Adhikarana 1 (1-3) · Śloka 3
अथात उदराणां चिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
अष्टावुदराणि पूर्वमुद्दिष्टानि |
तेष्वसाध्यं बद्धगुदं परिस्रावि च; अवशिष्टानि कृच्छ्रसाध्यानि; सर्वाण्येव प्रत्याख्यायोपक्रमेत |
तेष्वाद्यश्चतुर्वर्गो भेषजसाध्यः, उत्तरः शस्त्रसाध्यः, कालप्रकर्षात् सर्वाण्येव शस्त्रसाध्यानि वर्जयितव्यानि वा ||३||
निदानस्थाने कथितेऽप्यष्टत्वेऽत्र पुनरष्टसङ्ख्याख्यापनं प्लीहोदरयकृद्दाल्युदरयोश्चिकित्सितैकत्वप्रख्यापनाय | अवशिष्टानि कृच्छ्रसाध्यानीति तेष्वपि यथोत्तरं कृच्छ्रतरत्वं ज्ञेयम्| तथाच- “वातात् पित्तात् कफात् प्लीह्नः सन्निपातात्तथोदकात्| परं परं कृच्छ्रतरमुदरं भिषगादिशेत्” (च. चि. १३) इति| सर्वाण्येवेति षडिति केचित्, षट्स्वेव कृच्छ्रत्वप्रतिपादनात्; बद्धगुदपरिस्राविभ्यां सहाष्टावपीत्यन्ये, तयोरपि चिकित्सितोक्तेः, सर्वग्रहणाच्च| तेष्वित्यादि| आद्यश्चतुर्वर्गः वातपित्तकफदूषीविषनिमित्तानि चत्वार्युदराणि; उत्तरस्तु प्लीहोदरबद्धगुदच्छिद्रोदकोदराणि| कालप्रकर्षादिति भेषजसाध्यकालातिक्रमात् शस्त्रसाध्यकालातिक्रमाच्च सर्वाण्येवौषधसाध्यान्यपि शस्त्रसाध्यानि स्युः, शस्त्रसाध्यानि वर्जयितव्यानीति वर्जनार्हाणि वेत्यर्थः||१-३||
Adhikarana 2 (4) · Śloka 4
उदरी तु गुर्वभिष्यन्दिरूक्षविदाहिस्निग्धपिशितपरिषेकावगाहान् परिहरेत्; शालिषष्टिकयवगोधूमनीवारान् नित्यमश्नीयात् ||४||
उदरीत्यादि| दोषधातुमलस्रोतसां क्लेदप्राप्तिजननमभिष्यन्दि| विदाहि काञ्जिकादि| स्निग्धं पिशितं मेदुरमांसम्| नीवार उलिकाधान्यम्||४||
Adhikarana 3 (5) · Śloka 5
तत्र वातोदरिणं विदारिगन्धादिसिद्धेन सर्पिषास्नेहयित्वा, तिल्वकविपक्वेनानुलोम्य, चित्राफलतैलप्रगाढेन विदारिगन्धादिकषायेणास्थापयेदनुवासयेच्च, साल्वणेन चोपनाहयेदुदरं, भोजयेच्चैनं विदारिगन्धादिसिद्धेन क्षीरेण जाङ्गलरसेन च, स्वेदयेच्चाभीक्ष्णम् ||५||
तत्रेत्यादि| तिल्वकः पट्टिकारोध्रः| अनुलोम्य विरेच्य| चित्राफलतैलं दन्तीफलतैलम्| आस्थापयेत् निरूहयेत्, अनुवासयेच्च चित्राफलतैलेनैव| साल्वणेनोपनाहयेत् बध्नीयात्| स्वेदयेच्चाभीक्ष्णमिति एवमग्रेतने कफारब्धेऽपि स्वेदो विधेयः, नतु पित्तारब्धे; स च स्वेद आजलप्राप्तेः , अत ऊर्ध्वं सर्वेषामस्वेद्यत्वम्| कथमत्रोदरिणः स्नेहस्वेदास्थापनानुवासनानि सुश्रुताचार्यः प्राह? अग्रे ‘अस्नेह्या अस्वेद्या नानुवास्या नास्थाप्या’ इति पठितत्वात्; एतन्न, यतश्छिद्रोदकोदरिणोरेव तत्र निषेधः, अन्येषु यथावस्थं स्नेहादयः प्रयोज्या इति||५||
