Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

15. mūḍhagarbhacikitsitam

Adhikarana 1 (1-3) · Śloka 3

अथातो मूढगर्भचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| नातोऽन्यत् कष्टतममस्ति यथा मूढगर्भशल्योद्धरणम्; अत्र हि योनियकृत्प्लीहान्त्रविवरगर्भाशयानां मध्ये कर्म कर्तव्यं स्पर्शेन, उत्कर्षणापकर्षणस्थानापवर्तनोत्कर्तनभेदनच्छेदनपीडनर्जूकरणदारणानि चैकहस्तेन गर्भं गर्भिणीं चाहिंसता, तस्मादधिपतिमापृच्छ्य परं च यत्नमास्थायोपक्रमेत ||३||

🔊 Audio coming soon

उत्कर्षणम् अधोगतस्योर्ध्वीकरणम्, अपकर्षणम् ऊर्ध्वगतस्याधः कर्षणं, स्थानापवर्तनं स्थानेषु सक्तस्य गर्भशय्यात उत्तानस्यावाङ्मुखीकरणम्, उद्वर्तनम् अवाङ्मुखस्योत्तानीकरणम्; अत्र केचित् ‘स्थानव्यावर्तनं’ इति पठन्ति; तत्र स्थानं स्थितिः; स्थाने गर्भशय्यायां तिर्यगादिस्थितस्योत्तानस्याधोव्यावृत्त्या स्थापनम्; ऊर्ध्वस्य कस्यचिदङ्गस्य छेदनमुत्कर्तनं, छेदनमिति मृतस्य तु तेषु तेषु स्थानेषु सक्तस्य तस्य तस्याङ्गस्य छेदनं द्वैधीकरणं, गर्भकुक्ष्यादेराध्मातस्य विदारणं भेदनं, पीडनं चम्पनं (वलनम्), ऋजूकरणं वक्रस्य प्राञ्जलीकरणं, दारणं विदारणम्||१-३||

Adhikarana 2 (4) · Śloka 4

तत्र समासेनाष्टविधा मूढगर्भगतिरुद्दिष्टा; स्वभावगता अपि त्रयः सङ्गा भवन्ति- शिरसो वैगुण्यादंसयोर्जघनस्य वा ||४||

🔊 Audio coming soon

तत्रेत्यादि| शिरसो वैगुण्यात् वक्रत्वात्, अंसयोर्जघनस्य च वैगुण्यादित्यनुवर्तते; वैगुण्यं वक्रता| अंसो बाहुशिरः, जघनं कटेरग्रभागः||४||

Adhikarana 3 (5-8) · Śloka 8

जीवति तु गर्भे सूतिकागर्भनिर्हरणे प्रयतेत | निर्हर्तुमशक्ये च्यावनान् मन्त्रानुपशृणुयात्; तान् वक्ष्यामः ||५|| ‘इहामृतं च सोमश्च चित्रभानुश्च भामिनि | उच्चैःश्रवाश्च तुरगो मन्दिरे निवसन्तु ते ||६|| इदममृतमपां समुद्धृतं वै तव लघु गर्भमिमं प्रमुञ्चतु स्त्रि | तदनलपवनार्कवासवास्ते सह लवणाम्बुधरैर्दिशन्तु शान्तिम् ||७|| मुक्ताः पशोर्विपाशाश्च मुक्ताः सूर्येण रश्मयः | मुक्तः सर्वभयाद्गर्भ एह्येहि विरमावितः ||८||

🔊 Audio coming soon

जीवतीत्यादि| प्रयतेत यत्नं कुर्वीत| केचिदाचार्या मन्त्रव्याख्यानं न कुर्वन्ति, केचित् कुर्वन्ति तदाह- इहेत्यादि| अमृतं समुद्रमन्थनोद्भूतं, चित्रभानुरादित्यः, भामिनि हे वरस्त्रि, उच्चैःश्रवा अमृतमन्थनोत्पन्नस्तुरगः शक्रवाहनः, लघु शीघ्रं, दिशन्तु प्रयच्छन्तु||५-८||

