Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

22. mukharōgacikitsitam

Adhikarana 1 (1-9) · Śloka 10

अथातो मुखरोगचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| चतुर्विधेन स्नेहेन मधूच्छिष्टयुतेन च | वातजेऽभ्यञ्जनं कुर्यान्नाडीस्वेदं च बुद्धिमान् ||३|| विदध्यादोष्ठकोपे तु साल्वणं चोपनाहने | मस्तिष्के चैव नस्ये च तैलं वातहरं हितम् ||४|| श्रीवेष्टकं सर्जरसं सुरदारु सगुग्गुलु | यष्टीमधुकचूर्णं तु विदध्यात् प्रतिसारणम् ||५|| पित्तरक्ताभिघातोत्थं जलौकोभिरुपाचरेत् | पित्तविद्रधिवच्चापि क्रियां कुर्यादशेषतः ||६|| शिरोविरेचनं धूमः स्वेदः कवल एव च | हृते रक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके ||७|| त्र्यूषणं स्वर्जिकाक्षारो यवक्षारो विडं तथा | क्षौद्रयुक्तं विधातव्यमेतच्च प्रतिसारणम् ||८|| मेदोजे स्वेदिते भिन्ने शोधिते ज्वलनो हितः | प्रियङ्गुत्रिफलालोध्रं सक्षौद्रं प्रतिसारणम् ||९|| एतदोष्ठप्रकोपानां साध्यानां कर्म कीर्तितम् |१०|

🔊 Audio coming soon

चतुर्विधेन चतुष्प्रकारेण| स्नेहेन दोषाद्यपेक्षया समस्तव्यस्तेन स्नेहपाकपरिभाषया वातहरकषायमधूच्छिष्टकल्कशृतेनाभ्यङ्गः| ततः स्निग्धं नाडीस्वेदेन यथोक्तेन स्वेदयेत्| मस्तिष्कः शिरोबस्तिप्रकारः; बध्यत ऊर्ध्वं शिरोबस्तिः, अनवबद्धो मस्तिष्क इति| अन्ये तु पठन्ति ‘मस्तिष्क्ये चैव नस्ये च’ इत्यादि; अत्र मस्तिष्क्यं मस्तिष्के हितमभ्यङ्गतैलपिचुधारणशिरोबस्त्यादि| श्रीवेष्टकः सरलनिर्यासः| प्रतिसारणं घर्षणम्| क्रियां कुर्यादशेषत इति संशोधनसंशमनरूपां बाह्यामाभ्यन्तरीं च| मेदोजे पुनरस्नेहपूर्वं स्वेदिते भित्त्वा मेदसोऽपकर्षणं, शोधिते चाग्नेरवचारणं पथ्यम्||१-९||-

Adhikarana 2 (10-13) · Śloka 14

दन्तमूलगतानां तु रोगाणां कर्म वक्ष्यते ||१०|| शीतादे हृतरक्ते तु तोये नागरसर्षपान् | निष्क्वाथ्य त्रिफलां मुस्तं गण्डूषः सरसाञ्जनः ||११|| प्रियङ्गवश्च मुस्तं च त्रिफला च प्रलेपनम् | नस्यं च त्रिफलासिद्धं मधुकोत्पलपद्मकैः ||१२|| दन्तपुप्पुटके कार्यं तरुणे रक्तमोक्षणम् | सपञ्चलवणः क्षारः सक्षौद्रः प्रतिसारणम् ||१३|| हितः शिरोविरेकश्च नस्यं स्निग्धं च भोजनम् |१४|

🔊 Audio coming soon

दन्तेत्यादि| नस्यमित्यादि| शोणितावसेकशोधनगण्डूषकुपितवातानुबन्धे स्नेहनं नस्यम्| तत्र कफानुगते मधुकादिभिः सह त्रिफलासिद्धं तैलं नस्ये प्रयोज्यं, शोणितानुगमे च त्रिफलादिसंसिद्धं घृतमिति| तरुणे तत्कालोत्पन्ने| नस्यमिति ‘शीतादोक्तस्नेहेन’ इति शेषः, दोषदूष्यस्थानानामैक्यात्||१०-१३||-