Adhikarana 4 (6) · Śloka 6
पित्तोदरिणं तु मधुरगणविपक्वेन सर्पिषा स्नेहयित्वा, श्यामात्रिफलात्रिवृद्विपक्वेनानुलोम्य, शर्करामधुघृतप्रगाढेन न्यग्रोधादिकषायेणास्थापयेदनुवासयेच्च, पायसेनोपनाहयेदुदरं, भोजयेच्चैनं विदारिगन्धादिसिद्धेन पयसा ||६||
पित्तोदरिणमित्यादि| मधुरगणः काकोल्यादीनि| श्यामा वृद्धदारकः| क्षीरसिद्धास्तण्डुलाः पायसः||६||
Adhikarana 5 (7) · Śloka 7
श्लेष्मोदरिणं तु पिप्पल्यादिकषायसिद्धेन सर्पिषोपस्नेह्य, स्नुहीक्षीरविपक्वेनानुलोम्य, त्रिकटुकमूत्रक्षारतैलप्रगाढेन मुष्ककादिकषायेणास्थापयेदनुवासयेच्च, शणातसीधातकीकिण्वसर्षपमूलकबीजकल्कैश्चोपनाहयेदुदरं, भोजयेच्चैनं त्रिकटुकप्रगाढेन कुलत्थयूषेण पायसेन वा, स्वेदयेच्चाभीक्ष्णम् ||७||
श्लेष्मोदरिणमित्यादि| मुष्ककपलाशधावन्यादिर्मुष्ककादिः| आस्थापनवर्गसिद्धेन तैलेनानुवासनम्| किण्वं सुराबीजम्||७||
Adhikarana 6 (8) · Śloka 8
दूष्योदरिणं तु प्रत्याख्याय सप्तलाशङ्खिनीस्वरससिद्धेन सर्पिषा विरचयेन्मासमर्धमासं वा, महावृक्षक्षीरसुरागोमूत्रसिद्धेन वा; शुद्धकोष्ठं तु मद्येनाश्वमारकगुञ्जाकाकादनीमूलकल्कं पाययेत्; इक्षुकाण्डानि वा कृष्णसर्पेण दंशयित्वा भक्षयेद्वल्लीफलानि वा, मूलजं कन्दजं वा विषमासेवयेत्, तेनागदो भवत्यन्यं वा भावमापद्यते ||८||
सान्निपातिकचिकित्सितमुपदिशन्नाह- दूष्योदरिणमित्यादि| शङ्खिनी यवतिक्ताभेदः| सान्निपातिकोदरे स्नेहादि यदुक्तं तद्वाताद्युदरोदितभेषजगणैः सर्वं साधनीयम्| यदाह चरकः- “सन्निपातोदरे सर्वा यथोक्ताः कारयेत् क्रियाः” (च. चि. १३) इति| लघुवाग्भटेऽपि “सन्निपातोदरे कुर्यान्नातिक्षीणबलानले| दोषोद्रेकानुरोधेन प्रत्याख्याय क्रियामिमाम्” (वा. चि. १५) इति| शङ्खिनी यवतिक्ताभेदः| महावृक्षेत्यादि| विरेचयेदिति शेषः| महावृक्षः सेहुण्डः| महावृक्षक्षीरमात्रा कल्कप्रमाणा| शुद्धेत्यादि| गुञ्जा चिरिहिण्टिका| काकादनी वायसतिन्दुका| इक्षुकाण्डानीत्यादि| यथा मदात्यये मद्यपानम्, अग्निदग्धेऽग्निस्वेदः, अतीसारे