Adhikarana 1 (1-2) · Śloka 2
अथातः सद्योव्रणचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातः सद्योव्रणचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 2 (3) · Śloka 3
धन्वन्तरिर्धर्मभृतां वरिष्ठो वाग्विशारदः | विश्वामित्रसुतं शिष्यमृषिं सुश्रुतमन्वशात् ||३||
🔊 Audio coming soon
Adhikarana 3 (4) · Śloka 4
नानाधारामुखैः शस्त्रैर्नानास्थाननिपातितैः | नानारूपा व्रणा ये स्युस्तेषां वक्ष्यामि लक्षणम् ||४||
🔊 Audio coming soon
Adhikarana 4 (5-6) · Śloka 7
आयताश्चतुरस्राश्च त्र्यस्रा मण्डलिनस्तथा | अर्धचन्द्रप्रतीकाशा विशालाः कुटिलास्तथा ||५|| शरावनिम्नमध्याश्च यवमध्यास्तथाऽपरे | एवम्प्रकाराकृतयो भवन्त्यागन्तवो व्रणाः ||६|| दोषजा वा स्वयं भिन्ना, न तु वैद्यनिमित्तजाः |७|
🔊 Audio coming soon
Adhikarana 5 (7) · Śloka 8
भिषग्व्रणाकृतिज्ञो हि न मोहमधिगच्छति ||७|| भृशं दुर्दर्शरूपेषु व्रणेषु विकृतेष्वपि |८|
🔊 Audio coming soon
Adhikarana 6 (8) · Śloka 9
अनन्ताकृतिरागन्तुः स भिषग्भिः पुरातनैः ||८|| समासतो लक्षणतः षड्विधः परिकीर्तितः |९|
🔊 Audio coming soon
Adhikarana 7 (9) · Śloka 10
छिन्नं भिन्नं तथा विद्धं क्षतं पिच्चितमेव च ||९|| घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम् |१०|
🔊 Audio coming soon
Adhikarana 8 (10) · Śloka 11
तिरश्चीन ऋजुर्वाऽपि यो व्रणश्चायतो भवेत् ||१०|| गात्रस्य पातनं चापि छिन्नमित्युपदिश्यते |११|
🔊 Audio coming soon
Adhikarana 9 (11) · Śloka 12
कुन्तशक्त्यृष्टिखङ्गाग्रविषाणादिभिराशयः ||११|| हतः किञ्चित् स्रवेत्तद्धि भिन्नलक्षणमुच्यते |१२|
🔊 Audio coming soon
Adhikarana 10 (12) · Śloka 13
स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च ||१२|| हृदुण्डुकः फुप्फुसश्च कोष्ठ इत्यभिधीयते |१३|
🔊 Audio coming soon
Adhikarana 11 (13-15) · Śloka 16
तस्मिन् भिन्ने रक्तपूर्णे ज्वरो दाहश्च जायते ||१३|| मूत्रमार्गगुदास्येभ्यो रक्तं घ्राणाच्च गच्छति | मूर्च्छाश्वासतृडाध्मानमभक्तच्छन्द एव च ||१४|| विण्मूत्रवातसङ्गश्च स्वेदास्रावोऽक्षिरक्तता | लोहगन्धित्वमास्यस्य गात्रदौर्गन्ध्यमेव च ||१५|| हृच्छूलं पार्श्वयोश्चापि... |१६|
🔊 Audio coming soon
Adhikarana 12 (16-17) · Śloka 18
... विशेषं चात्र मे शृणु | आमाशयस्थे रुधिरे रुधिरं छर्दयेत् पुनः ||१६|| आध्मानमतिमात्रं च शूलं च भृशदारुणम् | पक्वाशयगते चापि रुजो गौरवमेव च ||१७|| शीतता चाप्यधो नाभेः खेभ्यो रक्तस्य चागमः |१८|
🔊 Audio coming soon
Adhikarana 13 (18) · Śloka 19
अभिन्नेऽप्याशयेऽन्त्राणां खैः सूक्ष्मैरन्त्रपूरणम् ||१८|| पिहितास्ये घटे यद्वल्लक्ष्यते तस्य गौरवम् |१९|
🔊 Audio coming soon
Adhikarana 14 (19) · Śloka 20