Adhikarana 3 (14-18) · Śloka 18

विस्राविते दन्तवेष्टे व्रणांस्तु प्रतिसारयेत् ||१४|| रोध्रपत्तङ्गयष्ट्याह्वलाक्षाचूर्णैर्मधूत्तरैः | गण्डूषे क्षीरिणो योज्याः सक्षौद्रघृतशर्कराः ||१५|| काकोल्यादौ दशक्षीरसिद्धं सर्पिश्च नस्यतः | शौषिरे हृतरक्ते तु रोध्रमुस्तरसाञ्जनैः ||१६|| सक्षौद्रैः शस्यते लेपो गण्डूषे क्षीरिणो हिताः | सारिवोत्पलयष्ट्याह्वसावरागुरुचन्दनैः ||१७|| क्षीरे दशगुणे सिद्धं सर्पिर्नस्ये च पूजितम् | क्रियां परिदरे कुर्याच्छीतादोक्तां विचक्षणः ||१८||

🔊 Audio coming soon

विस्राविते इत्यादि| पत्तङ्गं रक्तचन्दनं, मधूत्तरैः मधुप्रधानैः| क्षीरिणो वटादयः| दशक्षीरसिद्धं दशगुणेन गव्यक्षीरेण घृतं साधनीयम्||१४-१८||

Adhikarana 4 (19-23) · Śloka 23

संशोध्योभयतः कार्यं शिरश्चोपकुशे तथा | काकोदुम्बरिकागोजीपत्रैर्विस्रावयेदसृक् ||१९|| क्षौद्रयुक्तैश्च लवणैः सव्योषैः प्रतिसारयेत् | पिप्पलीः सर्षपाञ् श्वेतान्नागरं नैचुलं फलम् ||२०|| सुखोदकेन संसृज्य कवलं चापि धारयेत् | घृतं मधुरकैः सिद्धं हितं कवलनस्ययोः ||२१|| शस्त्रेण दन्तवैदर्भे दन्तमूलानि शोधयेत् | ततः क्षारं प्रयुञ्जीत क्रियाः सर्वाश्च शीतलाः ||२२|| उद्धृत्याधिकदन्तं तु ततोऽग्निमवचारयेत् | कृमिदन्तकवच्चापि विधिः कार्यो विजानता ||२३||

🔊 Audio coming soon

संशोध्योभयत इति वमनविरेचनाभ्यामूर्ध्वमधश्च कायं शोधयित्वा, शिरोविरेचनेन शिरश्च संशोधयेदित्यर्थः| रक्तपित्तोत्थितेऽप्युपकुशे स्थानिनः कफस्य प्रतीकारार्थं वमनं युक्तम्| काकोदुम्बरिका काष्ठोदुम्बरिका, गोजी गोजिह्वा| निचुलो वेतसः| मधुरकैः काकोल्यादिभिः||१९-२३||

Adhikarana 5 (24-25) · Śloka 25

छित्त्वाऽधिमांसं सक्षौद्रैरेभिश्चूर्णैरुपाचरेत् | वचातेजोवतीपाठास्वर्जिकायावशूकजैः ||२४|| क्षौद्रद्वितीयाः पिप्पल्यः कवलश्चात्र कीर्तितः | पटोलत्रिफलानिम्बकषायश्चात्र धावने | हितः शिरोविरैकश्च धूमो वैरेचनश्च यः ||२५||

🔊 Audio coming soon

छित्त्वेत्यादि| तेजोवती काकमर्दनिका| सक्षौद्रश्च सपिप्पलीकः सुखोदके कवलः||२४-२५||

Adhikarana 6 (26-33) · Śloka 33

सामान्यं कर्म नाडीनां विशेषं चात्र मे शृणु | नाडीव्रणहरं कर्म दन्तनाडीषु कारयेत् ||२६|| यं दन्तमभिजायेत नाडी तं दन्तमुद्धरेत् | छित्त्वा मांसानि शस्त्रेण यदि नोपरिजो भवेत् ||२७|| शोधयित्वा दहेच्चापि क्षारेण ज्वलनेन वा | भिनत्त्युपेक्षिते दन्ते हनुकास्थि गतिर्ध्रुवम् ||२८|| समूलं दशनं तस्मादुद्धरेद्भग्नमस्थिरम् | उद्धृते तूत्तरे दन्ते समूले स्थिरबन्धने ||२९|| रक्तातियोगात् पूर्वोक्ता रोगा घोरा भवन्ति हि | काणः सञ्जायते जन्तुरर्दितं चास्य जायते ||३०|| चलमप्युत्तरं दन्तमतो नापहरेद्भिषक् | धावने जातिमदनस्वादुकण्टकखादिरम् ||३१|| कषायं जातिमदनकटुकस्वादुकण्टकैः | यष्ट्याह्वरोध्रमञ्जिष्ठाखदिरैश्चापि यत् कृतम् ||३२|| तैलं संशोधनं तद्धि हन्याद्दन्तगतां गतिम् | कीर्तिता दन्तमूले तु क्रिया दन्तेषु वक्ष्यते ||३३||