Adhikarana 4 (9-11) · Śloka 11

औषधानि च विदध्याद्यथोक्तानि | मृते चोत्तानाया आभुग्नसक्थ्या वस्त्राधारकोन्नमितकट्या धन्वननगवृत्तिकाशाल्मलीमृत्स्नघृताभ्यां म्रक्षयित्वा हस्तं योनौ प्रवेश्य गर्भमुपहरेत् | तत्र सक्थिभ्यामागतमनुलोममेवाञ्छेत्, एकसक्थ्ना प्रतिपन्नस्येतरसक्थि प्रसार्यापहरेत्, स्फिग्देशेनागतस्य स्फिग्देशं प्रपीड्योर्ध्वमुत्क्षिप्य सक्थिनी प्रसार्यापहरेत्, तिर्यगागतस्य परिघस्येव तिरश्चीनस्य पश्चादर्धमूर्ध्वमुत्क्षिप्य पूर्वार्धमपत्यपथं प्रत्यार्जवमानीयापहरेत्, पार्श्वापवृत्तशिरसमंसं प्रपीड्योर्ध्वमुत्क्षिप्य शिरोऽपत्यपथमानीयापहरेत्, बाहुद्वयप्रतिपन्नस्योर्ध्वमुत्पीड्यांसौ शिरोऽनुलोममानीयापहरेत्, द्वावन्त्यावसाध्यौ मूढगर्भौ, एवमशक्ये शस्त्रमवचारयेत् ||९|| सचेतनं च शस्त्रेण न कथञ्चन दारयेत् | दार्यमाणो हि जननीमात्मानं चैव घातयेत् ||१०|| अविषह्ये विकारे तु श्रेयो गर्भस्य पातनम् | न गर्भिण्या विपर्यासस्तस्मात्प्राप्तं न हापयेत् ||११||

🔊 Audio coming soon

मन्त्रान्निर्दिश्यौषधानि निर्दिशन्नाह- औषधानीत्यादि| तानि पुनः शारीरे अपरापातनोदितानि पाणिपादलेपा योनिधूपनमातुरपानादिकं च| निष्फले मन्त्रे तन्त्रे च वृथाभूतेषु सूतीजनव्यापारेषु भिषजां शल्याहरणोपायं निर्दिशन्नाह- मृते चेति| चकारादफलीभूतेषु मन्त्रतन्त्रप्रसूतीजननव्यापारेषु जीवत्यपीत्यनुक्तं समुच्चिनोति| आभुग्नसक्थ्या इति सङ्कुचितसक्थ्याः| धन्वनो धनुर्वृक्षो बदरीसदृशपत्रः, नगवृत्तिका शल्लकी, यद्यपि मृत्स्नशब्दःप्रशस्तायां मृदि वर्तते तथाऽप्यत्र धनुर्वृक्षशल्लकीशाल्मलीनां पिच्छिले चुम्पे मृत्स्नशब्दो बोद्धव्यः| घृतं गव्यं घृतं, ताभ्यां पाणिं म्रक्षयित्वा विलिप्य, मूढगर्भमपहरेदिति सामान्यो विधिः| मृतं चेति चकारादपहरणे विशेषेण विधिमाह- तत्रेत्यादि| आञ्छेत् आकर्षेत्| एकसक्थ्नेति प्रथममेकसक्थिप्रतिपन्नं, द्वितीयसक्थि पुनराभुग्नं स्थित्वाऽऽगतमित्यर्थः, तदपि प्रसार्य प्रगुणीभूतसक्थिद्वयमपहरणार्थमाञ्छेदिति पूर्वस्माद्विशेषः; सक्थि जङ्घोच्यते, अयं द्वितीयः| स्फिगित्यादि| अयं तृतीयः| तिर्यगित्यादि| परिघोऽर्गलादण्डः| आर्जवमानीय ऋजुभावमानीयापहरेदिति, अयं चतुर्थः| पार्श्वेत्यादि| पार्श्वापवृत्तं पार्श्ववलितं शिरो यस्य, अपत्यपथो योनिः; अयं पञ्चमः| बाहुद्वयेत्यादि| अयं षष्ठः| तत्र आद्यं मूढगर्भत्रितयं पादाभ्यामाहरणीयं, तदितरत्तु त्रितयं शिरसा, द्वाविति शेषं तु मूढगर्भद्वयमसाध्यम्, एवमष्टौ मूढगर्भाः| दार्यमाणः छिद्यमानो गर्भो मातरमात्मानं च व्यापादयेत्| घातयेदिति सर्वथैवाशक्यहस्ताकर्षे द्वयोरपि गर्भगर्भिण्योर्विपत्तिसिद्धेः| शस्त्रमन्त्रादिनोपायेनासिद्धौ गर्भच्यावनं गर्भिणीरक्षार्थं कार्यमित्याह- अविषह्य इति| सोढुमशक्ये विकारे व्याधौ सति किं कर्तव्यमित्याह- श्रेयो गर्भस्येति; श्रेयो भवतीत्यर्थः| गर्भपातनफलमाह- न गर्भिण्या विपर्यास इति; विपर्यासो मृत्युरित्यर्थः| तस्मात् प्राप्तकालं न हापयेत् नोल्लङ्घयेदित्यर्थः||९-११||

