Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

35. nētrabastipramāṇapravibhāgacikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातो नेत्रबस्तिप्रमाणप्रविभागचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Adhikarana 2 (3-4) · Śloka 4

तत्र स्नेहादीनां कर्मणां बस्तिकर्म प्रधानतममाहुराचार्याः | कस्मात्? अनेककर्मकरत्वाद्बस्तेः; इह खलु बस्तिर्नानाविधद्रव्यसंयोगाद्दोषाणां संशोधनसंशमनसङ्ग्रहणानि करोति, क्षीणशुक्रं वाजीकरोति, कृशं बृंहयति, स्थूलं कर्शयति, चक्षुः प्रीणयति, वलीपलितमपहन्ति, वयः स्थापयति ||३|| शरीरोपचयं वर्णं बलमारोग्यमायुषः | कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः ||४||

🔊 Audio coming soon

Adhikarana 3 (5) · Śloka 5

तथा ज्वरातीसारतिमिरप्रतिश्यायशिरोरोगाधिमन्थार्दिताक्षेपकपक्षाघातैकाङ्गसर्वाङ्गरोगाध्मानोदर- योनिशूलशर्कराशूलवृद्ध्युपदंशानाहमूत्रकृच्छ्रगुल्मवातशोणितवातमूत्रपुरीषोदावर्त- शुक्रार्तवस्तन्यनाशहृद्धनुमन्याग्रहशर्कराश्मरीमूढगर्भप्रभृतिषु चात्यर्थमुपयुज्यते ||५||

🔊 Audio coming soon

Adhikarana 4 (6) · Śloka 6

भवति चात्र- बस्तिर्वाते च पित्ते च कफे रक्ते च शस्यते | संसर्गे सन्निपाते च बस्तिरेव हितः सदा ||६||

🔊 Audio coming soon

Adhikarana 5 (7-9) · Śloka 9

तत्र सांवत्सरिकाष्टद्विरष्टवर्षाणां षडष्टदशाङ्गुलप्रमाणानि कनिष्ठिकानामिकामध्यमाङ्गुलिपरिणाहान्यग्रेऽध्यर्धाङ्गुलद्व्यङ्गुलार्धतृतीयाङ्गुलसन्निविष्टकर्णिकानि कङ्कश्येनबर्हिणपक्षनाडीतुल्यप्रवेशानि मुद्गमाषकलायमात्रस्रोतांसि विदध्यान्नेत्राणि | तेषु चास्थापनद्रव्यप्रमाणमातुरहस्तसम्मितेन प्रसृतेन सम्मितौ प्रसृतौ द्वौ चत्वारोऽष्टौ च विधेयाः ||७|| वर्षान्तरेषु नेत्राणां बस्तिमानस्य चैव हि | वयोबलशरीराणि समीक्ष्योत्कर्षयेद्विधिम् ||८|| पञ्चविंशतेरूर्ध्वं द्वादशाङ्गुलं, मूलेऽङ्गुष्ठोदरपरीणाहम्, अग्रे कनिष्ठिकोदरपरीणाहम्, अग्रे त्र्यङ्गुलसन्निविष्टकर्णिकं, गृध्रपक्षनाडीतुल्यप्रवेशं, कोलास्थिमात्रछिद्रं, क्लिन्नकलायमात्रछिद्रमित्येके; सर्वाणि मूले बस्तिनिबन्धनार्थं द्विकर्णिकानि | आस्थापनद्रव्यप्रमाणं तु विहितं द्वादशप्रसृताः | सप्ततेस्तूर्ध्वं नेत्रप्रमाणमेतदेव, द्रव्यप्रमाणं तु द्विरष्टवर्षवत् ||९||

🔊 Audio coming soon

Adhikarana 6 (10) · Śloka 10

मृदुर्बस्तिः प्रयोक्तव्यो विशेषाद्बालवृद्धयोः | तयोस्तीक्ष्णः प्रयुक्तस्तु बस्तिर्हिंस्याद् बलायुषी ||१०||

🔊 Audio coming soon

Adhikarana 7 (11) · Śloka 11

(व्रणनेत्रमष्टाङ्गुलं मुद्गवाहिस्रोतः; व्रणमवेक्ष्य यथास्वं स्नेहकषाये विदधीत) ||११||

