Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

32. svēdāvacāraṇīyacikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातः स्वेदावचारणीयं चिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

स्वेदावचारणं स्वेदयोजनं, तदधिकृत्य कृतमिति पूर्ववत्||१-२||

Adhikarana 2 (3) · Śloka 3

चतुर्विधः स्वेदः; तद्यथा- तापस्वेद, ऊष्मस्वेद, उपनाहस्वेदो, द्रवस्वेद इति; अत्र सर्वस्वेदविकल्पावरोधः ||३||

🔊 Audio coming soon

तपनं तापः, ऊष्मा बाष्पः, उपनह्यते इत्युपनाहो बन्धनमित्यर्थः, द्रवतीति द्रवः कषायक्षीरादिः| अत्र एषु चतुर्षु सर्वेषां त्रयोदशानामपि चरकोक्तानां सङ्करप्रभृतीनामवरोधः| तत्र तापस्वेदे कन्दुग्रहणादेव जेन्ताककर्षूकुटीकूपहोलकस्वेदाः पञ्चैवान्तर्भवन्ति, ऊष्मस्वेदे सङ्करप्रस्तराश्मघननाडीकुम्भीभूस्वेदाः षडप्यन्तर्भवन्ति, द्रवस्वेदे परिषेकावगाहावन्तर्भवतः||३||

Adhikarana 3 (4) · Śloka 4

तत्र तापस्वेदः पाणिकांस्यकन्दुककपालवालुकावस्त्रैः प्रयुज्यते, शयानस्य चाङ्गतापो बहुशः खादिराङ्गारैरिति ||४||

🔊 Audio coming soon

तेषां प्रयोगे द्रव्याण्युपदिशन्नाह- तत्रेत्यादि| कन्दुकम् अपूपपचनभाण्डम्| कपालं ज्वालातप्तकर्परम्||४||

Adhikarana 4 (5-7) · Śloka 7

ऊष्मस्वेदस्तु कपालपाषाणेष्टकालोहपिण्डानग्निवर्णानद्भिरासिञ्चेदम्लद्रव्यैर्वा, तैरार्द्रालक्तकपरिवेष्टितैरङ्गप्रदेशं स्वेदयेत् | मांसरसपयोदधिस्नेहधान्याम्लवातहरपत्रभङ्गक्वाथपूर्णां वा कुम्भीमनुतप्तां प्रावृत्योष्माणं गृह्णीयात् | पार्श्वच्छिद्रेण वा कुम्भेनाधोमुखेन तस्या मुखमभिसन्धाय तस्मिञ्छिद्रे हस्तिशुण्डाकारां नाडीं प्रणिधाय तं स्वेदयेत् ||५|| सुखोपविष्टं स्वभ्यक्तं गुरुप्रावरणावृतम् | हस्तिशुण्डिकया नाड्या स्वेदयेद्वातरोगिणम् | सुखा सर्वाङ्गगा ह्येषा न च क्लिश्नाति मानवम् ||६|| व्यामार्धमात्रा त्रिर्वक्रा हस्तिहस्तसमाकृतिः | स्वेदनार्थे हिता नाडी कैलिञ्जी हस्तिशुण्डिका ||७||

