Adhikarana 1 (1-9) · Śloka 10
अथातो मुखरोगचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
चतुर्विधेन स्नेहेन मधूच्छिष्टयुतेन च |
वातजेऽभ्यञ्जनं कुर्यान्नाडीस्वेदं च बुद्धिमान् ||३||
विदध्यादोष्ठकोपे तु साल्वणं चोपनाहने |
मस्तिष्के चैव नस्ये च तैलं वातहरं हितम् ||४||
श्रीवेष्टकं सर्जरसं सुरदारु सगुग्गुलु |
यष्टीमधुकचूर्णं तु विदध्यात् प्रतिसारणम् ||५||
पित्तरक्ताभिघातोत्थं जलौकोभिरुपाचरेत् |
पित्तविद्रधिवच्चापि क्रियां कुर्यादशेषतः ||६||
शिरोविरेचनं धूमः स्वेदः कवल एव च |
हृते रक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके ||७||
त्र्यूषणं स्वर्जिकाक्षारो यवक्षारो विडं तथा |
क्षौद्रयुक्तं विधातव्यमेतच्च प्रतिसारणम् ||८||
मेदोजे स्वेदिते भिन्ने शोधिते ज्वलनो हितः |
प्रियङ्गुत्रिफलालोध्रं सक्षौद्रं प्रतिसारणम् ||९||
एतदोष्ठप्रकोपानां साध्यानां कर्म कीर्तितम् |१०|
चतुर्विधेन चतुष्प्रकारेण| स्नेहेन दोषाद्यपेक्षया समस्तव्यस्तेन स्नेहपाकपरिभाषया वातहरकषायमधूच्छिष्टकल्कशृतेनाभ्यङ्गः| ततः स्निग्धं नाडीस्वेदेन यथोक्तेन स्वेदयेत्| मस्तिष्कः शिरोबस्तिप्रकारः; बध्यत ऊर्ध्वं शिरोबस्तिः, अनवबद्धो मस्तिष्क इति| अन्ये तु पठन्ति ‘मस्तिष्क्ये चैव नस्ये च’ इत्यादि; अत्र मस्तिष्क्यं मस्तिष्के हितमभ्यङ्गतैलपिचुधारणशिरोबस्त्यादि| श्रीवेष्टकः सरलनिर्यासः| प्रतिसारणं घर्षणम्| क्रियां कुर्यादशेषत इति संशोधनसंशमनरूपां बाह्यामाभ्यन्तरीं च| मेदोजे पुनरस्नेहपूर्वं स्वेदिते भित्त्वा मेदसोऽपकर्षणं, शोधिते चाग्नेरवचारणं पथ्यम्||१-९||-
Adhikarana 2 (10-13) · Śloka 14
दन्तमूलगतानां तु रोगाणां कर्म वक्ष्यते ||१०||
शीतादे हृतरक्ते तु तोये नागरसर्षपान् |
निष्क्वाथ्य त्रिफलां मुस्तं गण्डूषः सरसाञ्जनः ||११||
प्रियङ्गवश्च मुस्तं च त्रिफला च प्रलेपनम् |
नस्यं च त्रिफलासिद्धं मधुकोत्पलपद्मकैः ||१२||
दन्तपुप्पुटके कार्यं तरुणे रक्तमोक्षणम् |
सपञ्चलवणः क्षारः सक्षौद्रः प्रतिसारणम् ||१३||
हितः शिरोविरेकश्च नस्यं स्निग्धं च भोजनम् |१४|
दन्तेत्यादि| नस्यमित्यादि| शोणितावसेकशोधनगण्डूषकुपितवातानुबन्धे स्नेहनं नस्यम्| तत्र कफानुगते मधुकादिभिः सह त्रिफलासिद्धं तैलं नस्ये प्रयोज्यं, शोणितानुगमे च त्रिफलादिसंसिद्धं घृतमिति| तरुणे तत्कालोत्पन्ने| नस्यमिति ‘शीतादोक्तस्नेहेन’ इति शेषः, दोषदूष्यस्थानानामैक्यात्||१०-१३||-
Adhikarana 3 (14-18) · Śloka 18
विस्राविते दन्तवेष्टे व्रणांस्तु प्रतिसारयेत् ||१४||
रोध्रपत्तङ्गयष्ट्याह्वलाक्षाचूर्णैर्मधूत्तरैः |
गण्डूषे क्षीरिणो योज्याः सक्षौद्रघृतशर्कराः ||१५||