🔊 Audio coming soon

सामान्यमित्यादि| सामान्यं तुल्यम्| यदेव वातादिनाडीनां कर्मोक्तं तदेव दन्तनाडीनां सामान्यमेकमित्यर्थः| यं दन्तमभिजायेतेत्यादि यं दन्तमभि समीपे नाडी स्यात्तं दन्तमुद्धरेत्| यदि नोपरिजो भवेदिति ऊर्ध्वगतदन्तपङ्क्तिगतश्चेन्न भवति| स्थिरबन्धने दृढतरदन्तवेष्टने| ‘समूले स्थिरबन्धने’ इत्यत्र ‘शोणितं सम्प्रसिच्यते’ इति पठन्ति| धावने प्रक्षालने, जातिमदनकटुकस्वादुकण्टकखादिरं कषायमिति; अन्ये तु कषायमामपूगफलमिति मन्यन्ते| स्वादुकण्टको गोक्षुरः, कण्टकारिवृक्षमन्ये||२६-३३||

Adhikarana 7 (34-40) · Śloka 41

स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृतस्य वा | निर्यूहाश्चानिलघ्नानां दन्तहर्षप्रमर्दनाः ||३४|| स्नैहिकश्च हितो धूमो नस्यं स्निग्धं च भोजनम् | रसो रसयवाग्वश्च क्षीरं सन्तानिका घृतम् ||३५|| शिरोबस्तिर्हितश्चापि क्रमो यश्चानिलापहः | अहिंसन् दन्तमूलानि शर्करामुद्धरेद्भिषक् ||३६|| लाक्षाचूर्णैर्मधुयुतैस्ततस्ताः प्रतिसारयेत् | दन्तहर्षक्रियां चापि कुर्यान्निरवशेषतः ||३७|| कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया हिता | जयेद्विस्रावणैः स्विन्नमचलं कृमिदन्तकम् ||३८|| तथाऽवपीडैर्वातघ्नैः स्नेहगण्डूषधारणैः | भद्रदार्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः ||३९|| चलमुद्धृत्य च स्थानं विदहेत् सुषिरस्य च | ततो विदारीयष्ट्याह्वशृङ्गाटककसेरुकैः ||४०|| तैलं दशगुणे क्षीरे सिद्धं नस्ये हितं भवेत् |४१|

🔊 Audio coming soon

सर्पिषस्त्रैवृतस्य वेति वातव्याधिपठितस्य | निर्यूहाः क्वाथाः| रसो मांसरसः| रसयवाग्वो मांसरसयवाग्वः| क्षीरं दुग्धम्| सन्तानिका ‘सर’ इति भाषा, क्षीरसान्निध्यात् सन्तानिकाघृते क्षीरोत्थे एव| प्रतिसारयेत् घर्षयेदित्यर्थः| उद्धृतदशनस्य स्थानं दहेच्छुद्ध्यर्थं शोणितस्रावनिषेधार्थं च; सुषिरस्य च पूयकृतच्छिद्रस्य ‘स्थानं दहेत्’ इति शेषः||३४-४०||-

Adhikarana 8 (41-42) · Śloka 43

हनुमोक्षे समुद्दिष्टां कुर्याच्चार्दितवत् क्रियाम् ||४१|| फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम् | तथाऽतिकठिनान् भक्ष्यान् दन्तरोगी विवर्जयेत् ||४२|| साध्यानां दन्तरोगणां चिकित्सितमुदीरितम् |४३|

🔊 Audio coming soon

अर्दितवत्समुद्दिष्टामिति अर्दित इव समुद्दिष्टां क्रियां कुर्यात्| समुद्दिष्टग्रहणेनैतज्ज्ञापयति- अर्दितोक्तामातिदेशिकीं “वातव्याधिविधिनोपचरेत्” (चि.अ.५) इत्येवंरूपां वैशेषिकीं वातार्दितोक्तां मस्तिष्कशिरोबस्तिनस्यधूमोपनाहादिकां द्विविधामपि क्रियां कुर्यादिति| साध्यानां दन्तरोगाणां चिकित्सितमुक्तं, श्यावदन्तदालनभञ्जनानामसाध्यत्वान्नोदाहृतम्||४१-४२||-

