Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

20. kṣudrarōgacikitsitam

Adhikarana 1 (1-4) · Śloka 4

अथातः क्षुद्ररोगचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| तत्राजगल्लिकामामां जलौकोभिरुपाचरेत् | शुक्तिश्रुघ्नीयवक्षारकल्कैश्चालेपयेद्भिषक् ||३|| श्यामालाङ्गलकिपाठाकल्कैर्वाऽपि विचक्षणः | पक्वां व्रणविधानेन यथोक्तेन प्रसाधयेत् ||४||

🔊 Audio coming soon

तत्रेत्यादि| शुक्तिः जलशुक्तिः| श्रुघ्नी स्वर्जिका| यवः प्रसिद्धः| क्षारशब्दः प्रत्येकं सम्बध्यते| गयी तु अजगल्लिकामपक्वां यवक्षारशुक्तिसौराष्ट्रीकल्केनालेपयेत्, ततो जलौकोभिः स्रावयेत् , आलेपश्चाद्य उपक्रमः सर्वशोफानामित्युक्तेः||१-४||

Adhikarana 2 (5-6) · Śloka 6

अन्धालजीं यवप्रख्यां पनसीं कच्छपीं तथा | पाषाणगर्दभं चैव पूर्वं स्वेदेन योजयेत् ||५|| मनःशिलातालकुष्ठदारुकल्कैः प्रलेपयेत् | परिपाकगतान् भित्त्वा व्रणवत् समुपाचरेत् ||६||

🔊 Audio coming soon

अन्धेत्यादि||५-६||

Adhikarana 3 (7-8) · Śloka 8

विवृतामिन्द्रवृद्धां च गर्दभीं जालगर्दभम् | इरिवेल्लीं गन्धनाम्नीं कक्षां विस्फोटकांस्तथा ||७|| पित्तजस्य विसर्पस्य क्रियया साधयेद्भिषक् | रोपयेत् सर्पिषा पक्वान् सिद्धेन मधुरौषधैः ||८||

🔊 Audio coming soon

मधुरौषधानि काकोल्यादीनि||७-८||

Adhikarana 4 (9-11) · Śloka 11

चिप्य(प्प)मुष्णाम्बुना सिक्तमुत्कृत्य स्रावयेद्भिषक् | चक्रतैलेन चाभ्यज्य सर्जचूर्णेन चूर्णयेत् ||९|| बन्धेनोपचरेच्चैनमशक्यं चाग्निना दहेत् | मधुरौषधसिद्धेन ततस्तैलेन रोपयेत् ||१०|| कुनखे विधिरप्येष कार्यो हि भिषजा भवेत् | उपाचरेदनुशयीं श्लेष्मविद्रधिवद्भिषक् ||११||

🔊 Audio coming soon

चिप्पमित्यादि| उत्कृत्य दुष्टमांसं पक्वम्| चक्रतैलं चक्रपीडितं, हस्तादिपीडितव्युदासार्थं चक्रग्रहणम्| “चिप्पं शोणितसेकेन शोधनैश्चाप्युपाचरेत्| गतोष्माणं तथा चैनमुष्णाम्बुपरिषेचितम्|| शस्त्रेण तु यथायोगमुत्कृत्य स्रावयेद्व्रणम्| शिला तेजोवती चैव रोचना च रसाञ्जनम्|| कल्कैरेतैश्च सम्पिष्टैः शोधयित्वा व्रणं ततः| हरिद्रागुरुकालीयकल्कैश्च सरसाञ्जनैः|| सिद्धेन तिलतैलेन तत्र कुर्वीत रोपणम्”- इति क्वचित् पाठः| एष विधिः चिप्पक्रमः||९-११||

Adhikarana 5 (12-16) · Śloka 16

विदारिकां समभ्यज्य स्विन्नां विम्लाप्य लेपयेत् | नगवृत्तिकवर्षाभूबिल्वमूलैः सुपेषितैः ||१२|| व्रणभावगतायां वा कृत्वा संशोधनक्रियाम् | रोपणार्थं हितं तैलं कषायमधुरैः शृतम् ||१३|| प्रच्छानैर्वा जलौकोभिः स्राव्याऽपक्वा विदारिका | अजकर्णैः सपालाशमूलकल्कैः प्रलेपयेत् ||१४|| पक्वां विदार्य शस्त्रेण पटोलपिचुमर्दयोः | कल्केन तिलयुक्तेन सर्पिर्मिश्रेण लेपयेत् ||१५|| बद्ध्वा च क्षीरवृक्षस्य कषायैः खदिरस्य च | व्रणं प्रक्षालयेच्छुद्धां ततस्तां रोपयेत् पुनः ||१६||