Adhikarana 5 (12-19) · Śloka 20

ततः स्त्रियमाश्वास्य मण्डलाग्रेणाङ्गुलीशस्त्रेण वा शिरो विदार्य, शिरःकपालान्याहृत्य, शङ्कुना गृहीत्वोरसि कक्षायां वाऽपहरेत्; अभिन्नशिरसमक्षिकूटे गण्डे वा, अंससंसक्तस्यांसदेशे बाहू छित्त्वा, दृतिमिवाततं वातपूर्णोदरं वा विदार्य निरस्यान्त्राणि शिथिलीभूतमाहरेत्, जघनसक्तस्य वा जघनकपालानीति ||१२|| किम्बहुना- यद्यदङ्गं हि गर्भस्य तस्य सज्जति तद्भिषक् | सम्यग्विनिर्हरेच्छित्त्वा रक्षेन्नारीं च यत्नतः ||१३|| गर्भस्य गतयश्चित्रा जायन्तेऽनिलकोपतः | तत्रानल्पमतिर्वैद्यो वर्तेत विधिपूर्वकम् ||१४|| नोपेक्षेत मृतं गर्भं मुहूर्तमपि पण्डितः | स ह्याशु जननीं हन्ति निरुच्छ्वासं पशुं यथा ||१५|| मण्डलाग्रेण कर्तव्यं छेद्यमन्तर्विजानता | वृद्धिपत्रं हि तीक्ष्णाग्रं नारीं हिंस्यात् कदाचन ||१६|| अथापतन्तीमपरां पातयेत् पूर्ववद्भिषक् | हस्तेनापहरेद्वाऽपि पार्श्वभ्यां परिपीड्य वा ||१७|| धुनुयाच्च मुहुर्नारीं पीडयेद्वांऽसपिण्डिकाम् | तैलाक्तयोनेरेवं तां पातयेन्मतिमान् भिषक् ||१८|| एवं निर्हृतशल्यां तु सिञ्चेदुष्णेन वारिणा | ततोऽभ्यक्तशरीराया योनौ स्नेहं निधापयेत् ||१९|| एवं मृद्वी भवेद्योनिस्तच्छूलं चोपशाम्यति |२०|

