Adhikarana 1 (1-2) · Śloka 2
अथातो वमनविरेचनसाध्योपद्रवचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
उपद्रवो रोगः| चिकित्सितं चात्र वमनविरेचनरूपमेव, वमनविरेचनसाध्यत्वादुपद्रवाणाम्||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो वमनविरेचनसाध्योपद्रवचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
उपद्रवो रोगः| चिकित्सितं चात्र वमनविरेचनरूपमेव, वमनविरेचनसाध्यत्वादुपद्रवाणाम्||१-२||
Adhikarana 2 (3) · Śloka 3
दोषाः क्षीणा बृंहयितव्याः, कुपिताः प्रशमयितव्याः, वृद्धा निर्हर्तव्याः, समाः परिपाल्या इति सिद्धान्तः ||३||
🔊 Audio coming soon
न खलु दोषाणां सर्वावस्थासु वमनविरेचने, किं तर्हि कस्याञ्चिदेवेति प्रतिपादयन्नाह- दोषा इत्यादि| क्षीणाः क्षयलक्षणैर्ज्ञाताः| कुपिता अल्पतया कोपमापन्नाः संशमनविधानेनैव प्रशमयितव्याः, प्रकर्षेण वृद्धाः स्वस्थानाच्चलिताः संशोधनविधिना निर्हर्तव्याः| जेज्जटाचार्यस्तु ‘प्रवृद्धाः’ इति पठति, वृद्धिर्हि द्विविधा- चयलक्षणा प्रकोपलक्षणा च; तत्र संहतिरूपावृद्धिः चयः, विलयनरूपा वृद्धिः प्रकोपः; तयोर्विलयनरूपवृद्ध्या वृद्धा दोषाः संशोधनेन निर्हर्तव्याः| कुपिता इति कोपोऽत्र द्विविधः- चयपूर्वकोऽचयपूर्वकश्च; तत्र चयपूर्वकं कोपमागताः संशोधनविधानेनैव शमयितव्याः| स्वस्थानस्थाः रक्ष्या इति सिद्धान्तः| समाः स्वास्थ्यकराः स्वस्थवृत्तिविधानेनैव परिपाल्या इति| क्षीणवृद्धकुपितसंशमनं समपरिपालनं च प्रसङ्गतन्त्रयुक्तिवशादत्रोक्तम्||३||
Adhikarana 3 (4-5) · Śloka 5
प्राधान्येन वमनविरेचने वर्तेते निर्हरणे दोषाणाम् | तस्मात्तयोर्विधानमुच्यमानमुपधारय ||४|| अथातुरं स्निग्धं स्विन्नमभिष्यन्दिभिराहारैरनवबद्धदोषमवलोक्य श्वो वमनं पाययिताऽस्मीति सम्भोजयेत्तीक्ष्णाग्निं बलवन्तं बहुदोषं महाव्याधिपरीतं वमनसात्म्यं च ||५||
🔊 Audio coming soon
पक्वाशयगतानेव वातपित्तकफानेकद्वित्रिर्दत्तो बस्तिरपकर्षति, धूमनस्यकवलग्रहादयः पुनरल्पाल्पतया, न तु वमनविरेचनवत् सकृन्नापि बाहुल्येन, तस्मादुक्तं- प्राधान्येन वमनविरेचने इति| ननु, वमनविरेचने कफपित्तयोर्दोषयोर्निर्हरणे वर्तेते, तत्कथं दोषाणामिति? उच्यते- वायोरपि स्वाशयक्षोभलक्षणतया विलीनस्य विमार्गनिर्हरणमूर्ध्वाधोमार्गेणानुलोमनं वमनविरेचने कुर्वाते, तस्माद्दोषाणामत्र बाहुल्यमुपपन्नम्; अन्ये तु न्यायभीरुतया दोषयोरिति पठन्ति| शिष्यबहुत्वेऽपि सुश्रुतस्यैव प्रश्नेऽधिकृतत्वादुपधारयेत्येकवचननिर्देशः||४-५||
Adhikarana 4 (6-7) · Śloka 7
भवति चात्र- पेशलैर्विविधैरन्नैर्दोषानुत्क्लेश्य देहिनः | स्निग्धस्विन्नाय वमनं दत्तं सम्यक् प्रवर्तते ||६|| अथापरेद्युः पूर्वाह्णे साधारणे काले वमनद्रव्यकषायकल्कचूर्णस्नेहानामन्यतमस्य मात्रां पाययित्वा वामयेद्यथायोगं कोष्ठविशेषमवेक्ष्य; असात्म्यबीभत्सदुर्गन्धदुर्दर्शनानि च वमनानि विदध्यात्, अतो विपरीतानि विरेचनानि; तत्र सुकुमारं कृशं बालं वृद्धं भीरुं वा वमनसाध्येषु विकारेषु क्षीरदधितक्रयवागूनामन्यतममाकण्ठं पाययेत्, पीतौषधं च पाणिभिरग्नितप्तैः प्रताप्यमानं मुहूर्तमुपेक्षेत; तस्य च स्वेदप्रादुर्भावेण शिथिलतामापन्नं स्वेभ्यः स्थानेभ्यः प्रचलितं कुक्षिमनुसृतं जानीयात्, ततः प्रवृत्तहृल्लासं ज्ञात्वा जानुमात्रासनोपविष्टमाप्तैर्ललाटे पृष्ठे पार्श्वयोः कण्ठे च पाणिभिः सुपरिगृहीतमङ्गुलीगन्धर्वहस्तोत्पलनालानामन्यतमेन कण्ठमभिस्पृशन्तं वामयेत्तावद्यावत् सम्यग्वान्तलिङ्गानीति ||७||
🔊 Audio coming soon
