Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

33. vamanavirēcanasādhyōpadravacikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातो वमनविरेचनसाध्योपद्रवचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

दोषाः क्षीणा बृंहयितव्याः, कुपिताः प्रशमयितव्याः, वृद्धा निर्हर्तव्याः, समाः परिपाल्या इति सिद्धान्तः ||३||

🔊 Audio coming soon

Adhikarana 3 (4-5) · Śloka 5

प्राधान्येन वमनविरेचने वर्तेते निर्हरणे दोषाणाम् | तस्मात्तयोर्विधानमुच्यमानमुपधारय ||४|| अथातुरं स्निग्धं स्विन्नमभिष्यन्दिभिराहारैरनवबद्धदोषमवलोक्य श्वो वमनं पाययिताऽस्मीति सम्भोजयेत्तीक्ष्णाग्निं बलवन्तं बहुदोषं महाव्याधिपरीतं वमनसात्म्यं च ||५||

🔊 Audio coming soon

Adhikarana 4 (6-7) · Śloka 7

भवति चात्र- पेशलैर्विविधैरन्नैर्दोषानुत्क्लेश्य देहिनः | स्निग्धस्विन्नाय वमनं दत्तं सम्यक् प्रवर्तते ||६|| अथापरेद्युः पूर्वाह्णे साधारणे काले वमनद्रव्यकषायकल्कचूर्णस्नेहानामन्यतमस्य मात्रां पाययित्वा वामयेद्यथायोगं कोष्ठविशेषमवेक्ष्य; असात्म्यबीभत्सदुर्गन्धदुर्दर्शनानि च वमनानि विदध्यात्, अतो विपरीतानि विरेचनानि; तत्र सुकुमारं कृशं बालं वृद्धं भीरुं वा वमनसाध्येषु विकारेषु क्षीरदधितक्रयवागूनामन्यतममाकण्ठं पाययेत्, पीतौषधं च पाणिभिरग्नितप्तैः प्रताप्यमानं मुहूर्तमुपेक्षेत; तस्य च स्वेदप्रादुर्भावेण शिथिलतामापन्नं स्वेभ्यः स्थानेभ्यः प्रचलितं कुक्षिमनुसृतं जानीयात्, ततः प्रवृत्तहृल्लासं ज्ञात्वा जानुमात्रासनोपविष्टमाप्तैर्ललाटे पृष्ठे पार्श्वयोः कण्ठे च पाणिभिः सुपरिगृहीतमङ्गुलीगन्धर्वहस्तोत्पलनालानामन्यतमेन कण्ठमभिस्पृशन्तं वामयेत्तावद्यावत् सम्यग्वान्तलिङ्गानीति ||७||

🔊 Audio coming soon

Adhikarana 5 (8) · Śloka 8

भवतश्चात्र- कफप्रसेकं हृदयाविशुद्धिं कण्डूं च दुश्छर्दितलिङ्गमाहुः | पित्तातियोगं च विसञ्ज्ञतां च हृत्कण्ठपीडामपि चातिवान्ते ||८||

🔊 Audio coming soon

Adhikarana 6 (9) · Śloka 9

पित्ते कफस्यानु सुखं प्रवृत्ते शुद्धेषु हृत्कण्ठशिरःसु चापि | लघौ च देहे कफसंस्रवे च स्थिते सुवान्तं पुरुषं व्यवस्येत् ||९||

🔊 Audio coming soon

Adhikarana 7 (10) · Śloka 10

सम्यग्वान्तं चैनमभिसमीक्ष्य स्नेहनविरेचनशमनानां धूमानामन्यतमं सामर्थ्यतः पाययित्वाऽऽचारिकमादिशेत् ||१०||

🔊 Audio coming soon

Adhikarana 8 (11) · Śloka 11

भवन्ति चात्र- ततोऽपराह्णे शुचिशुद्धदेहमुष्णाभिरद्भिः परिषिक्तगात्रम् | कुलत्थमुद्गाढकिजाङ्गलानां यूषै रसैर्वाऽप्युपभोजयेत्तु ||११||