काकोल्यादौ दशक्षीरसिद्धं सर्पिश्च नस्यतः |
शौषिरे हृतरक्ते तु रोध्रमुस्तरसाञ्जनैः ||१६||
सक्षौद्रैः शस्यते लेपो गण्डूषे क्षीरिणो हिताः |
सारिवोत्पलयष्ट्याह्वसावरागुरुचन्दनैः ||१७||
क्षीरे दशगुणे सिद्धं सर्पिर्नस्ये च पूजितम् |
क्रियां परिदरे कुर्याच्छीतादोक्तां विचक्षणः ||१८||
विस्राविते इत्यादि| पत्तङ्गं रक्तचन्दनं, मधूत्तरैः मधुप्रधानैः| क्षीरिणो वटादयः| दशक्षीरसिद्धं दशगुणेन गव्यक्षीरेण घृतं साधनीयम्||१४-१८||
Adhikarana 4 (19-23) · Śloka 23
संशोध्योभयतः कार्यं शिरश्चोपकुशे तथा |
काकोदुम्बरिकागोजीपत्रैर्विस्रावयेदसृक् ||१९||
क्षौद्रयुक्तैश्च लवणैः सव्योषैः प्रतिसारयेत् |
पिप्पलीः सर्षपाञ् श्वेतान्नागरं नैचुलं फलम् ||२०||
सुखोदकेन संसृज्य कवलं चापि धारयेत् |
घृतं मधुरकैः सिद्धं हितं कवलनस्ययोः ||२१||
शस्त्रेण दन्तवैदर्भे दन्तमूलानि शोधयेत् |
ततः क्षारं प्रयुञ्जीत क्रियाः सर्वाश्च शीतलाः ||२२||
उद्धृत्याधिकदन्तं तु ततोऽग्निमवचारयेत् |
कृमिदन्तकवच्चापि विधिः कार्यो विजानता ||२३||
संशोध्योभयत इति वमनविरेचनाभ्यामूर्ध्वमधश्च कायं शोधयित्वा, शिरोविरेचनेन शिरश्च संशोधयेदित्यर्थः| रक्तपित्तोत्थितेऽप्युपकुशे स्थानिनः कफस्य प्रतीकारार्थं वमनं युक्तम्| काकोदुम्बरिका काष्ठोदुम्बरिका, गोजी गोजिह्वा| निचुलो वेतसः| मधुरकैः काकोल्यादिभिः||१९-२३||
Adhikarana 5 (24-25) · Śloka 25
छित्त्वाऽधिमांसं सक्षौद्रैरेभिश्चूर्णैरुपाचरेत् |
वचातेजोवतीपाठास्वर्जिकायावशूकजैः ||२४||
क्षौद्रद्वितीयाः पिप्पल्यः कवलश्चात्र कीर्तितः |
पटोलत्रिफलानिम्बकषायश्चात्र धावने |
हितः शिरोविरैकश्च धूमो वैरेचनश्च यः ||२५||
छित्त्वेत्यादि| तेजोवती काकमर्दनिका| सक्षौद्रश्च सपिप्पलीकः सुखोदके कवलः||२४-२५||
Adhikarana 6 (26-33) · Śloka 33
सामान्यं कर्म नाडीनां विशेषं चात्र मे शृणु |
नाडीव्रणहरं कर्म दन्तनाडीषु कारयेत् ||२६||
यं दन्तमभिजायेत नाडी तं दन्तमुद्धरेत् |
छित्त्वा मांसानि शस्त्रेण यदि नोपरिजो भवेत् ||२७||
शोधयित्वा दहेच्चापि क्षारेण ज्वलनेन वा |
भिनत्त्युपेक्षिते दन्ते हनुकास्थि गतिर्ध्रुवम् ||२८||
समूलं दशनं तस्मादुद्धरेद्भग्नमस्थिरम् |
उद्धृते तूत्तरे दन्ते समूले स्थिरबन्धने ||२९||
रक्तातियोगात् पूर्वोक्ता रोगा घोरा भवन्ति हि |
काणः सञ्जायते जन्तुरर्दितं चास्य जायते ||३०||
चलमप्युत्तरं दन्तमतो नापहरेद्भिषक् |
धावने जातिमदनस्वादुकण्टकखादिरम् ||३१||
कषायं जातिमदनकटुकस्वादुकण्टकैः |
यष्ट्याह्वरोध्रमञ्जिष्ठाखदिरैश्चापि यत् कृतम् ||३२||
तैलं संशोधनं तद्धि हन्याद्दन्तगतां गतिम् |
कीर्तिता दन्तमूले तु क्रिया दन्तेषु वक्ष्यते ||३३||
