Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

16. vidradhicikitsitam

Adhikarana 1 (1-3) · Śloka 3

अथातो विद्रधीनां चिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| उक्ता विद्रधयः षड्ये तेष्वसाध्यस्तु सर्वजः | शेषेष्वामेषु कर्तव्या त्वरितं शोफवत् क्रिया ||३||

🔊 Audio coming soon

षड्ग्रहणं द्वन्द्वजविद्रधिनिषेधार्थम्| पुनरसाध्यकीर्तनं चिकित्साप्रक्रमत्वात्तदुपक्रमनिषेधार्थम्| शेषेषु पञ्चसु शोफवत् क्रियेति सा पुनरपतर्पणाद्या विरेचनान्तैकादशविधा||१-३||

Adhikarana 2 (4-9) · Śloka 9

वातघ्नमूलकल्कैस्तु घृततैलवसायुतैः | सुखोष्णो बहलो लेपः प्रयोज्यो वातविद्रधौ ||४|| सानूपौदकमांसस्तु काकोल्यादिः सतर्पणः | स्नेहाम्लसिद्धो लवणः प्रयोज्यश्चोपनाहने ||५|| वेशवारैः सकृशरैः पयोभिः पायसैस्तथा | स्वेदयेत् सततं चापि निर्हरेच्चापि शोणितम् ||६|| स चेदेवमुपक्रान्तः पाकायाभिमुखो यदि | तं पाचयित्वा शस्त्रेण भिन्द्याद्भिन्नं च शोधयेत् ||७|| पञ्चमूलकषायेण प्रक्षाल्य लवणोत्तरैः | तैलैर्भद्रादिमधुकसंयुक्तैः प्रतिपूरयेत् ||८|| वैरेचनिकयुक्तेन त्रैवृतेन विशोध्य च | पृथक्पर्ण्यादिसिद्धेन त्रैवृतेन च रोपयेत् ||९||

🔊 Audio coming soon

वातघ्नेत्यादि| वातघ्नानि भद्रदार्वादीनि, अन्ये तु वातघ्नः शोभाञ्जनकः| ‘मुरङ्गीमूलकल्कैः’ इत्यन्ये पठन्ति; मुरङ्गी शोभाञ्जनकः| सानूपेत्यादि अयं साल्वणप्रकारः| आनूपा महिषादयः, औदकाः कोशस्थादयः, तर्पयतीति तर्पणं, वातपित्तहरा विदारिगन्धादयः, स्नेहाः सर्व एव, अम्लानि च| लवणैः संस्कृतो लवणः| वेशवारैरित्यादि| वेशवारः संस्कृतमांसविशेषः| कृशरा तिलतण्डुलमाषकृता यवागूः| क्षीरसिद्धास्तण्डुलाः पायसः| लवणोत्तरैरिति लवणप्रमुखैस्तैलैरित्यर्थः| भद्रादि भद्रदार्वादि| वैरेचनिकेत्यादि| वैरेचनिकयुक्तेनेति चूर्णीकृतत्रिवृदादिमिश्रेण; गयी तु वैरेचनिकयुक्तेन सिद्धेनेति व्याख्यानयति| त्रैवृतेन स्नेहेन| तैलघृतस्नेहानि पृथक्पर्ण्यादीनि रोपणघृतसाधने मिश्रकोक्तानि||४-९||

Adhikarana 3 (10-15) · Śloka 16

पैत्तिकं शर्करालाजामधुकैः सारिवायुतैः | प्रदिह्यात् क्षीरपिष्टैर्वा पयस्योशीरचन्दनैः ||१०|| पाक्यैः शीतकषायैर्वा क्षीरैरिक्षुरसैस्तथा | जीवनीयघृतैर्वाऽपि सेचयेर्च्छ्करायुतैः ||११|| त्रिवृद्धरीतकीनां च चूर्णं लिह्यान्मधुद्रवम् | जलौकोभिर्हरेच्चासृक् पक्वं चापाट्य बुद्धिमान् ||१२|| क्षीरवृक्षकषायेण प्रक्षाल्यौदकजेन वा | तिलैः सयष्टीमधुकैः सक्षौद्रैः सर्पिषा युतैः ||१३|| उपदिह्य प्रतनुना वाससा वेष्टयेद्व्रणम् | प्रपौण्डरीकमञ्जिष्ठामधुकोशीरपद्मकैः ||१४|| सहरिद्रैः कृतं सर्पिः सक्षीरं व्रणरोपणम् | क्षीरशुक्लापृथक्पर्णीसमङ्गारोध्रचन्दनैः ||१५|| न्यग्रोधादिप्रवालेषु तेषां त्वक्ष्वथवा कृतम् |१६|