स्विन्नपथ्यया विट्प्रवर्तनं, छर्द्यां वमनं, सर्पविषे विषभक्षणं, तद्वद्विषाद्युत्पन्नोदरेऽपि कृष्णसर्पदष्टेक्षुकाण्डभक्षणं विषभक्षणं वा| वल्लीफलानि कर्कटीप्रभृतीनि| अन्यं वा भावमापद्यते मरणं प्राप्नोति| कर्मेदं दारुणम्, अक्रियायां ध्रुवं मरणं, क्रियायां संशये सत्येवं कुर्यात्, तत्रापीश्वरानुज्ञातेनैव कार्यम्||८||
Adhikarana 7 (9) · Śloka 9
भवति चात्र- कुपितानिलमूलत्वात् सञ्चितत्वान्मलस्य च |
सर्वोदरेषु शंसन्ति बहुशस्त्वनुलोमनम् ||९||
कुपितेत्यादि| सर्वोदराण्येव मलवृद्ध्या वर्तन्ते, तस्मात् संशोधनं शस्तं, तच्च बहुशोऽनल्पशः ||९||
Adhikarana (10) · Śloka 10
अत ऊर्ध्वं सामान्ययोगान् वक्ष्यामः |
तद्यथा- एरण्डतैलमहरहर्मासं द्वौ वा केवलं मूत्रयुक्तं क्षीरयुक्तं वा सेवेतोदकवर्जी, माहिषं वा मूत्रं क्षीरेण निराहारःसप्तरात्रम्, उष्ट्रीक्षीराहारो वाऽन्नवारिवर्जी पक्षं, पिप्पलीं वा मासं पूर्वोक्तेन विधानेनासेवेत, सैन्धवाजमोदायुक्तं वा निकुम्भतैलम्, आर्द्रशृङ्गवेररसपात्रशतसिद्धं वा वातशूलेऽवचार्यं, शृङ्गवेररसविपक्वं क्षीरमासेवेत, चव्यशृङ्गवेरकल्कं वा पयसा सरलदेवदारुचित्रकमेव वा, मुरङ्गीशालपर्णीश्यामापुनर्नवाकल्कं वा, ज्योतिष्कफलतैलं वा क्षीरेण स्वर्जिकाहिङ्गुमिश्रं पिबेत्, गुडद्वितीयां वा हरीतकीं भक्षयेत्, स्नुहीक्षीरभावितानां वा पिप्पलीनां सहस्रं कालेन, पथ्याकृष्णाचूर्णं वा स्नुहीक्षीरभावितमुत्कारिकां पक्वां दापयेत्; हरीतकीचूर्णं प्रस्थमाढके घृतस्यावाप्याङ्गारेष्वभिविलाप्य खजेनाभिमथ्यानुगुप्तं कृत्वाऽर्धमासं यवपल्ले वासयेत्, ततश्चोद्धृत्य परिस्राव्य हरीतकीक्वाथाम्लदधीन्यावाप्य विपचेत्, तद्यथायोगं मासमर्धमासं वा पाययेत्; गव्ये पयसि महावृक्षक्षीरमावाप्य विपचेत्, विपक्वं चावतार्य शीतीभूतं मन्थानेनाभिमथ्य नवनीतमादाय भूयो महावृक्षक्षीरेणैव विपचेत्, तद्यथायोगं मासं मासार्धं वा पाययेत्; चव्यचित्रकदन्त्यतिविषाकुष्ठसारिवात्रिफलाजमोदहरिद्राशङ्खिनीत्रिवृत्त्रिकटुकानामर्धकार्षिका भागा, राजवृक्षफलमज्ज्ञामष्टौ कर्षाः, महावृक्षक्षीरपले द्वे, गवां क्षीरमूत्रयोरष्टावष्टौ पलानि, एतत् सर्वं घृतप्रस्थे समावाप्य विपचेत्, तद्यथायोगं मासमर्धमासं वा पाययेत्; एतानि तिल्वकघृतचतुर्थानि सर्पींष्युदरगुल्मविद्रध्यष्ठीलानाहकुष्ठोन्मादापस्मारेषूपयोज्यानि विरेचनार्थं; मूत्रासवारिष्टसुराश्चाभीक्ष्णं महावृक्षक्षीरसम्भृताः सेवेत; विरेचनद्रव्यकषायं वा शृङ्गवेरदेवदारुप्रगाढम् ||१०||
