Adhikarana 1 (1-2) · Śloka 3
अथातो विसर्पनाडीस्तनरोगचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
साध्या विसर्पास्त्रय आदितो ये न सन्निपातक्षतजौ हि साध्यौ |३|
साध्या इत्यादि| साध्यासाध्यविभागकरणं पुनश्चिकित्सितप्रक्रमात्||१-२||-
Adhikarana 2 (3) · Śloka 3
साध्येषु तत्पथ्यगणैर्विदध्याद्धृतानि सेकांश्च तथोपदेहान् ||३||
तेषां सर्वेषामेव सामान्यचिकित्सितसूत्रं निर्दिशन्नाह- साध्येष्वित्यादि| तत्पथ्यगणैर्यथाक्रमं वातपित्तकफजेषु वातादिदोषहरगणैः||३||
Adhikarana 3 (4-5) · Śloka 5
मुस्ताशताह्वासुरदारुकुष्ठवाराहिकुस्तुम्बुरुकृष्णगन्धाः |
वातात्मके चोष्णगणाः प्रयोज्याः सेकेषु लेपेषु तथा शृतेषु ||४||
यत् पञ्चमूलं खलु कण्टकाख्यमल्पं महच्चाप्यथ वल्लिजं च |
तच्चोपयोज्यं भिषजा प्रदेहे सेके घृते चापि तथैव तैले ||५||
मुस्तेत्यादि| कृष्णगन्धा शोभाञ्जनकः, शमीत्यपरे| उष्णगणा भद्रदार्वादयः पिप्पल्यादयश्च| यदित्यादि तृणाख्यं पञ्चमूलमपहाय शेषाणि चत्वारि पञ्चमूलानि ग्राह्याणि||४-५||
Adhikarana 4 (6-9) · Śloka 9
कसेरुशृङ्गाटकपद्मगुन्द्राः सशैवलाः सोत्पलकर्दमाश्च |
वस्त्रान्तराः पित्तकृते विसर्पे लेपा विधेयाः सघृताः सुशीताः ||६||
ह्रीवेरलामज्जकचन्दनानि स्रोतोजमुक्तामणिगैरिकाश्च |
क्षीरेण पिष्टाः सघृताः सुशीता लेपाः प्रयोज्यास्तनवः सुखाय ||७||
प्रपौण्डरीकं मधुकं पयस्या मञ्जिष्ठिका पद्मकचन्दने च |
सुगन्धिका चेति सुखाय लेपः पैत्ते विसर्पे भिषजा प्रयोज्यः ||८||
न्यग्रोधवर्गैः परिषेचनं च घृतं च कुर्यात् स्वरसेन तस्य |
शीतैः पयोभिश्च मधूदकैश्च सशर्करैरिक्षुरसैश्च सेकान् ||९||
पित्तविसर्पचिकित्सितमाह- कसेर्वित्यादि| शृङ्गाटकं जलमध्ये त्रिकण्टकम्| गुन्द्रा पहरकभेदः| सशैवलाः शैवालयुक्ता इत्यर्थः| कर्दमः पङ्क इत्यर्थः| वस्त्रान्तरा वस्त्रेणान्तरीकृताः, ते हि सुखेनापनेतुं शक्यन्ते| ह्रीवेरेत्यादि ह्रीवेरः वालकम्| लामज्जक उशीरमूलम् | स्रोतोजं सौवीराञ्जनम्| तनवः अच्छाः| सुखायेति तनुत्वान्नोष्माणमन्तः प्रवेशयतीत्यर्थः| श्रीवाग्भट आह- “श्लक्ष्णशुष्कघनो लेपश्चन्दनस्यापि दाहकृत्| त्वग्गतस्योष्मणो रोधाच्छीतकृच्चान्यथाऽगुरोः”- इति| प्रपौण्डरीकमित्यादि पयस्या क्षीरविदारी ; जेज्जटाचार्यस्तु अर्कपुष्पीमाह| सुगन्धिका उत्पलसारिवा| न्यग्रोधेत्यादि| मधूदकं मधुमिश्रमुदकम्||६-९||
Adhikarana 5 (10-13) · Śloka 13
घृतस्य गौरीमधुकारविन्दरोध्राम्बुराजादनगैरिकेषु |
तथर्षभे पद्मकसारिवासु काकोलिमेदाकुमुदोत्पलेषु ||१०||
सचन्दनायां मधुशर्करायां द्राक्षास्थिरापृश्निशताह्वयासु |
कल्कीकृतासूदकमत्र दत्त्वा न्यग्रोधवर्गस्य तथा स्थिरादेः ||११||
गणस्य बिल्वादिकपञ्चमूल्याश्चतुर्गुणं क्षीरमथापि तद्वत् |
प्रस्थं विपक्वं परिषेचनेन पैत्तीर्निहन्यात्तु विसर्पनाडीः ||१२||
विस्फोटदुष्टव्रणशीर्षरोगान् पाकं तथाऽऽस्यस्य निहन्ति पानात् |
