Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

12. pramēhapiḍakācikitsitam

Adhikarana 1 (1-3) · Śloka 3

अथातः प्रमेहपिडकाचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| शराविकाद्या नव पिडकाः प्रागुक्ताः; ताः प्राणवतोऽल्पास्त्वङ्मांसप्राप्ता मृद्व्योऽल्परुजः क्षिप्रपाकभेदिन्यश्च साध्याः ||३||

🔊 Audio coming soon

एताः शराविकाद्याः प्रमेहपिडकाः प्रमेहं विनाऽपि भवन्ति; उक्तं च- “विना प्रमेहमप्येता जायन्ते दुष्टमेदसः” (च. सू. १७) इति, यद्यप्येवं तथाऽपि प्रमेहानन्तरकालजातानां प्रमेहं विनाऽपि जातानां चैकमिह चिकित्सितमासां, तुल्यदोषदूष्यत्वात्||१-३||

Adhikarana 2 (4) · Śloka 4

ताभिरुपद्रुतं प्रमेहिणमुपचरेत् | तत्र पूर्वरूपेष्वपतर्पणं वनस्पतिकषायं बस्तमूत्रं चोपदिशेत्; एवमकुर्वतस्तस्य मधुराहारस्य मूत्रं स्वेदः श्लेष्मा च मधुरीभवति प्रमेहश्चाभिव्यक्तो भवति, तत्रोभयतः संशोधनमासेवेत; एवमकुर्वतस्तस्य दोषाः प्रवृद्धा मांसशोणिते प्रदूष्य शोफं जनयन्त्युपद्रवान् वा कांश्चित्, तत्रोक्तः प्रतीकारः सिरामोक्षश्च; एवमकुर्वतस्तस्य शोफो वृद्धोऽतिमात्रं रुजो विदाहमापद्यते, तत्र शस्त्रप्रणिधानमुक्तं व्रणक्रियोपसेवा च; एवमकुर्वतस्तस्य पूयोऽभ्यन्तरमवदार्योत्सङ्गं महान्तमवकाशं कृत्वा प्रवृद्धो भवत्यसाध्यः; तस्मादादित एव प्रमेहिणमुपक्रमेत् ||४||

🔊 Audio coming soon

ताभिरित्यादि| “पिडकानां पूर्वरूपं प्रमेहा” इति तन्त्रान्तरोक्तत्वात् पिडकाचिकित्सितेऽपि प्रमेहचिकित्सितमुक्तम्, अथवा प्रमेहचिकित्सितेनैव पिडकोपशमो भवतीति| तत्रेत्यादि| अपतर्पणमुपवासादि| वनस्पतयो वटादयः, बस्तश्छागः| एवमित्यादि एवमकुर्वतस्तस्य हीनप्रथमकर्मगुणस्य मधुराहारस्य मूत्रादयो मधुरीभवन्ति| उभयतः संशोधनमिति वमनं विरेचनं च| एवमित्यादि एवमकुर्वतस्तस्य हीनद्वितीयकर्मगुणस्य, तत्रोक्तः प्रतीकारः तत्र शोफे उक्तः, प्रतीकारः सूत्रस्थाने द्विव्रणीये च, स पुनरपतर्पणादिरेकादशविधो विरेकान्तः| सिरामोक्षश्चेति न जलौकापातनमधःकायस्य पिडकाधिष्ठानस्यातिविपुलत्वात्| अत्र शोफप्रतिपादनेन तदनन्तरभाविनी प्रमेहपिडकाऽपि प्रतिपादिता| एवमित्यादि|- एवमकुर्वतस्तस्य हीनतृतीयकर्मगुणस्य शस्त्रप्रणिधानं छेद्यभेद्यादिना, व्रणक्रियोपसेवा चेति षष्टिव्रणोपक्रमाणां च यथास्वमुपसेवनमित्यतीतावेक्षणम्| अत्र शोफस्य विदग्धस्य याप्यत्वेनासाध्यत्वम्| एवमित्यादि|- एवमकुर्वतस्तस्य हीनचतुर्थकर्मगुणस्य नातिसकलोपद्रवस्यानतिमहाशयोत्सङ्गादौ व्रणस्य शिलाजत्वाद्यनभ्यासे तु प्रयत्नाद्यतिशयाद्याप्यत्वेनासाध्यवत्त्वम्| शिलाजत्वाद्यभ्यासे तु हीनपञ्चकर्मगुणस्य अनुपक्रम्यत्वादसाध्यतमत्वम्| उत्सङ्ग इव उत्सङ्गः, व्रणाशये हि चिरकालपूयावस्थानेनावदारितमन्तःप्रदेशान्तरं निम्नमुत्सङ्गतुल्यत्वात् ‘उत्सङ्ग’ इत्युच्यते, उत् ऊर्ध्वं पूयस्य सङ्ग उत्सङ्ग, इत्यन्ये| तस्मादित्यादि आदित इति ल्यब्लोपे पञ्चमी; तस्मादाद्यं पूर्वरूपमेव वीक्ष्य प्रमेहिणमुपक्रमेतेत्यर्थः||४||