🔊 Audio coming soon

Adhikarana 9 (12) · Śloka 12

कासोपलेपस्वरभेदनिद्रातन्द्रास्यदौर्गन्ध्यविषोपसर्गाः | कफप्रसेकग्रहणीप्रदोषा न सन्ति जन्तोर्वमतः कदाचित् ||१२||

🔊 Audio coming soon

Adhikarana 10 (13) · Śloka 13

छिन्ने तरौ पुष्पफलप्ररोहा यथा विनाशं सहसा व्रजन्ति | तथा हृते श्लेष्मणि शोधनेन तज्जा विकाराः प्रशमं प्रयान्ति ||१३||

🔊 Audio coming soon

Adhikarana 11 (14-15) · Śloka 15

न वामयेत्तैमिरिकोर्ध्ववातगुल्मोदरप्लीहकृमिश्रमार्तान् | स्थूलक्षतक्षीणकृशातिवृद्धमूत्रातुरान् केवलवातरोगान् ||१४|| स्वरोपघाताध्ययनप्रसक्तदुश्छर्दिदुःकोष्ठतृडार्तबालान् | ऊर्ध्वास्रपित्तिक्षुधितातिरूक्षगर्भिण्युदावर्तिनिरूहितांश्च ||१५||

🔊 Audio coming soon

Adhikarana 12 (16) · Śloka 16

अवम्यवमनाद्रोगाः कृच्छ्रतां यान्ति देहिनाम् | असाध्यतां वा गच्छन्ति नैते वाम्यास्ततः स्मृताः ||१६||

🔊 Audio coming soon

Adhikarana 13 (17) · Śloka 17

एतेऽप्यजीर्णव्यथिता वाम्या ये च विषातुराः | अतीव चोल्बणकफास्ते च स्युर्मधुकाम्बुना ||१७||

🔊 Audio coming soon

Adhikarana 14 (18) · Śloka 18

वाम्यास्तु- विषशोषस्तन्यदोषमन्दाग्न्युन्मादापस्मारश्लीपदार्बुदविदारिकामेदोमेहगरज्वरारुच्यपच्यामातीसारहृद्रोग- चित्तविभ्रमविसर्पविद्रध्यजीर्णमुखप्रसेकहृल्लासश्वासकासपीनसपूतीनासकण्ठौष्ठवक्त्रपाक- कर्णस्रावाधिजिह्वोपजिह्विकागलशुण्डिकाधःशोणितपित्तिनः कफस्थानजेषु विकारेष्वन्ये च कफव्याधिपरीता इति ||१८||

🔊 Audio coming soon

Adhikarana 15 (19) · Śloka 19

विरेचनमपि स्निग्धस्विन्नाय वान्ताय च देयम्; अवान्तस्य हि सम्यग्विरीक्तस्यापि सतोऽधः स्रस्तः श्लेष्मा ग्रहणीं छादयति, गौरवमापादयति, प्रवाहिकां वा जनयति ||१९||

🔊 Audio coming soon

Adhikarana 16 (20) · Śloka 20

अथातुरं श्वो विरेचनं पाययिताऽस्मीति पूर्वाह्णे लघु भोजयेत्, फलाम्लमुष्णोदकं चैनमनुपाययेत् | अथापरेऽहनि विगतश्लेष्मधातुमातुरोपक्रमणीयादवेक्ष्यातुरमथास्मै औषधमात्रां पातुं प्रयच्छेत् ||२०||

🔊 Audio coming soon

Adhikarana 17 (21-22) · Śloka 22

तत्र मृदुः, क्रूरो, मध्यम इति त्रिविधः कोष्ठो भवति | तत्र बहुपित्तो मृदुः, स दुग्धेनापि विरिच्यते; बहुवातश्लेष्मा क्रूरः, स दुर्विरेच्यः; समदोषो मध्यमः, स साधारण इति | तत्र मृदौ मात्रा मृद्वी, तीक्ष्णा क्रूरे, मध्ये मध्या कर्तव्येति | पीतौषधश्च तन्मनाः शय्याभ्याशे विरेच्यते ||२१|| विरेचनं पीतवांस्तु न वेगान् धारयेद्बुधः | निवातशायी शीताम्बु न स्पृशेन्न प्रवाहयेत् ||२२||