ग्रहार्दिते शोषिणि चापि बाले घृतं हि गौर्यादिकमेतदिष्टम् ||१३||
गौर्यादिघृतमाह- घृतस्येत्यादि| गौरी हरिद्रा, गोरोचनेत्यन्ये| अरविन्दं पद्मम्| अम्बु वालकम्| राजादनं क्षीरिका| ऋषभः कूर्चशीर्षकः स्वनामप्रसिद्धः| मधुनः शर्करा मधुशर्करा| स्थिरा शालपर्णी| गौर्यादिशताह्वान्तानां कल्कीकृतानां चत्वारि पलानि, न्यग्रोधादेर्विदारिगन्धादेर्महतोऽपि पञ्चमूलस्य त्रयाणामुदकं क्वाथं चतुर्गुणं घृतस्य, क्षीरमपि गव्यं चतुर्गुणमिति; प्रस्थं घृतस्येति द्वात्रिंशत्पलानि द्रवद्रव्यत्वात्; अन्ये पुनः कल्कमानमष्टपलमाहुः||१०-१३||
Adhikarana 6 (14-15) · Śloka 15
अजाऽश्ववगन्धा सरला सकाला सैकैषिका चाप्यथवाऽजशृङ्गी |
गोमूत्रपिष्टो विहितः प्रदेहो हन्याद्विसर्पं कफजं स शीघ्रम् ||१४||
कालानुसार्यागुरुचोचगुञ्जारास्नावचाशीतशिवेन्द्रपर्ण्यः |
पालिन्दिमुञ्जातमहीकदम्बा हिता विसर्पेषु कफात्मकेषु ||१५||
कफविसर्पचिकित्सामाह- अजेत्यादि| अजा अजगन्धा ‘बोबई’ इति लोके| सरला त्रिवृत्| काला कासमर्दः | एकैषिका शतावरी , अन्ये त्रिवृद्भेदमाहुः| अजशृङ्गी छागलविषाणिका, ‘उत्तमारणी’ इति लोके; गयदासाचार्येण कर्कटशृङ्गी व्याख्याता| कालानुसार्येत्यादि- कालानुसार्या तगरं, चोचः त्वक्, गुञ्जा चिरहिण्टिका, शीतशिवं शतपुष्पाभेदः, इन्द्रपर्णी इन्द्रवारुणी, अत्र गयदासाचार्येण इन्द्रपुष्पी पठिता व्याख्याता च; इन्द्रपुष्पी लाङ्गलकी| पालिन्दिः कालवल्ली, मुञ्जात उत्तरापथजः स्वल्पकन्दः, महीकदम्बोऽलम्बुषा मुण्डितिकेति लोके, जेज्जटाचार्यो भूकदम्बमाह||१४-१५||
Adhikarana 7 (16) · Śloka 17
गणस्तु योज्यो वरुणप्रवृत्तः क्रियासु सर्वासु विचक्षणेन |
संशोधनं शोणितमोक्षणं च श्रेष्ठं विसर्पेषु चिकित्सितं हि ||१६||
सर्वांश्च पक्वान् परिशोध्य धीमान् व्रणक्रमेणोपचरेद्यथोक्तम् |१७|
गण इत्यादि| वरुणप्रवृत्तो गणो वरुणादिः| क्रियासु सर्वासु पानादिकासु| आरम्भे सर्वेषां सामान्यचिकित्सिते संशमनमभिधाय सम्प्राप्तौ संशोधनमुद्दिशन्नाह- संशोधनमित्यादि| रक्तावसेचनं जलौकाभिः, सर्वेषामेव रक्तपित्तप्रधानत्वादलाबुशृङ्गयोस्तत्र दुरवचारत्वात्||१६||-
Adhikarana 8 (17-19) · Śloka 20
नाडी त्रिदोषप्रभवा न सिध्येच्छेषाश्चतस्नः खलु यत्नसाध्याः ||१७||
तत्रानिलोत्थामुपनाह्य पूर्वमशेषतः पूयगतिं विदार्य |
तिलैरपामार्गफलैश्च पिष्ट्वा ससैन्धवैर्बन्धनमत्र कुर्यात् ||१८||
प्रक्षालने चापि सदा व्रणस्य योज्यं महद्यत् खलु पञ्चमूलम् |
हिंस्रां हरिद्रां कटुकां बलां च गोजिह्विकां चापि सबिल्वमूलाम् ||१९||
संहृत्य तैलं विपचेद्व्रणस्य संशोधनं पूरणरोपणं च |२०|
नाडीनामवसरः- नाडीत्यादि| तत्रेत्यादि| उपनाह्य पाचनद्रव्यैरवबद्ध्वा; तन्नेच्छति गयी, कस्मात्? नाडीवचनात्, नह्यपक्वे व्रणे नाडीति; तस्माद्वातहरद्रव्यैरेवोपनाहः| प्रक्षालन इत्यादि| संहृत्य एकीकृत्य| स्नेहचतुर्थांशो भेषजकल्कः, स्नेहाच्चतुर्गुणो द्रवः, अनेन न्यायेन पक्तव्यम्| द्रवोऽत्र जलम्, “अनुक्ते द्रवकार्ये तु सर्वत्र सलिलं स्मृतम्” (चि. ३१) इति वचनात्||१७-१९||-