तत्र वमनस्य करणमाह- अथेत्यादि| सम्भोजयेत् सम्यक् भोजनं कारयेद् वैद्यः| कम्? आतुरं| किं कृत्वा? आलोक्य दृष्ट्वा| किंविशिष्टं? स्निग्धं स्विन्नं च| पुनः किंविशिष्टम्? अनवबद्धदोषम्| कैः सम्भोजयेत्? आहारैः| किंविशिष्टैः? अभिष्यन्दिभिः| कुतः कारणादित्याह- श्वो वमनं पाययिताऽस्मीति, इति हेतोः; यत आगामिनि अहनि अस्मि अहं पाययिता पाययिष्यामि| किं तत्? वमनम्| क्व? श्वः अपरेद्युः; अन्यस्मिन्नहनीति सम्बन्धः| आतुरं रोगिणम्| अभिष्यन्दिभिराहारैः ग्राम्यानूपौदकमांसपयोमाषादिभिः| अनवबद्धदोषं मुक्तस्रोतोबन्धनत्वात् प्रचलितदोषम्| भोजनविधिः कफोत्क्लेशनार्थः; सम्भोजयेत् समशनं कारयेत्, “पथ्यापथ्यमिहैकत्र भुक्तं समशनं स्मृतम्” (च. चि. १५) इत्युक्तत्वात्| किंविशिष्टमातुरं सम्भोजयेदित्याह- तीक्ष्णाग्निं दीप्ताग्निम्| बलवन्तमिति प्रशस्तबलयुक्तोऽपि सम्भोजनार्हः; यतः- “जग्धाः षडधिगच्छन्ति बलिनो वशतां रसाः” (सू. ४२) इति वचनात्| बहुदोषः सम्भोजनार्ह इति बहुदोषे भोजनोत्क्लिष्टो दोषः सम्यग्योगेन प्रवर्तते; अन्यथा पुनरयोगेनैव, एवं दोषकार्यं महाव्याधिपरिगृहीतेऽपि वाच्यम्| वमनसात्म्यस्य तु अभिष्यन्दिभिराहारैर्दोषोत्क्लेशनम् | तमेवार्थं सुखपाठार्थं श्लोकेनापि दर्शयन्नाह- पेशलैरित्यादि| पेशलैः कोमलैरकठिनैः; अभिष्यन्दिभिरिति यावत्| अथेति मङ्गलार्थे| अपरेद्युरिति अन्यस्मिन्नहनि; ततश्चायं वाक्यार्थः- पूर्वेद्युः सम्भोजितमपरेद्युः अन्यस्मिन्नहनि वामयेत्, तच्च वमनमेकमहो विश्राम्य| स्नेहात् स्निग्धो ग्राम्यौदकमांसरसौदनेन भुक्तोऽपरस्मिन् प्रभाते वमनं कुर्यात्| तथा च भोजः- “एकाहोपरतः स्नेहात् स्विन्नः प्रच्छर्दनं पिबेत्| भुक्त्वा ग्राम्यौदकैर्मांसैरानूपैश्च सुसंस्कृतैः”- इति| पूर्वाह्णे अह्नः पूर्वभागे| साधारणे काले नातिवर्षशीतोष्णयुक्ते, अन्ये तु प्रावृट्शरद्वसन्ताख्य इति विभज्य व्याख्यानयन्ति| स्नेहोऽत्र वमनद्रव्यपक्वः स्नेहः| वमनद्रव्यकषायमात्राः प्रधानमध्यमाधमभेदात्तन्त्रान्तरोक्ताः कथ्यन्ते| यदाह चक्षुष्यः - “क्वाथपाने नव प्रस्था ज्येष्ठा मात्रा प्रकीर्तिता| मध्यमा षण्मिता प्रोक्ता त्रिप्रस्था च कनीयसी”- इति| वमनविषये च सार्धत्रयोदशपलप्रमाणं प्रस्थमामनन्ति वृद्धाः| कल्कादिमानं तु- “कल्कमोदकचूर्णानां कर्षमद्याच्च लेहतः| कर्षद्वयं पलं वाऽपि वयोरोगाद्यपेक्षया”- इति| बीभत्सो विकृताकृतिः; अतो विपरीतानि विरेचनानि सात्म्याबीभत्सादुर्दर्शनसुगन्धीनीति गम्यते| कृशसुकुमारवृद्धबालभीरवो वमनसाध्याः कथं वामयितव्याः? इत्याह- तत्र सुकुमारमित्यादि| क्षीरादयो वमनद्रव्यसंस्कृता ज्ञेयाः; अथवा क्षीरादीन् पूर्वं पाययेत्, अनन्तरं मात्रया वमनद्रव्यमिति| तथा च वाग्भटः- “वृद्धबालाबलक्लीबभीरून् रोगानुरोधतः| आकण्ठं पाययेन्मद्यं क्षीरमिक्षुरसं रसम्|| यथाविकारविहितां मधुसैन्धवसंयुताम्| कोष्ठं विभज्य भैषज्यमात्रां मन्त्राभिमन्त्रिताम्||प्राङ्मुखं पाययेत्” (वा. सू. १८) इति| पीतौषधस्य सम्यग्योगहेतुं विधानमुपदिशन्नाह- पीतेत्यादि| मुहूर्तं घटिकाद्वयम्| प्रचलितं ‘दोषं’ इति शेषः| लोमहर्षेण तु स्वस्थानाद्दोषप्रच्यवनमिति निश्चयः| कुक्षौ समाध्मापनात् कुक्षिदेशानुगतं विद्यात्| हृल्लासः थूत्करणं, छर्दिरित्यपरे||६-७||
Adhikarana 5 (8) · Śloka 8
भवतश्चात्र- कफप्रसेकं हृदयाविशुद्धिं कण्डूं च दुश्छर्दितलिङ्गमाहुः | पित्तातियोगं च विसञ्ज्ञतां च हृत्कण्ठपीडामपि चातिवान्ते ||८||
🔊 Audio coming soon
तत्र, अयोगातियोगयोरेव व्यापत्सम्भावनायां प्राग्लिङ्गं दर्शयन्नाह- कफप्रसेकमित्यादि| पित्तातियोगं पित्तातिप्रवृत्तिम्||८||
Adhikarana 6 (9) · Śloka 9
