Adhikarana 1 (1-4) · Śloka 4
अथातः क्षुद्ररोगचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
तत्राजगल्लिकामामां जलौकोभिरुपाचरेत् |
शुक्तिश्रुघ्नीयवक्षारकल्कैश्चालेपयेद्भिषक् ||३||
श्यामालाङ्गलकिपाठाकल्कैर्वाऽपि विचक्षणः |
पक्वां व्रणविधानेन यथोक्तेन प्रसाधयेत् ||४||
तत्रेत्यादि| शुक्तिः जलशुक्तिः| श्रुघ्नी स्वर्जिका| यवः प्रसिद्धः| क्षारशब्दः प्रत्येकं सम्बध्यते| गयी तु अजगल्लिकामपक्वां यवक्षारशुक्तिसौराष्ट्रीकल्केनालेपयेत्, ततो जलौकोभिः स्रावयेत् , आलेपश्चाद्य उपक्रमः सर्वशोफानामित्युक्तेः||१-४||
Adhikarana 2 (5-6) · Śloka 6
अन्धालजीं यवप्रख्यां पनसीं कच्छपीं तथा |
पाषाणगर्दभं चैव पूर्वं स्वेदेन योजयेत् ||५||
मनःशिलातालकुष्ठदारुकल्कैः प्रलेपयेत् |
परिपाकगतान् भित्त्वा व्रणवत् समुपाचरेत् ||६||
अन्धेत्यादि||५-६||
Adhikarana 3 (7-8) · Śloka 8
विवृतामिन्द्रवृद्धां च गर्दभीं जालगर्दभम् |
इरिवेल्लीं गन्धनाम्नीं कक्षां विस्फोटकांस्तथा ||७||
पित्तजस्य विसर्पस्य क्रियया साधयेद्भिषक् |
रोपयेत् सर्पिषा पक्वान् सिद्धेन मधुरौषधैः ||८||
मधुरौषधानि काकोल्यादीनि||७-८||
Adhikarana 4 (9-11) · Śloka 11
चिप्य(प्प)मुष्णाम्बुना सिक्तमुत्कृत्य स्रावयेद्भिषक् |
चक्रतैलेन चाभ्यज्य सर्जचूर्णेन चूर्णयेत् ||९||
बन्धेनोपचरेच्चैनमशक्यं चाग्निना दहेत् |
मधुरौषधसिद्धेन ततस्तैलेन रोपयेत् ||१०||
कुनखे विधिरप्येष कार्यो हि भिषजा भवेत् |
उपाचरेदनुशयीं श्लेष्मविद्रधिवद्भिषक् ||११||
चिप्पमित्यादि| उत्कृत्य दुष्टमांसं पक्वम्| चक्रतैलं चक्रपीडितं, हस्तादिपीडितव्युदासार्थं चक्रग्रहणम्| “चिप्पं शोणितसेकेन शोधनैश्चाप्युपाचरेत्| गतोष्माणं तथा चैनमुष्णाम्बुपरिषेचितम्|| शस्त्रेण तु यथायोगमुत्कृत्य स्रावयेद्व्रणम्| शिला तेजोवती चैव रोचना च रसाञ्जनम्|| कल्कैरेतैश्च सम्पिष्टैः शोधयित्वा व्रणं ततः| हरिद्रागुरुकालीयकल्कैश्च सरसाञ्जनैः|| सिद्धेन तिलतैलेन तत्र कुर्वीत रोपणम्”- इति क्वचित् पाठः| एष विधिः चिप्पक्रमः||९-११||
Adhikarana 5 (12-16) · Śloka 16
विदारिकां समभ्यज्य स्विन्नां विम्लाप्य लेपयेत् |
नगवृत्तिकवर्षाभूबिल्वमूलैः सुपेषितैः ||१२||
व्रणभावगतायां वा कृत्वा संशोधनक्रियाम् |
रोपणार्थं हितं तैलं कषायमधुरैः शृतम् ||१३||
प्रच्छानैर्वा जलौकोभिः स्राव्याऽपक्वा विदारिका |
अजकर्णैः सपालाशमूलकल्कैः प्रलेपयेत् ||१४||
पक्वां विदार्य शस्त्रेण पटोलपिचुमर्दयोः |
कल्केन तिलयुक्तेन सर्पिर्मिश्रेण लेपयेत् ||१५||
