Adhikarana 1 (1-2) · Śloka 2
अथातो नेत्रबस्तिप्रमाणप्रविभागचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
नेत्रं यन्त्रं; बस्तिरेणादीनां मूत्राधारः, तदाधेयं द्रव्यमपि; तयोः प्रमाणं प्रविभागश्च , स एव चिकित्सितं व्याधेः प्रतीकारो यस्मिंस्तत्||१-२||
Adhikarana 2 (3-4) · Śloka 4
तत्र स्नेहादीनां कर्मणां बस्तिकर्म प्रधानतममाहुराचार्याः |
कस्मात्? अनेककर्मकरत्वाद्बस्तेः; इह खलु बस्तिर्नानाविधद्रव्यसंयोगाद्दोषाणां संशोधनसंशमनसङ्ग्रहणानि करोति, क्षीणशुक्रं वाजीकरोति, कृशं बृंहयति, स्थूलं कर्शयति, चक्षुः प्रीणयति, वलीपलितमपहन्ति, वयः स्थापयति ||३||
शरीरोपचयं वर्णं बलमारोग्यमायुषः |
कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः ||४||
बस्तिकर्म तु मूत्राधारपुटकेन साध्यं कर्म; बस्तिशब्दो हि सामान्यो निरूहे स्नेहबस्तौ च| वमनविरेचने तु प्रधानतरे, बस्तिकर्म तु प्रधानतमम्| सङ्ग्रहणानीति दोषाणामेवातिप्रवर्तमानानामित्यर्थः| क्षीणशुक्रं वाजीकरोति अनेनाश्व इव बलकारिणी हर्षजा शक्तिरुक्ता| कृशं बृंहयतीत्युपचयलक्षणा शक्तिरुक्ता| वयः स्थापयतीत्यनेन आयुर्वृद्धिकरत्वं सूचयति| एतदेव प्रधानतमत्वसाधनं श्लोकेनापि दर्शयन्नाह- शरीरोपचयमित्यादि||३-४||
Adhikarana 3 (5) · Śloka 5
तथा ज्वरातीसारतिमिरप्रतिश्यायशिरोरोगाधिमन्थार्दिताक्षेपकपक्षाघातैकाङ्गसर्वाङ्गरोगाध्मानोदर- योनिशूलशर्कराशूलवृद्ध्युपदंशानाहमूत्रकृच्छ्रगुल्मवातशोणितवातमूत्रपुरीषोदावर्त- शुक्रार्तवस्तन्यनाशहृद्धनुमन्याग्रहशर्कराश्मरीमूढगर्भप्रभृतिषु चात्यर्थमुपयुज्यते ||५||
अनेकव्याधिनिर्घातकत्वं दर्शयन्नाह- तथा ज्वरातीसारेत्यादि| ज्वरादिषु चावस्थाविशेषो बस्तेर्विषयः, स च शास्त्रादेव ज्ञेयः||५||
Adhikarana 4 (6) · Śloka 6
भवति चात्र- बस्तिर्वाते च पित्ते च कफे रक्ते च शस्यते |
संसर्गे सन्निपाते च बस्तिरेव हितः सदा ||६||
दोषकार्ये ज्वरादौ बस्तिप्रयोगमभिधाय ज्वरादिकारणे दोषेऽपि बस्तेर्हितत्वं दर्शयन्नाह- भवति चात्रेत्यादि| संसर्गो दोषद्वयप्रकोपः, प्रकृतिसमसमवेतज्वराद्यारम्भकदोषत्रयप्रकोपः सन्निपातोऽत्राभिप्रेतः||६||
Adhikarana 5 (7-9) · Śloka 9
तत्र सांवत्सरिकाष्टद्विरष्टवर्षाणां षडष्टदशाङ्गुलप्रमाणानि कनिष्ठिकानामिकामध्यमाङ्गुलिपरिणाहान्यग्रेऽध्यर्धाङ्गुलद्व्यङ्गुलार्धतृतीयाङ्गुलसन्निविष्टकर्णिकानि कङ्कश्येनबर्हिणपक्षनाडीतुल्यप्रवेशानि मुद्गमाषकलायमात्रस्रोतांसि विदध्यान्नेत्राणि |