पित्ते कफस्यानु सुखं प्रवृत्ते शुद्धेषु हृत्कण्ठशिरःसु चापि | लघौ च देहे कफसंस्रवे च स्थिते सुवान्तं पुरुषं व्यवस्येत् ||९||
🔊 Audio coming soon
सुवान्तलक्षणमाह- पित्ते कफस्येत्यादि| अनुशब्दः पश्चादर्थः| शुद्धेषु अगौरवादिलक्षणयुक्तेषु| व्यवस्येत् जानीयात्| सम्यग्वान्तलक्षणं कार्यत्वेन, दुर्वान्तातिवान्तलक्षणं परिहार्यत्वेन व्यापत्प्रतीकारार्थमुक्तम्| तत्र कैश्चित्त्रिधा शुद्धिरभिहिता; यथा- लैङ्गिकी, वैगिकी, मानिकी चेति| तत्र लिङ्गैर्वान्तविरिक्तसम्यक्चिह्नैर्ज्ञायत इति लैङ्गिकी, हीनमध्योत्तमैर्वमनवेगैश्चतुःषडष्टभिर्दशविंशतित्रिंशद्भिर्विरेचनवेगैश्च ज्ञायत इति वैगिकी, मानेन श्लेष्मपित्तयोः प्रस्थार्धाढकाढकमानेन हीनमध्यमोत्तमेन ज्ञायत इति मानिकी| तत्र न तावन्मानिकी शुद्धिः, दीर्घह्रस्वस्थूलकृशदेहसंहतिप्रकृतिसारादिभिर्विविधलक्षणशरीराणां प्राणिनां दोषधातुमलानां परिमाणाभावात्; नापि वैगिकी, यतो बहुभिर्वेगैः कदाचित् कस्यचिन्न शुद्धिः, प्रकृतिवयोबलशरीरदोषव्यपेक्षया कस्यचित् कतिपयैरपि वेगैः शुद्धिरिति; अतस्तृतीयां पित्ते कफस्येत्यादिभिर्लिङ्गैर्लैङ्गिकीं शुद्धिमत्रोक्तवान् सुश्रुताचार्यः||९||
Adhikarana 7 (10) · Śloka 10
सम्यग्वान्तं चैनमभिसमीक्ष्य स्नेहनविरेचनशमनानां धूमानामन्यतमं सामर्थ्यतः पाययित्वाऽऽचारिकमादिशेत् ||१०||
🔊 Audio coming soon
सम्यग्वान्तस्य पश्चात्कर्म निर्दिशन्नाह- सम्यग्वान्तमित्यादि| वमनानन्तरं स्रोतोविलग्नकफहरणार्थं धूमपानमत्रोक्तम्| वातप्रकृतौ स्नैहिकं, कफपित्तप्रकृतावुत्क्लिष्टदोषे च वैरेचनिकं, समदोषप्रकृतावुपशमनीयं प्रायोगिकं स्वस्थवृत्तिकमित्यर्थः | आचारिकमादिशेदिति चरतेर्गतिभक्षणार्थकत्वादाहारो विहारश्चाचारः| तत्र विहारो बहुविधोऽपि त्रिविध एव, कायवाङ्मनोभेदात्; स त्रिविधोऽप्ययुक्तोऽपवर्ज्यश्चातुरोपद्रवीये वक्ष्यते||१०||
Adhikarana 8 (11) · Śloka 11
भवन्ति चात्र- ततोऽपराह्णे शुचिशुद्धदेहमुष्णाभिरद्भिः परिषिक्तगात्रम् | कुलत्थमुद्गाढकिजाङ्गलानां यूषै रसैर्वाऽप्युपभोजयेत्तु ||११||
🔊 Audio coming soon
आहारं सर्वमभिहितं दर्शयन्नाह- तत इत्यादि| वान्तस्य हि मन्दाग्नेः पेयादिक्रमयोग्यस्य कथं यूषमांसरसोपदेशः? अत्रोच्यते- अपिशब्दात् पेयादिक्रमोऽत्राप्युक्त एव| तत्रात्यन्तक्षीणकफानां पेयादिः; तेषामपि वातभूयिष्ठानां दीप्ताग्नीनां सात्म्यापेक्षया मांसरसोपयोगः; दोषर्तुप्रकृत्यपेक्षया किञ्चित्कफयुक्तानां यूषोपदेशः , नतु विलेपीयवागूनाम्; उक्तं च,- “पांशुधाने यथा वृष्टिः क्लेदयत्यति कर्दमम्| तथा श्लेष्मणि सन्दुष्टे यवागूः श्लेष्मवर्धिनी”- इति||११||
Adhikarana 9 (12) · Śloka 12
कासोपलेपस्वरभेदनिद्रातन्द्रास्यदौर्गन्ध्यविषोपसर्गाः | कफप्रसेकग्रहणीप्रदोषा न सन्ति जन्तोर्वमतः कदाचित् ||१२||
🔊 Audio coming soon
अतःपरं वमनफलाभिधानं- कासेत्यादि| उपलेपः स्रोतःसु मलवृद्धिः| उपसर्गाः शीतलिकादयः| केचित् “कफप्रसेकस्वरभेदतन्द्रानिद्रास्यदौर्गन्ध्यकफोपसर्गाः| गुरुत्वकण्डूग्रहणीप्रदोषा न सन्ति जन्तोर्वमतः कदाचित्” इति पठन्ति||१२||
Adhikarana 10 (13) · Śloka 13
छिन्ने तरौ पुष्पफलप्ररोहा यथा विनाशं सहसा व्रजन्ति | तथा हृते श्लेष्मणि शोधनेन तज्जा विकाराः प्रशमं प्रयान्ति ||१३||
🔊 Audio coming soon
अस्यैवार्थस्य दार्ढ्यार्थं दृष्टान्तमाह- छिन्ने इत्यादि||१३||
Adhikarana 11 (14-15) · Śloka 15
न वामयेत्तैमिरिकोर्ध्ववातगुल्मोदरप्लीहकृमिश्रमार्तान् | स्थूलक्षतक्षीणकृशातिवृद्धमूत्रातुरान् केवलवातरोगान् ||१४|| स्वरोपघाताध्ययनप्रसक्तदुश्छर्दिदुःकोष्ठतृडार्तबालान् | ऊर्ध्वास्रपित्तिक्षुधितातिरूक्षगर्भिण्युदावर्तिनिरूहितांश्च ||१५||