🔊 Audio coming soon

मृते तु गर्भे शस्त्रावचरणं निर्दिशन्नाह- तत इति| मण्डलाग्रेणाङ्गुलीशस्त्रेणेति अन्तर्मुखसञ्ज्ञितेन कृशतरशशधरकानुकारिणाऽर्धद्वयसंहितमध्यकीलितेन मध्यमाङ्गुल्यङ्गुष्ठप्रविष्टलोहकटकनियमितेन, अन्ये पुनरेकावयवेन मध्यमाङ्गुलीप्रविष्टलोहकण्टकेनेत्याहुः| तद्धि शस्त्रमन्तद्वारं हस्तान्तर्गतं योनौ सुप्रदेशप्रवेशितमपि सुखच्छेदकरं गर्भिणीं न हिनस्ति| शङ्कुना आकुञ्चिताकारेण बडिशविशेषेण सम्यग्गृहीतं हृदये कक्षे वाऽपहरेत्| शिरसः पुनरवैगुण्येन निर्गतशिरसो विपुलांसदेशसक्तस्य विधिमुपदिशन्नाह- अभिन्नशिरसमिति; कूटे गण्डे वा सङ्गृह्य शङ्कुनाऽपहरणम्| मृतस्याध्मातोदरस्य क्रमागतमुदरसङ्गं निर्दिशन्नाह- दृतिमिवेत्यादि|- दृतिः पानीयपूर्णखल्ली| जघनसक्तस्येत्यादि|- जघनसक्तं जघनकपालानि विदार्य, अपहृत्यापहरेत्| एवमुद्दिष्टानामाहरणोपायं निर्दिश्यानुक्तानामपि नानाप्रकाराणां निर्दिशति- गर्भस्येत्यादि| मृते तु दोषं निर्दिशन्नाह- नोपेक्षेतेत्यादि| सः गर्भः, हि यस्मादर्थे| मण्डलाग्रेणेति मण्डलाग्रावचारणमुक्तमपि वृद्धिपत्रनिषेधोपदेशार्थं पुनरुच्यते| अथापतन्तीमित्यादि| अपरां गर्भावरणं जरायुसञ्ज्ञं यं लोका आवलमित्याचक्षते| पूर्ववत् शारीरोक्तविधिना||१२-१९||-

Adhikarana 6 (20-27) · Śloka 28

कृष्णातन्मूलशुण्ठ्येलाहिङ्गुभार्गीः सदीप्यकाः ||२०|| वचामतिविषां रास्नां चव्यं सञ्चूर्ण्य पाययेत् | स्नेहेन दोषस्यन्दार्थं वेदनोपशमाय च ||२१|| क्वाथं चैषां तथा कल्कं चूर्णं वा स्नेहवर्जितम् | शाकत्वग्घिङ्ग्वतिविषापाठाकटुकरोहिणीः ||२२|| तथा तेजोवतीं चापि पाययेत् पूर्ववद्भिषक् | त्रिरात्रं पञ्चसप्ताहं ततः स्नेहं पुनः पिबेत् ||२३|| पाययेतासवं नक्तमरिष्टं वा सुसंस्कृतम् | शिरीषककुभाभ्यां च तोयमाचमने हितम् ||२४|| उपद्रवाश्च येऽन्ये स्युस्तान् यथास्वमुपाचरेत् | सर्वतः परिशुद्धा च स्निग्धपथ्याल्पभोजना ||२५|| स्वेदाभ्यङ्गपरा नित्यं भवेत् क्रोधविवर्जिता | पयो वातहरैः सिद्धं दशाहं भोजने हितम् ||२६|| रसं दशाहं शेषे तु यथायोगमुपाचरेत् | व्युपद्रवां विशुद्धां च ज्ञात्वा च वरवर्णिनीम् ||२७|| ऊर्ध्वं चतुर्भ्यो मासेभ्यो विसृजेत् परिहारतः |२८|