सूक्ष्मास्यशल्याभिहतं यदङ्गं त्वाशयाद्विना ||१९|| उत्तुण्डितं निर्गतं वा तद्विद्धमिति निर्दिशेत् |२०|
🔊 Audio coming soon
Adhikarana 15 (20) · Śloka 21
नातिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्वितम् ||२०|| विषमं व्रणमङ्गे यत्तत् क्षतं त्वभिनिर्दिशेत् |२१|
🔊 Audio coming soon
Adhikarana 16 (21) · Śloka 22
प्रहारपीडनाभ्यां तु यदङ्गं पृथुतां गतम् ||२१|| सास्थि तत् पिच्चितं विद्यान्मज्जरक्तपरिप्लुतम् |२२|
🔊 Audio coming soon
Adhikarana 17 (22) · Śloka 23
विगतत्वग्यदङ्गं हि सङ्घर्षादन्यथाऽपि वा ||२२|| उषास्रावान्वितं तत्तु घृष्टमित्युपदिश्यते |२३|
🔊 Audio coming soon
Adhikarana 18 (23-25) · Śloka 26
छिन्ने भिन्ने तथा विद्धे क्षते वाऽसृगतिस्रवेत् ||२३|| रक्तक्षयाद्रुजस्तत्र करोति पवनो भृशम् | स्नेहपानं हितं तत्र तत्सेको विहितस्तथा ||२४|| वेशवारैः सकृशरैः सुस्निग्धैश्चोपनाहनम् | धान्यस्वेदांश्च कुर्वीत स्निग्धान्यालेपनानि च ||२५|| वातघ्नौषधसिद्धैश्च स्नेहैर्बस्तिर्विधीयते |२६|
🔊 Audio coming soon
Adhikarana 19 (26-27) · Śloka 28
पिच्चिते च विघृष्टे च नातिस्रवति शोणितम् ||२६|| अगच्छति भृशं तस्मिन् दाहः पाकश्च जायते | तत्रोष्मणो निग्रहार्थं तथा दाहप्रपाकयोः ||२७|| शीतमालेपनं कार्यं परिषेकश्च शीतलः |२८|
🔊 Audio coming soon
Adhikarana 20 (28) · Śloka 29
षट्स्वेतेषु यथोक्तेषु छिन्नादिषु समासतः ||२८|| ज्ञेयं समर्पितं सर्वं सद्योव्रणचिकित्सितम् |२९|
🔊 Audio coming soon
Adhikarana 21 (29-30) · Śloka 30
अत ऊर्ध्वं प्रवक्ष्यामि छिन्नानां तु चिकित्सितम् ||२९|| ये व्रणा विवृताः केचिच्छिरःपार्श्वावलम्बिनः | तान् सीव्येद्विधिनोक्तेन बध्नीयाद्गाढमेव च ||३०||
🔊 Audio coming soon
Adhikarana 22 (31-33) · Śloka 33
कर्णं स्थानादपहृतं स्थापयित्वा यथास्थितम् | सीव्येद्यथोक्तं तैलेन स्रोतश्चाभिप्रतर्पयेत् ||३१|| कृकाटिकान्ते छिन्ने तु गच्छत्यपि समीरणे | सम्यङ्निवेश्य बध्नीयात् सीव्येच्चापि निरन्तरम् ||३२|| आजेन सर्पिषा चैवं परिषेकं तु कारयेत् | उत्तानोऽन्नं समश्नीयाच्छयीत च सुयन्त्रितः ||३३||
🔊 Audio coming soon
Adhikarana 23 (34-35) · Śloka 35
शाखासु पतितांस्तिर्यक् प्रहारान् विवृतान् भृशम् | सीव्येत् सम्यङ्निवेश्याशु सन्ध्यस्थीन्यनुपूर्वशः ||३४|| बद्ध्वा वेल्लितकेनाशु ततस्तैलेन सेचयेत् | चर्मणा गोफणाबन्धः कार्यो यो वा हितो भवेत् ||३५||
🔊 Audio coming soon
Adhikarana 24 (36) · Śloka 36
पृष्ठे व्रणो यस्य भवेदुत्तानं शाययेत्तु तम् | अतोऽन्यथा चोरसिजे शाययेत् पुरुषं व्रणे ||३६||
🔊 Audio coming soon
Adhikarana 25 (37) · Śloka 37
छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन बुद्धिमान् | बध्नीयात् कोशबन्धेन प्राप्तं कार्यं च रोपणम् ||३७||
🔊 Audio coming soon
Adhikarana 26 (38) · Śloka 39