🔊 Audio coming soon
अतः परमवम्यानाह- नेत्यादि| तैमिरिकं तिमिररोगार्तम्| अत्र केचित्, “न वामयेत्तैमिरिकं च गुल्मिनं न चापि पाण्डूदररोगपीडितम्| स्थूलक्षतक्षीणकृशातिवृद्धानर्शोर्दिताक्षेपकपीडितांश्च”- इति पठन्ति| ऊर्ध्ववातं केचिच्छ्वासं मन्यन्ते; तन्न, श्वासिनो वमनार्हत्वात्; ऊर्ध्ववातस्तन्त्रान्तरे प्रोक्त एव- “अधःप्रतिहतो वायुः श्लेष्मणा कुपितेन च| करोत्यनिशमुद्गारमूर्ध्ववातः स उच्यते”- इति||१४-१५||
Adhikarana 12 (16) · Śloka 16
अवम्यवमनाद्रोगाः कृच्छ्रतां यान्ति देहिनाम् | असाध्यतां वा गच्छन्ति नैते वाम्यास्ततः स्मृताः ||१६||
🔊 Audio coming soon
अवमनार्हस्य वमने व्याधेः परिवृद्धिमसाध्यतां च दर्शयन्नाह- अवम्येत्यादि||१६||
Adhikarana 13 (17) · Śloka 17
एतेऽप्यजीर्णव्यथिता वाम्या ये च विषातुराः | अतीव चोल्बणकफास्ते च स्युर्मधुकाम्बुना ||१७||
🔊 Audio coming soon
एतेऽप्यजीर्णव्यथिता इत्यादि| एषामजीर्णपीडायां स्थावरजङ्गमकृत्रिमविषबाधायां चात्यर्थोच्छ्रितकफाश्चैते वाम्या वमनार्हाः| तत्रैषामवमने चिराद्बाधाऽजीर्णे, विषैश्च सद्य एव, उल्बणकफानां च गलामयादिषु सद्य एव विनाशः| केचित् ‘एतेऽप्यजीर्ण ...’ इत्यादि पाठं त्यक्त्वा ‘सर्वेऽप्येते विरुद्धान्नविषमार्तगरातुराः| कफप्रवृद्धे जीर्णे च वामयेत्’ इति पठन्ति| अत्रापि द्रव्यविशेषमुपदिशन्नाह- मधुकाम्बुनेति|- यष्टीमधुकषायेण वमनाङ्गप्रधानेन वामयेत्| जेज्जटः पुनराह- मधु एव मधुकं, स्वार्थे कः, तेन मधुकाम्बुना| एतेन प्रतिप्रसवो ह्यवाम्यानामप्युक्तः| “न वामनीयस्तिमिरी दकोदरी न गुल्मवान् पाण्डुगदेन पीडितः| स्थूलक्षतक्षीणकृशातिवृद्धा नार्शोर्दिताक्षेपकपीडितश्च|| रूक्षे प्रमेहे तरुणे च गर्भे गच्छत्यथोर्ध्वं रुधिरे च तीव्रे| दुष्टे च कोष्ठे कृमिभिर्मनुष्यं न वामयेद्वर्चसि सम्प्रवृद्धे”- इति केचित् पठन्ति| शेषं सुगमम्||१७||
Adhikarana 14 (18) · Śloka 18
वाम्यास्तु- विषशोषस्तन्यदोषमन्दाग्न्युन्मादापस्मारश्लीपदार्बुदविदारिकामेदोमेहगरज्वरारुच्यपच्यामातीसारहृद्रोग- चित्तविभ्रमविसर्पविद्रध्यजीर्णमुखप्रसेकहृल्लासश्वासकासपीनसपूतीनासकण्ठौष्ठवक्त्रपाक- कर्णस्रावाधिजिह्वोपजिह्विकागलशुण्डिकाधःशोणितपित्तिनः कफस्थानजेषु विकारेष्वन्ये च कफव्याधिपरीता इति ||१८||
🔊 Audio coming soon
वाम्या इत्यादि| ज्वरोऽत्र नवज्वरो विषमज्वरश्च, क्वचित् पूतीनासाग्रे कुष्ठगलगण्डप्रमेहशोफाः पठिताः| केचित् सुश्रुताध्यायिनो न पठन्त्यमुं पाठं, तेषामयमभिप्रायः- यथास्वं तत्प्रत्यनीकव्याधिषु वमननिर्देशान्नार्थोऽनेनेति||१८||
Adhikarana 15 (19) · Śloka 19
विरेचनमपि स्निग्धस्विन्नाय वान्ताय च देयम्; अवान्तस्य हि सम्यग्विरीक्तस्यापि सतोऽधः स्रस्तः श्लेष्मा ग्रहणीं छादयति, गौरवमापादयति, प्रवाहिकां वा जनयति ||१९||
🔊 Audio coming soon
विरेचनविधानमाह- विरेचनमपीत्यादि| वान्न्तायापि पुनः स्निग्धस्विन्नाय देयं; तच्च पक्षादूर्ध्वं, “पक्षाद्विरेको वान्तस्य” (चि. ३६) इत्युक्तत्वात्| तत्रान्नसंसर्गेण दिनानि षट्, स्नेहेनापि, ततः स्विन्नं त्र्यहमेव लघूष्णभोजिनं रेचयेत्| “वान्तं षडहसंसृष्टं पुनः संस्नेहितं क्रमात्| उष्णं लघु त्र्यहं भुक्तं षोडशेऽह्नि विरेचयेत्”- इति| तत्र वमने स्नेहादेकाहमेवोपरमो, विरेके त्र्यहम्| तथा हि चरकः- “एकाहोपरतः स्नेहाद् भुक्त्वा प्रच्छर्दनं पिबेत्| त्रिरात्रोपरतस्तद्वत् स्नेहात् प्रस्कन्दनं पिबेत्” (च. सू. १३) इति| अवान्तस्य हि विरेकदाने को दोष इत्याह- अवान्तस्येत्यादि| तस्मान् स्निग्धस्विन्नाय वान्ताय देयमिति||१९||