🔊 Audio coming soon

द्वितीये ऊष्मस्वेदप्रयोगे द्रव्यमुपदिशन्नाह- ऊष्मेत्यादि| तैः कपालादिभिरग्निवर्णैर्जलाद्यवसिक्तैरार्द्रवस्त्रच्छन्नैः स्वेदयेदङ्गप्रदेशं; जेज्जटाचार्यस्तु ‘आर्द्रालक्तकपरिवेष्टितम्’ इति पठित्वाऽङ्गप्रदेशविशेषणं व्याख्यानयति| मांसरसादिपूर्णां स्थालीं चोष्मणो मन्दीकरणार्थं कम्बलादिना प्रावृत्य पिधाय, ऊष्माणं गृह्णीयात्| वातहराणां एरण्डादीनां, पत्रभङ्गाः पल्लवाः| तथैव कुम्भ्यां बाष्पमनुद्वमयन्त्यां स्वेदान्तरमुत्पादयन्नाह- पार्श्वेत्यादि| तस्याः कुम्भ्याः| तस्मिञ्छिद्रे इति उपरिस्थितकुम्भस्य पार्श्वच्छिद्रे| किलिञ्जसाधनतृणकाशादिद्रव्यविरचितामन्तःसुषिरत्वेन नाडीमिव नाडीं गोपुच्छाकृतित्वेन दैर्घ्येण च हस्तिहस्तसमाकारां छिद्रेण निर्गच्छतो बाष्पवेगस्य वेगविघातार्थं त्रिषु स्थानेषु वक्रामुपनिधापयेत्| स्वभ्यक्तमिति सुष्ठु अभ्यक्तम्| गुरुप्रावरणावृतमिति गुरुप्रावरणेन कम्बलादिनोष्मणोऽतितापनिषेधायावृतं पिहितम्| एतदेव सुखपाठार्थं श्लोकेन दर्शयन्नाह- हस्तिशुण्डिकयेत्यादि| व्यामार्धमात्रेत्यत्र व्याममात्रा व्यामार्धमात्रा वेति व्याख्यातव्यम्| व्यामः बाह्वोः सकरयोः सम्प्रसारितयोरन्तरालम्| किलिञ्जसाधनानां कुशकाशादिद्रव्याणामियं कैलिञ्जी||५-७||

Adhikarana 5 (8) · Śloka 9

पुरुषायाममात्रां च भूमिमुत्कीर्य खादिरैः | काष्ठैर्दग्ध्वा तथाऽऽभ्युक्ष्य क्षीरधान्याम्लवारिभिः ||८|| पत्रभङ्गैरवच्छाद्य शयानं स्वेदयेत्ततः |९|

🔊 Audio coming soon

नाडीस्वेदं बाष्पस्वेदे एवाभिधाय भूस्वेदमपि बाष्पस्वेदे एव दर्शयन्नाह- पुरुषेत्यादि| आयामो दैर्घ्यम्| उत्कीर्य खनित्वा| अभ्युक्ष्य सिक्त्वा| पत्रभङ्गैरिति वातघ्नैरण्डादिपल्लवैः||८||-

Adhikarana 6 (9) · Śloka 9

पूर्ववत् स्वेदयेद्दग्ध्वा भस्मापोह्यापि वा शिलाम् ||९||

🔊 Audio coming soon

बाष्पस्वेदे एवाश्मस्वेदं दर्शयन्नाह- पूर्ववदित्यादि| शिलातलं वा दग्ध्वा, भस्मापोह्य स्फोटयित्वा||९||

Adhikarana 7 (10) · Śloka 10

पूर्ववत् कुटीं वा चतुर्द्वारां कृत्वा तस्यामुपविष्टस्यान्तश्चतुर्द्वारेऽङ्गारानुपसन्धाय तं स्वेदयेत् ||१०||

🔊 Audio coming soon

बाष्पस्वेदे एव कुटीस्वेदं दर्शयन्नाह- पूर्ववदित्यादि| शिलातलबाष्पस्वेदो कुटीस्वेदेऽपि सम्बध्यते| अङ्गारानुपसन्धाय अङ्गारानारोप्य| पूर्ववदित्यनेन दग्ध्वा, भस्मापोह्य अभ्युक्ष्य च, द्वारमुखैर्बाष्पमुद्वमन्त्यां तस्यामन्तर्मध्ये स्थितं स्वेदयेत्||१०||

Adhikarana 8 (11) · Śloka 11

कोशधान्यानि वा सम्यगुपस्वेद्यास्तीर्य किलिञ्जेऽन्यस्मिन् वा तत्प्रतिरूपके शयानं प्रावृत्य स्वेदयेत्; एवं पांशुगोशकृत्तुषबुसपलालोष्मभिः स्वेदयेत् ||११||

🔊 Audio coming soon

प्रस्तरस्वेदमपि बाष्पस्वेदे एव दर्शयन्नाह- कोशधान्यानीत्यादि| कोशधान्यानी शमीधान्यानि माषादीनि||११||