अत इत्यादि| सप्ताहं माहिषं मूत्रं क्षीरेण कृतोदकान्नकार्यः, केचिदत्र माहिषमेव क्षीरमाहुः, अपरे पुनर्माहिषस्याग्निमान्द्यादिकरणाद्गव्यमेवाहुः| गूढपदभङ्गटिप्पणे ईदृशं व्याख्यातं- माहिषं मूत्रं क्षीरेण गव्येन पिबेत्; प्रमादव्याख्यानमिदं, यस्माज्जेज्जटाचार्यादीनामनुमतं न भवति| उष्ट्रीत्यादि| केचिदत्र क्षीरं त्रिकटुकसंयुक्तमाहुः, तन्त्रान्तरप्रामाण्यात्| पिप्पलीमित्यादि| पूर्वोक्तेन वातशोणितोक्तेन| सैन्धवाजमोदाप्रक्षेपयुक्तं वा दन्तीतैलं; तदेव तैलमार्द्रशृङ्गवेररसाढकशतपक्वं वातशूले वातरुज्यवचार्यम्; अन्ये तु तिलतैलमेव साधयन्ति, तन्त्रान्तरप्रामाण्यात्; आर्द्रशृङ्गवेरमार्द्रकं, तद्रसं चतुर्गुणम्| विपक्वं क्षीरावशिष्टं पक्वम्| चव्येत्यादि| पयसा चतुर्गुणेनैव| सरलदेवदारुचित्रकमेव पयसेत्यर्थः; सरला त्रिवृत्| मुरङ्ग्यादयो वा तथैव च; मुरङ्गी शोभाञ्जनकः| श्यामा वृद्धदारुकः| ज्योतिष्कः काकमर्दनिका| हिङ्गुमाषकस्वर्जिकाक्षारमाषकचतुष्टयसंयुक्तं ‘मासमर्धमासं वा’ इति शेषः| स्नुहीत्यादि| अत्र त्रिःसप्तकृत्वो भावना| स्नुही सेहुण्डः, स च बहुकण्टकः श्रेष्ठः| कालेनेति यावता कालेन शक्नुयाद्भक्षयितुं, पिप्पलीसहस्रमेकद्वित्रिचतुष्टयत्वेन विरेकार्थम्| पथ्येत्यादि| उत्कारिकां लप्सिकाम्| हरीतकीत्यादि| खजः मन्थानम्| हरीतकीक्वाथकाञ्जिकदधीनि प्रत्येकं घृतचतुर्गुणानि| गव्य इत्यादि|- गव्ये पयसीति आढकप्रमाणे, महावृक्षक्षीरं प्रस्थं, महावृक्षः सेहुण्डः, तज्जं च नवनीतं महावृक्षक्षीरपादं, द्रवानुक्तौ जलमत्र चतुर्गुणम्| चव्येत्यादि| त्रिफलात्रिकटुकद्रव्याणां प्रत्येकमर्धकार्षिका भागाः, न हि त्रिफला त्रिकटुकं वा द्रव्यमेकमिति| केचिद्द्रवस्याल्पत्वाज्जलमपि चतुर्गुणमित्याहुः| एषां विषयमाह- एतानीत्यादि| तिल्वकघृतं वातव्याध्युक्तं चतुर्थं येषां तानि तिल्वकघृतचतुर्थानि| मूत्रेत्यादि|- मूत्रद्रवेणासवादयोऽनुकल्पेन महावृक्षक्षीरप्रस्थप्रक्षेपेण सम्यक्कृताः| विरेचनद्रव्यकषायमित्यादि|- त्रिवृदादिकषायं वा शुण्ठीदेवदारुचूर्णकर्षप्रक्षेपाढ्यम्||१०||