Adhikarana 3 (5) · Śloka 5

भल्लातकबिल्वाम्बुपिप्पलीमूलोदकीर्यावर्षाभूपुनर्नवाचित्रकशटीस्नुहीवरुणकपुष्करदन्तीपथ्या दशपलोन्मिता यवकोलकुलत्थांश्च प्रास्थिकान् सलिलद्रोणे निष्क्वाथ्य चतुर्भागावशिष्टेऽवतार्य वचात्रिवृत्कम्पिल्लकभार्ङ्गीनिचुलशुण्ठीगजपिप्पलीविडङ्गरोध्रशिरीषाणां भागैरर्धपलिकैर्धृतप्रस्थं विपाचयेन्मेहश्वयथुकुष्ठगुल्मोदरार्शःप्लीहविद्रधिपिडकानां नाशनं नाम्ना धान्वन्तरम् ||५||

🔊 Audio coming soon

भल्लातकेत्यादि| अनार्षोऽयं योगः, जेज्जटाचार्येण नोक्तत्वात्; तस्मान्न पठनीयः||५||

Adhikarana 4 (6) · Śloka 6

दुर्विरेच्या हि मधुमेहिनो भवन्ति मेदोऽभिव्याप्तशरीरत्वात्, तस्मात्तीक्ष्णमेतेषां शोधनं कुर्वीत | पिडकापीडिताः सोपद्रवाः सर्व एव प्रमेहा मूत्रादिमाधुर्ये मधुगन्धसामान्यात् पारिभाषिकीं मधुमेहाख्यां लभन्ते ||६||

🔊 Audio coming soon

दुर्विरेच्या इत्यादि||६||

Adhikarana 5 (7) · Śloka 7

न चैतान् कथञ्चिदपि स्वेदयेत्, मेदोबहुत्वादेतेषां विशीर्यते देहः स्वेदेन ||७||

🔊 Audio coming soon

न चेत्यादि| स्वेदनं स्वेदावचारणीये प्रमेहिणां निषिद्धमपि महादोषत्वप्रतिपादनाय पुनरपि निषिद्धम्||७||

Adhikarana 6 (8) · Śloka 8

रसायनीनां च दौर्बल्यान्नोर्ध्वमुत्तिष्ठन्ति प्रमेहिणां दोषाः, ततो मधुमेहिनामधःकाये पिडकाः प्रादुर्भवन्ति ||८||

🔊 Audio coming soon

कुतः पुनरधोदेहे एव पिडकासम्भव इत्याह- रसायनीनां च दौर्बल्यादित्यादि| रसायनीनामित्यत्रादिशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः, तेन रसपित्तकफशोणितवहानां धमनीनामित्यर्थः| दौर्बल्यादिति सर्वशरीरगतस्य सर्वद्रवधातोरपानव्यनाभ्यामधोऽनुलोम्यमानत्वाद्रसादिवहानामपि धमनीनामध एव बलवत्त्वं नतूर्ध्वमित्यर्थः; ‘रसहारिणीनां’ इति केचित् पठन्ति||८||