🔊 Audio coming soon

Adhikarana 18 (23) · Śloka 23

यथा च वमने प्रसेकौषधकफपित्तानिलाः क्रमेण गच्छन्ति, एवं विरेचने मूत्रपुरीषपित्तौषधकफा इति ||२३||

🔊 Audio coming soon

Adhikarana 19 (24) · Śloka 24

भवन्ति चात्र- हृत्कुक्ष्यशुद्धिः परिदाहकण्डूविण्मूत्रसङ्गाश्च न सद्विरिक्ते | मूर्च्छागुदभ्रंशकफातियोगाः शूलोद्गमश्चातिविरिक्तलिङ्गम् ||२४||

🔊 Audio coming soon

Adhikarana 20 (25) · Śloka 25

गतेषु दोषेषु कफान्वितेषु नाभ्या लघुत्वे मनसश्च तुष्टौ | गतेऽनिले चाप्यनुलोमभावं सम्यग्विरिक्तं मनुजं व्यवस्येत् ||२५||

🔊 Audio coming soon

Adhikarana 21 (26) · Śloka 26

मन्दाग्निमक्षीणमसद्विरीक्तं न पाययेताहनि तत्र पेयाम् | क्षीणं तृषार्तं सुविरेचितं च तन्वीं सुखोष्णां लघु पाययेच्च ||२६||

🔊 Audio coming soon

Adhikarana 22 (27) · Śloka 27

बुद्धेः प्रसादं बलमिन्द्रियाणां धातुस्थिरत्वं बलमग्निदीप्तिम् | चिराच्च पाकं वयसः करोति विरेचनं सम्यगुपास्यमानम् ||२७||

🔊 Audio coming soon

Adhikarana 23 (28) · Śloka 28

यथौदकानामुदकेऽपनीते चरस्थिराणां भवति प्रणाशः | पित्ते हृते त्वेवमुपद्रवाणां पित्तात्मकानां भवति प्रणाशः ||२८||

🔊 Audio coming soon

Adhikarana 24 (29-30) · Śloka 31

मन्दाग्न्यतिस्नेहितबालवृद्धस्थूलाः क्षतक्षीणभयोपतप्ताः | श्रान्तस्तृषार्तोऽपरिजीर्णभक्तो गर्भिण्यधो गच्छति यस्य चासृक् ||२९|| नवप्रविश्यायमदात्ययी च नवज्वरी या च नवप्रसृता | शल्यार्दिताश्चाप्यविरेचनीयाः स्नेहादिभिर्ये त्वनुपस्कृताश्च ||३०|| अत्यर्थपित्ताभिपरीतदेहान् विरेचयेत्तानपि मन्दमन्दम् |३१|

🔊 Audio coming soon

Adhikarana 25 (31) · Śloka 31

विरेचनैर्यान्ति नरा विनाशमज्ञप्रयुक्तैरविरेचनीयाः ||३१||

🔊 Audio coming soon

Adhikarana 26 (32) · Śloka 32

विरेच्यास्तु- ज्वरगरारुच्यर्शोऽर्बुदोदरग्रन्थिविद्गाधिपाण्डुरोगापस्मारहृद्रोगवातरक्तभगन्दरच्छर्दियोनिरोगविसर्प- गुल्मपक्वाशयरुग्विबन्धविसूचिकालसकमूत्राघातकुष्ठविस्फोटकप्रमेहानाहप्लीहशोफवृद्धिशस्त्रक्षतक्षाराग्निदग्ध- दुष्टव्रणाक्षिपाककाचतिमिराभिष्यन्दशिरःकर्णाक्षिनासास्यगुदमेढ्रदाहोर्ध्वरक्तपित्तकृमिकोष्ठिनः पित्तस्थानजेष्वन्येषु च विकारेष्वन्ये च पैत्तिकव्याधिपरीता इति ||३२||

🔊 Audio coming soon

Adhikarana 27 (33) · Śloka 33

सरत्वसौक्ष्म्यतैक्ष्ण्यौष्ण्यविकाशित्वैर्विरेचनम् | वमनं तु हरेद्दोषं प्रकृत्या गतमन्यथा ||३३||