बद्ध्वा च क्षीरवृक्षस्य कषायैः खदिरस्य च |
व्रणं प्रक्षालयेच्छुद्धां ततस्तां रोपयेत् पुनः ||१६||
विदारिकामित्यादि| विम्लाप्येति अङ्गुष्ठादिभिः| नगवृत्तिकः जिङ्गिनी गुडमज्जनिकेति लोके, वृश्चिकालीत्यन्ये| व्रणभावेत्यादि| कषायैः न्यग्रोधादिपठितैः, मधुरैः काकोल्यादिभिः| अजकर्णः सर्जः| पालाशः शटी| पक्वामित्यादि| पिचुमर्दो निम्बः| क्षीरवृक्षा वटोदुम्बरप्लक्षपिप्पलगर्दभाण्डाः||१२-१६||
Adhikarana 6 (17-18) · Śloka 19
मेदोऽर्बुदविधानेन साधयेच्छर्करार्बुदम् |
कच्छूं विचर्चिकां पामां कुष्ठवत् समुपाचरेत् ||१७||
लेपश्च शस्यते सिक्थशताह्वागौरसर्षपैः |
वचादार्वीसर्षपैर्वा तैलं वा नक्तमालजम् ||१८||
सारतैलमथाभ्यङ्गे कुर्वीत कटुकैः शृतम् |१९|
मेदोऽर्बुदेत्यादि| नक्तमालजतैलेनापक्वेनैव, ‘कटुकौषधसिद्धेन’ इत्यन्ये| सारतैलेन शिंशपागुरुसरलदेवदार्वादितैलेन| कटुकौषधानि पिप्पल्यादीनि| ‘सारतैलमथाभ्यङ्गे’ इत्यत्र ‘सारलं तैलमभ्यङ्गे’ इति केचित् पठन्ति; तत्र सरलसारस्नेहः सामान्यस्नेहपरिभाषया पक्तव्यः||१७-१८||-
Adhikarana 7 (19-20) · Śloka 20
पाददार्यां सिरां विद्ध्वा स्वेदाभ्यङ्गौ प्रयोजयेत् ||१९||
मधूच्छिष्टवसामज्जसर्जचूर्णघृतैः कृतः |
यवाह्वगैरिकोन्मिश्रैः पादलेपः प्रशस्यते ||२०||
पादेत्यादि| पूर्वमादौ स्नेहत्वेदौ कृत्वा पश्चात् सिरां विध्येत्| यवाह्वो यवक्षारः||१९-२०||
Adhikarana 8 (21-22) · Śloka 23
पादौ सिक्त्वाऽऽरनालेन लेपनं ह्यलसे हितम् |
कल्कीकृतैर्निम्बतिलकासीसालैः ससैन्धवैः ||२१||
लाक्षारसोऽभया वाऽपि कार्यं स्याद्रक्तमोक्षणम् |
सिद्धं रसे कण्टकार्यास्तैलं वा सार्षपं हितम् ||२२||
कासीसरोचनशिलाचूर्णैर्वा प्रतिसारणम् |२३|
पादावित्यादि| शिला मनःशिला| प्रतिसारणं घर्षणम्||२१-२२||-
Adhikarana 9 (23) · Śloka 23
उत्कृत्य दग्ध्वा स्नेहेन जयेत् कदरसञ्ज्ञकम् ||२३||
उत्कृत्येत्यादि| कदरं तु शस्त्रेणोत्कृत्य अग्नितप्तेन तैलेनैव दहेत्, सूक्ष्ममार्गानुसारित्वात्तैलस्य; अन्ये तु वह्निसन्तप्ताः सर्वेऽपि स्नेहाः सूक्ष्ममार्गानुसारिणो भवन्ति, अतः सर्वेऽपि स्नेहा ग्राह्याः||२३||
Adhikarana 10 (24-26) · Śloka 27
इन्द्रलुप्ते सिरां मूर्ध्नि स्निग्धस्विन्नस्य मोक्षयेत् |
कल्कैः समरिचैर्दिह्याच्छिलाकासीसतुत्थकैः ||२४||
कुटन्नटदारुकल्कैर्लेपनं वा प्रशस्यते |
प्रच्छयित्वाऽवगाढं वा गुञ्जाकल्कैर्मुहुर्मुहुः ||२५||
लेपयेदुपशान्त्यर्थं कुर्याद्वाऽपि रसायनम् |
मालतीकरवीराग्निनक्तमालविपाचितम् ||२६||