चन्दनं पद्मकं रोध्रमुत्पलानि प्रियङ्गवः | हरिद्रा मधुकं चैव पयः स्यादत्र चाष्टमम् ||३८|| तैलमेभिर्विपक्वं तु प्रधानं व्रणरोपणम् |३९|
🔊 Audio coming soon
Adhikarana 27 (39-40) · Śloka 41
चन्दनं कर्कटाख्या च सहे मांस्याह्वयाऽमृता ||३९|| हरेणवो मृणालं च त्रिफला पद्मकोत्पले | त्रयोदशाङ्गं त्रिवृतमेतद्वा पयसाऽन्वितम् ||४०|| तैलं विपक्वं सेकार्थे हितं तु व्रणरोपणे |४१|
🔊 Audio coming soon
Adhikarana 28 (41-43) · Śloka 43
अत ऊर्ध्वं प्रवक्ष्यामि भिन्नानां तु चिकित्सितम् ||४१|| भिन्नं नेत्रमकर्मण्यमभिन्नं लम्बते तु यत् | तन्निवेश्य यथास्थानमव्याविद्धसिरं शनैः ||४२|| पीडयेत् पाणिना सम्यक् पद्मपत्त्रान्तरेण तु | ततोऽस्य तर्पणं कार्यं नस्यं चानेन सर्पिषा ||४३||
🔊 Audio coming soon
Adhikarana 29 (44) · Śloka 45
आजं घृतं क्षीरपात्रं मधुकं चोत्पलानि च | जीवकर्षभकौ चैव पिष्ट्वा सर्पिर्विपाचयेत् ||४४|| सर्वनेत्राभिघाते तु सर्पिरेतत् प्रशस्यते |४५|
🔊 Audio coming soon
Adhikarana 30 (45-49) · Śloka 49
उदरान्मेदसो वर्तिर्निर्गता यस्य देहिनः ||४५|| कषायभस्ममृत्कीर्णां बद्ध्वा सूत्रेण सूत्रवित् | अग्नितप्तेन शस्त्रेण छिन्द्यान्मधुसमायुतम् ||४६|| बद्ध्वा व्रणं सुजीर्णेऽन्ने सर्पिषः पानमिष्यते | स्नेहपानादृते चापि पयःपानं विधीयते ||४७|| शर्करामधुयष्टिभ्यां लाक्षया वा श्वदंष्ट्रया | चित्रासमन्वितं चैव रुजादाहविनाशनम् ||४८|| आटोपो मरणं वा स्याच्छूलो वाऽच्छिद्यमानया | मेदोग्रन्थौ तु यत्तैलं वक्ष्यते तच्च योजयेत् ||४९||
🔊 Audio coming soon
Adhikarana 31 (50) · Śloka 50
त्वचोऽतीत्य सिरादीनि भित्त्वा वा परिहृत्य वा | कोष्ठे प्रतिष्ठितं शल्यं कुर्यादुक्तानुपद्रवान् ||५०||
🔊 Audio coming soon
Adhikarana 32 (51) · Śloka 51
तत्रान्तर्लोहितं पाण्डुं शीतपादकराननम् | शीतोच्छ्वासं रक्तनेत्रमानद्धं च विवर्जयेत् ||५१||
🔊 Audio coming soon
Adhikarana 33 (52-54) · Śloka 54
आमाशयस्थे रुधिरे वमनं पथ्यमुच्यते | पक्वाशयस्थे देयं च विरेचनमसंशयम् ||५२|| आस्थापनं च निःस्नेहं कार्यमुष्णैर्विशोधनैः | यवकोलकुलत्थानां निःस्नेहेन रसेन च ||५३|| भुञ्जीतान्नं यवागूं वा पिबेत् सैन्धवसंयुताम् | अतिनिःस्रुतरक्तो वा भिन्नकोष्ठः पिबेदसृक् ||५४||
🔊 Audio coming soon
Adhikarana 34 (55) · Śloka 55
स्वमार्गप्रतिपन्नास्तु यस्य विण्मूत्रमारुताः | व्युपद्रवः स भिन्नेऽपि कोष्ठे जीवति मानवः ||५५||
🔊 Audio coming soon
Adhikarana 35 (56-65) · Śloka 66