Adhikarana 9 (43-48) · Śloka 49

जिह्वागतानां साध्यानां कर्म वक्ष्यामि सिद्धये ||४३|| ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक् चिकित्सितम् | कण्टकेष्वनिलोत्थेषु तत् कार्यं भिषजा भवेत् ||४४|| पित्तजेषु विघृष्टेषु निःसृते दुष्टशोणिते | प्रतिसारणगण्डूषं नस्यं च मधुरं हितम् ||४५|| कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये | पिप्पल्यादिर्मधुयुतः कार्यस्तु प्रतिसारणे ||४६|| गृह्णीयात् कवलांश्चापि गौरसर्षपसैन्धवैः | पटोलनिम्बवार्ताकुक्षारयूषैश्च भोजयेत् ||४७|| उपजिह्वां तु संलिख्य क्षारेण प्रतिसारयेत् | शिरोविरेकगण्डूषधूमैश्चैनमुपाचरेत् ||४८|| जिह्वागतानां कर्मोक्तं... |४९|

🔊 Audio coming soon

जिह्वेत्यादि| विघृष्टेषु गोजीशेफालिकादिपत्रघृष्टेषु, प्रतिसारणं मधुरैरेव काकोल्यादिभिः; गण्डूषोऽपि तैरेव क्वथितैः; नस्यमपि दशगुणक्षीरं तत्कल्कसधितं हितम्| लिखितेषु मण्डलाग्रादिना| असृजः क्षये असृजोऽवसाने, विरामे इत्यर्थः| क्षारो यवक्षारः, तत्प्रधानैः युषैः क्षारयूषैः| उपजिह्वामित्यादि| गण्डूषः कफव्रणहरद्रव्येण कफकण्टकहरद्रव्येण वा| धूमैश्च वैरेचनिकधूमैः| अलासः पुनरत्र कफरक्तकृत आशुकारित्वात् प्रत्याख्यायैव विरेचनक्षोणितमोक्षणकवलशिरोविरेचनधूमवमनादिभिरुपचर्यः||४३-४८||-

Adhikarana 10 (49-58) · Śloka 59

... तालव्यानां प्रवक्ष्यते | अङ्गुष्ठाङ्गुलिसन्दंशेनाकृष्य गलशुण्डिकाम् ||४९|| छेदयेन्मण्डलाग्रेण जिह्वोपरि तु संस्थिताम् | नोत्कृष्टं चैव हीनं च त्रिभागं छेदयेद्भिषक् ||५०|| अत्यादानात् स्रवेद्रक्तं तन्निमित्तं म्रियेत च | हीनच्छेदाद्भवेच्छोफो लाला निद्रा भ्रमस्तमः ||५१|| तस्माद्वैद्यः प्रयत्नेन दृष्टकर्मा विशारदः | गलशुण्डीं तु सञ्छिद्य कुर्यात् प्राप्तमिमं क्रमम् ||५२|| मरिचातिविषापाठावचाकुष्ठकुटन्नटैः | क्षौद्रयुक्तैः सलवणैस्ततस्तां प्रतिसारयेत् ||५३|| वचामतिविषां पाठां रास्नां कटुकरोहिणीम् | निष्क्वाथ्य पिचुमन्दं च कवलं तत्र योजयेत् ||५४|| इङ्गुदीकिणिहीदन्तीसरलासुरदारुभिः | पञ्चाङ्गीं कारयेत् पिष्टैर्वर्तिं गन्धोत्तरां शुभाम् ||५५|| ततो धूमं पिबेज्जन्तुर्द्विरह्नः कफनाशनम् | क्षारसिद्धेषु मुद्गेषु यूषश्चाप्यशने हितः ||५६|| तुण्डिकेर्यध्रुषे कूर्मे सङ्घाते तालुपुप्पुटे | एष एव विधिः कार्यो विशेषः शस्त्रकर्मणि ||५७|| तालुपाके तु कर्तव्यं विधानं पित्तनाशनम् | स्नेहस्वेदौ तालुशोषे विधिश्चानिलनाशनः ||५८|| कीर्तितं तालुजानां तु... |५९|

