Adhikarana 1 (1-2) · Śloka 2
अथातः स्नेहोपयौगिकचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
सर्वोपघातशमनीये रसायने ‘नाविशुद्धशरीरस्य युक्तो रासायनो विधिः’ इत्युक्तत्वाच्छोधनं प्रतिपादयितुकामः तत्प्राक्कर्मणी स्नेहस्वेदौ निर्दिशति; तत्रापि स्नेहपूर्वकत्वात् स्वेदस्य प्रथमं स्नेहोपयौगिकं चिकित्सितमाह- अथात इत्यादि| स्नेहस्य उपयोगो यस्मिन् कर्मणि तत्स्नेहोपयौगिकं तदेव चिकित्सितम्| उपयोजनम् उपयोगो बाह्य आभ्यन्तरश्च; तत्र बाह्योऽभ्यङ्गादिः, आभ्यन्तरः पानादिः||१-२||
Adhikarana 2 (3) · Śloka 3
स्नेहसारोऽयं पुरुषः, प्राणाश्च स्नेहभूयिष्ठाः स्नेहसाध्याश्च भवन्ति |
स्नेहो हि पानानुवासनमस्तिष्कशिरोबस्त्युत्तरबस्तिनस्यकर्णपूरणगात्राभ्यङ्गभोजनेषूपयोज्यः ||३||
तत्र पानादि प्रधानमिह वक्तव्यम्, अप्रधानं पुनरनागताबाधे इन्द्रियानुपालनप्रसङ्गेनोक्तम्||३||
Adhikarana 3 (4) · Śloka 4
तत्र द्वियोनिश्चतुर्विकल्पोऽभिहितः स्नेहः स्नेहगुणाश्च |
तत्र जङ्गमेभ्यो गव्यं घृतं प्रधानं, स्थावरेभ्यस्तिलतैलं प्रधानमिति ||४||
द्वियोनिः द्विकारणिकः स्थावरो जङ्गमश्च| तत्र तैलं स्थावरयोनि, घृतवसामज्जानस्तु जङ्गमयोनयः| तत्र तैलं तिलादिफलोद्भवत्वात् फलस्थं, देवदारुशिंशपागुर्वादिसारोत्थं च; घृतमपि द्विविधं क्षीरोत्थं, दध्युत्थं च; शुद्धमांसस्नेहो वसा, अस्थ्याश्रया मज्जा| चत्वारो विकल्पाः सर्पिस्तैलवसामज्जानो यस्य स्नेहस्येति चतुर्विकल्पः; स्वाभाविकगुणेनाप्यत्र पानविधावुक्तः| तत्र जङ्गमेभ्यो गव्यं घृतं प्रधानं, स्थावरेभ्यस्तिलतैलमिति||४||
Adhikarana 4 (5) · Śloka 5
अत ऊर्ध्वं यथाप्रयोजनं यथाप्रधानं च स्थावरस्नेहानुपदेक्ष्यामः- तत्र तिल्वकैरण्डकोशाम्रदन्तीद्रवन्तीसप्तलाशङ्खिनीपलाशविषाणिकागवाक्षीकम्पिल्लकशम्पाकनीलिनीस्नेहा विरेचयन्ति, जीमूतककुटजकृतवेधनेक्ष्वाकुधामार्गवमदनस्नेहा वामयन्ति, विडङ्गखरमञ्जरीमधुशिग्रुसूर्यवल्लीपीलुसिद्धार्थकज्योतिष्मतीस्नेहाः शिरो विरेचयन्ति, करञ्जपूतीककृतमालमातुलुङ्गेङ्गुदीकिराततिक्तकस्नेहा दुष्टव्रणेषूपयुज्यन्ते, तुवरककपित्थकम्पिल्लकभल्लातकपटोलस्नेहा महाव्याधिषु, त्रपुसैर्वारुककर्कारुकतुम्बीकूष्माण्डस्नेहा मूत्रसङ्गेषु, कपोतवङ्कावल्गुजहरीतकीस्नेहाः शर्कराश्मरीषु, कुसुम्भसर्षपातसीपिचुमर्दातिमुक्तकभाण्डीकटुतुम्बीकटभीस्नेहाः प्रमेहेषु, तालनारिकेलपनसमोचप्रियालबिल्वमधूकश्लेष्मातकाम्रातकफलस्नेहाः पित्तसंसृष्टे वायौ, बिभीतकभल्लातकपिण्डीतकस्नेहाः कृष्णीकरणे, श्रवणकङ्गुकटुण्टुकस्नेहाः पाण्डूकरणे, सरलपीतदारुशिंशपागुरुसारस्नेहा दद्रुकुष्ठकिटिभेषु, सर्व एव स्नेहा वातमुपघ्नन्ति, तैलगुणाश्च समासेन व्याख्याताः ||५||
प्रयोजनस्यानतिक्रमेणेति यथाप्रयोजनं, प्रयोजनं प्रयोजनं वीक्ष्येति वा| प्रधानं प्रधानं वीक्ष्य यथाप्रधानम्| तत्र स्थावरस्य प्रायेण पार्थिवद्रव्यारब्धत्वात्तस्य च स्वभावेनाधोगामित्वाद्विरेचनस्नेहानेव प्रथममाह- तत्रेत्यादि| तिल्वको रोध्राकारो बृहत्पत्रो रक्तत्वग्वैरेचनिकः, सप्तला यवतिक्ताभेदः, शङ्खिन्यपि तद्भेदः, विषाणिका मेषशृङ्गी, गवाक्षी इन्द्रवारुणी, कम्पिल्लको रेचनिका स्वनामख्यातः, शम्पाकः किरमालकः, नीलिनी नीलाञ्जनिका शारदं फलम्| जीमूतो देवदाली, कृतवेधनः कोशातकी, इक्ष्वाकुः कटुतुम्बी, धामार्गवो महाकोशातकी| तत्र तिल्वकादिस्नेहा विरेचयन्ति, जीमूतकादिस्नेहा वामयन्ति| पित्तकफहरं कर्मद्वयं प्रतिपाद्य स्थानाश्रयं कफस्यैव कर्म दर्शयन्नाह- विडङ्गेत्यादि| खरमञ्जरी अपामार्गः, मधुशिग्रुः