अभिन्नमन्त्रं निष्क्रान्तं प्रवेश्यं नान्यथा भवेत् | पिपीलिकाशिरोग्रस्तं तदप्येके वदन्ति तु ||५६|| प्रक्षाल्य पयसा दिग्धं तृणशोणितपांशुभिः | प्रवेशयेत् कृत्तनखो घृतेनाक्तं शनैः शनैः ||५७|| प्रवेशयेत् क्षीरसिक्तं शुष्कमन्त्रं घृताप्लुतम् | अङ्गुल्याऽभिमृशेत् कण्ठं जलेनोद्वेजयेदपि ||५८|| हस्तपादेषु सङ्गृह्य समुत्थाप्य महाबलाः | भवत्यन्तःप्रवेशस्तु यथा निर्धुनुयुस्तथा ||५९|| तथाऽन्त्राणि विशन्त्यन्तः स्वां कलां पीडयन्ति च | व्रणाल्पत्वाद्बहुत्वाद्वा दुष्प्रवेशं भवेत्तु यत् ||६०|| तदापाट्य प्रमाणेन भिषगन्त्रं प्रवेशयेत् | यथास्थानं निविष्टे च व्रणं सीव्येदतन्द्रितः ||६१|| स्थानादपेतमादत्ते प्राणान् गुपितमेव वा | वेष्टयित्वा तु पट्टेन घृतसेकं प्रदापयेत् ||६२|| घृतं पिबेत् सुखोष्णं च चित्रातैलसमन्वितम् | मृदुक्रियार्थं शकृतो वायोश्चाधःप्रवृत्तये ||६३|| ततस्तैलमिदं कुर्याद्रोपणार्थं चिकित्सकः | त्वचोऽश्वकर्णधवयोर्मोचकीमेषशृङ्गयोः ||६४|| शल्लक्यर्जुनयोश्चापि विदार्याः क्षीरिणां तथा | बलामूलानि चाहृत्य तैलमेतैर्विपाचयेत् ||६५|| व्रणं संरोपयेत्तेन वर्षमात्रं यतेत च |६६|
🔊 Audio coming soon
Adhikarana 36 (66-68) · Śloka 69
पादौ निरस्तमुष्कस्य जलेन प्रोक्ष्य चाक्षिणी ||६६|| प्रवेश्य तुन्नसेवन्या मुष्कौ सीव्येत्ततः परम् | कार्यो गोफणिकाबन्धः कट्यामावेश्य यन्त्रकम् ||६७|| न कुर्यात् स्नेहसेकं च तेन क्लिद्यति हि व्रणः | कालानुसार्यागुर्वेलाजातीचन्दनपद्मकैः ||६८|| शिलादार्व्यमृतातुत्थैस्तैलं कुर्वीत रोपणम् |६९|
🔊 Audio coming soon
Adhikarana 37 (69-70) · Śloka 71
शिरसोऽपहृते शल्ये बालवर्तिं निवेशयेत् ||६९|| बालवर्त्यामदत्तायां मस्तुलुङ्गं व्रणात् स्रवेत् | हन्यादेनं ततो वायुस्तस्मादेवमुपाचरेत् ||७०|| व्रणे रोहति चैकैकं शनैर्बालमपक्षिपेत् |७१|
🔊 Audio coming soon
Adhikarana 38 (71) · Śloka 72
गात्रादपहृतेऽन्यस्मात् स्नेहवर्तिं प्रवेशयेत् ||७१|| कृते निःशोणिते चापि विधिः सद्यःक्षते हितः |७२|
🔊 Audio coming soon
Adhikarana 39 (72) · Śloka 73
दूरावगाढाः सूक्ष्माः स्युर्ये व्रणास्तान् विशोणितान् ||७२|| कृत्वा सूक्ष्मेण नेत्रेण चक्रतैलेन तर्पयेत् |७३|
🔊 Audio coming soon
Adhikarana 40 (73-74) · Śloka 74
समङ्गां रजनीं पद्मां त्रिवर्गं तुत्थमेव च ||७३|| विडङ्गं कटुकां पथ्यां गुडूचीं सकरञ्जिकाम् | संहृत्य विपचेत् काले तैलं रोपणमुत्तमम् ||७४||
🔊 Audio coming soon
Adhikarana 41 (75) · Śloka 76
तालीशं पद्मकं मांसी हरेण्वगुरुचन्दनम् | हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः ||७५|| पक्वं सद्योव्रणेषूक्तं तैलं रोपणमुत्तमम् |७६|
🔊 Audio coming soon
Adhikarana 42 (76) · Śloka 76
क्षते क्षतविधिः कार्यः पिच्चिते भग्नवद्विधिः ||७६||
🔊 Audio coming soon
Adhikarana 43 (77) · Śloka 77
घृष्टे रुजो निगृह्याशु चूर्णैरुपचरेद्व्रणम् |७७|
🔊 Audio coming soon
Adhikarana 44 (77-78) · Śloka 78
विश्लिष्टदेहं पतितं मथितं हतमेव च ||७७|| वासयेत्तैलपूर्णायां द्रोण्यां मांसरसाशनम् | अयमेव विधिः कार्यः क्षीणे मर्महते तथा ||७८||