तैलमभ्यञ्जने शस्तमिन्द्रलुप्तापहं परम् |२७|
इन्द्रलुप्त इत्यादि| कुटन्नटेत्यादि कुटन्नटः तगरः| रसायनविधानोपदेशं कुर्वन्नेतज्ज्ञापयति- दुःसाध्योऽयं व्याधिर्न शक्यते रसायनमन्तरेणापनेतुं; रसायनमष्टादश दिव्यौषधयः सोमश्चौषधराजा| मालतीत्यादि स्नेहपाककल्पपरिभाषया जात्यादिकल्कसिद्धेन कटुतैलेन गोमूत्रचतुर्गुणेन शिरोऽभ्यञ्ज्यात्||२४-२६||-
Adhikarana 11 (27-28) · Śloka 30
अरूंषिकां हृते रक्ते सेचयेन्निम्बवारिणा ||२७||
दिह्यात् सैन्धवयुक्तेन वाजिविष्ठारसेन तु |
हरितालनिशानिम्बकल्कैर्वा सपटोलजैः ||२८||
यष्टीनीलोत्पलैरण्डमार्कवैर्वा प्रलेपयेत् |
इन्द्रलुप्तापहं तैलमभ्यङ्गे च प्रशस्यते |३०|
अरूंषिकामित्यादि| अरूंषिकां तु पुनर्जलौकोभिः रक्तमवसिच्य निम्बक्वाथेन परितः सिक्त्वा, अश्वपुरीषरसेन बहुसैन्धवचूर्णेन लेपयेत्| मार्कवो भृङ्गराजः| हरितालादिभिर्वा मधुकादिभिर्वा लेपयेत्| इन्द्रलुप्तोक्तस्य जात्यादितैलस्याभ्यङ्गकरणमरूंषिकायाः शोधनरोपणम्||२७-२८||-
Adhikarana 12 (29-30) · Śloka 30
सिरां दारुणके विद्ध्वा स्निग्धस्विन्नस्य मूर्धनि ||२९||
अवपीडं शिरोबस्तिमभ्यङ्गं च प्रयोजयेत् |
क्षालने कोद्रवतृणक्षारतोयं प्रशस्यते ||३०||
सिरामित्यादि| अवपीड्य नस्ये दीयत इत्यवपीडः||२९-३०||
Adhikarana 13 (31) · Śloka 31
उपरिष्टात् प्रवक्ष्यामि विधिं पलितनाशनम् |३१|
पलितचिकित्सितमाह- उपरिष्टादित्यादि| उपरिष्टान्मिश्रकोक्ते चिकित्सिते|३१|-
Adhikarana 14 (31) · Śloka 32
मसूरिकायां कुष्ठघ्नलेपनादिक्रिया हिता ||३१||
पित्तश्लेष्मविसर्पोक्ता क्रिया वा सम्प्रशस्यते |३२|
मसूरिकायामित्यादि| आदिशब्देनोद्वर्तनघृतादि||३१||-
Adhikarana 15 (32) · Śloka 33
जतुमणिं समुत्कृत्य मषकं तिलकालकम् ||३२||
क्षारेण प्रदहेद्युक्त्या वह्निना वा शनैः शनैः |३३|
जतुमणिमित्यादि| क्षारेण क्षारविषयेषु, आग्निना अक्षारकृत्येषु||३२||-
Adhikarana 16 (33-36) · Śloka 36
न्यच्छेव्यङ्गे सिरामोक्षो नीलिकायां च शस्यते ||३३||
यथान्यायं यथाभ्यासं लालाट्यादिसिराव्यधः |
घृष्ट्वा दिह्यात्त्वचं पिष्ट्वा क्षीरिणां क्षीरसंयुताम् ||३४||
बलातिबलयष्ट्याह्वरजनीर्वा प्रलेपनम् |
पयस्यागुरुकालीयलेपनं वा सगैरिकम् ||३५||
क्षौद्राज्ययुक्तया लिम्पेद्दंष्ट्रया शूकरस्य च |
कपित्थराजादनयोः कल्कं वा हितमुच्यते ||३६||
न्यच्छे इत्यादि| घृष्ट्वा समुद्रफेनादिना| क्षीरिणो वटादयो वृक्षाः पञ्च, तेषां त्वचं पिष्ट्वा| पयस्या अर्कपुष्पी| कालीयं कृष्णचन्दनम्||३३-३६||