🔊 Audio coming soon

विदारिकामित्यादि| विम्लाप्येति अङ्गुष्ठादिभिः| नगवृत्तिकः जिङ्गिनी गुडमज्जनिकेति लोके, वृश्चिकालीत्यन्ये| व्रणभावेत्यादि| कषायैः न्यग्रोधादिपठितैः, मधुरैः काकोल्यादिभिः| अजकर्णः सर्जः| पालाशः शटी| पक्वामित्यादि| पिचुमर्दो निम्बः| क्षीरवृक्षा वटोदुम्बरप्लक्षपिप्पलगर्दभाण्डाः||१२-१६||

Adhikarana 6 (17-18) · Śloka 19

मेदोऽर्बुदविधानेन साधयेच्छर्करार्बुदम् | कच्छूं विचर्चिकां पामां कुष्ठवत् समुपाचरेत् ||१७|| लेपश्च शस्यते सिक्थशताह्वागौरसर्षपैः | वचादार्वीसर्षपैर्वा तैलं वा नक्तमालजम् ||१८|| सारतैलमथाभ्यङ्गे कुर्वीत कटुकैः शृतम् |१९|

🔊 Audio coming soon

मेदोऽर्बुदेत्यादि| नक्तमालजतैलेनापक्वेनैव, ‘कटुकौषधसिद्धेन’ इत्यन्ये| सारतैलेन शिंशपागुरुसरलदेवदार्वादितैलेन| कटुकौषधानि पिप्पल्यादीनि| ‘सारतैलमथाभ्यङ्गे’ इत्यत्र ‘सारलं तैलमभ्यङ्गे’ इति केचित् पठन्ति; तत्र सरलसारस्नेहः सामान्यस्नेहपरिभाषया पक्तव्यः||१७-१८||-

Adhikarana 7 (19-20) · Śloka 20

पाददार्यां सिरां विद्ध्वा स्वेदाभ्यङ्गौ प्रयोजयेत् ||१९|| मधूच्छिष्टवसामज्जसर्जचूर्णघृतैः कृतः | यवाह्वगैरिकोन्मिश्रैः पादलेपः प्रशस्यते ||२०||

🔊 Audio coming soon

पादेत्यादि| पूर्वमादौ स्नेहत्वेदौ कृत्वा पश्चात् सिरां विध्येत्| यवाह्वो यवक्षारः||१९-२०||

Adhikarana 8 (21-22) · Śloka 23

पादौ सिक्त्वाऽऽरनालेन लेपनं ह्यलसे हितम् | कल्कीकृतैर्निम्बतिलकासीसालैः ससैन्धवैः ||२१|| लाक्षारसोऽभया वाऽपि कार्यं स्याद्रक्तमोक्षणम् | सिद्धं रसे कण्टकार्यास्तैलं वा सार्षपं हितम् ||२२|| कासीसरोचनशिलाचूर्णैर्वा प्रतिसारणम् |२३|

🔊 Audio coming soon

पादावित्यादि| शिला मनःशिला| प्रतिसारणं घर्षणम्||२१-२२||-

Adhikarana 9 (23) · Śloka 23

उत्कृत्य दग्ध्वा स्नेहेन जयेत् कदरसञ्ज्ञकम् ||२३||

🔊 Audio coming soon

उत्कृत्येत्यादि| कदरं तु शस्त्रेणोत्कृत्य अग्नितप्तेन तैलेनैव दहेत्, सूक्ष्ममार्गानुसारित्वात्तैलस्य; अन्ये तु वह्निसन्तप्ताः सर्वेऽपि स्नेहाः सूक्ष्ममार्गानुसारिणो भवन्ति, अतः सर्वेऽपि स्नेहा ग्राह्याः||२३||

Adhikarana 10 (24-26) · Śloka 27

इन्द्रलुप्ते सिरां मूर्ध्नि स्निग्धस्विन्नस्य मोक्षयेत् | कल्कैः समरिचैर्दिह्याच्छिलाकासीसतुत्थकैः ||२४|| कुटन्नटदारुकल्कैर्लेपनं वा प्रशस्यते | प्रच्छयित्वाऽवगाढं वा गुञ्जाकल्कैर्मुहुर्मुहुः ||२५|| लेपयेदुपशान्त्यर्थं कुर्याद्वाऽपि रसायनम् | मालतीकरवीराग्निनक्तमालविपाचितम् ||२६|| तैलमभ्यञ्जने शस्तमिन्द्रलुप्तापहं परम् |२७|