🔊 Audio coming soon

Adhikarana 28 (34) · Śloka 34

यात्यधो दोषमादाय पच्यमानं विरेचनम् | गुणोत्कर्षाद्व्रजत्यूर्ध्वमपक्वं वमनं पुनः ||३४||

🔊 Audio coming soon

Adhikarana 29 (35) · Śloka 35

मृदुकोष्ठस्य दीप्ताग्नेरतितीक्ष्णं विरेचनम् | न सम्यङ्गिर्हरेद्दोषानतिवेगप्रधावितम् ||३५||

🔊 Audio coming soon

Adhikarana 30 (36) · Śloka 36

पीतं यदौषधं प्रातर्भुक्तपाकसमे क्षणे | पक्तिं गच्छति दोषांश्च निर्हरेत्तत् प्रशस्यते ||३६||

🔊 Audio coming soon

Adhikarana 31 (37) · Śloka 37

दुर्बलस्य चलान् दोषानल्पानल्पान् पुनः पुनः | हरेत् प्रभूतानल्पांस्तु शमयेत् प्रच्युतानपि ||३७||

🔊 Audio coming soon

Adhikarana 32 (38) · Śloka 38

हरेद्दोषांश्चलान् पक्वान् बलिनो दुर्बलस्य वा | चला ह्युपेक्षिता दोषाः क्लेशयेयुश्चिरं नरम् ||३८||

🔊 Audio coming soon

Adhikarana 33 (39) · Śloka 39

मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैर्घृतैः | सन्धुक्षिताग्निं स्निग्धं च स्विन्नं चैव विरेचयेत् ||३९||

🔊 Audio coming soon

Adhikarana 34 (40) · Śloka 40

स्निग्धस्विन्नस्य भैषज्यैर्दोषस्तूत्क्लेशितो बलात् | निलीयते न मार्गेषु स्निग्धे भाण्ड इवोदकम् ||४०||

🔊 Audio coming soon

Adhikarana 35 (41) · Śloka 41

न चातिस्नेहपीतस्तु पिबेत् स्नेहविरेचनम् | दोषाः प्रचलिताः स्थानाद्भूयः श्लिष्यन्ति वर्त्मसु ||४१||

🔊 Audio coming soon

Adhikarana 36 (42) · Śloka 42

विषाभिघातपिडकाशोफपाण्डुविसर्पिणः | नातिस्निग्धा विशोध्याः स्युस्तथा कुष्ठिप्रमेहिणः ||४२||

🔊 Audio coming soon

Adhikarana 37 (43) · Śloka 43

विरूक्ष्य स्नेहसात्म्यं तु भूयः संस्नेह्य शोधयेत् | तेन दोषा हृतास्तस्य भवन्ति बलवर्धनाः ||४३||

🔊 Audio coming soon

Adhikarana 38 (44) · Śloka 44

प्रागपीतं नरं शोध्यं पाययेतौषधं मृदु | ततो विज्ञातकोष्ठस्य कार्यं संशोधनं पुनः ||४४||

🔊 Audio coming soon

Adhikarana 39 (45) · Śloka 45

सुखं दृष्टफलं हृद्यमल्पमात्रं महागुणम् | व्यापत्स्वल्पात्ययं चापि पिबेन्नृपतिरौषधम् ||४५||

🔊 Audio coming soon

Adhikarana 40 (46) · Śloka 46

स्नेहस्वेदावनभ्यस्य यस्तु संशोधनं पिबेत् | दारु शुष्कमिवानामे देहस्तस्य विशीर्यते ||४६||

🔊 Audio coming soon

Adhikarana 41 (47) · Śloka 47

स्नेहस्वेदप्रचलिता रसैः स्निग्धैरुदीरिताः | दोषाः कोष्ठगता जन्तोः सुखा हर्तुं विशोधनैः ||४७||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 33

इति सुश्रुतसंहितायां चिकित्सास्थाने वमनविरेचनसाध्योपद्रवचिकित्सितं नाम त्रयस्त्रिंशोऽध्यायः ||३३||

🔊 Audio coming soon