तेषु चास्थापनद्रव्यप्रमाणमातुरहस्तसम्मितेन प्रसृतेन सम्मितौ प्रसृतौ द्वौ चत्वारोऽष्टौ च विधेयाः ||७||
वर्षान्तरेषु नेत्राणां बस्तिमानस्य चैव हि |
वयोबलशरीराणि समीक्ष्योत्कर्षयेद्विधिम् ||८||
पञ्चविंशतेरूर्ध्वं द्वादशाङ्गुलं, मूलेऽङ्गुष्ठोदरपरीणाहम्, अग्रे कनिष्ठिकोदरपरीणाहम्, अग्रे त्र्यङ्गुलसन्निविष्टकर्णिकं, गृध्रपक्षनाडीतुल्यप्रवेशं, कोलास्थिमात्रछिद्रं, क्लिन्नकलायमात्रछिद्रमित्येके; सर्वाणि मूले बस्तिनिबन्धनार्थं द्विकर्णिकानि |
आस्थापनद्रव्यप्रमाणं तु विहितं द्वादशप्रसृताः |
सप्ततेस्तूर्ध्वं नेत्रप्रमाणमेतदेव, द्रव्यप्रमाणं तु द्विरष्टवर्षवत् ||९||
नेत्रप्रमाणमास्थापनद्रव्यप्रमाणं च वयोभेदेन प्रदर्शयितुमाह- तत्र सांवत्सरिकेत्यादि| तत्र सांवत्सरिकाष्टद्विरष्टवर्षाणामित्यत्र यथासङ्ख्यव्याख्यानेन सांवत्सरिकबालस्य निरूहयन्त्रं षडङ्गुलप्रमाणं, तत्कनिष्ठिकापरिणाहम्, अग्रेऽध्यर्धाङ्गुलसन्निविष्टकर्णिकं , कङ्कपक्षनाडीतुल्यप्रवेशं मूले, मुद्गवाहिस्रोतश्चाग्रे विदध्यात्| छत्राकारा गुदेऽधिकान्तःप्रवेशरोधिनी कर्णिका कथ्यते| कङ्कः वक्रचञ्चुः कृष्णवर्णः प्रसिद्ध एव| अष्टवर्षस्य पुनरष्टाङ्गुलप्रमाणं, तदनामिकापरिणाहम्, अग्रे द्व्यङ्गुलसन्निविष्टकर्णिकं, श्येनपक्षनाडीतुल्यप्रवेशं मूले, माषवाहिस्रोतश्चाग्रे विदध्यात्| द्विरष्टवर्षस्य षोडशवर्षस्येत्यर्थः| किम्भूतं यन्त्रं? दशाङ्गुलप्रमाणं, तन्मध्याङ्गुलिपरिणाहम्, अर्धतृतीयाङ्गुलसन्निविष्टकर्णिकं , बर्ही मयूरस्तत्पक्षनाडीतुल्यप्रवेशं मूले, कलायवाहिस्रोतश्चाग्रे विदध्यात्| तेष्विति सांवत्सरिकाष्टद्विरष्टवर्षेषु बालेषु यथासङ्ख्यमातुरहस्तेन द्वौ चत्वारोऽष्टौ च प्रसृता विधेयाः| प्रसृतोऽत्र कुञ्चिताङ्गुलिः पाणिः, न तु पलद्वयमिति गयदासाचार्यः| जेज्जटाचार्यस्तु आतुरहस्तग्रहणं मध्यमपुरुषहस्तोपलक्षणं, तेन तत्प्रसृतेन पलद्वयप्रमितेनेति व्याख्यानयति| अत्र मध्यवर्तिवर्षाणां नेत्रद्रव्यमानं निर्दिशन्नाह- वर्षान्तरेष्वित्यादि| पञ्चविंशतिं यावत् समीक्ष्य यथायथमभ्यूह्य नेत्रप्रमाणं बस्तिद्रव्यप्रमाणं चोत्कर्षयेत्| पञ्चविंशतेरित्यादि| गृध्रपक्षनाडीतुल्यप्रवेशं मूले| क्लिन्नकलायमात्रच्छिद्रमग्रे| सर्वाणि तु मूले बस्तिनिबन्धनार्थं द्विकर्णिकानि द्व्यङ्गुलान्तराणि कुर्यात् द्व्यङ्गुलमध्यानीत्यर्थः||७-९||
Adhikarana 6 (10) · Śloka 10
मृदुर्बस्तिः प्रयोक्तव्यो विशेषाद्बालवृद्धयोः |