शोभाञ्जनकः, सूर्यवल्ली पटोलसदृशा वल्ली, ज्योतिष्मती काकमर्दनिका, शिरो विरेचयन्ति नस्यप्रयोगेण शिरःस्थं श्लेष्माणं विरेचयन्ति स्रावयन्तीत्यर्थः| इदानीं शल्यतन्त्रत्वाद्व्रणयोगिनः स्नेहान्निर्दिशन्नाह- करञ्जेत्यादि| पूतीकः चिरबिल्वः, कृतमालः किरमालः| तुवरकः पश्चिमसमुद्रभूमिषु पलाशानुकारी वृक्षः| महाव्याधिषु महाकुष्ठमेहादिष्वष्टासु, वातामयादिष्वित्यन्ये; उपयुज्यन्त इति पूर्वश्लोकात् सम्बन्धनीयम्; एवमुत्तरत्र| त्रपुसः सुधावासः, त्रपुसीति लोके, एर्वारुर्लोमशा कर्कटी, कर्कारुः वाडवं त्रपुसं ‘खेरसा’ इति लोके| मूत्रसङ्गेषु मूत्रकृच्छ्राध्मानाश्मरीष्वित्यर्थः| कपोतवङ्का ब्रह्मसुवर्चला, अवल्गुजो बाकुची; गयदासस्तु ‘कपोतवङ्काहरीतकीस्नेहौ शर्कराश्मरीषु’ इति पठित्वा व्याख्यानयति- कपोतवङ्कादिस्नेहौ वातभिन्नमूर्तिष्वश्मरीष्विति| पिचुमर्दो निम्बः, अतिमुक्तकः अवन्तकः, भाण्डी ‘भाण्डनी’ इति लोके प्रसिद्धो विटपो भाण्डधावनार्थमासुतीवलाः समाहरन्ति| प्रियालः चारः| पिण्डीतको मदनः| श्रवणः तापसवृक्षः ‘इङ्गुदी’ इति लोके, कङ्गुकं प्रियङ्गुः, टुण्टुकः स्योनाकः| पीतदारु देवदारु| विशेषेण दद्रूकिटिभौ घ्नन्तीति नियमार्थं पुनः कुष्ठत्वाविशेषेऽपि तयोर्ग्रहणम्| सर्वस्नेहसामान्यकर्म निर्दिशन्नाह- सर्व एवेत्यादि| स्थावरतैलप्राधान्येन तिलतैलगुणा द्रवद्रव्यविधावुक्ताः| समासेनेति वर्गेणैव गुणोपदेशात् सङ्क्षेपेणेत्यर्थः||५||
Adhikarana 5 (6) · Śloka 6
अत ऊर्ध्वं कषायस्नेहपाकक्रममुपदेक्ष्यामः |
तत्र केचिदाहुः- त्वक्पत्रफलमूलादीनां भागस्तच्चतुर्गुणं जलं चतुर्भागावशेषं निष्क्वाथ्यापहरेदित्येष कषायपाककल्पः; स्नेहप्रसृतेषु षट्सु चतुर्गुणं द्रवमावाप्य चतुरश्चाक्षसमान् भेषजपिण्डानित्येष स्नेहपाककल्पः |
एतत्तु न सम्यक्; कस्मात्? आगमासिद्धत्वात् ||६||
स च स्नेहः प्रायशः संस्कृत उपयुज्यते, अतस्तत्संस्कारार्थमाह- अत ऊर्ध्वमित्यादि| आदिशब्दात् कन्दादयो गृह्यन्ते| भाग इति एकवचनान्तत्वादेक एवाकृतपलादिमानविशेषस्तुलाधारणमात्रेणावधारितः| तस्मात्त्वगादिभागाच्चतुर्गुणमुदकम्| तदुक्तम्- चतुर्भागावशेषं क्वाथमुपहरेदिति| कषायस्नेहकल्कमानं दर्शयन्नाह- स्नेहप्रसृतेष्वित्यादि| प्रसृतोऽत्र संयुक्तपञ्चाङ्गुलिरीषद्विस्तृतपाणिरेकः, न पुनः पलद्वयम्| चतुरश्चाक्षसमान् भेषजकल्कपिण्डान् बिभीतकफलमानान् पिष्टभेषजकल्कान्; इत्येष स्नेहपाककल्प इति केचिदाहुः||६||
Adhikarana 6 (7) · Śloka 7
पलकुडवादीनामतो मानं तु व्याख्यास्यामः- तत्र द्वादश धान्यमाषा मध्यमाः सुवर्णमाषकः, ते षोडश सुवर्णम्; अथवा मध्यमनिष्पावा एकोनविंशतिर्धरणं, तान्यर्धतृतीयानि कर्षः; ततश्चोर्ध्वं चतुर्गुणमभिवर्धयन्तः पलकुडवप्रस्थाढकद्रोणा इत्यभिनिष्पद्यन्ते, तुला पुनः पलशतं, ताः पुनर्विंशतिर्भारः; शुष्काणामिदं मानम्, आर्द्रद्रवाणां च द्विगुणमिति ||७||
स्नेहपाककल्पमुपदिदिक्षुः पूर्वं पलादिपरिमाणमेवाह- पलेत्यादि| कुतः? तत्पूर्वकत्वात् तत्परिमेयार्थप्रविभागसिद्धेः, परिमाणसिद्धौ परिमेयकषायस्नेहपाकादिसम्भारद्रव्यप्रविभागप्रसिद्धिः; अतस्तदुपयोगि मानमभिधीयते| पलादीनां पङ्क्तौ पृथक् कुडवग्रहणात् पलकुडवयोरद्वैगुण्यं प्रतिपादयति| तदाह- तत्र कुडवादौ द्रवस्यार्द्रस्य च द्वैगुण्यमेव, पलमानेषु तु पुनरद्वैगुण्यमेव| मध्यमा मध्यमप्रमाणाः, तेन नातिस्थूला नातितनवश्च ग्राह्याः| तैर्द्वादशभिरेकः सुवर्णमाषकः| ते षोडश सुवर्णमाषकाः सुवर्णकर्ष इत्यर्थः| अन्ये पुनरन्यथा मानसूत्रं पठन्ति; तद्यथा- अथवा मध्यमनिष्पावा इत्यादि| अर्धं