🔊 Audio coming soon

पैत्तिकमित्यादि| प्रदिह्यात् लिम्पेत्| पयस्या क्षीरकाकोली, जेज्जटाचार्यस्त्वर्कपुष्पीमाह| पाक्यैः क्वथितकषायैः| शीतकषायलक्षणमाह “द्रव्यमापोथितं सम्यगत्युष्णोदकसंस्थितम्| रात्रिपर्युषितं शीतकषायं फाणितं (?) विदुः” इति| जीवनीयैः काकोल्यादिभिः सिद्धानि जीवनीयघृतानि| सेचयेत् परिषेचयेत्| दाहवेदनोपशमार्थं विरेचनमाह- त्रिवृदित्यादि| क्षीरवृक्षेत्यादि क्षीरवृक्षा न्यग्रोधोदुम्बराश्वत्थप्लक्षगर्दभाण्डाः| औदकानि कमलकुमुदकल्हारप्रभृतीनि| कृतं सर्पिः संस्कृतं सर्पिः| क्षीरेत्यादि क्षीरशुक्ला क्षीरविदारी| समङ्गा मञ्जिष्ठा , वराहक्रान्तेत्यपरे| न्यग्रोधादिर्द्रव्यसङ्ग्रहणीये पठितः; प्रवालाः पल्लवाः||१०-१५||-

Adhikarana 4 (16-21) · Śloka 22

नक्तमालस्य पत्राणि तरुणानि फलानि च ||१६|| सुमनायाश्च पत्राणि पटोलारिष्टयोस्तथा | द्वे हरिद्रे मधूच्छिष्टं मधुकं तिक्तरोहिणी ||१७|| प्रियङ्गुः कुशमूलं च निचुलस्य त्वगेव च | मञ्जिष्ठाचन्दनोशीरमुत्पलं सारिवे त्रिवृत् ||१८|| एतेषां कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत् | दुष्टव्रणप्रशमनं नाडीव्रणविशोधनम् ||१९|| सद्यश्छिन्नव्रणानां च करञ्जाद्यमिदं शुभम् | दुष्टव्रणाश्च ये केचिद्ये चोत्सृष्टक्रिया व्रणाः ||२०|| नाड्यो गम्भीरिका याश्च सद्यश्छिन्नास्तथैव च | अग्निक्षारकृताश्चैव ये व्रणा दारुणा अपि ||२१|| करञ्जाद्येन हविषा प्रशाम्यन्ति न संशयः |२२|

🔊 Audio coming soon

नक्तमालस्येत्यादि| तरुणानि तत्कालोत्पन्नानि, आमानीत्यर्थः| सुमना जाती| निचुलो वेतसः| केचिदेनमनार्षं वदन्ति, तन्नेच्छति गयी, तस्मान्मयाऽप्यङ्गीकृतः||१६-२१||-