तयोस्तीक्ष्णः प्रयुक्तस्तु बस्तिर्हिंस्याद् बलायुषी ||१०||
बालवृद्धयोर्हीनोपचयशक्तिलक्षणबलत्वेनास्थापनस्य मात्राकृतं हीनत्वं प्रदर्श्य तीक्ष्णादिगुणहीनत्वं दर्शयन्नाह- मृदुर्बस्तिः प्रयोक्तव्य इत्यादि| तत्र मृदुद्रव्यकृतो बस्तिर्मृदुः, तीक्ष्णश्च तद्विपर्ययः||१०||
Adhikarana 7 (11) · Śloka 11
(व्रणनेत्रमष्टाङ्गुलं मुद्गवाहिस्रोतः; व्रणमवेक्ष्य यथास्वं स्नेहकषाये विदधीत) ||११||
शल्यतन्त्रत्वादस्य शास्त्रस्य व्रणनेत्रप्रमाणमाह- व्रणनेत्रमष्टाङ्गुलमित्यादि||११||
Adhikarana 8 (12) · Śloka 12
तत्र नेत्राणि सुवर्णरजतताम्रायोरीतिदन्तशृङ्गमणितरुसारमयानि श्लक्ष्णानि दृढानि गोपुच्छाकृतीन्यृजूनि गुटिकामुखानि च ||१२||
तानि च नेत्राणि किम्मयानि किमाकृतीनि वा तदाह- तत्र नेत्राणीत्यादि| रीतिः पित्तलं, मणिः स्फटिकादिः| श्लक्ष्णानि अकर्कशानि| दृढानि अजर्जराणि| गुटिकामुखानि अतीक्ष्णाग्राणि||१२||
Adhikarana 9 (13-14) · Śloka 14
बस्तयश्च बन्ध्या मृदवो नातिबहला दृढाः प्रमाणवन्तो गोमहिषवराहाजोरभ्राणाम् ||१३||
नेत्रालाभे हिता नाडी नलवंशास्थिसम्भवा |
बस्त्यलाभे हितं चर्म सूक्ष्मं वा तान्तवं घनम् ||१४||
कीदृशा बस्तयो बन्ध्या इत्याह- बस्तयश्च बन्ध्या इत्यादि| नातिबहला नात्युपचिताः, नातिदीर्घा इत्यन्ये| तान्तवं वस्त्रम्||१३-१४||
Adhikarana 10 (15-17) · Śloka 17
बस्तिं निरुपदिग्धं तु शुद्धं सुपरिमार्जितम् |
मृद्वनुद्धतहीनं च मुहुः स्नेहविमर्दितम् ||१५||
नेत्रमूले प्रतिष्ठाप्य न्युब्जं तु विवृताननम् |
बद्ध्वा लोहेन तप्तेन चर्मस्रोतसि निर्दहेत् ||१६||
परिवर्त्य ततो बस्तिं बद्ध्वा गुप्तं निधापयेत् |
आस्थापनं च तैलं च यथावत्तेन दापयेत् ||१७||
ग्रहणयोग्यबस्तेः परिकर्म बन्धविधिं च दर्शयन्नाह- बस्तिं निरुपदिग्धमित्यादि| निरुपदिग्धं मांसाद्युपलेपवर्जितम्| शुद्धं कषायरञ्जितम्| सुपरिमार्जितं सुष्ठुनिर्मार्जितम्| अनुद्धतहीनं नाधिकं न हीनम्; एतेनाधेयद्रव्यमानं समीक्ष्याधारभूतस्य बस्तेः प्रमाणं विधेयमित्यर्थः| प्रतिष्ठाप्य संयोज्य| न्युब्जम् अधोमुखम्| गोमहिषादिबस्तयो निरूहयन्त्रे यथालाभं संयोज्याः; उत्तरबस्तियन्त्रे पुनरजोरभ्रबस्ती एव योजनीयाविति||१५-१७||
Adhikarana 11 (18) · Śloka 18
तत्र द्विविधो बस्तिः- नैरूहिकः, स्नैहिकश्च |
आस्थापनं, निरूह इत्यनर्थान्तरं; तस्य विकल्पो माधुतैलिकः; तस्य पर्यायशब्दो यापनो, युक्तरथः, सिद्धबस्तिरिति |