🔊 Audio coming soon

अङ्गुष्ठेत्यादि| छेदयेन्मण्डलाग्रेणेति भागद्वयमर्धं वा परित्यज्य भागेनैकेनार्धेन वा छेदयेत्| भ्रमश्चक्रारूढस्येव भ्रमणम्| तमः अन्धकारदर्शनम्| प्राप्तं युक्तम्| कुटन्नटः श्योनाकः| किणिही कटभी, सरला त्रिवृत्| पञ्चाङ्गीमिति पञ्चभिरङ्गभूतैर्द्रव्यैः कृता पञ्चाङ्गी, ताम्| गन्धोत्तरां गन्धप्रधानाम्| द्विरह्नः अह्नि वारद्वयमिति| क्षारसिद्धेषु मुद्गेष्विति कृतो यूषो यवक्षारेण लवणीकृतो भोजने हितः पथ्यः| तुण्डिकेरीत्यादि| विशेषः शस्त्रकर्मणीति शस्त्रकर्मणि विशेषो भेदः| तत्र तुण्डिकेरी मेद्या तालुपुप्पुटकोऽपि, अध्रुषमांससङ्घातौ छेद्यौ, मांसोच्छ्रायत्वाल्लेख्यः कुर्मस्ततोऽनुरूपायामवस्थायां छेद्योऽपि| ताल्वित्यादि| चकारेणात्र तालुशोषे पित्तहरो विधिः समुच्चीयते, पित्तेनापि तालुशोषजननात्| कीर्तितं तालुजानामिति अत्र रक्तार्बुदस्यासाध्यत्वात् कर्म नोदाहृतम्||४९-५८||-

Adhikarana 11 (59-66) · Śloka 67

... कण्ठ्यानां कर्म वक्ष्यते | साध्यानां रोहिणीनां तु हितं शोणितमोक्षणम् ||५९|| छर्दनं धूमपानं च गण्डूषो नस्यकर्म च | वातिकीं तु हृते रक्ते लवणैः प्रतिसारयेत् ||६०|| सुखोष्णन् स्नेहगण्डूषान् धारयेच्चाप्यभीक्ष्णशः | पतङ्गशर्कराक्षौद्रैः पैत्तिकीं प्रतिसारयेत् ||६१|| द्राक्षापरूषकक्वाथो हितश्च कवलग्रहे | अगारधूमकटुकैः श्लैष्मिकीं प्रतिसारयेत् ||६२|| श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम् | नस्यकर्मणि योक्तव्यं तथा कवलधारणे ||६३|| पित्तवत् साधयेद्वैद्यो रोहिणीं रक्तसम्भवाम् | विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत् ||६४|| एककालं यवान्नं च भुञ्जीत स्निग्धमल्पशः | उपजिह्विकवच्चापि साधयेदधिजिह्विकाम् ||६५|| एकवृन्दं तु विस्राव्य विधिं शोधनमाचरेत् | गिलायुश्चापि यो व्याधिस्तं च शस्त्रेण साधयेत् ||६६|| अमर्मस्थं सुपक्वं च भेदयेद्गलविद्रधिम् |६७|

🔊 Audio coming soon

शोणितमोक्षणादिकर्मपच्चकं सामान्यं साध्यानाम्| अभीक्ष्णशः वारंवारम्| पतङ्गं रक्तचन्दनम्| श्वेता श्वेतस्यन्दा| विस्राव्येत्यादि| साधयेत्तुण्डिकेरिवदिति तुण्डिकेर्यामपि गलशुण्डीविध्यतिदेशात् साधयेद्गलशुण्डीवदिति वाच्ये तुण्डिकेरीविध्यतिदेशो निःशेषच्छेदनार्थः, गलशुण्डीवदत्र त्रिभागच्छेदो न कार्य इति बोधयति, अशेषच्छेदो न पुनस्त्रिभागादिभिरिति| विस्राव्य जलौकाभिः| शिरोविरेचनधूमलेपनक्षारादिभिः शोधनम्||५९-६६||-

Adhikarana 12 (67-75) · Śloka 75

वातात् सर्वसरं चूर्णैर्लवणैः प्रतिसारयेत् ||६७|| तैलं वातहरैः सिद्धं हितं कवलनस्ययोः | ततोऽस्मै स्नैहिकं धूममिमं दद्याद्विचक्षणः ||६८|| शालराजादनैरण्डसारैङ्गुदमधूकजाः | मज्जानो गुग्गुलुध्याममांसीकालानुसारिवाः | श्रीसर्जरसशैलेयमधूच्छिष्टानि चाहरेत् ||६९|| तत्सर्वं सुकृतं चूर्णं स्नेहेनालोड्य युक्तितः | टिण्टूकवृन्तं सक्षौद्रं मतिमांस्तेन लेपयेत् ||७०|| एष सर्वसरे धूमः प्रशस्तः स्नैहिको मतः | कफघ्नो मारुतघ्नश्च मुखरोगविनाशनः ||७१|| पित्तात्मके सर्वसरे शुद्धकायस्य देहिनः | सर्वः पित्तहरः कार्यो विधिर्मधुरशीतलः ||७२|| प्रतिसारणगण्डूषौ धूमः संशोधनानि च | कफात्मके सर्वसरे विधिं कुर्यात् कफापहम् ||७३|| पिबेदतिविषां पाठां मुस्तं च सुरदारु च | रोहिणीं कटुकाख्यां च कुटजस्य फलानि च ||७४|| गवां मूत्रेण मनुजो भागैर्धरणसम्मितैः | एष सर्वान् कफकृतान् रोगान् योगोऽपकर्षति ||७५||