🔊 Audio coming soon

Adhikarana 8 (12) · Śloka 12

तत्र नेत्राणि सुवर्णरजतताम्रायोरीतिदन्तशृङ्गमणितरुसारमयानि श्लक्ष्णानि दृढानि गोपुच्छाकृतीन्यृजूनि गुटिकामुखानि च ||१२||

🔊 Audio coming soon

Adhikarana 9 (13-14) · Śloka 14

बस्तयश्च बन्ध्या मृदवो नातिबहला दृढाः प्रमाणवन्तो गोमहिषवराहाजोरभ्राणाम् ||१३|| नेत्रालाभे हिता नाडी नलवंशास्थिसम्भवा | बस्त्यलाभे हितं चर्म सूक्ष्मं वा तान्तवं घनम् ||१४||

🔊 Audio coming soon

Adhikarana 10 (15-17) · Śloka 17

बस्तिं निरुपदिग्धं तु शुद्धं सुपरिमार्जितम् | मृद्वनुद्धतहीनं च मुहुः स्नेहविमर्दितम् ||१५|| नेत्रमूले प्रतिष्ठाप्य न्युब्जं तु विवृताननम् | बद्ध्वा लोहेन तप्तेन चर्मस्रोतसि निर्दहेत् ||१६|| परिवर्त्य ततो बस्तिं बद्ध्वा गुप्तं निधापयेत् | आस्थापनं च तैलं च यथावत्तेन दापयेत् ||१७||

🔊 Audio coming soon

Adhikarana 11 (18) · Śloka 18

तत्र द्विविधो बस्तिः- नैरूहिकः, स्नैहिकश्च | आस्थापनं, निरूह इत्यनर्थान्तरं; तस्य विकल्पो माधुतैलिकः; तस्य पर्यायशब्दो यापनो, युक्तरथः, सिद्धबस्तिरिति | स दोषनिर्हरणाच्छरीरनीरोहणाद्वा निरूहः, वयःस्थापनादायुःस्थापनाद्वा आस्थापनम् | माधुतैलिकविधानं च निरूहोपक्रमचिकित्सिते वक्ष्यामः | यथाप्रमाणगुणविहितः स्नेहबस्तिविकल्पोऽनुवासनः पादाव(प)कृष्टः | अनुवसन्नपि न दुष्यत्यनुदिवसं वा दीयत इत्यनुवासनः | तस्यापि विकल्पोऽर्धार्धमात्रावकृष्टोऽपरिहार्यो मात्राबस्तिरिति ||१८||

🔊 Audio coming soon

Adhikarana 12 (19) · Śloka 19

निरूहः शोधनो लेखी स्नैहिको बृंहणो मतः |१९|

🔊 Audio coming soon

Adhikarana 13 (19-20) · Śloka 20

निरूहशोधितान्मार्गान् सम्यक् स्नेहोऽनुगच्छति | अपेतसर्वदोषासु नाडीष्विव वहज्जलम् ||१९|| सर्वदोषहरश्चासौ शरीरस्य च जीवनः | तस्माद्विशुद्धदेहस्य स्नेहबस्तिर्विधीयते ||२०||

🔊 Audio coming soon

Adhikarana 14 (21) · Śloka 21

तत्रोन्मादभयशोकपिपासारोचकाजीर्णार्शःपाण्डुरोगभ्रममदमूर्च्छाच्छर्दिकुष्ठमेहोदरस्थौल्य- श्वासकासकण्ठशोषशोफोपसृष्टक्षतक्षीणचतुस्त्रिमासगर्भिणीदुर्बलाग्न्यसहा बालवृद्धौ च वातरोगादृते क्षीणा नानुवास्या नास्थापयितव्याः ||२१||

🔊 Audio coming soon

Adhikarana 15 (22) · Śloka 22

उदरी च प्रमेही च कुष्ठी स्थूलश्च मानवः | अवश्यं स्थापनीयास्ते नानुवास्याः कथञ्चन ||२२||

🔊 Audio coming soon

Adhikarana 16 (23) · Śloka 23

असाध्यता विकाराणां स्यादेषामनुवासनात् | असाध्यत्वेऽपि भूयिष्ठं गात्राणां सदनं भवेत् ||२३||

🔊 Audio coming soon

Adhikarana 17 (24-25) · Śloka 25

पक्वाशये तथा श्रोण्यां नाभ्यधस्ताच्च सर्वतः | सम्यक्प्रणिहितो बस्तिः स्थानेष्वेतेषु तिष्ठति ||२४|| पक्वाशयाद्बस्तिवीर्यं खैर्देहमनुसर्पति | वृक्षमूले निषिक्तानामपां वीर्यमिव द्रुमम् ||२५||