Adhikarana 7 (9) · Śloka 9

अपक्वानां तु पिडकानां शोफवत् प्रतीकारः, पक्वानां व्रणवदिति; तैलं तु व्रणरोपणमेवादौ कुर्वीत, आरग्वधादिकषायमुत्सादनार्थे, शालसारादिकषायं परिषेचने, पिप्पल्यादिकषायं पानभोजनेषु, पाठाचित्रकशार्ङ्गेष्टाक्षुद्राबृहतीसारिवासोमवल्कसप्तपर्णारग्वधकुटजमूलचूर्णानि मधुमिश्राणि प्राश्नीयात् ||९||

🔊 Audio coming soon

अपक्वानामित्यादि| व्रणरोपणमिति रोपणद्रव्यसिद्धं मिश्रकाद्युक्तं, रोपणावस्थायां रोपणे कर्तव्ये आदौ तैलमेव, नान्यत् कषायादिकं; सर्वेष्वेव मेहेष्वतिप्रवृत्त्या वातवृद्धेः, तैलस्य वातदोषप्रत्यनीकत्वात्, तथा बद्धमूत्रत्वेन प्रमेहव्याधिप्रत्यनीकत्वाच्च| अन्ये तु ‘एलादौ कुर्वीत’ इति पठन्ति, “एलातगरकुष्ठ” (सू. ३८) इत्यादिरेलादिः| उत्सादनं निम्नव्रणस्योन्नतिकरणम्| उत्सादनोपक्रमावस्थायामारग्वधादिनैवोत्सादनम्| एवं वक्ष्यमाणेषु परिषेचनादिष्वत्रोक्तवर्गेणैव नियमः| पाठाचित्रकेत्यादि| शार्ङ्गेष्टा काकतिक्ता ‘भुम्भुरुडक’ इति लोके| क्षुद्रा लघुकण्टकारिका| सोमवल्कः कट्फलः| अयं योगः सामान्यचूर्णयोजनपरिभाषया योज्यः| तथाहि- “कर्षश्चूर्णस्य कल्कस्य गुटिकानां च सर्वशः| द्रवशुक्त्याऽवलेढव्यः पातव्यश्च चतुर्द्रवः”- इति||९||

Adhikarana 8 (10) · Śloka 10

शालसारादिवर्गकषायं चतुर्भागावशिष्टमवतार्य परिस्राव्य पुनरुपनीय साधयेत्, सिध्यति चामलकरोध्रप्रियङ्गुन्दन्तीकृष्णायस्ताम्रचूर्णान्यावपेत्, एतदनुपदग्धं लेहीभूतमवतार्यानुगुप्तं निदध्यात्, ततो यथायोगमुपयुञ्जीत, एष लेहः सर्वमेहानां हन्ता ||१०||

🔊 Audio coming soon

शालसारेत्यादि| शालसारादिवर्गपलशतं षोडशगुणे जले क्वथितं पादावशेषं, तस्मिन् सिध्यत्यामलकादिचूर्णं पादिकमित्येके; अपरे च कुटजावलेहावापप्रमाणोहेनामलकादीनां षण्णां प्रत्येकं पलमावापः||१०||

Adhikarana 9 (11) · Śloka 11

त्रिफलाचित्रकत्रिकटुकविडङ्गमुस्तानां नव भागास्तावन्त एव कृष्णायश्चूर्णस्य, तत्सर्वमैकध्यं कृत्वा यथायोगं मात्रां सर्पिर्मधुभ्यां संसृज्योपयुञ्जीत, एतन्नवायसम्; एतेन जाठर्यं न भवति, सन्नोऽग्निराप्यायते, दुर्नामशोफपाण्डुकुष्ठरोगाविपाककासश्वासप्रमेहाश्च न भवन्ति ||११||

🔊 Audio coming soon

नवायसमाह- त्रिफलेत्यादि| कृष्णायश्चूर्णस्य कृष्णलौहचूर्णस्य| जाठर्यं स्थौल्यम्||११||