Adhikarana 16 (20) · Śloka 20
अथातुरं श्वो विरेचनं पाययिताऽस्मीति पूर्वाह्णे लघु भोजयेत्, फलाम्लमुष्णोदकं चैनमनुपाययेत् | अथापरेऽहनि विगतश्लेष्मधातुमातुरोपक्रमणीयादवेक्ष्यातुरमथास्मै औषधमात्रां पातुं प्रयच्छेत् ||२०||
🔊 Audio coming soon
विरेचनस्य प्राक्कर्म निर्दिशन्नाह- अथेत्यादि| पूर्वाह्णग्रहणं सायम्भोजननिषेधार्थम्| फलाम्लं बीजपूरादि| फलाम्लोष्णोदकानुपानं पित्तवर्धनार्थम्, अन्ये तु कफावजयार्थमाहुः| विगतश्लेष्मधातुमिति विगतश्लेष्माणमिति कर्तव्ये धातुग्रहणं श्लेष्मसहचरितरसधातूपलक्षणं, रसावशेषेऽपि सप्रसेकत्वात् पुरुषस्य विरेचनं न देयमिति| मात्रा पुरुषस्य बलापेक्षया प्रधानमध्यादिभेदेन तन्त्रान्तरोक्ता कथ्यते- “द्वे पले ज्येष्ठमाख्यातं मध्यमं तु पलं भवेत्| पलार्धमुपयुञ्जीत कनीयस्तु विरेचनम्”- इति||२०||
Adhikarana 17 (21-22) · Śloka 22
तत्र मृदुः, क्रूरो, मध्यम इति त्रिविधः कोष्ठो भवति | तत्र बहुपित्तो मृदुः, स दुग्धेनापि विरिच्यते; बहुवातश्लेष्मा क्रूरः, स दुर्विरेच्यः; समदोषो मध्यमः, स साधारण इति | तत्र मृदौ मात्रा मृद्वी, तीक्ष्णा क्रूरे, मध्ये मध्या कर्तव्येति | पीतौषधश्च तन्मनाः शय्याभ्याशे विरेच्यते ||२१|| विरेचनं पीतवांस्तु न वेगान् धारयेद्बुधः | निवातशायी शीताम्बु न स्पृशेन्न प्रवाहयेत् ||२२||
🔊 Audio coming soon
दुग्धं चात्रोपलक्षणमात्रं, तेनेक्षुरसाम्लतक्रमस्तुगुडकृशरासर्पिर्नवमद्योष्णोदकपीलुद्राक्षारसादिभिरपि विरिच्यते, दुर्विरेच्यस्त्रिवृत्त्रिफलातिल्वकनीलिनीफलादिभिरपि दुःखेन विरिच्यते| मृद्वी मृदुगुणोपेता, वैरेचनिकद्रव्यगुणानां तीक्ष्णत्वादीनामपकर्षेण; तीक्ष्णा तीक्ष्णगुणोपेता, वैरेचनिकद्रव्यगुणानां तीक्ष्णत्वादीनां प्रकर्षेण| तन्मना विरेकमनाः| अभ्याशे समीपे||२१-२२||
Adhikarana 18 (23) · Śloka 23
यथा च वमने प्रसेकौषधकफपित्तानिलाः क्रमेण गच्छन्ति, एवं विरेचने मूत्रपुरीषपित्तौषधकफा इति ||२३||
🔊 Audio coming soon
प्रसेकः आस्ये लालास्रवणम्| औषधं पीतं, कफः पुनरामाशयस्थः, तस्मिन् वमनेन हृते तत्रैव पित्तं वमनावधिसूचकं निस्सरति, वातेन उद्गाररूपेणानिलसंशुद्धिः| विरेचने मूत्रपुरीषपित्तौषधकफा इति, वातगमनं पुनः ‘गतेऽनिले चाप्यनुलोमभावं’ इत्यनेन वक्ष्यति| कफोऽत्र पक्वाशये विरेकावधिसूचकः स्फटिकसमद्युतिः||२३||
Adhikarana 19 (24) · Śloka 24
भवन्ति चात्र- हृत्कुक्ष्यशुद्धिः परिदाहकण्डूविण्मूत्रसङ्गाश्च न सद्विरिक्ते | मूर्च्छागुदभ्रंशकफातियोगाः शूलोद्गमश्चातिविरिक्तलिङ्गम् ||२४||
🔊 Audio coming soon
पित्तान्तकं सम्यग्वमनज्ञानं कफान्तं च सम्यग्विरेचनज्ञानमुद्दिश्य विरेकस्यैव लिङ्गज्ञानेनायोगातियोगौ निर्दिशन्नाह- भवन्ति चात्रेत्यादि| हृत्कुक्ष्यशुद्धिरिति अत्र “स्याद्दुर्विरिक्ते कफपित्तकोपो दाहोऽरुचिर्गौरवमग्निसादः” इति केचित्पठन्ति||२४||
Adhikarana 20 (25) · Śloka 25
गतेषु दोषेषु कफान्वितेषु नाभ्या लघुत्वे मनसश्च तुष्टौ | गतेऽनिले चाप्यनुलोमभावं सम्यग्विरिक्तं मनुजं व्यवस्येत् ||२५||
🔊 Audio coming soon
गतेष्वित्यादि| दोषोऽत्र पित्तस्थानगतं दोषोपलक्षितं पुरीषं कफपित्तं च||२५||
Adhikarana 21 (26) · Śloka 26
मन्दाग्निमक्षीणमसद्विरीक्तं न पाययेताहनि तत्र पेयाम् | क्षीणं तृषार्तं सुविरेचितं च तन्वीं सुखोष्णां लघु पाययेच्च ||२६||
🔊 Audio coming soon
अत्रैव पश्चात्कर्मण्यवस्थाविशेषेण विशेषमुद्दिशन्नाह- मन्दाग्निमक्षीणमित्यादि| लघ्विति मात्रालघु||२६||