Adhikarana 5 (22-33) · Śloka 33

इष्टकासिकतालोष्टगोशकृत्तुषपांशुभिः ||२२|| मूत्रैरुष्णैश्च सततं स्वेदयेच्छ्लेष्मविद्रधिम् | कषायपानैर्वमनैरालेपैरुपनाहनैः ||२३|| हरेद्दोषानभीक्ष्णं चाप्यलाब्वाऽसृक् तथैव च | आरग्वधकषायेण पक्वं चापाट्य धावयेत् ||२४|| हरिद्रात्रिवृताशक्तुतिलैर्मधुसमायुतैः | पूरयित्वा व्रणं सम्यग्बध्नीयात् कीर्तितं यथा ||२५|| ततः कुलत्थिकादन्तीत्रिवृच्छ्यामार्कतिल्वकैः | कुर्यात्तैलं सगोमूत्रं हितं तत्र ससैन्धवम् ||२६|| पित्तविद्रधिवत् सर्वाः क्रिया निरवशेषतः | विद्रध्योः कुशलः कुर्याद्रक्तागन्तुनिमित्तयोः ||२७|| वरुणादिगणक्वाथमपक्वेऽभ्यन्तरोत्थिते | ऊषकादिप्रतीवापं पिबेत् सुखकरं नरः ||२८|| अनयोर्वर्गयोः सिद्धं सर्पिर्वैरेचनेन च | अचिराद्विद्रधिं हन्ति प्रातः प्रातर्निषेवितम् ||२९|| एभिरेव गणैश्चापि संसिद्धं स्नेहसंयुतम् | कार्यमास्थापनं क्षिप्रं तथैवाप्यनुवासनम् ||३०|| पानालेपनभोज्येषु मधुशिग्रुद्रुमोऽपि वा | दत्तावापो यथादोषमपक्वं हन्ति विद्रधिम् ||३१|| तोयधान्याम्लमूत्रैस्तु पेयो वाऽपि सुरादिभिः | यथादोषगणक्वाथैः पिबेद्वाऽपि शिलाजतु ||३२|| प्रधानं गुग्गुलं चापि शुण्ठीं च सुरदारु च | स्नेहोपनाहौ कुर्याच्च सदा चाप्यनुलोमनम् ||३३||

🔊 Audio coming soon

इष्टकेत्यादि| पांशुर्धूलिः| गोमूत्रेण द्रवस्वेदः| कषायेत्यादि| बध्नीयात् कीर्तितं यथेति “घनेन वाससा श्लैष्मिकं गाढस्थाने गाढतरम्” (सू. १८) इति| कुलत्थिका चक्षुष्या| इदानीं रक्तागन्तुनिमित्तयोरवसरः; अनयोरुत्तरयोर्वरुणादेरूषकादेश्च (?); तत्र वरुणादेः कषायः, ऊषकादेः कल्कः, तेषां लवणत्वेन कषायकल्पनाया दुःशकत्वात्| त्रिवृदादीनामपि कृतेन कषायेण तदेव सर्पिरिति चकारात्| प्रातः प्रातरिति वीप्सयेदं ज्ञापयति- अभ्यासेन निषेवितं सर्पिर्विद्रधिं हन्तीति| वरुणादिगणक्वाथमित्याद्युपचारोऽभ्यन्तरे, बाह्ये तु विद्रधावमर्मजाते पाचनपाटनशोधनाद्युपचारः करणीय इति| एभिरित्यादि|- एभिरेव गणैर्वरुणादिवैरेचनिकैः; अत्रापि वरुणादिवैरेचनिकौ कषायतया प्रयोज्यौ, ऊषकादिश्च कल्कतया| पानेत्यादि| स्वभावत एवामविद्रधिप्रत्यनीको मधुशिग्रुः, कषायपानादिषु तस्य तु दोषस्य प्रत्यनीकत्वार्थं दोषानतिक्रमेण व्रणहितवातपित्तकफहरद्रव्यप्रक्षेपः| तोयेत्यादि|- तोयादिभिः सुरान्तैर्यथादोषं स एव मधुशिग्रुरिति; तत्र तोयेन पित्तविद्रधौ, धान्याम्लेन वातविद्रधौ, मूत्रेण कफविद्रधौ, अविदग्धे पुना रक्ते सुरादिभिर्नान्यत्र| यथेत्यादि|- यथादोषगणक्वाथैरिति वातादिप्रत्यनीकैरित्यर्थः| प्रधानं गुग्गुलं महिषाख्यमित्यर्थः, प्रधानं मेदोहरत्वाद्विद्रधौ श्रेष्ठमित्यन्ये| तत्र गुग्गुलुकल्पेन वातिके देवदारु, श्लैष्मिके शुण्ठीति| स्नेहोपनाहानुलोमनादीनि बाह्यवातपित्तकफविद्रधिविषयाणि प्रागुक्तान्यभ्यन्तरेऽपि विद्रधौ यथादौषं विभज्य योज्यानि||२२-३३||

Adhikarana 6 (34) · Śloka 34

यथोद्दिष्टां सिरां विध्येत् कफजे विद्रधौ भिषक् | रक्तपित्तानिलोत्थेषु केचिद्बाहौ वदन्ति तु ||३४||