स दोषनिर्हरणाच्छरीरनीरोहणाद्वा निरूहः, वयःस्थापनादायुःस्थापनाद्वा आस्थापनम् |
माधुतैलिकविधानं च निरूहोपक्रमचिकित्सिते वक्ष्यामः |
यथाप्रमाणगुणविहितः स्नेहबस्तिविकल्पोऽनुवासनः पादाव(प)कृष्टः |
अनुवसन्नपि न दुष्यत्यनुदिवसं वा दीयत इत्यनुवासनः |
तस्यापि विकल्पोऽर्धार्धमात्रावकृष्टोऽपरिहार्यो मात्राबस्तिरिति ||१८||
अनर्थान्तरमिति एकार्थमित्यर्थः| बस्तेर्नैरूहिकस्नैहिकभेदाभ्यां यौ द्वौ विकल्पौ तौ निरूहस्नेहबस्त्याख्यौ, तयोर्नैरूहिकमभिधाय स्नैहिकं बस्तिविकल्पमभिधत्ते- यथेत्यादि| यस्य यत् प्रमाणं यो यो गुणस्ताभ्यां विहितः स्नेहबस्त्याख्योऽनुवासनसञ्ज्ञ इत्यर्थः| यथावयोनिरूहाणामित्यादिना विधास्यमानोऽपि स्नेहबस्तिविकल्पोऽनागतावेक्षणतन्त्रयुक्त्या विहित इति प्रदिष्टः| यथाप्रमाणमित्यनेन सूचितं प्रमाणं प्रकटयन्नाह- पादाव(प)कृष्ट इति|- यथावय इत्यादिवक्ष्यमाणवाक्यदर्शनादास्थापनस्य पादैस्त्रिभिरपकृष्टो हीनः पादाव(प)कृष्टः| अयमर्थः- सांवत्सरिकादिकालाद्यपेक्षं यत् प्रकुञ्चादि चतुर्विंशतिपलावसानं निरूहप्रमाणं तच्चतुर्थांशेन कर्षमारभ्य षट्पलानि यावदनुवासनस्य प्रमाणमिति| तन्त्रान्तरे च मध्यवयस्कमाश्रित्यानुवासनस्योत्तमादिमात्राभेदेन त्रैविध्यमुक्तं, यथा- “षट्पली तु भवेच्छ्रेष्ठा मध्यमा त्रिपली भवेत्| कनीयस्यध्यर्धपला त्रिधा मात्राऽनुवासने-” इति| तस्यापि विकल्प इत्यादि तस्याप्यनुवासनस्य, षट्पलप्रमाणस्यार्धार्धमात्रावशिष्टः पादावशिष्टोऽध्यर्धपलमात्र इत्यर्थः| अपरिहार्यः अविद्यमानपरिहरणार्हः| गयी तु यथाप्रमाणविहिताच्च बस्तेः पादांशः स्नेहबस्तिः, स्नेहविकल्पोऽर्धमात्रापकृष्टोऽनुवासनं, तस्यापि विकल्पोऽर्धमात्रापकृष्टोऽपरिहार्यो मात्राबस्तिरिति| एतेन तन्मते षट्पलप्रमाणः स्नेहबस्तिः, तदर्धेन पलत्रयप्रमाणमनुवासनं, तस्यार्धेन सार्धपलप्रमाणो मात्राबस्तिरिति||१८||
Adhikarana 12 (19) · Śloka 19
निरूहः शोधनो लेखी स्नैहिको बृंहणो मतः |१९|
फलेनापि तयोर्भेदं दर्शयन्नाह- निरूह इत्यादि| शोधनद्रव्यसंयुक्तः शोधनो निरूहः| सर्वनिरूहानुवासनधर्मोऽयं, द्रव्यविशेषसंयोगात्तु क्वचिच्छोधनादीनामुत्कर्षापकर्षौ| जेज्जटाचार्यस्तु ‘स्नेहनो बृंहणो मत’ इति पठित्वा शोधनादिचतुष्कं निरूहस्य कर्मेति वर्णयति|१९|-
Adhikarana 13 (19-20) · Śloka 20
निरूहशोधितान्मार्गान् सम्यक् स्नेहोऽनुगच्छति |
अपेतसर्वदोषासु नाडीष्विव वहज्जलम् ||१९||
सर्वदोषहरश्चासौ शरीरस्य च जीवनः |