Adhikarana 17 (37) · Śloka 38
यौवने पिडकास्वेष विशेषाच्छर्दनं हितम् |
लेपनं च वचारोध्रसैन्धवैः सर्षपान्वितैः ||३७||
कुस्तुम्बुरुवचालोध्रकुष्ठैर्वा लेपनं हितम् |३८|
यौवने इत्यादि| एष अनन्तरोक्तः||३७||-
Adhikarana 18 (38-39) · Śloka 39
पद्मिनीकण्टके रोगे छर्दयेन्निम्बवारिणा ||३८||
तेनैव सिद्धं सक्षौद्रं सर्पिःपानं प्रदापयेत् |
निम्बारग्वधयोः कल्को हित उत्सादने भवेत् ||३९||
पद्मिनीत्यादि| निम्बारग्वधयोः कल्कः कषाय उत्सादने उद्वर्तने हितो भवेदित्यर्थः| कल्के कषायशब्दो वर्तते, “पञ्चविधं कषायकल्पनम्” (च. सू. ४) इति वचनात्||३८-३९||
Adhikarana 19 (40-42) · Śloka 42
परिवृत्तिं घृताभ्यक्तां सुस्विन्नामुपनाहयेत् |
ततोऽभ्यज्य शनैश्चर्म चानयेत् पीडयेन्मणिम् ||४०||
प्रविष्टे च मणौ चर्म स्वेदयेदुपनाहनैः |
त्रिरात्रं पञ्चरात्रं वा वातघ्नैः साल्वणादिभिः ||४१||
दद्याद्वातहरान् बस्तीन् स्निग्धान्यन्नानि भोजयेत् |
वपाटिकां जयेदेवं यथादोषं चिकित्सकः ||४२||
परिवृत्तिमित्यादि| उपनाहयेत् बध्नीयात्| अभ्यज्य सर्पिषा| हीनमध्यमोत्तमदोषबलापेक्षया एकरात्रत्रिपञ्चरात्रविकल्पः||४०-४२||
Adhikarana 20 (43-47) · Śloka 48
निरुद्धप्रकशे नाडीं लौहीमुभयतोमुखीम् |
दारवीं वा जतुकृतां घृताभ्यक्तां प्रवेशयेत् ||४३||
परिषेके वसामज्जशिशुमारवराहयोः |
चक्रतैलं तथा योज्यं वातघ्नद्रव्यसंयुतम् ||४४||
त्र्यहात्त्र्यहात् स्थूलतरां सम्यङ्गाडीं प्रवेशयेत् |
स्रोतो विवर्धयेदेवं स्निग्धमन्नं च भोजयेत् ||४५||
भित्त्वा वा सेवनीं मुक्त्वा सद्यःक्षतवदाचरेत् |
सन्निरुद्धगुदं रोगं वल्मीकं वह्निरोहिणीम् ||४६||
प्रत्याख्याय यथायोगं चिकित्सितमथाचरेत् |
विसर्पोक्तेन विधिना साधयेदग्निरोहिणीम् ||४७||
सन्निरुद्धगुदे योज्या निरुद्धप्रकशक्रिया |४८|
निरुद्धेत्यादि| दारवीं काष्ठमयीम्| जतुकृतां लाक्षामयीम्| शिशुमारः पादी जलचरः स्वनामख्यातः| चक्रतैलं यन्त्रपीडितं तैलं; सेवनीं भित्त्वा मुक्त्वा वा शस्त्रेण मूत्रस्रोतःसङ्कोचकारणं चर्मावदारयेत्; तस्यापि द्वारस्याविपाके मणिद्वारमथैवं दारयेत्||४३-४७||-
Adhikarana 21 (48-56) · Śloka 56
शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्निभ्यां प्रसाधयेत् ||४८||
विधानेनार्बुदोक्तेन शोधयित्वा च रोपयेत् |
वल्मीकं तु भवेद्यस्य नातिवृद्धममर्मजम् ||४९||
तत्र संशोधनं कृत्वा शोणितं मोक्षयेद्भिषक् |
कुलत्थिकाया मूलैश्च गुडूच्या लवणेन च ||५०||
आरेवतस्य मूलैश्च दन्तीमूलैस्तथैव च |
श्यामामूलैः सपललैः शक्तुमिश्रैः प्रलेपयेत् ||५१||