Adhikarana 9 (11) · Śloka 11
वमनविरेचनशिरोविरेचनद्रव्याणां पालिका भागाः पिप्पल्यादिवचादिहरिद्रादिपरिपठितानां च द्रव्याणां श्लक्ष्णपिष्टानां यथोक्तानां च लवणानां तत्सर्वं मूत्रगणे प्रक्षिप्य महावृक्षक्षीरप्रस्थं च मृद्वग्निनाऽवघट्टयन् विपचेदप्रदग्धकल्कं, तत्साधुसिद्धमवतार्य शीतीभूतमक्षमात्रा गुटिका वर्तयेत्, तासामेकां द्वे तिस्रो वा गुटिका बलापेक्षया मासांस्त्रींश्चतुरो वा सेवेत, एषाऽऽनाहंवर्तिक्रिया विशेषेण महाव्याधिषूपयुज्यते (विशेषेण) कोष्ठजांश्च कृमीनपहन्ति कासश्वासकृमिकुष्ठप्रतिश्यायारोचकाविपाकोदावर्तांश्च नाशयति ||११||
इदानीमनलदीपनीं गुपितानिलसंवलितमलानुलोमनीमाभ्यन्तरीं मूत्रवर्तिं निर्दिशन्नाह- वमनेत्यादि| संशोधनसंशमनीयाध्यायोदितानि वमनविरेचनशिरोविरेचनद्रव्याणि मदनफलादित्रिवृदादिविडङ्गादीनि, द्रव्यसङ्ग्रहणीयाध्याये पिप्पल्यादिवचादिहरिद्रादयो निर्दिष्टाः, लवणान्यन्नपानाध्याये परिपठितानि सैन्धवादीनि, मूत्रगणो गोमूत्रादिर्द्रवद्रव्यपठितः; तेषां यथालाभं पालिका भागाः| यथालाभमेव गवादीनां मूत्रेण व्यस्तसमस्तेन पिष्ट्वा चतुर्गुणैरष्टगुणैर्वा विपाच्यम्| अङ्गुष्ठप्रमाणा वर्तयः कर्तव्याः| ताः पुनरधममध्यमोत्तमपुरुषादिबलापेक्षया एकद्वित्रिसङ्ख्योपलक्षिता भक्षयितव्याः| तत्र च गवादिमूत्रमेवानुपानम्| तासामभ्यासे कालावधिर्मासास्त्रयश्चत्वारो वा; फलं तु मेहादिमहाव्याधिहरणं कोष्ठकृमिहरणं च||११||
Adhikarana 10 (12) · Śloka 12
मदनफलमज्जकुटजजीमूतकेक्ष्वाकुधामार्गवत्रिवृत्त्रिकटुकसर्षपलवणानि महावृक्षक्षीरमूत्रयोरन्यतरेण पिष्ट्वाऽङ्गुष्ठमात्रां वार्तिं कृत्वोदरिण आनाहे तैललवणाभ्यक्तगुदस्यैकां द्वे तिस्रो वा पायौ निदध्यात्, एषाऽऽनाहवर्तिक्रिया वातमूत्रपुरीषोदावर्ताध्मानानाहेषु विधेया ||१२||
अभ्यन्तरवर्तिप्रसङ्गेन फलवर्तिं निर्दिशन्नाह- मदनफलेत्यादि| जीमूतको देवदाली, इक्ष्वाकुः कटुतुम्बी, धामार्गवो महाकोशातकी| ‘विपाच्य’ इत्यनुवर्तनीयम्| पाके तु मूत्रमेवानुवर्तनीयम्| पायौ गुदे| न केवलं उदरानाहे वातमूत्रपुरीषोदावर्ताध्मानानाहेषु विधेयेति| ‘क्षारमूत्रयोरन्यतरेण’ इत्यन्ये पठन्ति; तत्र क्षारः क्षारोदकं पेषणवचनात् ||१२||
Adhikarana 11 (13) · Śloka 13
