Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

21. śūkarōgacikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातः शूकदोषचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

शूकादिदोषचिकित्सितमिति ज्ञेयम्, आदिशब्दस्य लुप्तत्वात्; तत्रादिशब्देन निदानोक्ता अभिघातनिमित्ता दुर्भगनिमित्ताश्चात्र ज्ञातव्याः||१-२||

Adhikarana 2 (3) · Śloka 3

संलिख्य सर्षपीं सम्यक् कषायैरवचूर्णयेत् | कषायेष्वेव तैलं च कुर्वीत व्रणरोपणम् ||३||

🔊 Audio coming soon

संलिख्येत्यादि| कषायैरिति कषायवृक्षचूर्णैरवचूर्णयेत्, कषायवृक्षैर्मिश्रकोक्तशोधनकषायसाधनद्रव्यैश्चूर्णीकृतैरवचूर्णयेदित्यर्थः| तेषु रोपणकषायसाधनद्रव्येषु पादिकेषु जलं चतुर्गुणं दत्त्वा रोपणं तैलं कुर्यात्||३||

Adhikarana 3 (4) · Śloka 4

अष्ठीलिकां जलौकोभिर्ग्राहयेच्च पुनः पुनः | तथा चानुपशाम्यन्तीं कफग्रन्थिवदुद्धरेत् ||४||

🔊 Audio coming soon

अष्ठीलिकामित्यादि| कफग्रन्थेरिव शस्त्रेणोद्धरणम्||४||

Adhikarana 4 (5-6) · Śloka 6

स्वेदयेद्ग्रथितं शश्वन्नाडीस्वेदेन बुद्धिमान् | सुखोष्णैरुपनाहैश्च सुस्निग्धैरुपनाहयेत् ||५|| कुम्भीकां पाकमापन्नां भिन्द्याच्छुद्धां तु रोपयेत् | तैलेन त्रिफलालोध्रतिन्दुकाम्रातकेन तु ||६||

🔊 Audio coming soon

स्वेदयेदित्यादि| शश्वत् प्रतिदिनम्| सुस्निग्धैरित्युपनाहविशेषणम्| तैलेन त्रिफलादिकल्कपादेन जलचतुर्गुणसिद्धेन रोपयेत्||५-६||

Adhikarana 5 (7) · Śloka 7

ग्राहयित्वा जलौकोभिरलजीं सेचयेत्ततः | कषायैस्तेषु सिद्धं च तैलं रोपणमिष्यते ||७||

🔊 Audio coming soon

ग्राहयित्वेत्यादि| कषायैः कषायवृक्षकषायैः, कषायवृक्षाः प्लक्षादयः||७||

Adhikarana 6 (8) · Śloka 8

बलातैलेन कोष्णेन मृदितं परिषेचयेत् | मधुरैः सर्पिषा स्निग्धैः सुखोष्णैरुपनाहयेत् ||८||

🔊 Audio coming soon

बलेत्यादि| मधुराणि काकोल्यादीनि||८||

Adhikarana 7 (9) · Śloka 9

सम्मूढपिडकां क्षिप्रं जलौकोभिरुपाचरेत् | भित्त्वा पर्यागतां चापि लेपयेत् क्षौद्रसर्पिषा ||९||

🔊 Audio coming soon

सम्मूढेत्यादि| पर्यागता पक्वा||९||

Adhikarana 8 (10-12) · Śloka 12

अवमन्थे गते पाकं भिन्ने तैलं विधीयते | धवाश्वकर्णपत्तङ्गसल्लकीतिन्दुकीकृतम् ||१०|| क्रियां पुष्करिकायां तु शीतां सर्वां प्रयोजयेत् | जलौकोभिर्हरेच्चासृक् सर्पिषा चावसेचयेत् ||११|| स्पर्शहान्यां हरेद्रक्तं प्रदिह्यान्मधुरैरपि | क्षीरेक्षुरससर्पिर्भिः सेचयेच्च सुशीतलैः ||१२||

🔊 Audio coming soon

अवमन्थेत्यादि| अश्वकर्णः पूर्वदेशे ‘गन्धमुण्ड’ इति ख्यातोऽश्वत्थसदृशः| पत्तङ्गं रक्तचन्दनम्||१०-१२||

Adhikarana 9 (13) · Śloka 13

पिडकामुत्तमाख्यां च बडिशेनोद्धरेद्भिषक् | उद्धृत्य मधुसंयुक्तैः कषायैरवचूर्णयेत् ||१३||

🔊 Audio coming soon

पिडकामित्यादि| कषायैः चूर्णैरित्यर्थः| शोधनकाले तु शोधनद्रव्यैश्चूर्णीकृतैरवचूर्णयेत्, रोपणकाले तु रोपणैरेव||१३||

Adhikarana 10 (14) · Śloka 15

रसक्रिया विधातव्या लिखिते शतपोनके | पृथक्पर्ण्यादिसिद्धं च देयं तैलमनन्तरम् ||१४|| क्रियां कुर्याद्भिषक् प्राज्ञस्त्वक्पाकस्य विसर्पवत् |१५|

🔊 Audio coming soon

रसक्रियेत्यादि| रसक्रिया फाणिताकृतिः, शोधनकाले शोधनद्रव्यकषायकृता, रोपणकाले रोपणद्रव्यकषायकृता| पृथक्पर्ण्यादिसिद्धं तैलं सामान्यस्नेहपरिभाषाकल्पेन; पृथक्पर्ण्यादीनि मिश्रके रोपणघृतपठितानि काकोल्यादिवर्जितानि| विसर्पवत् पित्तविसर्पवदित्यर्थः||१४||-

Adhikarana 11 (15-18) · Śloka 18

रक्तविद्रधिवच्चापि क्रिया शोणितजेऽर्बुदे ||१५|| कषायकल्कसर्पींषि तैलं चूर्णं रसक्रियाम् | शोधनं रोपणं चैव वीक्ष्य वीक्ष्यावचारयेत् ||१६|| हितं च सर्पिषः पानं पथ्यं चापि विरेचनम् | हितः शोणितमोक्षश्च यच्चापि लघु भोजनम् ||१७|| अर्बुदं मांसपाकं च विद्रधिं तिलकालकम् | प्रत्याख्याय प्रकुर्वीत भिषक् सम्यक् प्रतिक्रियाम् ||१८||

🔊 Audio coming soon

रक्तेत्यादि| शोणितजे अर्बुदे लिङ्गजे रक्तार्बुदे| वीक्ष्य वीक्ष्येति द्विव्रणीयोक्तामवस्थां सम्यक् निरूप्येत्यर्थः| अवचारयेत् कषायादीनीत्यर्थः||१५-१८||

Adhikarana puShpikA · Śloka 21

इति सुश्रुतसंहितायां चिकित्सास्थाने शूकरोगचिकित्सितं नामैकविंशोऽध्यायः ||२१||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने एकविंशतितमोऽध्यायः||२१||