Adhikarana 22 (27) · Śloka 27
बुद्धेः प्रसादं बलमिन्द्रियाणां धातुस्थिरत्वं बलमग्निदीप्तिम् | चिराच्च पाकं वयसः करोति विरेचनं सम्यगुपास्यमानम् ||२७||
🔊 Audio coming soon
इदानीं विरेकस्य गुणमाह- बुद्धेरित्यादि| काथमनसोरन्योन्यानुविधानात् कायमपि मनोऽनुविधत्ते मनश्च काय इति| शरीरशुद्धिकारणं हि विरेचनं, तच्छुद्धौ मनसो विशुद्धिः, मनःशुद्धौ बुद्धिप्रसाद उपपन्न एवेत्यतो बुद्धिप्रसादं करोतीत्युक्तम्| धातुस्थिरत्वमुपचयलक्षणबलेन| अत्र बलशब्देनोत्साहलक्षणबलम्| केचित् ‘विरेचनं सम्यगुपास्यमेव’ इति पठन्ति| केचिद्बुद्धिप्रसादादयस्तात्कालिका विरेचनस्य गुणाः, अग्निदीप्तिप्रभृतयस्तु केचित्संसर्जनक्रमानन्तरभाविन इति कथयन्ति| उपस्तम्भादिकारिणो मलस्य क्षयकार्यपि विरेकः स्रोतःशुद्ध्या बलमादधाति तक्रपानवत्| उक्तं च- “स्रोतःसु तक्रशुद्धेषु रसः सम्यगुपैति यः| तेन पुष्टिर्बलं वर्णः प्रहर्षश्चोपजायते” (च. चि. १४) इति||२७||
Adhikarana 23 (28) · Śloka 28
यथौदकानामुदकेऽपनीते चरस्थिराणां भवति प्रणाशः | पित्ते हृते त्वेवमुपद्रवाणां पित्तात्मकानां भवति प्रणाशः ||२८||
🔊 Audio coming soon
दृष्टान्तमाह- यथेत्यादि| औदकानां चरस्थिराणां स्थावरजङ्गमानां पद्मादीनां मत्स्यादीनां च| उपद्रवाणां व्याधीनाम्| पित्तात्मकानां पित्तकारणानाम्||२८||
Adhikarana 24 (29-30) · Śloka 31
मन्दाग्न्यतिस्नेहितबालवृद्धस्थूलाः क्षतक्षीणभयोपतप्ताः | श्रान्तस्तृषार्तोऽपरिजीर्णभक्तो गर्भिण्यधो गच्छति यस्य चासृक् ||२९|| नवप्रविश्यायमदात्ययी च नवज्वरी या च नवप्रसृता | शल्यार्दिताश्चाप्यविरेचनीयाः स्नेहादिभिर्ये त्वनुपस्कृताश्च ||३०|| अत्यर्थपित्ताभिपरीतदेहान् विरेचयेत्तानपि मन्दमन्दम् |३१|
🔊 Audio coming soon
विरेचनस्याप्रवृत्तिविषयमुद्दिशन्नाह- मन्देत्यादि| ‘मन्दमन्दम्’ इत्यत्र केचित् ‘मन्दवीर्यैः’ इत्येवं पठन्ति, तत्र ‘द्रव्यैः’ इति शेषः||२९-३०||-
Adhikarana 25 (31) · Śloka 31
विरेचनैर्यान्ति नरा विनाशमज्ञप्रयुक्तैरविरेचनीयाः ||३१||
🔊 Audio coming soon
अविरेच्यानामविरेकज्ञैः कृतं दोषं दर्शयन्नाह- विरेचनैरित्यादि||३१||
Adhikarana 26 (32) · Śloka 32
विरेच्यास्तु- ज्वरगरारुच्यर्शोऽर्बुदोदरग्रन्थिविद्गाधिपाण्डुरोगापस्मारहृद्रोगवातरक्तभगन्दरच्छर्दियोनिरोगविसर्प- गुल्मपक्वाशयरुग्विबन्धविसूचिकालसकमूत्राघातकुष्ठविस्फोटकप्रमेहानाहप्लीहशोफवृद्धिशस्त्रक्षतक्षाराग्निदग्ध- दुष्टव्रणाक्षिपाककाचतिमिराभिष्यन्दशिरःकर्णाक्षिनासास्यगुदमेढ्रदाहोर्ध्वरक्तपित्तकृमिकोष्ठिनः पित्तस्थानजेष्वन्येषु च विकारेष्वन्ये च पैत्तिकव्याधिपरीता इति ||३२||
🔊 Audio coming soon
विरेच्यानाह- विरेच्यास्त्वित्यादि||३२||
Adhikarana 27 (33) · Śloka 33
सरत्वसौक्ष्म्यतैक्ष्ण्यौष्ण्यविकाशित्वैर्विरेचनम् | वमनं तु हरेद्दोषं प्रकृत्या गतमन्यथा ||३३||
🔊 Audio coming soon
विरेचनद्रव्येण सह गुणसाम्ये सति कथं वमनद्रव्यस्योर्ध्वभागगामित्वमित्याह- सरत्वेत्यादि| सरस्य भावः सरत्वमानुलोम्यं, गयी तु विसरणस्वभावत्वं सरत्वमाह; सूक्ष्मस्य भावः सौक्ष्म्यं सूक्ष्मस्रोतोऽनुसारित्वं; तीक्ष्णस्य भावस्तैक्ष्ण्यं शीघ्रतरदोषस्रावणकरत्वम्; उष्णस्य भाव औष्ण्यं, सौम्यद्रव्योपमर्दनकरणसामार्थ्यं; विकाशिनो भावः विकाशित्वं, विकाशिभावेन धातोः शैथिल्यकरणसामर्थ्यम्| अत्र प्रकृतिः, स्वभावः, शक्तिविशेषः, प्रभावो, वीर्यमित्यनर्थान्तरम्| तेन प्रकृत्या वीर्येणान्यथागतमूर्ध्वगतं, सत्यपि सरत्वादिविरेचनगुणसाम्ये