सामान्यमित्यादि| सामान्यं तुल्यम्| यदेव वातादिनाडीनां कर्मोक्तं तदेव दन्तनाडीनां सामान्यमेकमित्यर्थः| यं दन्तमभिजायेतेत्यादि यं दन्तमभि समीपे नाडी स्यात्तं दन्तमुद्धरेत्| यदि नोपरिजो भवेदिति ऊर्ध्वगतदन्तपङ्क्तिगतश्चेन्न भवति| स्थिरबन्धने दृढतरदन्तवेष्टने| ‘समूले स्थिरबन्धने’ इत्यत्र ‘शोणितं सम्प्रसिच्यते’ इति पठन्ति| धावने प्रक्षालने, जातिमदनकटुकस्वादुकण्टकखादिरं कषायमिति; अन्ये तु कषायमामपूगफलमिति मन्यन्ते| स्वादुकण्टको गोक्षुरः, कण्टकारिवृक्षमन्ये||२६-३३||
Adhikarana 7 (34-40) · Śloka 41
स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृतस्य वा |
निर्यूहाश्चानिलघ्नानां दन्तहर्षप्रमर्दनाः ||३४||
स्नैहिकश्च हितो धूमो नस्यं स्निग्धं च भोजनम् |
रसो रसयवाग्वश्च क्षीरं सन्तानिका घृतम् ||३५||
शिरोबस्तिर्हितश्चापि क्रमो यश्चानिलापहः |
अहिंसन् दन्तमूलानि शर्करामुद्धरेद्भिषक् ||३६||
लाक्षाचूर्णैर्मधुयुतैस्ततस्ताः प्रतिसारयेत् |
दन्तहर्षक्रियां चापि कुर्यान्निरवशेषतः ||३७||
कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया हिता |
जयेद्विस्रावणैः स्विन्नमचलं कृमिदन्तकम् ||३८||
तथाऽवपीडैर्वातघ्नैः स्नेहगण्डूषधारणैः |
भद्रदार्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः ||३९||
चलमुद्धृत्य च स्थानं विदहेत् सुषिरस्य च |
ततो विदारीयष्ट्याह्वशृङ्गाटककसेरुकैः ||४०||
तैलं दशगुणे क्षीरे सिद्धं नस्ये हितं भवेत् |४१|
सर्पिषस्त्रैवृतस्य वेति वातव्याधिपठितस्य | निर्यूहाः क्वाथाः| रसो मांसरसः| रसयवाग्वो मांसरसयवाग्वः| क्षीरं दुग्धम्| सन्तानिका ‘सर’ इति भाषा, क्षीरसान्निध्यात् सन्तानिकाघृते क्षीरोत्थे एव| प्रतिसारयेत् घर्षयेदित्यर्थः| उद्धृतदशनस्य स्थानं दहेच्छुद्ध्यर्थं शोणितस्रावनिषेधार्थं च; सुषिरस्य च पूयकृतच्छिद्रस्य ‘स्थानं दहेत्’ इति शेषः||३४-४०||-
Adhikarana 8 (41-42) · Śloka 43
हनुमोक्षे समुद्दिष्टां कुर्याच्चार्दितवत् क्रियाम् ||४१||
फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम् |
तथाऽतिकठिनान् भक्ष्यान् दन्तरोगी विवर्जयेत् ||४२||
साध्यानां दन्तरोगणां चिकित्सितमुदीरितम् |४३|
अर्दितवत्समुद्दिष्टामिति अर्दित इव समुद्दिष्टां क्रियां कुर्यात्| समुद्दिष्टग्रहणेनैतज्ज्ञापयति- अर्दितोक्तामातिदेशिकीं “वातव्याधिविधिनोपचरेत्” (चि.अ.५) इत्येवंरूपां वैशेषिकीं वातार्दितोक्तां मस्तिष्कशिरोबस्तिनस्यधूमोपनाहादिकां द्विविधामपि क्रियां कुर्यादिति| साध्यानां दन्तरोगाणां चिकित्सितमुक्तं, श्यावदन्तदालनभञ्जनानामसाध्यत्वान्नोदाहृतम्||४१-४२||-
Adhikarana 9 (43-48) · Śloka 49