Adhikarana 9 (12) · Śloka 12

उपनाहस्वेदस्तु वातहरमूलकल्कैरम्लपिष्टैर्लवणप्रगाढैः सुस्निग्धैः सुखोष्णैः प्रदिह्य स्वेदयेत् | एवं काकोल्यादिभिरेलादिभिः सुरसादिभिस्तिलातसीसर्षपकल्कैः कृशरापायसोत्कारिकाभिर्वेशवारैः साल्वणैर्वा तनुवस्त्रावनद्धैः स्वेदयेत् ||१२||

🔊 Audio coming soon

तृतीयमुपनाहस्वेदं दर्शयन्नाह- उपनाहेत्यादि| अम्लं काञ्जिकम्| सङ्करस्वेदमप्युपनाहस्वेद एव दर्शयन्नाह- एवमित्यादि| एभिरेव पोटलिकां बद्ध्वा स्वेदयेत्| काकोल्यादिः “काकोलीक्षीरकाकोली” (सू. ३८) इत्यादिकः| एलादिः “एलातगरमांसी” (सू. ३८) इत्यादिः| सुरादिः “सुरसाश्वेतसुरसा” (सू. ३८) इत्यादिः| कृशरा तिलतण्डुलमाषैः कृता यवागूः, क्षीरसिद्धास्तण्डुलाः पायसः, उत्कारिका लप्सिका, वेशवारः ‘चटनी’ इति भाषा| साल्वणो वातव्याध्युक्तः| तनुवस्त्रावनद्धैः सूक्ष्मवस्त्रानुबद्धैः| अत्र काकोल्यादिभिः पित्तानुगते वाते एलादिभिः सुरसादिभिश्च, कफानुगते वाते तिलातसीप्रभृतिभिः, कृशरादिभिः वेशवारैः साल्वणैश्च केवले वाते| उपनाहशब्दस्त्विह ‘णह बन्धने’ इत्यस्येति उपनाहो बन्धनम्||१२||

Adhikarana 10 (13) · Śloka 13

द्रवस्वेदस्तु वातहरद्रव्यक्वाथपूर्णे कोष्णकटाहे द्रोण्यां वाऽवगाह्य स्वेदयेत्, एवं पयोमांसरसयूषतैलधान्याम्लघृतवसामूत्रेष्ववगाहेत; एतैरेव सुखोष्णैः कषायैश्च परिषिञ्चेदिति ||१३||

🔊 Audio coming soon

चरुर्थं द्रवस्वेदं दर्शयन्नाह- द्रवस्वेद इत्यादि| परिषिञ्चेत् परिषेकं कुर्यादित्यर्थः| कषायैश्चेति चकारात् पूर्वौक्तैः पयोमांसरसादिभिश्च||१३||

Adhikarana 11 (14) · Śloka 14

तत्र तापोष्मस्वेदौ विशेषतः श्लेष्मघ्नौ, उपनाहस्वेदो वातघ्नः, अन्यतरस्मिन् पित्तसंसृष्टे द्रवस्वेद इति ||१४||

🔊 Audio coming soon

अन्यतरस्मिन् श्लेष्मणि वाते वा पित्तसंसृष्टे द्रवस्वेद इति||१४||

Adhikarana 12 (15) · Śloka 15

कफमेदोन्विते वायौ निवातातपगुरुप्रावरणनियुद्धाध्वव्यायामभारहरणामर्षैः स्वेदमुत्पादयेदिति ||१५||

🔊 Audio coming soon

अथ निरग्निकं स्वेदमाह- कफेत्यादि||१५||

Adhikarana 13 (16) · Śloka 16

भवन्ति चात्र- चतुर्विधो योऽभिहितो द्विधा स्वेदः प्रयुज्यते | सर्वस्मिन्नेव देहे तु देहस्यावयवे तथा ||१६||

🔊 Audio coming soon

अत्र सर्वाङ्गस्वेदे प्रोक्ते तन्त्रान्तरविरोधः स्यात्; तथा च- “वृषणौ हृदयं दृष्टी स्वेदयेन्मृदु नैव वा” (च. सू. १४) इत्युक्तत्वात्; तस्मात् सर्वशब्दोऽत्र सङ्कुचितवृत्त्या तत्परिहारेण व्याख्यातव्यः||१६||