तस्माद्विशुद्धदेहस्य स्नेहबस्तिर्विधीयते ||२०||
निरूहशोधितमार्गेषु सम्यक् स्नेहवीर्यानुसरणं दर्शयन्नाह- निरूहेत्यादि||१९-२०||
Adhikarana 14 (21) · Śloka 21
तत्रोन्मादभयशोकपिपासारोचकाजीर्णार्शःपाण्डुरोगभ्रममदमूर्च्छाच्छर्दिकुष्ठमेहोदरस्थौल्य- श्वासकासकण्ठशोषशोफोपसृष्टक्षतक्षीणचतुस्त्रिमासगर्भिणीदुर्बलाग्न्यसहा बालवृद्धौ च वातरोगादृते क्षीणा नानुवास्या नास्थापयितव्याः ||२१||
तत्रेत्यादि| भ्रमः चक्रारूढस्येव भ्रमणम्| मदः पूगफलेनेव मत्तता| मूर्च्छा चेतनाच्युतिः| उपसृष्टशब्द उन्मादादिभिः शोफान्तैः सह सम्बन्धनीयः| क्षतः क्षतोरस्कः, क्षीणः कृशः| चतुस्त्रिमासगर्भिणीति सप्तमासान् यावद्गर्भिणी; तथाच वाग्भटः- “मासान् सप्त च गर्भिणी” (वा. सू. १९)| वातरोगादृते क्षीणा इति क्षीणशब्दस्य पुनरुपादानादतिकृशा वातरोगं विना क्षीणा नानुवास्या इति| उन्मादादिषु सामान्येन बस्तिनिषेधोऽत्राभिहितः; केचित्तु केषाञ्चित्प्रतिप्रसवमपवादरूपेणाहुः| तत्रोन्मादापस्मारभ्रममदमूर्च्छासु सञ्ज्ञानाशापगमे शुद्धस्यातुरस्य अनुबन्धोपचरणाय बस्तिर्देयः, कुष्ठिनामर्शसां च मूढवातानां प्रयोज्यः, वाताद्युदरिषु त्रिषु निषिद्धोऽपि शेषेषु पञ्चसु बस्तिः प्रयोक्तव्यः, शोथक्षतोरस्कयोरनुवासननिषेधो न निरूहस्य; वर्षादर्वाग् बालस्य, नवत्यूर्ध्वं वृद्धस्य मृदुरपि बस्तिर्निषिद्धः, अतोऽन्यथा तीक्ष्ण एव; एतेनावस्थावशान्निषिद्धमपि कार्यं स्यात् “उत्पद्यते हि साऽवस्था देशकालबलं प्रति| यस्यां कार्यमकार्यं स्यात् कर्म कार्यं च गर्हितम्”- इति||२१||
Adhikarana 15 (22) · Śloka 22
उदरी च प्रमेही च कुष्ठी स्थूलश्च मानवः |
अवश्यं स्थापनीयास्ते नानुवास्याः कथञ्चन ||२२||
क्वचिदेवास्थापनस्यावस्थायां प्रतिप्रसवमुद्दिशन्नाह- उदरी चेत्यादि| सा चावस्था तन्त्रान्तरादनुसर्तव्या| तत्रोदरे वाग्भटः- “सुविरिक्तस्य यस्य स्यादाध्मानं पुनरेव तम्| सुस्निग्धैरम्ललवणैर्निरूहैः समुपाचरेत्-” (वा. चि. १५) इति; एवं प्रमेहादिषु चिकित्सितमालोक्यास्थापनावस्था ज्ञातव्या||२२||
Adhikarana 16 (23) · Śloka 23
असाध्यता विकाराणां स्यादेषामनुवासनात् |
असाध्यत्वेऽपि भूयिष्ठं गात्राणां सदनं भवेत् ||२३||
निषिद्धाचरणदोषमुद्दिशन्नाह- असाध्यतेत्यादि| एषां विकाराणाम् उदरादीनाम्| गात्रसदनम् अङ्गग्लानिः||२३||
Adhikarana 17 (24-25) · Śloka 25
पक्वाशये तथा श्रोण्यां नाभ्यधस्ताच्च सर्वतः |
सम्यक्प्रणिहितो बस्तिः स्थानेष्वेतेषु तिष्ठति ||२४||