जिह्वागतानां साध्यानां कर्म वक्ष्यामि सिद्धये ||४३||
ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक् चिकित्सितम् |
कण्टकेष्वनिलोत्थेषु तत् कार्यं भिषजा भवेत् ||४४||
पित्तजेषु विघृष्टेषु निःसृते दुष्टशोणिते |
प्रतिसारणगण्डूषं नस्यं च मधुरं हितम् ||४५||
कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये |
पिप्पल्यादिर्मधुयुतः कार्यस्तु प्रतिसारणे ||४६||
गृह्णीयात् कवलांश्चापि गौरसर्षपसैन्धवैः |
पटोलनिम्बवार्ताकुक्षारयूषैश्च भोजयेत् ||४७||
उपजिह्वां तु संलिख्य क्षारेण प्रतिसारयेत् |
शिरोविरेकगण्डूषधूमैश्चैनमुपाचरेत् ||४८||
जिह्वागतानां कर्मोक्तं... |४९|
जिह्वेत्यादि| विघृष्टेषु गोजीशेफालिकादिपत्रघृष्टेषु, प्रतिसारणं मधुरैरेव काकोल्यादिभिः; गण्डूषोऽपि तैरेव क्वथितैः; नस्यमपि दशगुणक्षीरं तत्कल्कसधितं हितम्| लिखितेषु मण्डलाग्रादिना| असृजः क्षये असृजोऽवसाने, विरामे इत्यर्थः| क्षारो यवक्षारः, तत्प्रधानैः युषैः क्षारयूषैः| उपजिह्वामित्यादि| गण्डूषः कफव्रणहरद्रव्येण कफकण्टकहरद्रव्येण वा| धूमैश्च वैरेचनिकधूमैः| अलासः पुनरत्र कफरक्तकृत आशुकारित्वात् प्रत्याख्यायैव विरेचनक्षोणितमोक्षणकवलशिरोविरेचनधूमवमनादिभिरुपचर्यः||४३-४८||-
Adhikarana 10 (49-58) · Śloka 59
... तालव्यानां प्रवक्ष्यते |
अङ्गुष्ठाङ्गुलिसन्दंशेनाकृष्य गलशुण्डिकाम् ||४९||
छेदयेन्मण्डलाग्रेण जिह्वोपरि तु संस्थिताम् |
नोत्कृष्टं चैव हीनं च त्रिभागं छेदयेद्भिषक् ||५०||
अत्यादानात् स्रवेद्रक्तं तन्निमित्तं म्रियेत च |
हीनच्छेदाद्भवेच्छोफो लाला निद्रा भ्रमस्तमः ||५१||
तस्माद्वैद्यः प्रयत्नेन दृष्टकर्मा विशारदः |
गलशुण्डीं तु सञ्छिद्य कुर्यात् प्राप्तमिमं क्रमम् ||५२||
मरिचातिविषापाठावचाकुष्ठकुटन्नटैः |
क्षौद्रयुक्तैः सलवणैस्ततस्तां प्रतिसारयेत् ||५३||
वचामतिविषां पाठां रास्नां कटुकरोहिणीम् |
निष्क्वाथ्य पिचुमन्दं च कवलं तत्र योजयेत् ||५४||
इङ्गुदीकिणिहीदन्तीसरलासुरदारुभिः |
पञ्चाङ्गीं कारयेत् पिष्टैर्वर्तिं गन्धोत्तरां शुभाम् ||५५||
ततो धूमं पिबेज्जन्तुर्द्विरह्नः कफनाशनम् |
क्षारसिद्धेषु मुद्गेषु यूषश्चाप्यशने हितः ||५६||
तुण्डिकेर्यध्रुषे कूर्मे सङ्घाते तालुपुप्पुटे |
एष एव विधिः कार्यो विशेषः शस्त्रकर्मणि ||५७||
तालुपाके तु कर्तव्यं विधानं पित्तनाशनम् |
स्नेहस्वेदौ तालुशोषे विधिश्चानिलनाशनः ||५८||
कीर्तितं तालुजानां तु... |५९|