सुस्निग्धैश्च सुखोष्णैश्च भिषक् तमुपनाहयेत् |
पक्वं वा तद्विजानीयाद्गतीः सर्वा यथाक्रमम् ||५२||
अभिज्ञाय ततश्छित्त्वा प्रदहेन्मतिमान् भिषक् |
संशोध्य दुष्टमांसानि क्षारेण प्रतिसारयेत् ||५३||
व्रणं विशुद्धं विज्ञाय रोपयेन्मतिमान् भिषक् |
सुमना ग्रन्थयश्चैव भल्लातकमनःशिले ||५४||
कालानुसारी सूक्ष्मैला चन्दनागुरुणी तथा |
एतैः सिद्धं निम्बतैलं वल्मीके रोपणं हितम् ||५५||
पाणिपादोपरिष्टात्तु छिद्रैर्बहुभिरावृतम् |
वल्मीकं यत् सशोफं स्याद्वर्ज्यं तत्तु विजानता ||५६||
असाध्येष्वपि वल्मीकाग्निरोहिणीप्रभृतिषु चिकित्सितं कार्यं, “यावदुच्छ्वसिति प्राणी तावत् कार्या प्रतिक्रिया| कदाऽपि दैवयोगेन दृष्टारिष्टोऽपि जीवति” इत्युक्तत्वात्| वल्मीकमित्यादि| तत्र संशोधनं कृत्वा ‘औषधेन’ इति शेषः| आरेवतः किरमालकः| श्यामा त्रिवृद्विशेषः| पललं तिलपिष्टिः| उपनाहः पाचनम्| कालानुसारी कृष्णसारिवा||४८-५६||
Adhikarana 22 (57-60) · Śloka 60
धात्र्याः स्तन्यं शोधयित्वा बाले साध्याऽहिपूतना |
पटोलपत्रत्रिफलारसाञ्जनविपाचितम् ||५७||
पीतं घृतं नाशयति कृच्छ्रामप्यहिपूतनाम् |
त्रिफलाकोलखदिरकषायं व्रणरोपणम् ||५८||
कासीसरोचनातुत्थहरितालरसाञ्जनैः |
लेपोऽम्लपिष्टो बदरीत्वग्वा सैन्धवसंयुता ||५९||
कपालतुत्थजं चूर्णं चूर्णकाले प्रयोजयेत् |
चिकित्सेन्मुष्ककच्छूं चाप्यहिपूतनपामवत् ||६०||
धात्र्या इत्यादि| कासीसादिभिरम्लकाञ्जिकादिपिष्टैः प्रलेपनं, बदरीत्वक्सैन्धवैर्वा प्रलेपनम्| कपालं पक्वमृद्भाण्डखण्डः| अहिपूतनोक्तश्च धात्रीशोधनवर्जं घृतपानादिः||५७-६०||
Adhikarana 23 (61-63) · Śloka 63
गुदभ्रंशे गुदं स्विन्नं स्नेहाभ्यक्तं प्रवेशयेत् |
कारयेद्गोफणाबन्धं मध्यच्छिद्रेण चर्मणा ||६१||
विनिर्गमार्थं वायोश्च स्वेदयेच्च मुहुर्मुहुः |
क्षीरे महत्पञ्चमूलं मूषिकां चान्त्रवर्जिताम् ||६२||
पक्त्वा तस्मिन् पचेत्तैलं वातघ्नौषधसंयुतम् |
गुदभ्रंशमिदं कृच्छ्रं पानाभ्यङ्गात् प्रसाधयेत् ||६३||
गुदेत्यादि| मूषिकां निर्गतान्त्रां कृत्वा महत्पञ्चमूलस्य प्रस्थं क्षीरप्रस्थे त्रिगुणितजले विपचेत्, क्षीरप्रस्थेऽवशिष्टै तैलकुडवं दत्त्वा, भद्रदार्वादिकल्कपादं कृत्वा, पचेत्; तद्यथाबलं पानाभ्यङ्गाभ्यां गुदभ्रंशं साधयेत्||६१-६३||
Adhikarana puShpikA · Śloka 20
इति सुश्रुतसंहितायां चिकित्सास्थाने क्षुद्ररोगचिकित्सितं नाम विंशोऽध्यायः ||२०||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने विंशतितमोऽध्यायः||२०||