🔊 Audio coming soon

मुखावयवगतान्निर्दिश्य सकलवदनगतान्निर्दिशन्नाह- वातादित्यादि| लवणैश्चूर्णैः पञ्चलवणकृतैः| तैलं वातहरैः सिद्धं हितं कवलनस्ययोः वातहरभद्रदार्वादिकल्ककषायसिद्धं तैलं कवले नस्ये च हितमित्यर्थः| शालराजादनेत्यादि शालफलादिमज्जानः; शालः शङ्कुः, राजादनः क्षीरिका, सारः सारवृक्षः खदिरादिः| ध्यामं गन्धतृणं , कालानुसारिवा कालवल्ली| श्रीः नवनीतखोटिः सरलनिर्यासः, सर्जरसः राला| स्नेहेनालोड्य युक्तित इति यावता स्नेहेन नातिघनत्वं नातितनुत्वं लेपयोग्यता च भवति तावती स्नेहमात्रेत्यर्थः| टिण्टुकः श्योनाकः| शुद्धकायस्य वमनादिभिः| अतिविषादिचूर्णधरणभागं प्रतिदिवसं षाण्मासिकं गोमूत्रेण पेयम्| धरणमानमपि केचित् सौश्रुतीयाः पठन्ति; “मध्यमा एकोनविंशतिर्निष्पावा धरणं तान्यर्धतृतीयानि कर्षः” (चि.अ.३१) इति||६७-७५||

Adhikarana 13 (76) · Śloka 76

क्षीरेक्षुरसगोमूत्रदधिमस्त्वम्लकाञ्जिकैः | विदध्यात् कवलान् वीक्ष्य दोषं तैलघृतैरपि ||७६||

🔊 Audio coming soon

सर्वेष्वेव मुखरोगेष्वत्र दोषादिविभागेन कवलान्निर्दिशन्नाह- क्षीरेक्षुरसेत्यादि| वीक्ष्य दोषं दोषकार्यमपि रोगमित्यर्थः||७६||

Adhikarana 14 (77-81) · Śloka 81

रोगाणां मुखजातानां साध्यानां कर्म कीर्तितम् | असाध्या अपि वक्ष्यन्ते रोगा ये तत्र कीर्तिताः ||७७|| ओष्ठप्रकोपे वर्ज्याः स्युर्मांसरक्तत्रिदोषजाः | दन्तमूलेषु वर्ज्यौ तु त्रिलिङ्गगतिसौषिरौ ||७८|| दन्तेषु च न सिध्यन्ति श्यावदालनभञ्जनाः | जिह्वागतेष्वलासस्तु तालव्येष्वर्बुदं तथा ||७९|| स्वरघ्नो वलयो वृन्दो विदार्यलस एव च | गलौष्ठो मांसतानश्च शतघ्नी रोहिणी च या ||८०|| असाध्याः कीर्तिता ह्येते रोगा नव दशैव च | तेषां चापि क्रियां वैद्यः प्रत्याख्याय समाचरेत् ||८१||

🔊 Audio coming soon

ओष्ठजास्त्रयः, दन्तमूलेषु द्वौ, दन्तभवेषु त्रयः, त्रिलिङ्गगतिः त्रिदोषलिङ्गाकृतिर्नाडी, जिह्वागतेष्वेकः, तालुन्यप्येक एव, स्वरघ्नादयो नव गले, समुदायसङ्ख्या नव दशैवेति||७७-८१||

Adhikarana puShpikA · Śloka 22

इति सुश्रुतसंहितायां चिकित्सास्थाने मुखरोगचिकित्सितं नाम द्वाविंशोऽध्यायः ||२२||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने द्वाविंशतितमोऽध्यायः||२२||