अङ्गुष्ठेत्यादि| छेदयेन्मण्डलाग्रेणेति भागद्वयमर्धं वा परित्यज्य भागेनैकेनार्धेन वा छेदयेत्| भ्रमश्चक्रारूढस्येव भ्रमणम्| तमः अन्धकारदर्शनम्| प्राप्तं युक्तम्| कुटन्नटः श्योनाकः| किणिही कटभी, सरला त्रिवृत्| पञ्चाङ्गीमिति पञ्चभिरङ्गभूतैर्द्रव्यैः कृता पञ्चाङ्गी, ताम्| गन्धोत्तरां गन्धप्रधानाम्| द्विरह्नः अह्नि वारद्वयमिति| क्षारसिद्धेषु मुद्गेष्विति कृतो यूषो यवक्षारेण लवणीकृतो भोजने हितः पथ्यः| तुण्डिकेरीत्यादि| विशेषः शस्त्रकर्मणीति शस्त्रकर्मणि विशेषो भेदः| तत्र तुण्डिकेरी मेद्या तालुपुप्पुटकोऽपि, अध्रुषमांससङ्घातौ छेद्यौ, मांसोच्छ्रायत्वाल्लेख्यः कुर्मस्ततोऽनुरूपायामवस्थायां छेद्योऽपि| ताल्वित्यादि| चकारेणात्र तालुशोषे पित्तहरो विधिः समुच्चीयते, पित्तेनापि तालुशोषजननात्| कीर्तितं तालुजानामिति अत्र रक्तार्बुदस्यासाध्यत्वात् कर्म नोदाहृतम्||४९-५८||-
Adhikarana 11 (59-66) · Śloka 67
... कण्ठ्यानां कर्म वक्ष्यते |
साध्यानां रोहिणीनां तु हितं शोणितमोक्षणम् ||५९||
छर्दनं धूमपानं च गण्डूषो नस्यकर्म च |
वातिकीं तु हृते रक्ते लवणैः प्रतिसारयेत् ||६०||
सुखोष्णन् स्नेहगण्डूषान् धारयेच्चाप्यभीक्ष्णशः |
पतङ्गशर्कराक्षौद्रैः पैत्तिकीं प्रतिसारयेत् ||६१||
द्राक्षापरूषकक्वाथो हितश्च कवलग्रहे |
अगारधूमकटुकैः श्लैष्मिकीं प्रतिसारयेत् ||६२||
श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम् |
नस्यकर्मणि योक्तव्यं तथा कवलधारणे ||६३||
पित्तवत् साधयेद्वैद्यो रोहिणीं रक्तसम्भवाम् |
विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत् ||६४||
एककालं यवान्नं च भुञ्जीत स्निग्धमल्पशः |
उपजिह्विकवच्चापि साधयेदधिजिह्विकाम् ||६५||
एकवृन्दं तु विस्राव्य विधिं शोधनमाचरेत् |
गिलायुश्चापि यो व्याधिस्तं च शस्त्रेण साधयेत् ||६६||
अमर्मस्थं सुपक्वं च भेदयेद्गलविद्रधिम् |६७|
शोणितमोक्षणादिकर्मपच्चकं सामान्यं साध्यानाम्| अभीक्ष्णशः वारंवारम्| पतङ्गं रक्तचन्दनम्| श्वेता श्वेतस्यन्दा| विस्राव्येत्यादि| साधयेत्तुण्डिकेरिवदिति तुण्डिकेर्यामपि गलशुण्डीविध्यतिदेशात् साधयेद्गलशुण्डीवदिति वाच्ये तुण्डिकेरीविध्यतिदेशो निःशेषच्छेदनार्थः, गलशुण्डीवदत्र त्रिभागच्छेदो न कार्य इति बोधयति, अशेषच्छेदो न पुनस्त्रिभागादिभिरिति| विस्राव्य जलौकाभिः| शिरोविरेचनधूमलेपनक्षारादिभिः शोधनम्||५९-६६||-
Adhikarana 12 (67-75) · Śloka 75
वातात् सर्वसरं चूर्णैर्लवणैः प्रतिसारयेत् ||६७||
तैलं वातहरैः सिद्धं हितं कवलनस्ययोः |
ततोऽस्मै स्नैहिकं धूममिमं दद्याद्विचक्षणः ||६८||
शालराजादनैरण्डसारैङ्गुदमधूकजाः |
मज्जानो गुग्गुलुध्याममांसीकालानुसारिवाः |
श्रीसर्जरसशैलेयमधूच्छिष्टानि चाहरेत् ||६९||
तत्सर्वं सुकृतं चूर्णं स्नेहेनालोड्य युक्तितः |
टिण्टूकवृन्तं सक्षौद्रं मतिमांस्तेन लेपयेत् ||७०||