🔊 Audio coming soon

अन्तर्विद्रधौ दूष्यशोणितस्य गम्भीरानुगतत्वात्तत्र सिराव्यधमुद्दिशन्नाह- यथेत्यादि|- यथोद्दिष्टामिति “वामपार्श्व कक्षास्तनयोरन्तरेऽन्तर्विद्रधौ पार्श्वशूले च’ (शा. ८) इति| तेन कक्षान्तराश्रयदेशस्याधः स्तनयोरुपरिष्टात् पार्श्वविशेषे कफविद्रधौ| रक्तपित्तानिलोत्थेषु बाहौ केचिदाहुः; बाहौ बाहुमध्ये कूर्परे, तेन स्थानान्तराश्रयमेकीयमतम्||३४||

Adhikarana 7 (35-37) · Śloka 38

पक्वं वा बहिरुन्नद्धं भित्त्वा व्रणवदाचरेत् | स्रुतेषूर्ध्वमधो वाऽपि मैरेयाम्लसुरासवैः ||३५|| पेयो वरुणकादिस्तु मधुशिग्रुद्रुमोऽपि वा | शिग्रुमूलजले सिद्धं ससिद्धार्थकमोदनम् ||३६|| यवकोलकुलत्थानां यूषैर्भुञ्जीत मानवः | प्रातः प्रातश्च सेवेत मात्रया तैल्वकं घृतम् ||३७|| त्रिवृतादिगणक्वाथसिद्धं वाऽप्युपशान्तये |३८|

🔊 Audio coming soon

पक्वमित्यादि| सुरासवयोः प्रत्येकं निष्पादितयोरेकीकृत्य पुनः सन्धानं मैरेयः, अम्लं काञ्जिकं, सुरा पिष्टमयी, द्रवप्रधान आसवः| शिग्र्वित्यादि| अत्र संस्कार्य एव सिद्धार्थप्रक्षेपः| मात्रया अल्पश इत्यर्थः| तैल्वकं घृतं वातव्याधौ पठितम्| त्रिवृतेत्यादि सिद्धं सर्पिरित्यनुवर्तते||३५-३७||-

Adhikarana 8 (38) · Śloka 39

नोपगच्छेद्यथापाकं प्रयतेत तथा भिषक् ||३८|| पर्यागते विद्रधौ तु सिद्धिर्नैकान्तिकी स्मृता |३९|

🔊 Audio coming soon

प्रयतेत प्रयत्नं कुर्वीत| पर्यागते परिपाकमागते न सिद्धिः||३८||-

Adhikarana 9 (39-43) · Śloka 43

प्रत्याख्याय तु कुर्वीत मज्जजाते तु विद्रधौ ||३९|| स्नेहस्वेदोपपन्नानां कुर्याद्रक्तावसेचनम् | विद्रध्युक्तां क्रियां कुर्यात् पक्वे वाऽस्थि तु भेदयेत् ||४०|| निःशल्यमथ विज्ञाय कर्तव्यं व्रणशोधनम् | धावेत्तिक्तकषायेण तिक्तं सर्पिस्तथा हितम् ||४१|| यदि मज्जपरिस्रावो न निवर्तेत देहिनः | कुर्यात् संशोधनीयानि कषायादीनि बुद्धिमान् ||४२|| प्रियङ्गुधातकीरोध्रकट्फलं तिनिसैन्धवम् | एतैस्तैलं विपक्तव्यं विद्रधिव्रणरोपणम् ||४३||

🔊 Audio coming soon

परं मज्जविद्रधौ प्रत्याख्याय तु कुर्वीतेति ‘चिकित्साम्’ इत्यध्याहारः| कां चिकित्सां कुर्वीतेत्याशङ्क्याह- स्नेहस्वेदोपपन्नानामित्यादि| तिनिः तिनिसः, एकदेशेनापि समुदायो बुध्यते; यथा- सत्या सत्यभामा, भीमो भीमसेन इति||३९-४३||

Adhikarana puShpikA · Śloka 16

इति सुश्रुतसंहितायां चिकित्सास्थाने विद्रधिचिकित्सितं नाम षोडशोऽध्यायः ||१६||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने षोडशोऽध्यायः||१६||