🔊 Audio coming soon

व्यवस्थितविकल्पा ह्येते देशप्रकृतिसात्म्यापेक्षया| कृष्णा पिप्पली, तन्मूलं पिप्पलीमूलं, दीप्यकः अजमोदा| प्रसवकाल एव जातमूढगर्भायाः कृतकर्मणाऽपहृतापरायाः पार्श्वयोनिशूलकाठिन्यशान्त्यर्थं रक्तक्लेदादिदोषप्रसेकार्थं च तैलाक्तयोनेस्तैलेन कृष्णादिपानम्; अकालमूढगर्भायास्तु लङ्घितायाः पुनरन्नकाले उद्दालकादीनामन्नानामस्नेहलवणाभिर्यवागूभिरुपचारो यावन्तो मासा गर्भस्य तावन्त्येवाहानि; अनन्तरमासे तु स्नेहादिविधानमकालमूढगर्भाया अपि पूर्ववत्| शाकः कर्कशपत्रवृक्षः, ‘सागवन’ इति लोके| त्रिरात्रमित्यादि|- एवं त्रिरात्रं कृष्णादिचूर्णपानेन शाकत्वगादिचूर्णपानेन वाऽऽहृतकोष्ठरक्तक्लेदादिदोषायाः सप्ताहं ह्रस्वमात्रया स्नेहपानम्| तेन विशुद्धवाताशयाया दशाहादूर्ध्वं स्निग्धपथ्याल्पभोजनम्| तत्र नित्यं बाह्यावपि स्वेदाभ्यङ्गाववश्यं कार्यौ, तत्र द्वितीयदशाहे वातहरसिद्धं पयो वक्ष्यमाणं, तृतीये मांसरसः| ककुभः सुगन्धिमूलो विटपः| आचमनस्नानादौ षडङ्गकल्पनाकल्पितशिरीषककुभसलिलम्| उपद्रवा इति उपद्रवा वातरोगज्वराद्याः| वातहरैः शतपुष्पादिभिः| यथायोगमिति सात्म्याद्यपक्षयेति भावः||२०-२७||-

Adhikarana 7 (28-39) · Śloka 39

योनिसन्तर्पणेऽभ्यङ्गे पाने बस्तिषु भोजने ||२८|| बलातैलमिदं चास्यै दद्यादनिलवारणम् | बलामूलकषायस्य दशमूलीशृतस्य च ||२९|| यवकोलकुलत्थानां क्वाथस्य पयसस्तथा | अष्टावष्टौ शुभा भागास्तैलादेकस्तदेकतः ||३०|| पचेदावाप्य मधुरं गणं सैन्धवसंयुतम् | तथाऽगुरुं सर्जरसं सरलं देवदारु च ||३१|| मञ्जिष्ठां चन्दनं कुष्ठमेलां कालानुसारिवाम् | मांसीं शैलेयकं पत्रं तगरं सारिवां वचाम् ||३२|| शतावरीमश्वगन्धां शतपुष्पां पुनर्नवाम् | तत् साधुसिद्धं सौवर्णे राजते मृन्मयेऽपि वा ||३३|| प्रक्षिप्य कलशे सम्यक् स्वनुगुप्तं निधापयेत् | बलातैलमिदं ख्यातं सर्ववातविकारनुत् ||३४|| यथाबलमतो मात्रां सूतिकायै प्रदापयेत् | या च गर्भार्थिनी नारी क्षीणशुक्रश्च यः पुमान् ||३५|| वातक्षीणे मर्महते मथितेऽभिहते तथा | भग्ने श्रमाभिपन्ने च सर्वथैवोपयुज्यते ||३६|| एतदाक्षेपकादीन् वै वातव्याधीनपोहति | हिक्कां कासमधीमन्थं गुल्मं श्वासं च दुस्तरम् ||३७|| षण्मासानुपयुज्यैतदन्त्रवृद्धिमपोहति | प्रत्यग्रधातुः पुरुषो भवेच्च स्थिरयौवनः ||३८|| राज्ञामेतद्धि कर्तव्यं राजमात्राश्च ये नराः | सुखिनः सुकुमाराश्च धनिनश्चापि ये नराः ||३९||