🔊 Audio coming soon

इन्द्रलुप्त इत्यादि| कुटन्नटेत्यादि कुटन्नटः तगरः| रसायनविधानोपदेशं कुर्वन्नेतज्ज्ञापयति- दुःसाध्योऽयं व्याधिर्न शक्यते रसायनमन्तरेणापनेतुं; रसायनमष्टादश दिव्यौषधयः सोमश्चौषधराजा| मालतीत्यादि स्नेहपाककल्पपरिभाषया जात्यादिकल्कसिद्धेन कटुतैलेन गोमूत्रचतुर्गुणेन शिरोऽभ्यञ्ज्यात्||२४-२६||-

Adhikarana 11 (27-28) · Śloka 30

अरूंषिकां हृते रक्ते सेचयेन्निम्बवारिणा ||२७|| दिह्यात् सैन्धवयुक्तेन वाजिविष्ठारसेन तु | हरितालनिशानिम्बकल्कैर्वा सपटोलजैः ||२८|| यष्टीनीलोत्पलैरण्डमार्कवैर्वा प्रलेपयेत् | इन्द्रलुप्तापहं तैलमभ्यङ्गे च प्रशस्यते |३०|

🔊 Audio coming soon

अरूंषिकामित्यादि| अरूंषिकां तु पुनर्जलौकोभिः रक्तमवसिच्य निम्बक्वाथेन परितः सिक्त्वा, अश्वपुरीषरसेन बहुसैन्धवचूर्णेन लेपयेत्| मार्कवो भृङ्गराजः| हरितालादिभिर्वा मधुकादिभिर्वा लेपयेत्| इन्द्रलुप्तोक्तस्य जात्यादितैलस्याभ्यङ्गकरणमरूंषिकायाः शोधनरोपणम्||२७-२८||-

Adhikarana 12 (29-30) · Śloka 30

सिरां दारुणके विद्ध्वा स्निग्धस्विन्नस्य मूर्धनि ||२९|| अवपीडं शिरोबस्तिमभ्यङ्गं च प्रयोजयेत् | क्षालने कोद्रवतृणक्षारतोयं प्रशस्यते ||३०||

🔊 Audio coming soon

सिरामित्यादि| अवपीड्य नस्ये दीयत इत्यवपीडः||२९-३०||

Adhikarana 13 (31) · Śloka 31

उपरिष्टात् प्रवक्ष्यामि विधिं पलितनाशनम् |३१|

🔊 Audio coming soon

पलितचिकित्सितमाह- उपरिष्टादित्यादि| उपरिष्टान्मिश्रकोक्ते चिकित्सिते|३१|-

Adhikarana 14 (31) · Śloka 32

मसूरिकायां कुष्ठघ्नलेपनादिक्रिया हिता ||३१|| पित्तश्लेष्मविसर्पोक्ता क्रिया वा सम्प्रशस्यते |३२|

🔊 Audio coming soon

मसूरिकायामित्यादि| आदिशब्देनोद्वर्तनघृतादि||३१||-

Adhikarana 15 (32) · Śloka 33

जतुमणिं समुत्कृत्य मषकं तिलकालकम् ||३२|| क्षारेण प्रदहेद्युक्त्या वह्निना वा शनैः शनैः |३३|

🔊 Audio coming soon

जतुमणिमित्यादि| क्षारेण क्षारविषयेषु, आग्निना अक्षारकृत्येषु||३२||-

Adhikarana 16 (33-36) · Śloka 36

न्यच्छेव्यङ्गे सिरामोक्षो नीलिकायां च शस्यते ||३३|| यथान्यायं यथाभ्यासं लालाट्यादिसिराव्यधः | घृष्ट्वा दिह्यात्त्वचं पिष्ट्वा क्षीरिणां क्षीरसंयुताम् ||३४|| बलातिबलयष्ट्याह्वरजनीर्वा प्रलेपनम् | पयस्यागुरुकालीयलेपनं वा सगैरिकम् ||३५|| क्षौद्राज्ययुक्तया लिम्पेद्दंष्ट्रया शूकरस्य च | कपित्थराजादनयोः कल्कं वा हितमुच्यते ||३६||

