत्र मन्त्रं प्रवक्ष्यामि येनेदमभिमन्त्र्यते ||२५|| ‘मज्जसार महावीर्य सर्वान् धातून् विशोधय | शङ्खचक्रगदापाणिस्त्वामाज्ञापयतेऽच्युतः’ ||२६|| तेनास्योर्ध्वमधश्चापि दोषा यान्त्यसकृत्ततः | अस्नेहलवणां सायं यवागूं शीतलां पिबेत् ||२७|| पञ्चाहं प्रपिबेत्तैलमनेन विधिना नरः | पक्षं परिहरेच्चापि मुद्गयूषौदनाशनः ||२८|| पञ्चभिर्दिवसैरेवं सर्वकुष्ठैर्विमुच्यते | तदेव खदिरक्वाथे त्रिगुणे साधु साधितम् ||२९|| निहितं पूर्ववत् पक्षात् पिबेन्मासमतन्द्रितः | तेनाभ्यक्तशरीरश्च कुर्वीताहारमीरितम् ||३०|| भिन्नस्वरं रक्तनेत्रं विशीर्णं कृमिभक्षितम् | अनेनाशु प्रयोगेण साधयेत् कुष्ठिनं नरम् ||३१|| सर्पिर्मधुयुतं पीतं तदेव खदिराम्बुना | पक्षिमांसरसाहारं करोति द्विशतायुषम् ||३२|| तदेव नस्ये पञ्चाशद्दिवसानुपयोजितम् | वपुष्मन्तं श्रुतिधरं करोति त्रिशतायुषम् ||३३|| शोधयन्ति नरं पीता मज्जानस्तस्य मात्रया | महावीर्यस्तुवरकः कुष्ठमेहापहः परः ||३४||

🔊 Audio coming soon

इदानीं जन्मभूमिमारभ्य तुवरकरसायनकल्पं प्रस्तौति- वृक्षा इत्यादि| पश्चिमार्णवभूमिषु पश्चिमसमुद्रभूमिषु| वीचीतरङ्गेत्यादि| ऊर्मिपरम्पराविक्षेपपवनोत्कम्पितपल्लवाः समुद्रोदकस्यात्यासन्ना इत्यर्थः| तेषां फलेभ्यो मज्जानमादाय; कुसुम्भवत् कुसुम्भकुसुमवत्तैलं वा गालयेत्, तत्तैलगालनं सलिलापचयं यावत्| तत्तु करीषराशौ पक्षं निधातुं प्रयोजयेत्, विशिष्टतमशक्त्युत्पादनार्थम्| हृतं मलं पुरीषं कफादयोऽपि यस्य स तथा; तत्र कफे वमनमेव, वमनात् पक्षादेव विरेचनं; यदाहुः- “पक्षाद्विरेको वान्तस्य” (चि. ३६) इति; विरेचनादपि पक्षादेव तौवरकं तैलं, तस्यापि शोधनत्वात्; एतेन पेयादिसंसर्जनक्रमेण सञ्जातबलस्तुवरकस्नेहं पिबेदित्यर्थः| चतुर्थभक्तान्तरित इति पक्षादूर्ध्वं प्रथमेऽह्नि सायम्प्रातः प्रकृतिभोजनद्वयं, द्वितीयेऽह्नि प्रातर्भुक्त्वा सायं भोजनं न कार्यं, फलाम्लमुष्णोदकं वा पाययेत् सायं भोजनस्थाने, ततस्तृतीयेऽहनि लघुकोष्ठाय प्रातः स्नेहं दद्यात्, एवं चतुर्थभक्तमन्तरितं भवतीत्यर्थः| तैलस्यापि पिबेन्मात्रां पाणितलप्रमाणां, कर्षप्रमाणामित्यर्थः| अस्नेहलवणाम् अल्पस्नेहलवणां, यतो नञ् ईषदर्थे| पक्षं परिहरेत्, ‘क्रोधादीन्’ इति शेषः| महावीर्यो महाप्रभावः| पर उत्कृष्टतमः||२०-३४||

Adhikarana 11 (35) · Śloka 35

सान्तर्धूमस्तस्य मज्जा तु दग्धः क्षिप्तस्तैले सैन्धवं चाञ्जनं च | पैल्ल्यं हन्यादर्मनक्तान्ध्यकाचान् नीलीरोगं तैमिरं चाञ्जनेन ||३५||

🔊 Audio coming soon

सान्तर्धूम इत्यादि| तैले तुवरकोत्थे| सैन्धवं लवणम्| अञ्जनं स्रोतोञ्जनं, तस्योत्पत्तिस्थानं वर्णसा सिन्धुश्च महानदः; अथवा वर्णसोद्भवाञ्जनपरिहाराय सैन्धवमुक्तं, तेन सिन्धुमहानदोद्भवमेवाञ्जनं ग्राह्यम्| मज्जादिकं त्रितयमन्तर्धूमेन दग्धम्| एतेन तुवरकस्य षड्विधः प्रयोग उक्तः; तद्यथा- तैलं पञ्चाहिकप्रयोगेण कुष्ठहर एकः, तथा तदेव खदिराम्बुसिद्धं विशिष्टावस्थकुष्ठे द्वितीयः, तथा तदेव सर्पिर्मधुखदिरकषायविधिना तृतीयः, तथा परोऽपि पञ्चाशदाह्निको नस्यप्रयोगो रासायनिकश्चतुर्थः, मज्जप्रयोगः पञ्चमः, तथाहि ‘शोधयन्ति नरं पीताः’ इत्यादि, अञ्जनप्रयोगः षष्ठः ‘सान्तर्धूम’ इत्यादि||३५||

Adhikarana puShpikA · Śloka 13

इति सुश्रुतसंहितायां चिकित्सास्थाने मधुमेहचिकित्सितं नाम त्रयोदशोऽध्यायः ||१३||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सस्थाने त्रयोदशोऽध्यायः||१३||