Adhikarana 14 (17-19) · Śloka 19

येषां नस्यं विधातव्यं बस्तिश्चैव हि देहिनाम् | शोधनीयाश्च ये केचित् पूर्वं स्वेद्यास्तु ते मताः ||१७|| पश्चात् स्वेद्या हृते शल्ये मूढगर्भाऽनुपद्रवा | सम्यक् प्रजाता काले या पश्चात् स्वेद्या विजानता ||१८|| स्वेद्यः पूर्वं च पश्चाच्च भगन्दर्यर्शसस्तथा | अश्मर्या चातुरो जन्तुः शेषाञ्छास्त्रे प्रचक्ष्महे ||१९||

🔊 Audio coming soon

तत्र स्वेदस्य रोगविशेषाद्यत्र यत्रावचारणं तत्त्रैविध्यं दर्शयन्नाह- येषामित्यादि| अनार्षग्रन्थ इति केचिदाचार्या न पठन्ति, परं गयदासस्य सम्मतत्वान्ममापि सम्मतः||१७-१९||

Adhikarana 15 (20) · Śloka 20

नानभ्यक्ते नापि चास्निग्धदेहे स्वेदो योज्यः स्वेदविद्भिः कथञ्चित् | दृष्टं लोके काष्ठमस्निग्धमाशु गच्छेद्भङ्गं स्वेदयोगैर्गृहीतम् ||२०||

🔊 Audio coming soon

इदानीं स्वेदस्य पूर्वकर्म नियमयन्नाह- नेत्यादि| अभ्यङ्गैन बाह्यस्नेहक्रियापूर्वकत्वं, नापि चास्निग्धदेह इत्यन्तःस्नेहपूर्वकत्वं स्वेदस्य| अस्निग्धे स्वेददोषमुपमानेन दर्शयितुमाह- दृष्टमित्यादि| यथा हि काष्ठमस्निग्धं स्विद्यमानं विशीर्यते, एवं शरीरमस्निग्धं स्विद्यमानं विनश्यति||२०||

Adhikarana 16 (21) · Śloka 21

स्नेहक्लिन्ना धातुसंस्थाश्च दोषाः स्वस्थानस्था ये च मार्गेषु लीनाः | सम्यक् स्वेदैर्योजितैस्ते द्रवत्वं प्राप्ताः कोष्ठं शोधनैर्यान्त्यशेषम् ||२१||

🔊 Audio coming soon

स्नेहपूर्वकमेव दोषाणां कोष्ठशाखाश्रयाणां शोधनं न पुनरन्यथेत्याह- स्नेहक्लिन्ना इत्यादि| स्वेदैर्द्रवत्वं प्राप्य द्रवत्वात् कोष्ठं प्राप्ताः शोधनैर्निःशेषं यान्ति बहिर्निःसरन्तीत्यर्थः||२१||

Adhikarana 17 (22) · Śloka 22

अग्नेर्दीप्तिं मार्दवं त्वक्प्रसादं भक्तश्रद्धां स्रोतसां निर्मलत्वम् | कुर्यात् स्वेदो हन्ति निद्रां सतन्द्रां सन्धीन् स्तब्धांश्चेष्टयेदाशु युक्तः ||२२||

🔊 Audio coming soon

इदानीं स्वेदगुणानाह- अग्नेर्दीप्तिमित्यादि| केचिदाचार्या एवं वदन्ति- द्विविधः स्वेदः- संशमनीयः, संशोधनाङ्गभूतश्च| तत्र संशमनीयः सामेषु व्याधिषु रूक्ष एव योज्यः, तद्गुणाः पुनः ‘अग्नेर्दीप्तिं’ इत्यादिश्लोकोक्ता ज्ञातव्याः; संशोधनाङ्गभूतस्तु स्नेहपूर्वो योज्यः, तस्य गुणस्तु ‘स्नेहक्लिन्ना’ इत्यादिश्लोकेन प्रोक्ता इति ज्ञेयम्||२२||