तृतीयं येषां तान्यर्धतृतीयानि सार्धद्वयमित्यर्थः| उभयं चैतत् प्रसिद्धम्| ततश्चेत्यादि| अयमर्थः- ततः कर्षाच्चतुर्गुणवर्धमानात् पलम्, एवं पलात् चतुर्गुणवर्धमानात् कुडवः, कुडवात् प्रस्थः, प्रस्थादाढकम्, आढकाद् द्रोणः; तुला पुनः पलशतमेव| ताः पुनरिति तुला इत्यर्थः| प्रसङ्गेन भारोऽप्यभिहितो न पुनरत्रानेन व्यवहारो दृश्यते| शुष्काणामिदं प्रमाणं, सार्द्राणां सरसानां द्रवाणां सलिलक्षीरादीनां कुडवादौ द्वैगुण्यं; तेन शुष्काणां चतुर्भिः पलैः कुडवः, आर्द्राणां द्रवाणां चाष्टभिरिति; जेज्जटस्त्वार्द्राणां द्रवाणां च चतुःपलं कुडवमाह| वृद्धवैद्यव्यवहारात् कानिचिद्द्रव्याण्यार्द्राण्यपि न द्विगुणानि ग्राह्याणि| तान्येवाह- “वासाकुटजकूष्माण्डशतमूलीसहामृताः | प्रसारण्यश्वगन्धा च शतपुष्पा सहाचराः|| नित्यमार्द्राः प्रयोक्तव्या न तासां द्विगुणं भवेत्”- इति| केचित् प्रस्थविषये एवं प्रवदन्ति- “द्वात्रिंशताऽत्र विंशत्या पलैः षोडशभिः क्रमात्| तोयस्नेहविशुष्काणां द्रव्याणां प्रस्थमादिशेत्”- इति| तत्र द्वादश धान्यमाषा मध्यमाः सुवर्णमाषक इति मागधानुमतं सुश्रुताचार्यसम्मतं मानम्| उक्तं च- “मानं तु द्विविधं प्राहुः कालिङ्गं मागधं तथा| कालिङ्गान्मागधं श्रेष्ठमिति मानविदो विदुः|| कालिङ्गमपि मानं च चरकाचार्यसम्मतम्”- इति| सुश्रुताचार्यः प्राह- अथवा मध्यमनिष्पावा एकोनविंशतिरित्यादिकम्||७||
Adhikarana 7 (8) · Śloka 8
तत्रान्यतमपरिमाणसम्मितानां यथायोगं त्वक्पत्रफलमूलादीनामातपपरिशोषितानां छेद्यानि खण्डशश्छेदयित्वा भेद्यान्यणुशो भेदयित्वाऽवकुट्याष्टगुणेन षोडशगुणेन वाऽम्भसाऽभिषिच्य स्थाल्यां चतुर्भागावशिष्टं क्वाथयित्वाऽपहरेदित्येष कषायपाककल्पः |
स्नेहाच्चतुर्गुणो द्रवः, स्नेहचतुर्थांशो भेषजकल्कः, तदैकध्यं संसृज्य विपचेदित्येष स्नेहपाककल्पः |
अथवा तत्रोदकद्रोणे त्वक्पत्रफलमूलादीनां तुलामावाप्य चतुर्भागावशिष्टं निष्क्वाथ्यापहरेदित्येष कषायपाककल्पः; स्नेहकुडवे भेषजपलं पिष्टं कल्कं चतुर्गुणं द्रवमावाप्य विपचेदित्येष स्नेहपाककल्पः ||८||
पलादिमानमभिधाय क्वाथपाकपरिभाषामाह- तत्रेत्यादि| तत्रेति तयोर्मध्ये| अन्यतमेन एकतमेन, परिमीयतेऽनेनेति परिमाणं पलादिकं, तेन सम्यङ्मितानां त्वक्पत्रादीनाम्| षोडशगुणेनाष्टगुणेन वेति वाशब्दः समुच्चये चतुर्गुणेनेत्यस्य| उदकद्रोणविषये तुलाद्रव्यस्यावापेनैतज्ज्ञापयति- निष्क्वाथ्यं द्रव्यं जले पञ्चगुणे निष्क्वाथयेत्| स्नेहपाकपरिभाषामाह- स्नेहादित्यादि| स्नेहकुडवे प्रस्थं द्रवं भेषजपलं च दत्त्वा पक्तव्यमित्यर्थः| अन्ये सुश्रुताध्यायिनः क्वाथस्नेहपाककल्पनमन्यथा पठन्ति| त्रयाणामपि कषायपाकविषयमाह- “कर्षादौ तु पलं यावद्दद्यात् षोडशिकं जलम्| ततस्तु कुडवं यावत्तोयमष्टगुणं भवेत्||चतुर्गुणमतश्चोर्ध्वं यावत् प्रस्थादिकं भवेत्”- इति| प्रकारान्तरेण विषयमाह- “मृदौ चतुर्गुणं देयं कठिनेऽष्टगुणं जलम्| कठिनात् कठिने देयं जलं षोडशिकं मतम्”- इति| बाहुल्येन षोडशगुणेन जलेन क्वाथकल्पना पानविषये, स्नेहपाके तु पूर्वैव| वृद्धसुश्रुताध्यायिमते स्नेहपाककल्पनं- स्नेहाच्चतुर्गुणो द्रवः, स्नेहचतुर्थांशो भेषजकल्कः, तदैकध्यं संसृज्य विपचेदित्येष स्नेहपाककल्पः| स्नेहाच्चतुर्गुणो द्रव इति वचनात् सर्वेऽप्युदकक्षीरादयो गृह्यन्ते| केचिदेवं पठन्ति- “यत्रैकद्वित्रिचतुराणि द्रवद्रव्याणि तत्र सर्वाण्येव स्नेहाच्चतुर्गुणानि, पञ्च प्रभृतीनि स्नेहसमानानि”- इति| तथा चोक्तम्,- “पञ्चप्रभृति यत्र स्युर्द्रवाणि स्नेहसंविधौ| तत्र स्नेहसमान्याहुरर्वाक् च स्याच्चतुर्गुणम्”- इति||८||