एष सर्वसरे धूमः प्रशस्तः स्नैहिको मतः |
कफघ्नो मारुतघ्नश्च मुखरोगविनाशनः ||७१||
पित्तात्मके सर्वसरे शुद्धकायस्य देहिनः |
सर्वः पित्तहरः कार्यो विधिर्मधुरशीतलः ||७२||
प्रतिसारणगण्डूषौ धूमः संशोधनानि च |
कफात्मके सर्वसरे विधिं कुर्यात् कफापहम् ||७३||
पिबेदतिविषां पाठां मुस्तं च सुरदारु च |
रोहिणीं कटुकाख्यां च कुटजस्य फलानि च ||७४||
गवां मूत्रेण मनुजो भागैर्धरणसम्मितैः |
एष सर्वान् कफकृतान् रोगान् योगोऽपकर्षति ||७५||
मुखावयवगतान्निर्दिश्य सकलवदनगतान्निर्दिशन्नाह- वातादित्यादि| लवणैश्चूर्णैः पञ्चलवणकृतैः| तैलं वातहरैः सिद्धं हितं कवलनस्ययोः वातहरभद्रदार्वादिकल्ककषायसिद्धं तैलं कवले नस्ये च हितमित्यर्थः| शालराजादनेत्यादि शालफलादिमज्जानः; शालः शङ्कुः, राजादनः क्षीरिका, सारः सारवृक्षः खदिरादिः| ध्यामं गन्धतृणं , कालानुसारिवा कालवल्ली| श्रीः नवनीतखोटिः सरलनिर्यासः, सर्जरसः राला| स्नेहेनालोड्य युक्तित इति यावता स्नेहेन नातिघनत्वं नातितनुत्वं लेपयोग्यता च भवति तावती स्नेहमात्रेत्यर्थः| टिण्टुकः श्योनाकः| शुद्धकायस्य वमनादिभिः| अतिविषादिचूर्णधरणभागं प्रतिदिवसं षाण्मासिकं गोमूत्रेण पेयम्| धरणमानमपि केचित् सौश्रुतीयाः पठन्ति; “मध्यमा एकोनविंशतिर्निष्पावा धरणं तान्यर्धतृतीयानि कर्षः” (चि.अ.३१) इति||६७-७५||
Adhikarana 13 (76) · Śloka 76
क्षीरेक्षुरसगोमूत्रदधिमस्त्वम्लकाञ्जिकैः |
विदध्यात् कवलान् वीक्ष्य दोषं तैलघृतैरपि ||७६||
सर्वेष्वेव मुखरोगेष्वत्र दोषादिविभागेन कवलान्निर्दिशन्नाह- क्षीरेक्षुरसेत्यादि| वीक्ष्य दोषं दोषकार्यमपि रोगमित्यर्थः||७६||
Adhikarana 14 (77-81) · Śloka 81
रोगाणां मुखजातानां साध्यानां कर्म कीर्तितम् |
असाध्या अपि वक्ष्यन्ते रोगा ये तत्र कीर्तिताः ||७७||
ओष्ठप्रकोपे वर्ज्याः स्युर्मांसरक्तत्रिदोषजाः |
दन्तमूलेषु वर्ज्यौ तु त्रिलिङ्गगतिसौषिरौ ||७८||
दन्तेषु च न सिध्यन्ति श्यावदालनभञ्जनाः |
जिह्वागतेष्वलासस्तु तालव्येष्वर्बुदं तथा ||७९||
स्वरघ्नो वलयो वृन्दो विदार्यलस एव च |
गलौष्ठो मांसतानश्च शतघ्नी रोहिणी च या ||८०||
असाध्याः कीर्तिता ह्येते रोगा नव दशैव च |
तेषां चापि क्रियां वैद्यः प्रत्याख्याय समाचरेत् ||८१||
ओष्ठजास्त्रयः, दन्तमूलेषु द्वौ, दन्तभवेषु त्रयः, त्रिलिङ्गगतिः त्रिदोषलिङ्गाकृतिर्नाडी, जिह्वागतेष्वेकः, तालुन्यप्येक एव, स्वरघ्नादयो नव गले, समुदायसङ्ख्या नव दशैवेति||७७-८१||
Adhikarana puShpikA · Śloka 22
इति सुश्रुतसंहितायां चिकित्सास्थाने मुखरोगचिकित्सितं नाम द्वाविंशोऽध्यायः ||२२||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने द्वाविंशतितमोऽध्यायः||२२||