प्लीहोदरिणः स्निग्धस्विन्नस्य दध्ना भुक्तवतो वामबाहौ कूर्पराभ्यन्तरतः सिरां विध्येत्, विमर्दयेच्च पाणिना प्लीहानं रुधिरस्यन्दनार्थं; ततः संशुद्धदेहं समुद्रशुक्तिकाक्षारं पयसा पाययेत, हिङ्गुसौवर्चिके वा क्षीरेण, स्रुतेन पलाशक्षारेण वा यवक्षारं, किंशुकक्षारोदकेन वा बहुशः स्रुतेन यवक्षारं, पारिजातकेक्षुरकापामार्गक्षारं वा, तैलसंसृष्टं शोभाञ्जनकयूषं पिप्पलीसैन्धवचित्रकयुक्तं, पूतिकरञ्जक्षारं वाऽम्लस्रुतं विड्लवणपिप्पलीप्रगाढम् ||१३||
प्लीहेत्यादि| दधिभोजनं रक्तोत्क्लेशाय तदहरेव, कफव्याधौ वमने कर्तव्ये प्राक् कफोत्क्लेशकरद्रव्योपयोगवत्| कूर्परं भुजमध्यम्| रुधिरस्यन्दनार्थं रक्तस्रावणार्थं; सिराव्यधविध्युक्तोऽपि सिराव्यधः पुनरिहोक्तः, प्रकरणवशात्; अतो न पुनरुक्तदोषमावहति| तत इत्यादि| संशुद्धदेहं वमनविरेचनाभ्याम्| पारिजातः प्रसिद्धः| इक्षुरकः कोकिलाक्षकः| पारिभद्रकेक्षुरकेति केचित् पठन्ति| शोभाञ्जनेत्यादि| अम्लं काञ्जिकम्| पूतिकरञ्जश्चिरबिल्वः, कण्टकीकरञ्ज इत्यन्ये| कल्पनामाह- कण्टकीकरञ्जक्षारमर्धपलमात्रं षड्गुणाम्लकाञ्जिकेन बहुशः परिस्रुतं पिप्पलीविड्लवणचूर्णाक्षप्रक्षेपम्| विडस्थाने सैन्धवमिति केचित् पठन्ति||१३||
Adhikarana 12 (14) · Śloka 14
पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरयवक्षारसैन्धवानां पालिका भागाः, घृतप्रस्थं तत्तुल्यं च क्षीरं तदैकध्यं विपाचयेत्, एतत् षट्पलकं नाम सर्पिः प्लीहाग्निसङ्गगुल्मोदरोदावर्तश्वयथुपाण्डुरोगकासश्वासप्रतिश्यायोर्ध्ववातविषमज्वरानपहन्ति |
मन्दाग्निर्वा हिङ्ग्वादिकं चूर्णमुपयुञ्जीत ||१४||
पिप्पलीत्यादि| केचिदत्र भिषजश्चतुर्गुणं पानीयमाददते; तन्न, जेज्जटेन निषिद्धत्वात्| अस्मिन् योगे ‘कोलकुलत्थपूतीकरोहीतकक्वाथं द्विगुणमावाप्य’ इति केचित् पठन्ति; तन्न, सोऽपि जेज्जटेन निषिद्धत्वात्||१४||
Adhikarana 13 (15-16) · Śloka 16
यकृद्दाल्येऽप्येष एव क्रियाविभागः |
विशेषतस्तु दक्षिणबाहौ सिराव्यधः ||१५||
मणिबन्धं सकृन्नाम्य वामाङ्गुष्ठसमीरिताम् |
दहेत् सिरां शरेणाशु प्लीह्नो वैद्यः प्रशान्तये ||१६||
यकृद्दाल्य इत्यादि| मणिबन्धः पाणिमूलं, सकृत् किञ्चिन्नामयित्वा वामाङ्गुष्ठं प्रति सम्यगीरितां गतां सिरां, शरः प्रसिद्धः, तमग्निवर्णं कृत्वा दहेत्||१५-१६||