🔊 Audio coming soon

बलामूलक्वाथस्य तथा दशमूलक्वाथस्य यवकोलकुलत्थानां क्वाथस्य पयसश्च प्रत्येकमष्टावष्टौ भागाः, एकः स्नेहात्; एवं स्नेहाद्द्वात्रिंशद्गुणो द्रवः, स्नेहचतुर्थांशो भेषजकल्कः| मधुरः काकोल्यादिगणः| कालानुसारिवा कृष्णसारिवा, ‘कालानुसारि वा’ इत्यत्र केचिदाचार्या अस्मिन् तैले क्षीरशुक्लकं पठन्ति, क्षीरशुक्लकं क्षीरविदारी| स्वनुगुप्ते निरुपद्रवस्थाने| अधीमन्थः अक्षिरोगोऽभिष्यन्दपूर्वकः| षण्मासोपयोगात् कोशमप्राप्तामन्त्रवृद्धिं हन्ति, कोशप्राप्तां पुनरन्त्रवृद्धिमसाध्यामाहुः||२८-३९||

Adhikarana 8 (40-43) · Śloka 43

बलाकषायपीतेभ्यस्तिलेभ्यो वाऽप्यनेकशः | तैलमुत्पाद्य तत्क्वाथशतपाकं कृतं शुभम् ||४०|| निवाते निभृतागारे प्रयुञ्जीत यथाबलम् | जीर्णेऽस्मिन् पयसा स्निग्धमश्नीयात् षष्टिकौदनम् ||४१|| अनेन विधिना द्रोणमुपयुज्यान्नमीरितम् | भुञ्जीत द्विगुणं कालं बलवर्णान्वितस्ततः ||४२|| सर्वपापैर्विनिर्मुक्तः शतायुः पुरुषो भवेत् | शतं शतं तथोत्कर्षो द्रोणे द्रोणे प्रकीर्तितः ||४३||

🔊 Audio coming soon

बलातैलानन्तरं बलासंस्कारेण शतपाकविधानमाह- बलेत्यादि| पीतेभ्यो भावितेभ्यः सप्तकृत्वः| तिलतुल्यबलामूलाष्टगुणसलिलाष्टांशशेषितकषायभावितानां तिलानां तैलमादाय तत्क्वाथं बलाक्वाथं सामान्यक्वाथपरिभाषार्थकृतक्वाथेन चतुर्गुणेन शतशः पचेत्; तत् क्वथं तत्कल्कमेव वेत्येके; पूर्वबलातैलसमुद्दिष्टैर्मधुरादिकल्कैरेवेत्यन्ये||४०-४३||

Adhikarana 9 (44) · Śloka 45

बलाकल्पेनातिबलागुडूच्यादित्यपर्णिषु | सैरेयके वीरतरौ शतावर्यां त्रिकण्टके ||४४|| तैलानि मधुके कुर्यात् प्रसारिण्यां च बुद्धिमान् |४५|

🔊 Audio coming soon

उक्तबलातैलद्वयकल्पेन सङ्क्षेपार्थं द्रव्यान्तरेष्वतिदेशमुद्दिशन्नाह- बलेत्यादि| आदित्यपर्णी सूर्यावर्तः| वीरतरुः स्वनामप्रसिद्धः, अर्जुन इत्येके, कोकिलाक्ष इत्यपरे| अतिबलादितैलेषु च बलातैलोक्तकल्कप्रक्षेपः; अथवाऽतिबलादीनामेव क्वाथकल्काभ्यां तैलानि पक्तव्यानीति||४४||-

Adhikarana 10 (45-47) · Śloka 47

नीलोत्पलं वरीमूलं गव्ये क्षीरे विपाचयेत् ||४५|| शतपाकं ततस्तेन तिलतैलं पचेद्भिषक् | बलातैलस्य कल्कांस्तु सुपिष्टांस्तत्र दापयेत् ||४६|| सर्वेषामेव जानीयादुपयोगं चिकित्सकः | बलातैलवदेतेषां गुणांश्चैव विशेषतः ||४७||

🔊 Audio coming soon

नीलोत्पलमित्यादि| वरी शतावरी||४५-४७||

Adhikarana puShpikA · Śloka 15

इति सुश्रुतसंहितायां चिकित्सास्थाने मूढगर्भचिकित्सितं नाम पञ्चदशोऽध्यायः ||१५||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने पञ्चदशोऽध्यायः||१५||