Adhikarana 8 (9-10) · Śloka 10
भवतश्चात्र- स्नेहभेषजतोयानां प्रमाणं यत्र नेरितम् |
तत्रायं विधिरास्थेयो निर्दिष्टे तद्वदेव तु ||९||
अनुक्ते द्रवकार्ये तु सर्वत्र सलिलं मतम् |
कल्कक्वाथावनिर्देशे गणात्तस्मात् प्रयोजयेत् ||१०||
कषायस्नेहपाकपरिभाषेयं, परिभाषा चानियमे नियमकारिणीति, तदेव दर्शयन्नाह- स्नेहभेषजतोयानामित्यादि| अनुक्ते द्रवादौ पुनः का परिभाषेत्याह- अनुक्ते इत्यादि| यस्मादेव गणात् स्नेहपाकोऽभिप्रेतस्तस्मादेव गणात् क्वाथकल्कप्रकाराभ्यां समाचरणीयः||९-१०||
Adhikarana 9 (11) · Śloka 11
अत ऊर्ध्वं स्नेहपाकक्रममुपदेक्ष्यामः |
स तु त्रिविधः; तद्यथा- मृदुः, मध्यमः, खर इति |
तत्र स्नेहौषधिविवेकमात्रं यत्र भेषजं स मृदुरिति, मधूच्छिष्टमिव विशदमविलेपि यत्र भेषजं स मध्यमः, कृष्णमवसन्नमीषद्विशदं चिक्कणं च यत्र भेषजं स खर इति; अत ऊर्ध्वं दग्धस्नेहो भवति, तं पुनः साधु साधयेत् |
तत्र पानाभ्यवहारयोर्मृदुः, नस्याभ्यङ्गयोर्मध्यमः, बस्तिकर्णपूरणयोस्तु खर इति ||११||
स्नेहौषधयोर्विवेकमात्रं पृथग्भावमात्रं यस्मिन् भेषजे तत् तादृशं भेषजं यत्र स्नेहपाके स मृदुः| पृथक्त्वमुभयगतमपि भेषजेऽभिहितं, भेषजस्याग्रेऽपि लक्षणत्वेन निर्देशात्| मधूच्छिष्टमिव विशदमपिच्छिलमेव| अत एव अविलेपि अङ्गुल्यादेः| एवंविधं भेषजं कल्करूपं यत्र स मध्यमः| अवसन्नमीषदिति भर्जनात् किञ्चिद्भृष्टप्रायम्| अत ऊर्ध्वमतिकृष्णमत्यवसन्नमतिविशदं च यत्र भेषजं स दग्धः| तस्य साधनोपदेशादौषधगुणा एव नष्टा न स्नेहगुणा इति गम्यते| चरके पुनरन्यथोक्तं,- “खरोऽभ्यङ्गे मृदुर्नस्ये पाने बस्तौ च मध्यमः” (च. क. १२) इति; तदत्र द्वयमपि प्रमाणं; “श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ” (मनु. २-१४)- इति| अन्यत्रापि- “उदितानुदिते चापि समयाध्युषिते तथा| सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः” (मनु. स्मृ.२-१५) इति||११||
Adhikarana 10 (12-13) · Śloka 13
भवतश्चात्र- शब्दस्योपरमे प्राप्ते फेनस्योपशमे तथा |
गन्धवर्णरसादीनां सम्पत्तौ सिद्धिमादिशेत् ||१२||
घृतस्यैवं विपक्वस्य जानीयात् कुशलो भिषक् |
फेनोऽतिमात्रं तैलस्य शेषं घृतवदादिशेत् ||१३||
तत्र भेषजस्पर्शेन मृदुविशदादिना प्राधान्येन पाकलक्षणं निश्चित्य शेषेन्द्रियार्थैरुपदिशन्नाह- भवतश्चात्रेत्यादि| द्विविधः पच्यमानस्नेहस्य शब्दो द्रवानुगतः, अद्रवानुगतश्च| तत्र शब्दस्योपरमे प्राप्ते इत्यत्र प्राप्तशब्देन युक्तार्थवाचिना द्रवानुगतशब्दस्योपरमो न कृत्स्नशब्दव्युपरम इति ज्ञेयम्| सम्पत्तौ समृद्धौ||१२-१३||
Adhikarana 11 (14) · Śloka 14
अत ऊर्ध्वं स्नेहपानक्रममुपदेक्ष्यामः- अथ खलु लघुकोष्ठायातुराय कृतमङ्गलस्वस्तिवाचनायोदयगिरिशिखरसंस्थिते प्रतप्तकनकनिकरपीतलोहिते सवितरि यथाबलं तैलस्य घृतस्य वा मात्रां पातुं प्रयच्छेत् |
पीतमात्रे चोष्णोदकेनोपस्पृश्य सोपानत्को यथासुखं विहरेत् ||१४||
अत ऊर्ध्वं स्नेहपानक्रममिति स्नेहपानपरिपाटीमित्यर्थः| अथशब्दोऽयं पञ्चकर्मादौ मङ्गलार्थः| खलुशब्दो वाक्यशोभार्थः| लघुकोष्ठवचनं जीर्णाहारप्रदर्शनार्थं; गयी तु लघुकोष्ठाय यथाक्रममामाशयपक्वाशयहृदयेषु पक्वतापगतान्नमलरसामतागौरवायेति व्याख्यानयति | कृतं मङ्गलं पूर्णोदककुम्भादि सर्वलोकप्रसिद्धं स्वस्तिवाचनं च यस्य स तथा, तस्मै| अत्रोदयगिरिसंस्थितसवितुर्ग्रहणं प्रातःकालज्ञापनाय| प्रातर्हि संशोधनार्थं स्नेहपानं तन्त्रान्तरेऽप्युक्तं- “शुद्ध्यर्थं पुनराहारे नैशे जीर्णे पिबेन्नरः| पिबेत् संशमनं स्नेहमन्नकाले प्रकाङ्क्षितः” (च. सू. अ. १३) इति| यथाबलमिति दोषपुरुषामयानां हीनमध्योत्तमबलमाश्रित्य यामद्वयचतुर्यामसकलाहःपरिणामसापेक्षिणीं मात्राम्| सर्वस्नेहनेषु प्रधानतया घृततैले प्राह- घृतस्य तैलस्य वेति| उपस्पृश्य आचमनं कृत्वेत्यर्थः||१४||