Adhikarana 14 (17) · Śloka 17
बद्धगुदे परिस्राविणि च स्निग्धस्विन्नस्याभ्यक्तस्याधो नाभेर्वामतश्चतुरङ्गुलमपहाय रोमराज्या उदरं पाटयित्वा चतुरङ्गुलप्रमाणमन्त्राणि निष्कृष्य निरीक्ष्य बद्धगुदस्यान्त्रप्रतिरोधकरमश्मानं बालं वाऽपोह्य मलजातं वा ततो मधुसर्पिर्भ्यामभ्यज्यान्त्राणि यथास्थानं स्थापयित्वा बाह्यं व्रणमुदरस्य सीव्येत् |
परिस्राविण्यप्येवमेव शल्यमुद्धृत्यान्त्रस्रावान् संशोध्य , तच्छिद्रमान्त्रं समाधाय कालपिपीलिकाभिर्दंशयेत्, दष्टे च तासां कायानपहरेन्न शिरांसि, ततः पूर्ववत् सीव्येत्, सन्धानं च यथोक्तं कारयेत्, यष्टीमधुकमिश्रया च कृष्णमृदाऽवलिप्य बन्धेनोपचरेत्, ततो निवातमागारं प्रवेश्याचारिकमुपदिशेत्, वासयेच्चैनं तैलद्रोण्यां सर्पिर्द्रोण्यां वा पयोवृत्तिमिति ||१७||
ततो बद्धगुदपरिस्राविणोरुपक्रमप्राप्तां चिकित्सामुपदिशन्नाह- बद्धगुद इत्यादि| स्विन्नस्येति द्रवस्वेदेन| नाभेर्वामत इत्यादि|- वामभागे नाभेरधस्ताच्चतुरङ्गुलमपहाय रोमराज्याश्चतुरङ्गुलप्रमाणस्तिर्यगेव छेदः; तत्र लोम्नि तिर्यगवस्थितेऽनुलोमगं च शस्त्रपातनमुक्तम्| अन्त्रप्रतिरोधकरमश्मानं बालं वाऽपोह्य मलजातं वेति तत्र मलरोधकारणमाभ्यन्तरमश्मकेशतृणादि, बाह्यं तु विषमविहाराभिघातेनान्त्रावयवानां परस्परसम्मूर्च्छनं, न तत्रान्त्रच्छेदनमिति परिस्राव्युदराद्विशेषः| अत एव परिस्राविण्येव पृथगन्त्रसन्धानं विशेषेण वक्ष्यति| तत्राभ्यन्तरेऽश्मादावत्यन्ताबाधकरे शल्यनिमित्तमेवान्त्रच्छेदं कृत्वाऽश्मादिशल्यमपहरेत्| अन्त्रच्छिद्रं तु वक्ष्यमाणन्यायेनानुसन्धाय सर्पिर्मध्वक्तं निष्कृष्टमन्त्रमङ्गुष्ठाङ्गुलिशलाकादिभिर्यथास्थानं स्थापयेत्| मूर्च्छितमन्त्रं तु वीक्ष्य पाणिना बन्धावमोक्षेणानुलोमयेत्| बाह्यव्रणं रक्तासेचनादिविधिमपेक्ष्य सम्यक् सीव्येत्| तैलसर्पिर्द्रोणीवासनमुदरस्य व्रणित्वेनाध्मानक्लेशनिवृत्त्यर्थम्| पयसा केवलेन वृत्तिरिति यावत्| गुदपिच्छास्रनिवृत्त्या सम्यगन्त्रस्य सन्धानदृढीभावनिश्चयः, अन्यथा खल्वाहारेण तत्किट्टेन वा पिपीलिकामुखदंशसन्धानं मृदु विघटेत सम्यक् सन्धावपि, तस्मादनुक्रमेणैव पयोजाङ्गलमांसरसभोजनेन त्रिभागार्धभागवारिणा च प्राकृतभोजनप्राप्तिः | सांशयिकं चैतत् कर्म, तस्मादापृच्छ्येश्वरं प्रत्याख्यायाचरेत्||१७||