Adhikarana 18 (23-24) · Śloka 24

स्वेदास्रावो व्याधिहानिर्लघुत्वं शीतार्थित्वं मार्दवं चातुरस्य | सम्यक्स्विन्ने लक्षणं प्राहुरेतन्मिथ्यास्विन्ने व्यत्ययेनैतदेव ||२३|| स्विन्नेऽत्यर्थं सन्धिपीडा विदाहः स्फोटोत्पत्तिः पित्तरक्तप्रकोपः | मूर्च्छा भ्रान्तिर्दाहतृष्णे क्लमश्च कुर्यात्तूर्णं तत्र शीतं विधानम् ||२४||

🔊 Audio coming soon

तस्य सम्यग्युक्तस्यायोगयुक्तस्यातियोगयुक्तस्य च लक्षणं सचिकित्सितं दर्शयन्नाह- स्वेदेत्यादि| मिथ्यास्विन्ने अयोगस्विन्ने; मिथ्यास्विन्ने व्याधिवृद्धिः, देहस्य गुरुत्वम्, उष्णाभिलाषः, देहस्य काठिन्यं च||२३-२४||

Adhikarana 19 (25) · Śloka 26

पाण्डुर्मेही पित्तरक्ती क्षयार्तः क्षामोऽजीर्णी चोदरार्तो विषार्तः | तृड्च्छर्द्यार्तो गर्भिणी पीतमद्यो नैते स्वेद्या यश्च मर्त्योऽतिसारी | स्वेदादेषां यान्ति देहा विनाशं नोसाध्यत्वं यान्ति चैषां विकाराः ||२५|| स्वेदैः साध्यो दुर्बलोऽजीर्णभक्तः स्यातां चेद्द्वौ स्वेदनीयौ ततस्तौ |२६|

🔊 Audio coming soon

तत्र मेहिनः प्रागेव स्वेदे निषिद्धे पुनरत्र निषेधो नियमार्थः | स्वेदसाध्ये व्याधौ दुर्बलेऽजीर्णभक्ते च प्रतिप्रसवमाह- स्वेदैरित्यादि| स्यातां भवेताम्||२५||-

Adhikarana 20 (26-29) · Śloka 29

एतेषां स्वेदसाध्या ये व्याधयस्तेषु बुद्धिमान् | मृदून् स्वेदान् प्रयुञ्जीत तथा हृन्मुष्कदृष्टिषु ||२६|| सर्वान् स्वेदान्निवाते च जीर्णान्नस्यावचारयेत् | स्नेहाभ्यक्तशरीरस्य शीतैराच्छाद्य चक्षुषी ||२७|| स्विद्यमानस्य च मुहुर्हृदयं शीतलैः स्पृशेत् | सम्यक्स्विन्नं विमृदितं स्नातमुष्णाम्बुभिः शनैः ||२८|| स्वभ्यक्तं प्रावृताङ्गं च निवातशरणस्थितम् | भोजयेदनभिष्यन्दि सर्वं चाचारमादिशेत् ||२९||

🔊 Audio coming soon

एषां स्वेदसाध्येषु विकारेष्वात्ययिके व्याधौ प्रतिप्रसवमाह- एतेषामित्यादि| न भुक्तमात्रोऽग्निमुपासीतेत्यनेनैव जीर्णान्नस्य स्वेदो लब्धः, किमर्थं पुनरुच्यते? उच्यते- स हि स्वस्थविषयोऽयमातुरविषय इति न दोषः| सम्यक्स्विन्नमित्यादि| सद्यो व्याधिकरणीयामवस्थां स्यन्दयत्यापादयति यद्द्रव्यं तदभिष्यन्दि, स्रोतसामुपलेपकारि वा, तद्विपरीतमनभिष्यन्दि||२६-२९||

Adhikarana puShpikA · Śloka 32

इति सुश्रुतसंहितायां चिकित्सास्थाने स्वेदावचारणीयं चिकित्सितं नाम द्वात्रिंशोऽध्यायः ||३२||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने द्वात्रिंशत्तमोऽध्यायः||३२||