Adhikarana 12 (15-18) · Śloka 18
रूक्षक्षतविषार्तानां वातपित्तविकारिणाम् |
हीनमेधास्मृतीनां च सर्पिःपानं प्रशस्यते ||१५||
कृमिकोष्ठानिलाविष्टाः प्रवृद्धकफमेदसः |
पिबेयुस्तैलसात्म्याश्च तैलं दार्ढ्यार्थिनश्च ये ||१६||
व्यायामकर्शिताः शुष्करेतोरक्ता महारुजः |
महाग्निमारुतप्राणा वसायोग्या नराः स्मृताः ||१७||
क्रूराशयाः क्लेशसहा वातार्ता दीप्तवह्नयः |
मज्जानमाप्नुयुः सर्वे सर्पिर्वा स्वौषधान्वितम् ||१८||
सर्वे रूक्षक्षतविषार्तादयः| स्वौषधान्वितमिति यस्य यत् स्वमात्मीयमौषधं तेन युक्तम्||१५-१८||
Adhikarana 13 (19) · Śloka 19
केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम् |
देयं बहुकफे चापि व्योषक्षारसमायुतम् ||१९||
इदानीं तस्यैव घृतस्य प्रतिदोषं केवलस्य संयुक्तस्य च प्रयोगमाह- केवलमित्यादि| केवलम् असहायम्, अन्यद्रवैरसंयुक्तमित्यर्थः, तच्च संस्कृतमसंस्कृतं वा; सत्यप्यन्यद्रव्यसंयोगे संस्कृतत्वं लभ्यत एव, संयोगसंस्कारयोर्गुणयोर्भिन्नत्वात्| एतेन संस्कृतमसंस्कृतं वा केवलं क्वाथचूर्णादिप्रक्षेपरहितं सर्पिः पातव्यमिति ज्ञेयम्| गयी तु- पित्तहरद्रव्यसाधितमेव केवलमित्याह||१९||
Adhikarana 14 (20) · Śloka 20
दोषाणामल्पभूयस्त्वं संसर्गं समवेक्ष्य च |
युञ्ज्यात्त्रिषष्टिधाभिन्नैः समासव्यासतो रसैः ||२०||
न केवलमुक्तैर्लवणादिभिरेव संयुक्तं सर्पिर्योज्यं, किं तर्हि त्रिषष्टिभेदभिन्नै रसैरपीत्याह- दोषाणामित्यादि||२०||
Adhikarana 15 (21) · Śloka 21
स्नेहसात्म्यः क्लेशसहः काले नात्युष्णशीतले |
अच्छमेव पिबेत् स्नेहमच्छपानं हि पूजितम् ||२१||
अच्छपानविषयमुद्दिशन्नाह- स्नेहसात्म्य इत्यादि| क्लेशसहः शक्तिलक्षणबलयुक्तः, अतो विपरीतं भक्तेन सह पाययेत्| अच्छः केवलस्नेहः| केचित् ‘काले नात्युष्णशीतले’ इत्यस्य स्थाने ‘दृढं काले च शीतले’ इति पठन्ति, व्याख्यानयन्ति च- दृढमित्युपचयलक्षणबलयुक्तं, काले च शीतल इति चकारो वातकफयोः शैत्याद्दोषे च शीतल इति गमयति||२१||
Adhikarana 16 (22) · Śloka 22
शीतकाले दिवा स्नेहमुष्णकाले पिबेन्निशि |
वातपित्ताधिको रात्रौ वातश्लेष्माधिको दिवा ||२२||
उक्तमेवाच्छपानं दोषकालभेदेन विवृण्वन्नाह- शीतकाल इत्यादि| निशीति संशमनमेव, ‘उष्णकाले च सह भक्तेन पाययेत्’ इति वचनात्| वातपित्ताधिक इति वातपित्ते अधिके यस्य सः वातपित्ताधिकः| वातपित्तयोर्व्यस्तसमस्तयोर्ग्रहणाद्वाताधिकः पित्ताधिको वातपित्ताधिकश्च रात्रौ संशमनं स्नेहं पिबेत्| तत्रापि वातपित्ताख्यसंसर्गस्यापरसंसर्गोपलक्षणत्वात् पित्तश्लेष्माधिकोऽपि रात्रौ पिबेदिति गम्यते| वातश्लेष्माधिक इति वातश्लेष्मा च श्लेष्मा च वातश्लेष्माणौ, समासेऽन्तःपदलोपः, तावधिकौ यस्य स वातश्लेष्माधिकः| एतेन वातकफाधिकः कफाधिकश्च दिवा स्नेहं पिबेदिति गम्यते| अत्रार्थे च वृद्धवाग्भटः- “सर्वं सर्वस्य च स्नेहं युञ्ज्याद्भास्वति निर्मले| ऋतौ साधारणे दोषसाम्येऽनिलकफे कफे|| दिवा निश्यनिले पित्ते संसर्गे पित्तवत्यति” (अ. सं. सू. २५) इति| यदा च ग्रीष्मे वातकफोत्थो रोगः स्नेहसाध्यस्तदा कालमाश्रित्य तदनुविहितः स्नेहो निशि प्रयोज्यो दोषादीन् वीक्ष्य च, तथा च वृद्धवाग्भटः- “त्वरमाणे तु शीतेऽपि दिवा तैलं प्रयोजयेत्| उष्णेऽपि रात्रौ सर्पिस्तु दोषादीन् वीक्ष्य चान्यथा” (अ. सं. सू. २५) इति||२२||