Adhikarana 15 (18) · Śloka 18
दकोदरिणस्तु वातहरतैलाभ्यक्तस्योष्णोदकस्विन्नस्य स्थितस्याप्तैः सुपरिगृहीतस्याकक्षात् परिवेष्टितस्याधोनाभेर्वामतश्चतुरङ्गुलमपहाय रोमराज्या व्रीहिमुखेनाङ्गुष्ठोदरप्रमाणमवगाढं विध्येत्, तत्र त्रप्वादीनामन्यतमस्य नाडीं द्विद्वारां पक्षनाडीं वा संयोज्य दोषोदकमवसिञ्चेत्, ततो नाडीमपहृत्य तैललवणेनाभ्यज्य व्रणं बन्धेनोपचरेत्, न चैकस्मिन्नेव दिवसे सर्वं दोषोदकमपहरेत्, सहसा ह्यपहृते तृष्णाज्वराङ्गमर्दातीसारश्वासकासपाददाहा उत्पद्येरन्नापूर्यते वा भृशतरमुदरमसञ्जातप्राणस्य, तस्मात्ततीयचतुर्थपञ्चमषष्ठाष्टमदशमद्वादशषोडशरात्राणामन्यतममन्तरीकृत्य दोषोदकमल्पाल्पमवसिञ्चेत्; निःसृते च दोषे गाढतरमाविककौशेयचर्मणामन्यतमेन परिवेष्टयेदुदरं, तथा नाध्मापयति वायुः; षण्मासांश्च पयसा भोजयेज्जाङ्गलरसेन वा, ततस्त्रीन्मासानर्धोदकेन पयसा फलाम्लेन जाङ्गलरसेन वा, अवशिष्टं मासत्रयमन्नं लघु हितं वा सेवेत, एवं संवत्सरेणागदो भवति ||१८||
षण्मासानित्यादि| मासान् षड्यावल्लघु हितमन्नं पयसा क्षीरेण भोजयेत्| क्षीरेणैवोदककार्यं कारयेत्, कफवाताधिकत्वं च वीक्ष्य जाङ्गलरसेन भोजयेत्, रसेनैवोदककार्यं, तत ऊर्ध्वं त्रीन्मासान् अर्धोदकेन पयसा दोषापेक्षया जाङ्गलरसेन वा लघु हितमन्नं भोजयेत्, ताभ्यामेवोदककार्यं कारयेत्| अवशिष्टं च मासत्रयं लघु हितमन्नं भोजयेत्| उदकेनैवोदककार्यम्| चरकमतानुसारिणा वाग्भटेन क्षीरेणैव षण्मासान् वृत्तिरभिहिता, नान्नपानीयाभ्यां; तथा च- “स्यात् क्षीरवृत्तिः षण्मासांस्त्रीन् पेयां पयसा पिबेत्| त्रींश्चान्यान् पयसैवाद्यात् फलाम्लेन रसेन वा|| अल्पशः स्नेहलवणं जीर्णश्यामाककोद्रवम्” (वा. चि. १५) इति||१८||
Adhikarana 16 (19) · Śloka 19
भवति चात्र- आस्थापने चैव विरेचने च पाने तथाऽऽहारविधिक्रियासु |
सर्वोदरिभ्यः कुशलैः प्रयोज्यं क्षीरं शृतं जाङ्गलजो रसो वा ||१९||
कृतकर्मणो जलनिषेधं तदभावे चोक्तं द्रवं निर्दिशन्नाह- भवतीत्यादि| चकारद्वयकरणेनोदरपाटनादावनुक्तेऽपीति समुच्चीयते||१९||
Adhikarana puShpikA · Śloka 14
इति सुश्रुतसंहितायां चिकित्सास्थाने उदरचिकित्सितं नाम चतुर्दशोऽध्यायः ||१४||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने चतुर्दशोऽध्यायः||१४||