Adhikarana 10 (12-19) · Śloka 19

शालसारादिनिर्यूहे चतुर्थांशावशेषिते | परिस्रुते ततः शीते मधु माक्षिकमावपेत् ||१२|| फाणितीभावमापन्नं गुडं शोधितमेव च | श्लक्ष्णपिष्टानि चूर्णानि पिप्पल्यादिगणस्य च ||१३|| ऐकध्यमावपेत् कुम्भे संस्कृते घृतभाविते | पिप्पलीचूर्णमधुभिः प्रलिप्तेऽन्तःशुचौ दृढे ||१४|| श्लक्ष्णानि तीक्ष्णलोहस्य तत्र पत्राणि बुद्धिमान् | खदिराङ्गारतप्तानि बहुशः सन्निपातयेत् ||१५|| सुपिधानं तु तं कृत्वा यवपल्ले निधापयेत् | मासांस्त्रींश्चतुरोवाऽपि यावदालोहसङ्क्षयात् ||१६|| ततो जातरसं तं तु प्रातः प्रातर्यथाबलम् | निषेवेत यथायोगमाहारं चास्य कल्पयेत् ||१७|| कार्श्यकृद्बलिनामेष सन्नस्याग्नेः प्रसाधकः | शोफनुद्गुल्महृत् कुष्ठमेहपाण्ड्वामयापहः ||१८|| प्लीहोदरहरः शीघ्रं विषमज्वरनाशनः | अभिष्यन्दापहरणो लोहारिष्टो महागुणः ||१९||

🔊 Audio coming soon

शालसारादीत्यादि| शालसारादिद्रव्यपलशतस्य जलचतुर्द्रोणे पक्वस्य चतुर्थांशावशेषितो निर्यूहः क्वाथः| तस्मिन् पूते शीते पञ्चशतपलप्रमाणं मधु मद्यं, माक्षिकस्येदं माक्षिकं, मध्वासवं प्रक्षिपेत्; गयी तु मध्वेव मन्यते| फाणितीभावमापन्नमिति क्रियाविशेषणम्| गुडं शोधितमेव चेति गुडस्तस्मिन्नेव कषाये विलायितः पूतः शोधित उच्यते, तादृशस्य गुडस्यापि पञ्चाशत्पलानि| पिप्पल्यादिचूर्णस्य पञ्चविंशतिपलानि, तावन्त्येव लोहपत्राणाम्| गयी तु तत्र पुराणस्य मधुनः कषायमधुरीभावमात्रं प्रमाणं, मधुमान एव जीर्णगुडः, पिप्पल्यादिचूर्णमानं तु यावता नातिव्यक्तं कटुत्वं भवति| मधुप्रमाणपादिकं पिप्पल्यादिचूर्णस्य मानं, लौहपत्रप्रमाणमपि तावदेवेत्यन्ये| आहारं चास्य कल्पयेद्विशिष्टदोषारब्धरोगजातिप्रत्यनीकम्| अत्राभिष्यन्दशब्देन मूत्रनिःस्यन्दोऽभिधीयते||१२-१९||

Adhikarana 11 (20) · Śloka 20

प्रमेहिणो यदा मूत्रमपिच्छिलमनाविलम् | विशदं तिक्तकटुकं तदाऽऽरोग्यं प्रचक्षते ||२०||

🔊 Audio coming soon

प्रमेहिण इत्यादि| अनाविलं प्रसन्नम्| विशदं रूक्षम्| मूत्रस्य कटुतिक्तत्वं पिपीलिकामक्षिकादीनामपसर्पणेन ज्ञातव्यम्| अन्ये त्वेवं पठन्ति- “प्रमेहिणो यदा मूत्रमनाविद्धमपिच्छिलम्”- इति; तत्रापि अनाविद्धं प्रसन्नम्||२०||

Adhikarana puShpikA · Śloka 12

इति सुश्रुतसंहितायां चिकित्सास्थाने प्रमेहपिडकाचिकित्सितं नाम द्वादशोऽध्यायः ||१२||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने द्वादशोऽध्यायः||१२||