🔊 Audio coming soon

न्यच्छे इत्यादि| घृष्ट्वा समुद्रफेनादिना| क्षीरिणो वटादयो वृक्षाः पञ्च, तेषां त्वचं पिष्ट्वा| पयस्या अर्कपुष्पी| कालीयं कृष्णचन्दनम्||३३-३६||

Adhikarana 17 (37) · Śloka 38

यौवने पिडकास्वेष विशेषाच्छर्दनं हितम् | लेपनं च वचारोध्रसैन्धवैः सर्षपान्वितैः ||३७|| कुस्तुम्बुरुवचालोध्रकुष्ठैर्वा लेपनं हितम् |३८|

🔊 Audio coming soon

यौवने इत्यादि| एष अनन्तरोक्तः||३७||-

Adhikarana 18 (38-39) · Śloka 39

पद्मिनीकण्टके रोगे छर्दयेन्निम्बवारिणा ||३८|| तेनैव सिद्धं सक्षौद्रं सर्पिःपानं प्रदापयेत् | निम्बारग्वधयोः कल्को हित उत्सादने भवेत् ||३९||

🔊 Audio coming soon

पद्मिनीत्यादि| निम्बारग्वधयोः कल्कः कषाय उत्सादने उद्वर्तने हितो भवेदित्यर्थः| कल्के कषायशब्दो वर्तते, “पञ्चविधं कषायकल्पनम्” (च. सू. ४) इति वचनात्||३८-३९||

Adhikarana 19 (40-42) · Śloka 42

परिवृत्तिं घृताभ्यक्तां सुस्विन्नामुपनाहयेत् | ततोऽभ्यज्य शनैश्चर्म चानयेत् पीडयेन्मणिम् ||४०|| प्रविष्टे च मणौ चर्म स्वेदयेदुपनाहनैः | त्रिरात्रं पञ्चरात्रं वा वातघ्नैः साल्वणादिभिः ||४१|| दद्याद्वातहरान् बस्तीन् स्निग्धान्यन्नानि भोजयेत् | वपाटिकां जयेदेवं यथादोषं चिकित्सकः ||४२||

🔊 Audio coming soon

परिवृत्तिमित्यादि| उपनाहयेत् बध्नीयात्| अभ्यज्य सर्पिषा| हीनमध्यमोत्तमदोषबलापेक्षया एकरात्रत्रिपञ्चरात्रविकल्पः||४०-४२||

Adhikarana 20 (43-47) · Śloka 48

निरुद्धप्रकशे नाडीं लौहीमुभयतोमुखीम् | दारवीं वा जतुकृतां घृताभ्यक्तां प्रवेशयेत् ||४३|| परिषेके वसामज्जशिशुमारवराहयोः | चक्रतैलं तथा योज्यं वातघ्नद्रव्यसंयुतम् ||४४|| त्र्यहात्त्र्यहात् स्थूलतरां सम्यङ्गाडीं प्रवेशयेत् | स्रोतो विवर्धयेदेवं स्निग्धमन्नं च भोजयेत् ||४५|| भित्त्वा वा सेवनीं मुक्त्वा सद्यःक्षतवदाचरेत् | सन्निरुद्धगुदं रोगं वल्मीकं वह्निरोहिणीम् ||४६|| प्रत्याख्याय यथायोगं चिकित्सितमथाचरेत् | विसर्पोक्तेन विधिना साधयेदग्निरोहिणीम् ||४७|| सन्निरुद्धगुदे योज्या निरुद्धप्रकशक्रिया |४८|

🔊 Audio coming soon

निरुद्धेत्यादि| दारवीं काष्ठमयीम्| जतुकृतां लाक्षामयीम्| शिशुमारः पादी जलचरः स्वनामख्यातः| चक्रतैलं यन्त्रपीडितं तैलं; सेवनीं भित्त्वा मुक्त्वा वा शस्त्रेण मूत्रस्रोतःसङ्कोचकारणं चर्मावदारयेत्; तस्यापि द्वारस्याविपाके मणिद्वारमथैवं दारयेत्||४३-४७||-