Adhikarana 17 (23) · Śloka 23
वातपित्ताधिकस्योष्णे तृण्मूर्च्छोन्मादकारकः |
शीते वातकफार्तस्य गौरवारुचिशूलकृत् ||२३||
उक्तादन्यथाकरणे उभयत्रापि दोषं दर्शयन्नाह- वातपित्ताधिकस्येत्यादि||२३||
Adhikarana 18 (24) · Śloka 25
स्नेहपीतस्य चेत्तृष्णा पिबेदुष्णोदकं नरः |
एवं चानुपशाम्यन्त्यां स्नेहमुष्णाम्बुना वमेत् ||२४||
दिह्याच्छीतैः शिरः शीतं तोयं चाप्यवगाहयेत् |२५|
तत्र तृष्णाप्रतीकारमुद्दिशन्नाह- स्नेहपीतस्येत्यादि| दिह्यात् लिम्पेत्||२४||-
Adhikarana 19 (25-29) · Śloka 30
या मात्रा परिजीर्येत चतुर्भागगतेऽहनि ||२५||
सा मात्रा दीपयत्यग्निमल्पदोषे च पूजिता |
या मात्रा परिजीर्येत तथाऽर्धदिवसे गते ||२६||
सा वृष्या बृंहणी या च मध्यदोषे च पूजिता |
या मात्रा परिजीर्येत चतुर्भागावशेषिते ||२७||
स्नेहनीया च सा मात्रा बहुदोषे च पूजिता |
या मात्रा परिजीर्येत्तु तथा परिणतेऽहनि ||२८||
ग्लानिमूर्च्छामदान् हित्वा सा मात्रा पूजिता भवेत् अहोरात्रादसन्दुष्टा या मात्रा परीजीर्यति ||२९||
सा तु कुष्ठविषोन्मादग्रहापस्मारनाशिनी |३०|
ग्लान्यादिकं हित्वा या परिजीर्येदिति वचनात् स्नेहबाहुल्येन परिपाककाले ग्लान्यादयो भवन्तीत्यवगम्यते| पूजिता भवेदिति वचनात् ‘स्नेहने’ इत्याहरणीयम्||२५-२९||-
Adhikarana 20 (30-33) · Śloka 33
यथाग्नि प्रथमां मात्रां पाययेत विचक्षणः ||३०||
पीतो ह्यतिबहुः स्नेहो जनयेत् प्राणसंशयम् |
मिथ्याचाराद्बहुत्वाद्वा यस्य स्नेहो न जीर्यति ||३१||
विष्टभ्य चापि जीर्येत्तं वारिणोष्णेन वामयेत् |
ततः स्नेहं पुनर्दद्याल्लघुकोष्ठाय देहिने |
जीर्णाजीर्णविशङ्कायां स्नेहस्योष्णोदकं पिबेत् ||३२||
तेनोद्गारो भवेच्छुद्धो भक्तं प्रति रुचिस्तथा |
स्युः पच्यमाने तृड्दाहभ्रमसादारतिक्लमाः ||३३||
तास्वाद्यामेव मात्रामदोषत्वेन निर्दिशति- यथाग्नीत्यादि| अग्न्यनतिक्रमेण एकयामपरिणामां मात्रां पातुं प्रयोजयेत्, पलमित्यर्थः| कुतः पुनर्नेतरा इत्याह- पीतो ह्यतिबहुरित्यादि| मिथ्याचारात् शीतसेवादिलक्षणात्| मिथ्याचारादिजस्य स्नेहाजीर्णस्य प्रतीकार उक्तः| स्नेहसाध्ये व्याधौ पुनरप्यस्य स्नेहो देय इत्याह- ततः स्नेहमिति| जीर्णाजीर्णविशङ्कायां परिणतापरिणतशङ्कायाम्| अस्याग्रे पच्यमानलक्षणं केचित्पठन्ति- स्युरित्यादि| स्युः भवेयुः| एतच्चानार्षश्लोकार्धमिति जेज्जटाचार्योक्तत्वान्न पठनीयम्||३०-३३||
Adhikarana 21 (34-35) · Śloka 35
परिषिच्याद्भिरुष्णाभिर्जीर्णस्नेहं ततो नरम् |
यवागूं पाययेच्चोष्णां कामं क्लिन्नाल्पतण्डुलाम् ||३४||
देयौ यूषरसौ वाऽपि सुगन्धी स्नेहवर्जितौ |
कृतौ वाऽत्यल्पसर्पिष्कौ विलेपी वा विधीयते ||३५||
स्नेहवर्जितावित्यनेनाकृताविति गम्यते| कृतौ स्नेहादिसंस्कृतौ| यूषरसाविति अत्र यूषः कफे तैलपाने च देयः, रसो वाते घृतपाने च, विलेपी च पुनर्विलेपीसात्म्याय मध्यमाग्नये देया||३४-३५||
Adhikarana 22 (36) · Śloka 36
पिबेत्त्र्यहं चतुरहं पञ्चाहं षडहं तथा |
सप्तरात्रात् परं स्नेहः सात्म्यीभवति सेवितः ||३६||