वमनस्योर्ध्वगामित्वं प्रभावविभावितं, कुतः? यत उच्यते- “कटुकः कटुकः पाके चित्रको वह्निदीपनः| तद्वद्दन्ती प्रभावात्तु विरेचयति सा नरम्”; तथाच- “विषं विषघ्नमुद्दिष्टं प्रभावस्तत्र कारणम्”- इति; तथा- “ऊर्ध्वानुलोमिकं यच्च तत्प्रभावप्रभावितम्” (च. सू. २६) इति| एतेनैतदुक्तं भवति- सरत्वादिभिर्गुणैर्विरेचनमधो दोषानपहरेत्; वमनस्य तुल्यगुणत्वेऽपि वीर्येणोर्ध्वगामित्वम्| पञ्जिकाकारेण ‘प्रकृत्या गतमन्यथा’ इत्यत्र ‘सम्यग्युक्त्याऽतथाऽन्यथा’ इति पठित्वैवं व्याख्यातं- सम्यग्युक्त्या सरत्वादिगुणैर्विरेचनमधोभागेन, वमनमूर्ध्वभागेन दोषानपहरेत्; अतथाऽन्यथेति नञत्र वैपरीत्ये; अतथा असम्यग्युक्त्या विरेचनं च वमनं चान्यथा दोषविपरीतान् गुणान् हरेदिति| केचित्तु ‘सम्यग्युक्तं वृथाऽन्यथा’ इति पठन्ति| अयमर्थो युक्तः किल; सरत्वादयो गुणाः सुयुक्ता आशुतरदोषहराः, तथैव चान्यायोपयुक्ता एव जीवशोणितधातुरसेन्द्रियमनओजःप्रभृतीनाकृष्य मारयन्तीति||३३||
Adhikarana 28 (34) · Śloka 34
यात्यधो दोषमादाय पच्यमानं विरेचनम् | गुणोत्कर्षाद्व्रजत्यूर्ध्वमपक्वं वमनं पुनः ||३४||
🔊 Audio coming soon
कीदृशं सत् पुनर्विरेचनं वमनद्रव्यं च दोषानादाय अध ऊर्ध्वं च यातीत्याह- यात्यधो दोषमित्यादि| विरेचनद्रव्याणि स्थिरगुर्व्योः पृथिव्यम्भसोर्गुणभूयिष्ठानि, अत एव स्थिरत्वात् पच्यमानानि गुरुत्वादधो यान्ति; वमनद्रव्याणि तु वाय्वग्न्योः शीघ्रगलघुगुणयोर्गुणभूयिष्ठानि, अतः शीघ्रगत्वादपक्वान्येव लघुत्वादूर्ध्वमुत्तिष्ठन्ति| द्रव्याणि हि द्रव्यप्रभावात् गुणप्रभावाच्च कार्मुकाणि भवन्ति||३४||
Adhikarana 29 (35) · Śloka 35
मृदुकोष्ठस्य दीप्ताग्नेरतितीक्ष्णं विरेचनम् | न सम्यङ्गिर्हरेद्दोषानतिवेगप्रधावितम् ||३५||
🔊 Audio coming soon
कथं पुनरस्यासम्यक्प्रवृत्तिः? अत्रोच्यते- मृदुकोष्ठस्येत्यादि| अतिवेगप्रधावितम् अतिवेगप्रवर्तितम्| न सम्यङ्गिर्हरेद्दोषानिति कुतः? कोष्ठमार्दवादग्निदीप्तेरतितैक्ष्ण्याच्च| अयमभिप्रायः- मृकुकोष्ठस्य कोष्ठमार्दवेन शीघ्रप्रवृत्तिः, दीप्ताग्नेश्चाग्निदीप्त्या आशुपाकित्वादचिरस्थायिनी पच्यमानावस्था, अतस्तद्धेतुकाऽतिप्रवृत्तिरपि तथाभूतैव; तथा विरेचनस्य तीक्ष्णतयाऽपि शीघ्रप्रवृत्तिरिति हेतुत्रयेण शीघ्रं प्रवर्तनाद्दोषाणां न निःशेषेण दोषनिर्हरणम्| तस्मान्मृद्वेव विरेचनं स्वल्पमात्रं देयमिति||३५||
Adhikarana 30 (36) · Śloka 36
पीतं यदौषधं प्रातर्भुक्तपाकसमे क्षणे | पक्तिं गच्छति दोषांश्च निर्हरेत्तत् प्रशस्यते ||३६||
🔊 Audio coming soon
इदानीं सम्यग्युक्तिमाह- पीतमित्यादि| भुक्तपाकसमे क्षणे इति त्रिभिर्यामैर्मध्यमाग्नेर्भोज्यभैषज्ययोः पाकः| अन्ये त्वेवं पठन्ति- “यावता जीर्यते भक्तं जरां यद्याति तावता| सुखेन दोषान्निर्हृत्य भेषजं तत् प्रशस्यते”- इति||३६||
Adhikarana 31 (37) · Śloka 37
दुर्बलस्य चलान् दोषानल्पानल्पान् पुनः पुनः | हरेत् प्रभूतानल्पांस्तु शमयेत् प्रच्युतानपि ||३७||
🔊 Audio coming soon
कुपिताः शमयितव्या इत्यस्यापवादमाह- दुर्बलस्येत्यादि| दुर्बलस्य पुरुषस्य प्रभूतान् चलान् कुपितान् दोषान् शनैः शनैरल्पानल्पान् हरेत्, अतीक्ष्णैः संशोधनीयैरित्यर्थः| सरैर्भोज्यैर्न तीक्ष्णैः संशोधनैरित्यध्याहार्यम्| तच्च दोषहरणं दोषाणां पक्वानामेव| अल्पांस्तर्हि किं कुर्यादित्याह- अल्पांस्तु शमयेत्| प्रच्युतानपि चलितानपीत्यर्थः| भोजनाप्युक्तम्- “दोषमल्पं च शमयेच्चलितं चापि दुर्बले| बहुदोषं तु चलितं सरैर्भोज्यैः प्रवाहयेत्”- इति||३७||
Adhikarana 32 (38) · Śloka 38