🔊 Audio coming soon
Adhikarana 45 (79) · Śloka 79
रोपणे सपरीषेके पाने च व्रणिनां सदा | तैलं घृतं वा संयोज्यं शरीरर्तूनवेक्ष्य हि ||७९||
🔊 Audio coming soon
Adhikarana 46 (80) · Śloka 80
घृतानि यानि वक्ष्यामि यत्नतः पित्तविद्रधौ | सद्योव्रणेषु देयानि तानि वैद्येन जानता ||८०||
🔊 Audio coming soon
Adhikarana 47 (81) · Śloka 81
सद्यःक्षतव्रणं वैद्यः सशूलं परिषेचयेत् | सर्पिषा नातिशीतेन बलातैलेन वा पुनः ||८१||
🔊 Audio coming soon
Adhikarana 48 (82-84) · Śloka 85
समङ्गां रजनीं पद्मां पथ्यां तुत्थं सुवर्चलाम् | पद्मकं रोध्रमधुकं विडङ्गानि हरेणुकाम् ||८२|| तालीशपत्रं नलदं चन्दनं पद्मकेशरम् | मञ्जिष्ठोशीरलाक्षाश्च क्षीरिणां चापि पल्लवान् ||८३|| प्रियालबीजं तिन्दुक्यास्तरुणानि फलानि च | यथालाभं समाहृत्य तैलमेभिर्विपाचयेत् ||८४|| सद्योव्रणानां सर्वेषामदुष्टानां तु रोपणम् |८५|
🔊 Audio coming soon
Adhikarana 49 (85) · Śloka 86
कषायमधुराःशीताः क्रियाः स्निग्धाश्च योजयेत् ||८५|| सद्योव्रणानां सप्ताहं पश्चात् पूर्वोक्तमाचरेत् |८६|
🔊 Audio coming soon
Adhikarana 50 (86-88) · Śloka 88
दुष्टव्रणेषु कर्तव्यमूर्ध्वं चाधश्च शोधनम् ||८६|| विशोषणं तथाऽऽहारः शोणितस्य च मोक्षणम् | कषायं राजवृक्षादौ सुरसादौ च धावनम् ||८७|| तयोरेव कषायेण तैलं शोधनमिष्यते | क्षारकल्पेन वा तैलं क्षारद्रव्येषु साधितम् ||८८||
🔊 Audio coming soon
Adhikarana 51 (89-92) · Śloka 92
द्रवन्ती चिरबिल्वश्च दन्ती चित्रकमेव च | पृथ्वीका निम्बपत्राणि कासीसं तुत्थमेव च ||८९|| त्रिवृत्तेजोवती नीली हरिद्रे सैन्धवं तिलाः | भूमिकदम्बः सुवहा शुकाख्या लाङ्गलाह्वया ||९०|| नैपाली जालिनी चैव मदयन्ती मृगादनी | सुधामूर्वार्ककीटारिहरितालकरञ्जिकाः ||९१|| यथोपपत्ति कर्तव्यं तैलमेतैस्तु शोधनम् | घृतं वा यदि वा प्राप्तं कल्काः संशोधनास्तथा ||९२||
🔊 Audio coming soon
Adhikarana 52 (93-94) · Śloka 94
सैन्धवत्रिवृदेरण्डपत्रकल्कस्तु वातिके | त्रिवृद्धरिद्रामधुककल्कः पैत्ते तिलैर्युतः ||९३|| कफजे तिलतेजोह्वादन्तीस्वर्जिकचित्रकाः | दुष्टव्रणविधिः कार्यो मेहकुष्ठव्रणेष्वपि ||९४||
🔊 Audio coming soon
Adhikarana 53 (95) · Śloka 95
षड्विधः प्राक् प्रदिष्टो यः सद्योव्रणविनिश्चयः | नातः शक्यं परं वक्तुमपि निश्चितवादिभिः ||९५||
🔊 Audio coming soon
Adhikarana 54 (96-97) · Śloka 97
उपसर्गैर्निपातैश्च तत्तु पण्डितमानिनः | केचित् संयोज्य भाषन्ते बहुधा मानगर्विताः ||९६|| बहु तद्भाषितं तेषां षट्स्वेष्वेवावतिष्ठते | विशेषा इव सामान्ये षट्त्वं तु परमं मतम् ||९७||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 2
इति सुश्रुतसंहितायां चिकित्सास्थाने सद्योव्रणचिकित्सितं नाम द्वितियोऽध्यायः ||२||
🔊 Audio coming soon