तस्य स्नेहपानस्य कोष्ठापेक्षया कालनियमं दर्शयन्नाह- पिबेदित्यादि| तत्र त्र्यहं मृदुकोष्ठापेक्षया, मध्यमकोष्ठापेक्षया तु चतुः- पञ्चषडहानि, क्रूरकोष्ठापेक्षया तु सप्तरात्रम्| अन्ये तु मृदुतममृदुतरमृदुकोष्ठापेक्षया एकद्वित्र्यहम्, एवं मध्यमकोष्ठतरतममध्यात् चतुःपञ्चषडहानि, क्रूरक्रूरतरक्रूरतमकोष्ठापेक्षया सप्ताष्टनवापि दिवसानीति| सात्म्यीभवतीति आत्मना सह वर्तत इति सात्म्यम्, असात्म्यं यत्र सात्म्यं भवति सात्म्यीभवति; आत्मशब्दोऽत्र देहपर्यायः, अयमर्थः- आत्मनि काये यद्वर्तते, यदुपशेते, न विकाराय भवति, सुखं च करोतीत्यर्थः, तत् सात्म्यीभवतीत्युच्यते; एतेन स्नेहकार्यमुत्क्लेशनादिकं न करोति आहारवच्च सात्म्यीभवति, अत एव सेवित इत्युक्तं; विषमपि स्वल्पं प्रतिदिनमुपयुज्यमानं न मारणात्मकं भवति| तच्च सात्म्यीभवनं वातप्रकृतावूर्ध्वाङ्गमारुते बोद्धव्यं, वातकफप्रकृतौ पुनरनुत्क्लेश एव||३६||
Adhikarana 23 (37) · Śloka 37
सुकुमारं कृशं वृद्धं शिशुं स्नेहद्विषं तथा |
तृष्णार्तमुष्णकाले च सह भक्तेन पाययेत् ||३७||
इदानीमवचारणामावस्थिके नित्यगे च काले निर्दिशन्नाह- सुकुमारमित्यादि| भक्तशब्देन सर्वे विलेप्यादयोऽभिप्रेताः| तच्च पानं द्विविधम्- अशनात् पृथक्, अशनव्यामिश्रं वा; तत्र यत् पृथक् तदच्छपानमेव||३७||
Adhikarana 24 (38-44) · Śloka 44
पिप्पल्यो लवणं स्नेहाश्चत्वारो दधिमस्तुकः |
पीतमैकध्यमेतद्धि सद्यःस्नेहनमुच्यते ||३८||
भृष्टा मांसरसे स्निग्धा यवागूः सूपकल्पिता |
प्रक्षुद्रा पीयमाना तु सद्यःस्नेहनमुच्यते ||३९||
सर्पिष्मती पयःसिद्धा यवागूः स्वल्पतण्डुला |
सुखोष्णा सेव्यमाना तु सद्यःस्नेहनमुच्यते ||४०||
पिप्पल्यो लवणं सर्पिस्तिलपिष्टं वराहजा |
वसा च पीतमैकध्यं सद्यःस्नेहनमुच्यते ||४१||
शर्कराचूर्णसंसृष्टे दोहनस्थे घृते तु गाम् |
दुग्ध्वा क्षीरं पिबेद्रूक्षः सद्यःस्नेहनमुच्यते ||४२||
यवकोलकुलत्थानां क्वाथो मागधिकान्वितः |
पयो दधि सुरा चेति घृतमप्यष्टमं भवेत् ||४३||
सिद्धमेतैर्घृतं पीतं सद्यःस्नेहनमुत्तमम् |
राज्ञे राजसमेभ्यो वा देयमेतद्धृतोत्तमम् ||४४||
तत्रावचारणां प्रयोगेण दर्शयन्नाह- पिप्पल्य इत्यादि| लवणमत्र प्रधानकल्पनया सैन्धवम्| स्नेहाश्चत्वारः सर्पिस्तैलवसामज्जानः| दधिमस्तुको दधिसरः| पिप्पलीलवणयोर्यावत्या मात्रया नातिकटुत्वं नातिलवणत्वं च तावती मात्रा| प्रक्षुद्रा क्षुद्रावगाढा; क्षुद्रं फाणितं ‘काकवी’ इति लोके| घृते त्विति तुशब्दः पुनरर्थे| मागधिकाया अयं मागधिकोऽत्र कल्कः, द्रवाः षट्, स्नेहसमा पिप्पली सप्तमी, घृतमष्टमम्| एतत्सिद्धं नृपादिभिः सुखोचितैरन्नात् प्राङ्मध्येऽन्ते वा पेयम्| सद्यःस्नेहनमिति तदहरेव||३८-४४||
Adhikarana 25 (45) · Śloka 45
बलहीनेषु वृद्धेषु मृद्वग्निस्त्रीहतात्मसु |
अल्पदोषेषु योज्याः स्युर्ये योगाः सम्यगीरिताः ||४५||
एषां योगानां विषयं दर्शयन्नाह- बलहीनेष्वित्यादि| ये योगाः पूर्वं कथिताः||४५||
Adhikarana 26 (46-50) · Śloka 51
विवर्जयेत् स्नेहपानमजीर्णी तरुणज्वरी |
दुर्बलोऽरोचकी स्थूलो मूर्च्छार्तो मदपीडितः ||४६||
छर्द्यर्दितः पिपासार्तः श्रान्तः पानक्लमान्वितः |
दत्तबस्तिर्विरिक्तश्च वान्तो यश्चापि मानवः ||४७||
अकाले दुर्दिने चैव न च स्नेहं पिबेन्नरः |
अकाले च प्रसूता स्त्री स्नेहपानं विवर्जयेत् ||४८||
स्नेहपानाद्भवन्त्येषां नॄणां नानाविधा गदाः |
गदा वा कृच्छ्रतां यान्ति न सिध्यन्त्यथवा पुनः ||४९||
गर्भाशयेऽवशेषाः स्यू रक्तक्लेदमलास्ततः |
स्नेहं जह्यान्निषेवेत पाचनं रूक्षमेव च ||५०||
दशरात्रात्ततः स्नेहं यथावदवचारयेत् |५१|
विवर्जयेदित्यादि| अजीर्णेऽजीर्णमेव च पचन्नग्निः स्तोकं स्नेहं पक्ष्यति, तरुणज्वरेऽप्येवं स्रोतोरोधश्च, दुर्बले अङ्गग्लान्यादयः, अरोचकेऽरोचकाभिवृद्धिः, स्थूलस्यातिस्थौल्यं स्रोतोरोधश्च, मूर्च्छार्तानां मूर्च्छाभिवृद्धिः, दत्तबस्तिविरिक्तवान्तानां सद्यःशुद्धत्वेनाग्निमान्द्यतृष्णाक्लमाद्यतियोगाश्च, अकाले प्रसूताया गर्भाशयेऽवशेषा रक्तक्लेदमलाः स्नेहकोपिता असाध्यं रोगं कुर्युः| अन्ये ‘तरुणज्वरी’ इत्यत्र ‘चोदरी ज्वरी’ इति पठित्वा व्याख्यानयन्ति- उदरिणां स्नेहपानं प्रागवस्थायामुदरचिकित्सिते प्रोक्तं, छिद्रोदकोदरिणः पुनरत्र निषेधः| ज्वरिणस्तरुणावस्थायां प्रतिषेधः| अमुमेव निषेधं दर्शयन्नाह- स्नेहपानादित्यादि||४६-५०||-