पक्वाशयाद्बस्तिवीर्यं खैर्देहमनुसर्पति |
वृक्षमूले निषिक्तानामपां वीर्यमिव द्रुमम् ||२५||
सम्यक् प्रदत्तो बस्तिर्येषु स्थानेष्ववतिष्ठते तान्याह- पक्वाशये इत्यादि| कथं तर्हि पक्वाशयादिमात्रगतो बस्तिः क्वचित् सर्वेषामवयवानामवसादं, क्वचित् सर्वाङ्गगतानां दोषाणां हरणं शमनं च जनयतीत्याह- पक्वाशय इत्यादि| पक्वाशयाद्बस्तिवीर्यं खैः स्रोतोभिरनुसर्पति कृत्स्नदेहे; वीर्यं, शक्तिः, प्रभाव इत्यनर्थान्तरम्||२४-२५||
Adhikarana 18 (26) · Śloka 26
स चापि सहसा बस्तिः केवलः समलोऽपि वा |
प्रत्येति वीर्यं त्वनिलैरपानाद्यैर्विनीयते ||२६||
तिष्ठंस्तावद्बस्तिर्गुणकारी भवतु, कथं निर्गतोऽपि तादृशः स्यादित्याह- स चापीत्यादि| प्रत्येति प्रत्यागच्छति| वीर्यं स्नेहादिगुणः| अपानाद्यैरिति आद्यपदेनोदानादयो बोद्धव्याः| अपानेनाधः, उदानेनोर्ध्वं, व्यानेन सर्वत्र, विनीयते विशेषेण सर्वशरीरावयवेषु नीयते||२६||
Adhikarana 19 (27-28) · Śloka 28
वीर्येण बस्तिरादत्ते दोषानापादमस्तकात्(न्) |
पक्वाशयस्थोऽम्बरगो भूमेरर्को रसानिव ||२७||
स कटीपृष्ठकोष्ठस्थान् वीर्येणालोड्य सञ्चयान् |
उत्खातमूलान् हरति दोषाणां साधुयोजितः ||२८||
सकलावयवगतदोषहरणं बस्तेरेकस्थानस्थितस्योपमानेन दर्शयन्नाह- वीर्येणेत्यादि| अन्ये त्वत्रामुं श्लोकं न पठन्ति||२७-२८||
Adhikarana 20 (29-31) · Śloka 31
दोषत्रयस्य यस्माच्च प्रकोपे वायुरीश्वरः |
तस्मात्तस्यातिवृद्धस्य शरीरमभिनिघ्नतः ||२९||
वायोर्विषहते वेगं नान्या बस्तेरृते क्रिया |
पवनाविद्धतोयस्य वेला वेगमिवोदधेः ||३०||
शरीरोपचयं वर्णं बलमारोग्यमायुषः |
कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः ||३१||
दोषत्रयस्येत्यादि| यथा उदधेः समुद्रस्य, पवनाविद्धतोयस्य अनिलेनाभुग्नसलिलस्य , वेला कूलमर्यादा, वेगं विषहते विशेषेण सहते||२९-३१||
Adhikarana 21 (32) · Śloka 32
अत ऊर्ध्वं व्यापदो वक्ष्यामः |
तत्र नेत्रं विचलितं, विवर्तितं, पार्श्वावपीडितम्, अत्युत्क्षिप्तम्, अवसन्नं, तिर्यक्प्रक्षिप्तमिति षट् प्रणिधानदोषाः; अतिस्थूलं, कर्कशम्, अवनतं, अणुभिन्नं , सन्निकृष्टविप्रकृष्टकर्णिकं, सूक्ष्मातिच्छिद्रम्, अतिदीर्घम्, अतिह्रस्वम् , अस्रिमदित्येकादश नेत्रदोषाः; बहलता, अल्पता, सच्छिद्रता , प्रस्तीर्णता, दुर्बद्धतेति पञ्च बस्तिदोषाः; अतिपीडितता, शिथिलपीडितता, भूयो भूयोऽवपीडनं, कालातिक्रम इति चत्वारः पीडनदोषाः; आमता, हीनता, अतिमात्रता, अतिशीतता, अत्युष्णता, अतितीक्ष्णता, अतिमृदुता, अतिस्निग्धता, अतिरूक्षता, अतिसान्द्रता, अतिद्रवता, इत्येकादश द्रव्यदोषाः; अवाक्शीर्षोच्छीर्षन्युब्जोत्तानसङ्कुचितदेहस्थितदक्षिणपार्श्वशायिनः प्रदानमिति सप्त शय्यादोषाः; एवमेताश्चतुश्चत्वारिंशद्व्यापदो वैद्यनिमित्ताः |