Adhikarana 21 (48-56) · Śloka 56

शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्निभ्यां प्रसाधयेत् ||४८|| विधानेनार्बुदोक्तेन शोधयित्वा च रोपयेत् | वल्मीकं तु भवेद्यस्य नातिवृद्धममर्मजम् ||४९|| तत्र संशोधनं कृत्वा शोणितं मोक्षयेद्भिषक् | कुलत्थिकाया मूलैश्च गुडूच्या लवणेन च ||५०|| आरेवतस्य मूलैश्च दन्तीमूलैस्तथैव च | श्यामामूलैः सपललैः शक्तुमिश्रैः प्रलेपयेत् ||५१|| सुस्निग्धैश्च सुखोष्णैश्च भिषक् तमुपनाहयेत् | पक्वं वा तद्विजानीयाद्गतीः सर्वा यथाक्रमम् ||५२|| अभिज्ञाय ततश्छित्त्वा प्रदहेन्मतिमान् भिषक् | संशोध्य दुष्टमांसानि क्षारेण प्रतिसारयेत् ||५३|| व्रणं विशुद्धं विज्ञाय रोपयेन्मतिमान् भिषक् | सुमना ग्रन्थयश्चैव भल्लातकमनःशिले ||५४|| कालानुसारी सूक्ष्मैला चन्दनागुरुणी तथा | एतैः सिद्धं निम्बतैलं वल्मीके रोपणं हितम् ||५५|| पाणिपादोपरिष्टात्तु छिद्रैर्बहुभिरावृतम् | वल्मीकं यत् सशोफं स्याद्वर्ज्यं तत्तु विजानता ||५६||

🔊 Audio coming soon

असाध्येष्वपि वल्मीकाग्निरोहिणीप्रभृतिषु चिकित्सितं कार्यं, “यावदुच्छ्वसिति प्राणी तावत् कार्या प्रतिक्रिया| कदाऽपि दैवयोगेन दृष्टारिष्टोऽपि जीवति” इत्युक्तत्वात्| वल्मीकमित्यादि| तत्र संशोधनं कृत्वा ‘औषधेन’ इति शेषः| आरेवतः किरमालकः| श्यामा त्रिवृद्विशेषः| पललं तिलपिष्टिः| उपनाहः पाचनम्| कालानुसारी कृष्णसारिवा||४८-५६||

Adhikarana 22 (57-60) · Śloka 60

धात्र्याः स्तन्यं शोधयित्वा बाले साध्याऽहिपूतना | पटोलपत्रत्रिफलारसाञ्जनविपाचितम् ||५७|| पीतं घृतं नाशयति कृच्छ्रामप्यहिपूतनाम् | त्रिफलाकोलखदिरकषायं व्रणरोपणम् ||५८|| कासीसरोचनातुत्थहरितालरसाञ्जनैः | लेपोऽम्लपिष्टो बदरीत्वग्वा सैन्धवसंयुता ||५९|| कपालतुत्थजं चूर्णं चूर्णकाले प्रयोजयेत् | चिकित्सेन्मुष्ककच्छूं चाप्यहिपूतनपामवत् ||६०||

🔊 Audio coming soon

धात्र्या इत्यादि| कासीसादिभिरम्लकाञ्जिकादिपिष्टैः प्रलेपनं, बदरीत्वक्सैन्धवैर्वा प्रलेपनम्| कपालं पक्वमृद्भाण्डखण्डः| अहिपूतनोक्तश्च धात्रीशोधनवर्जं घृतपानादिः||५७-६०||

Adhikarana 23 (61-63) · Śloka 63

गुदभ्रंशे गुदं स्विन्नं स्नेहाभ्यक्तं प्रवेशयेत् | कारयेद्गोफणाबन्धं मध्यच्छिद्रेण चर्मणा ||६१|| विनिर्गमार्थं वायोश्च स्वेदयेच्च मुहुर्मुहुः | क्षीरे महत्पञ्चमूलं मूषिकां चान्त्रवर्जिताम् ||६२|| पक्त्वा तस्मिन् पचेत्तैलं वातघ्नौषधसंयुतम् | गुदभ्रंशमिदं कृच्छ्रं पानाभ्यङ्गात् प्रसाधयेत् ||६३||

🔊 Audio coming soon

गुदेत्यादि| मूषिकां निर्गतान्त्रां कृत्वा महत्पञ्चमूलस्य प्रस्थं क्षीरप्रस्थे त्रिगुणितजले विपचेत्, क्षीरप्रस्थेऽवशिष्टै तैलकुडवं दत्त्वा, भद्रदार्वादिकल्कपादं कृत्वा, पचेत्; तद्यथाबलं पानाभ्यङ्गाभ्यां गुदभ्रंशं साधयेत्||६१-६३||

Adhikarana puShpikA · Śloka 20

इति सुश्रुतसंहितायां चिकित्सास्थाने क्षुद्ररोगचिकित्सितं नाम विंशोऽध्यायः ||२०||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने विंशतितमोऽध्यायः||२०||