हरेद्दोषांश्चलान् पक्वान् बलिनो दुर्बलस्य वा | चला ह्युपेक्षिता दोषाः क्लेशयेयुश्चिरं नरम् ||३८||
🔊 Audio coming soon
ते दोषा बलिनो दुर्बलस्यापि पाकप्रवणा विपुला निर्हर्तव्या एवेत्याह- हरेदित्यादि||३८||
Adhikarana 33 (39) · Śloka 39
मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैर्घृतैः | सन्धुक्षिताग्निं स्निग्धं च स्विन्नं चैव विरेचयेत् ||३९||
🔊 Audio coming soon
मन्दाग्नेः क्रूरकोष्ठस्य संशोधनविधिमाह- मन्दाग्निमित्यादि||३९||
Adhikarana 34 (40) · Śloka 40
स्निग्धस्विन्नस्य भैषज्यैर्दोषस्तूत्क्लेशितो बलात् | निलीयते न मार्गेषु स्निग्धे भाण्ड इवोदकम् ||४०||
🔊 Audio coming soon
कुतः पुनः स्नेहस्वेदपूर्वकमेव शोधनमित्याह- स्निग्धेत्यादि| स्निग्धस्विन्नस्य पुरुषस्य भैषज्यैर्भोजनौषधरूपैः, यतो भैषज्यग्रहणेन भोजनमपि गृह्यते| बलात् पुरुषबलादिकमभिसमीक्ष्य दोष उत्क्लेशितः| न मार्गेषु निलीयते न श्लिष्यति, न संयुज्यते न लग्नो भवतीत्यर्थः||४०||
Adhikarana 35 (41) · Śloka 41
न चातिस्नेहपीतस्तु पिबेत् स्नेहविरेचनम् | दोषाः प्रचलिताः स्थानाद्भूयः श्लिष्यन्ति वर्त्मसु ||४१||
🔊 Audio coming soon
विरेचनस्य स्निग्धरूक्षपुरुषविशेषावचारणमुद्दिशन्नाह- न चातिस्नेहेत्यादि| भूय इत्यादि पुनर्निलीयन्ते मार्गेष्वित्यर्थः| “न चातिस्निग्धकायस्तु” इति केचित् पठन्ति||४१||
Adhikarana 36 (42) · Śloka 42
विषाभिघातपिडकाशोफपाण्डुविसर्पिणः | नातिस्निग्धा विशोध्याः स्युस्तथा कुष्ठिप्रमेहिणः ||४२||
🔊 Audio coming soon
केषाञ्चिदतिस्निग्धानां विशोधनप्रतिषेधमाह- विषाभिघातेत्यादि| नातिस्निग्धा इति ईषत्स्निग्धा विशोध्या इत्यर्थः||४२||
Adhikarana 37 (43) · Śloka 43
विरूक्ष्य स्नेहसात्म्यं तु भूयः संस्नेह्य शोधयेत् | तेन दोषा हृतास्तस्य भवन्ति बलवर्धनाः ||४३||
🔊 Audio coming soon
स्वभावतः स्निग्धता न शोधनहेतुरित्याह- विरूक्ष्येत्यादि| ‘बलवर्धना’ इत्यत्र ‘स्नेहबन्धना’ इति पठन्ति, स्नेहबन्धनाः स्नेहोपलिप्तस्रोतोबन्धना इत्यर्थः||४३||
Adhikarana 38 (44) · Śloka 44
प्रागपीतं नरं शोध्यं पाययेतौषधं मृदु | ततो विज्ञातकोष्ठस्य कार्यं संशोधनं पुनः ||४४||
🔊 Audio coming soon
अविज्ञातकोष्ठस्य मृदु विरेचनं देयमित्याह- प्रागित्यादि| प्राक् पूर्वं न पीतं विरेचनं येन सः तम्||४४||
Adhikarana 39 (45) · Śloka 45
सुखं दृष्टफलं हृद्यमल्पमात्रं महागुणम् | व्यापत्स्वल्पात्ययं चापि पिबेन्नृपतिरौषधम् ||४५||
🔊 Audio coming soon
सुकुमारतरपुरुषविशेषेण विरेचनविशेषमाह- सुखमित्यादि| व्यापत्स्वल्पात्ययमिति व्यापदां स्वल्पानामप्यत्ययो विनाशो यस्मिन्नौषधे तत्तथा||४५||
Adhikarana 40 (46) · Śloka 46
स्नेहस्वेदावनभ्यस्य यस्तु संशोधनं पिबेत् | दारु शुष्कमिवानामे देहस्तस्य विशीर्यते ||४६||
🔊 Audio coming soon
रूक्षस्याकृतस्नेहस्वेदस्य शोधने दोषं दर्शयन्नाह- स्नेहस्वेदावित्यादि||४६||
Adhikarana 41 (47) · Śloka 47
स्नेहस्वेदप्रचलिता रसैः स्निग्धैरुदीरिताः | दोषाः कोष्ठगता जन्तोः सुखा हर्तुं विशोधनैः ||४७||
🔊 Audio coming soon
शाखागतस्यापि दोषस्य कोष्ठानयनहेतुः स्नेहः, स्वेदः कोष्ठमागतस्य सुखेन प्रवृत्तिकरश्चेति दर्शयन्नाह- स्नेहस्वेदप्रचलिता इत्यादि| विशोधनैरिति ‘शक्यन्ते’ इत्यध्याहारः||४७||
Adhikarana puShpikA · Śloka 33
इति सुश्रुतसंहितायां चिकित्सास्थाने वमनविरेचनसाध्योपद्रवचिकित्सितं नाम त्रयस्त्रिंशोऽध्यायः ||३३||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने त्रयस्त्रिंशत्तमोऽध्यायः||३३||