आतुरनिमित्ताः पञ्चदश आतुरोपद्रवचिकित्सिते वक्ष्यन्ते |
स्नेहस्त्वष्टभिः कारणैः प्रतिहतो न प्रत्यागच्छति त्रिभिर्दोषैः, अशनाभिभूतो, मलव्यामिश्रो, दूरानुप्रविष्टो, अस्विन्नस्य, अनुष्णो, अल्पम्भुक्तवतो, अल्पश्चेति वैद्यातुरनिमित्ता भवन्ति |
अयोगस्तूभयोः, आध्मानं, परिकर्तिका, परिस्रावः, प्रवाहिका, हृदयोपसरणम्, अङ्गप्रग्रहो, अतियोगो, जीवादानमिति नव व्यापदो वैद्यनिमित्ता भवन्ति ||३२||
विचलितं विशेषेण कम्पितम्| विवर्तितं प्रविष्टमेव मोटितम्| पार्श्वावपीडितं पार्श्वयोर्वामदक्षिणयोरवपीडनम्| अत्युत्क्षिप्तम् अतिशयेनोर्ध्वप्रेरितम्| अवसन्नम् अधोभागगतिकम्| प्रणिधानदोषा दानदोषाः| सूक्ष्मातिच्छिद्रं सूक्ष्ममुखं, बृहन्मुखमित्यर्थः| अस्रिमदिति अस्रिः कोटिः पालिरित्यर्थः, धारायुक्तमित्यन्ये| नेत्रदोषा निरूहयन्त्रदोषाः| बहलता मांसोपचितत्वम्, अन्ये विपुलतामाहुः| प्रस्तीर्णता स्नायुजालवत्त्वम्| कालातिक्रम इति कालस्यातिद्रुतविलम्बितस्यातिक्रमो विलम्बितदानेनोल्लङ्घनम् | तत्रातिशिथिलपीडने सम्यक्पीडनकालस्येषदतिक्रमः, कालातिक्रमे च सम्यक्पीडनकालस्य महानतिक्रम इति भेदः| आमतेत्यादि| आमः अपक्वस्नेहः| एकादश द्रव्यदोषा यथासम्भवं स्नेहबस्तिनिरूहोभयाश्रिता ज्ञातव्याः| अवाक्शीर्षेत्यादि| अवाक्शीर्ष अधोमस्तकः, उच्छीर्षक ऊर्ध्वमस्तकः, न्युब्जः अधोमुखः, स्थित उपविष्टः| अवाक्शीर्षादयः सप्त शय्यास्थितपुरुषस्य दोषाः, उपचारेण शय्यायाः प्रतिपाद्यन्ते| स्नेह इत्यादि| उभयोरिति निरूहानुवासनयोः| एतदुक्तं भवति- अयोगादिव्यापत्सु काश्चिद्व्यापन्निरूहाश्रिताः, काश्चिदनुवासनाश्रिताः, काश्चिदुभयाश्रिता इति||३२||
Adhikarana 22 (33) · Śloka 33
भवति चात्र- षट्सप्ततिः समासेन व्यापदः परिकीर्तिताः |
तासां वक्ष्यामि विज्ञानं सिद्धिं च तदनन्तरम् ||३३||
विज्ञानं लक्षणम्| सिद्धिं चिकित्सितम्||३३||
Adhikarana puShpikA · Śloka 35
इति सुश्रुतसंहितायां चिकित्सास्थाने नेत्रबस्तिप्रमाणप्रविभागचिकित्सितं नाम पञ्चत्रिंशोऽध्यायः ||३५||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने पञ्चत्रिंशत्तमोऽध्यायः||३५||