🔊 Audio coming soon

Adhikarana 18 (26) · Śloka 26

स चापि सहसा बस्तिः केवलः समलोऽपि वा | प्रत्येति वीर्यं त्वनिलैरपानाद्यैर्विनीयते ||२६||

🔊 Audio coming soon

Adhikarana 19 (27-28) · Śloka 28

वीर्येण बस्तिरादत्ते दोषानापादमस्तकात्(न्) | पक्वाशयस्थोऽम्बरगो भूमेरर्को रसानिव ||२७|| स कटीपृष्ठकोष्ठस्थान् वीर्येणालोड्य सञ्चयान् | उत्खातमूलान् हरति दोषाणां साधुयोजितः ||२८||

🔊 Audio coming soon

Adhikarana 20 (29-31) · Śloka 31

दोषत्रयस्य यस्माच्च प्रकोपे वायुरीश्वरः | तस्मात्तस्यातिवृद्धस्य शरीरमभिनिघ्नतः ||२९|| वायोर्विषहते वेगं नान्या बस्तेरृते क्रिया | पवनाविद्धतोयस्य वेला वेगमिवोदधेः ||३०|| शरीरोपचयं वर्णं बलमारोग्यमायुषः | कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः ||३१||

🔊 Audio coming soon

Adhikarana 21 (32) · Śloka 32

अत ऊर्ध्वं व्यापदो वक्ष्यामः | तत्र नेत्रं विचलितं, विवर्तितं, पार्श्वावपीडितम्, अत्युत्क्षिप्तम्, अवसन्नं, तिर्यक्प्रक्षिप्तमिति षट् प्रणिधानदोषाः; अतिस्थूलं, कर्कशम्, अवनतं, अणुभिन्नं , सन्निकृष्टविप्रकृष्टकर्णिकं, सूक्ष्मातिच्छिद्रम्, अतिदीर्घम्, अतिह्रस्वम् , अस्रिमदित्येकादश नेत्रदोषाः; बहलता, अल्पता, सच्छिद्रता , प्रस्तीर्णता, दुर्बद्धतेति पञ्च बस्तिदोषाः; अतिपीडितता, शिथिलपीडितता, भूयो भूयोऽवपीडनं, कालातिक्रम इति चत्वारः पीडनदोषाः; आमता, हीनता, अतिमात्रता, अतिशीतता, अत्युष्णता, अतितीक्ष्णता, अतिमृदुता, अतिस्निग्धता, अतिरूक्षता, अतिसान्द्रता, अतिद्रवता, इत्येकादश द्रव्यदोषाः; अवाक्शीर्षोच्छीर्षन्युब्जोत्तानसङ्कुचितदेहस्थितदक्षिणपार्श्वशायिनः प्रदानमिति सप्त शय्यादोषाः; एवमेताश्चतुश्चत्वारिंशद्व्यापदो वैद्यनिमित्ताः | आतुरनिमित्ताः पञ्चदश आतुरोपद्रवचिकित्सिते वक्ष्यन्ते | स्नेहस्त्वष्टभिः कारणैः प्रतिहतो न प्रत्यागच्छति त्रिभिर्दोषैः, अशनाभिभूतो, मलव्यामिश्रो, दूरानुप्रविष्टो, अस्विन्नस्य, अनुष्णो, अल्पम्भुक्तवतो, अल्पश्चेति वैद्यातुरनिमित्ता भवन्ति | अयोगस्तूभयोः, आध्मानं, परिकर्तिका, परिस्रावः, प्रवाहिका, हृदयोपसरणम्, अङ्गप्रग्रहो, अतियोगो, जीवादानमिति नव व्यापदो वैद्यनिमित्ता भवन्ति ||३२||

🔊 Audio coming soon

Adhikarana 22 (33) · Śloka 33

भवति चात्र- षट्सप्ततिः समासेन व्यापदः परिकीर्तिताः | तासां वक्ष्यामि विज्ञानं सिद्धिं च तदनन्तरम् ||३३||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 35

इति सुश्रुतसंहितायां चिकित्सास्थाने नेत्रबस्तिप्रमाणप्रविभागचिकित्सितं नाम पञ्चत्रिंशोऽध्यायः ||३५||

🔊 Audio coming soon