Adhikarana 27 (51-52) · Śloka 52
पुरीषं ग्रथितं रूक्षं कृच्छ्रादन्नं विपच्यते ||५१||
उरो विदहते वायुः कोष्ठादुपरि धावति |
दुर्वर्णो दुर्बलश्चैव रूक्षो भवति मानवः ||५२||
स्नेहस्य विहितस्य दानाय रूक्षलक्षणमाह- पुरीषमित्यादि| उपरि धावति ऊर्ध्वं गच्छतीत्यर्थः| इदं कृतपाचनस्य रूक्षस्य लक्षणमुक्तमिति वृद्धवैद्याः||५१-५२||
Adhikarana 28 (53) · Śloka 53
सुस्निग्धा त्वग्विट्शैथिल्यं दीप्तोऽग्निर्मृदुगात्रता |
ग्लानिर्लाघवमङ्गानामधस्तात् स्नेहदर्शनम् |
सम्यक्स्निग्धस्य लिङ्गानि स्नेहोद्वेगस्तथैव च ||५३||
सुस्निग्धस्य लक्षणमाह- सुस्निग्धेत्यादि| स्नेहोद्वेग इति स्नेहारुचिः उदकादितृप्तस्येवोदकाद्यरुचिः| अन्ये तु ‘ग्लानिः सदनमङ्गानामधस्तात् स्नेहदर्शनम्| सम्यक्स्निग्धस्य लिङ्गानि स्नेहोद्वेगस्तथैव वा’|| इति पठन्ति||५३||
Adhikarana 29 (54) · Śloka 54
भक्तद्वेषो मुखस्रावो गुददाहः प्रवाहिका |
पुरीषातिप्रवृत्तिश्च भृशस्निग्धस्य लक्षणम् ||५४||
प्रवाहिका अतिसारभेदः| केचित् अस्निग्धातिस्निग्धलक्षणयोर्मध्ये जीर्णाजीर्णस्नेहलक्षणमधीयते- “ग्लानिः सदनमङ्गानामधस्तात् स्नेहदर्शनम्| स्नेहे जीर्यति लिङ्गानि जीर्णस्तैः शान्तिमागतैः” इति| तैर्ग्लान्यादिभिः शान्तिमागतैः उपशमं गतैः स्नेहो जीर्ण इति ज्ञायते इति||५४||
Adhikarana 30 (55) · Śloka 55
रूक्षस्य स्नेहनं स्नेहैरतिस्निग्धस्य रूक्षणम् |
श्यामाककोरदूषान्नतक्रपिण्याकशक्तुभिः ||५५||
तत्रास्निग्धातिस्निग्धयोः प्रतीकारं दर्शयन्नाह- रूक्षस्येत्यादि||५५||
Adhikarana 31 (56) · Śloka 56
दीप्तान्तरग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुर्बलवर्णयुक्तः |
दृढेन्द्रियो मन्दजरः शतायुः स्नेहोपसेवी पुरुषो भवेत्तु ||५६||
इदानीं स्वस्थविषये स्नेहकर्मफलं दर्शयन्नाह- दीप्तेत्यादि| अन्तरग्निः जठराग्निः| परिशुद्धकोष्ठः निर्दोषोदरः| प्रत्यग्रा नवाः| दृढानि स्वकार्यकरणक्षमानीन्द्रियाणि यस्य सः| स्नेहोपसेवी यो नर आभीक्ष्ण्येन स्नेहं सेवते सः| अन्ये तु अनेन श्लोकेन संशमनीयप्राग्भक्तसेवितस्नेहगुणानाहुः||५६||
Adhikarana 32 (57) · Śloka 57
स्नेहो हितो दुर्बलवह्निदेहसन्धुक्षणे व्याधिनिपीडितस्य |
बलान्वितौ भोजनदोषजातैः प्रमर्दितुं तौ सहसा न साध्यौ ||५७||
व्याधिपरिमोक्षणमपि स्नेहफलं दर्शयन्नाह- स्नेह इत्यादि| स्नेहो हितो भवति; कस्य? व्याधिनिपीडितस्य पुरुषस्य, कस्मिन् विषये? दुर्बलदेहवह्निसन्धुक्षणे| स्नेहकृतयोस्तयोर्वह्निदेहबलयोः फलं दर्शयन्नाह- बलान्वितावित्यादि| तौ वह्निदेहौ| किंविशिष्टौ? स्नेहपानबलान्वितौ| न साध्यौ न शक्यौ| किं कर्तुं? प्रमर्दयितुम्| कैः स्फोटयितुं न शक्यावित्याह- भोजनदोषजातैः, दुर्भक्तस्वभावगुणभूतदोषसमूहैरित्यर्थः| दुर्बलस्य देहसन्धुक्षणे वह्निसन्धुक्षणे च; देहसन्धुक्षणं शक्त्युपचयलक्षणबलसन्दीपनं पुष्ट्यावहमित्यर्थः, अग्निपक्षे सन्धुक्षणं सुबोधम्||५७||
Adhikarana puShpikA · Śloka 31
इति सुश्रुतसंहितायां चिकित्सास्थाने स्नेहोपयौगिकचिकित्सितं नामैकत्रिंशत्तमोऽध्यायः ||३१||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने एकत्रिंशत्तमोऽध्यायः||३१||