Adhikarana 9 (20-21) · Śloka 21
पित्तात्मिकां प्रागुपनाह्य धीमानुत्कारिकाभिः सपयोघृताभिः ||२०||
निपात्य शस्त्रं तिलनागदन्तीयष्ट्याह्वकल्कैः परिपूरयेत्ताम् |
प्रक्षालने चापि ससोमनिम्बा निशा प्रयोज्या कुशलेन नित्यम् ||२१||
पित्तेत्यादि| उत्कारिकाभिः लप्सिकाभिः| नागदन्ती दन्ती| सोमः सोमसञ्ज्ञः , सोमलतेत्यन्ये; कट्फल इति जेज्जटाचार्यः; तन्नेच्छति गयी, तस्य तीक्ष्णोष्णत्वात्||२०-२१||
Adhikarana 10 (22) · Śloka 22
श्यामात्रिभण्डीत्रिफलासु सिद्धं हरिद्रयो रोध्रकवृक्षयोश्च |
घृतं सदुग्धं व्रणतर्पणेन हन्याद्गतिं कोष्ठगताऽपि या स्यात् ||२२||
श्यामेत्यादि|- श्यामा वृद्धदारुकः| त्रिभण्डी त्रिवृत्| वृक्षकः कुटजः||२२||
Adhikarana 11 (23-25) · Śloka 25
नाडीं कफोत्थामुपनाह्य सम्यक् कुलत्थसिद्धार्थकशक्तुकिण्वैः |
मृदूकृतामेष्य गतिं विदित्वा निपातयेच्छस्त्रमशेषकारी ||२३||
दद्याद्व्रणे निम्बतिलान् सदन्तीन् सुराष्ट्रजासैन्धवसम्प्रयुक्तान् |
प्रक्षालने चापि करञ्जनिम्ब जात्यक्षपीलुस्वरसाः प्रयोज्याः ||२४||
सुवर्चिकासैन्धवचित्रकेषु निकुम्भतालीतलरूपिकासु |
फलेष्वपामार्गभवेषु चैव कुर्यात् समूत्रेषु हिताय तैलम् ||२५||
नाडीमित्यादि| किण्वः सुराबीजम्| अशेषकारी वैद्यः| दद्यादित्यादि| सुराष्ट्रजा तुवरमृत्तिका| प्रक्षालने इत्यादि| निकुम्भो दन्ती| तालीतलं मुशलीमूलं ; नलमित्यन्ये पठन्ति, तत्र नलः शुषिरपर्वा स्वनामप्रसिद्धः| रूपिका श्वेतार्कः| ‘नीलीफलरूपिकाभिः’ इति केचित् पठन्ति; नीलीफलं शारदं फलं, श्रीफलिकेति लोके||२३-२५||
Adhikarana 12 (26-28) · Śloka 28
नाडीं तु शल्यप्रभवां विदार्य निर्हृत्य शल्यं प्रविशोध्य मार्गम् |
संशोधयेत् क्षौद्रघृतप्रगाढैस्तिलैस्ततो रोपणमाशु कुर्यात् ||२६||
कुम्भीकखर्जूरकपित्थबिल्ववनस्पतीनां च शलाटुवर्गैः |
कृत्वा कषायं विपचेत्तु तैलमावाप्य मुस्तासरलाप्रियङ्गूः ||२७||
सुगन्धिकामोचरसाहिपुष्पं रोध्रं विदध्यादपि धातकीं च |
एतेन शल्यप्रभवा तु नाडी रोहेद्व्रणो वा सुखमाशु चैव ||२८||
नाडीमित्यादि| कुम्भीकः स्थलकुम्भिका, वनस्पतयो वटाद्याः, कुम्भिकादीनां शलाटूनि कोमलफलानि ग्राह्याणि| सरला त्रिवृत्| सुगन्धिका उत्पलसारिवा| मोचरसः शाल्मलीचुम्पः| अहिपुष्पं नागकेशरम्||२६-२८||
Adhikarana 13 (29-33) · Śloka 33
कृशदुर्बलभीरूणां नाडी मर्माश्रिता च या |
क्षारसूत्रेण तां च्छिन्द्यान्न तु शस्त्रेण बुद्धिमान् ||२९||
एषण्या गतिमन्विष्य क्षारसूत्रानुसारिणीम् |
सूचीं निदध्याद्गत्यन्ते तथोन्नम्याशु निर्हरेत् ||३०||
सूत्रस्यान्तं समानीय गाढं बन्धं समाचरेत् |
ततः क्षारबलं वीक्ष्य सूत्रमन्यत् प्रवेशयेत् ||३१||
क्षाराक्तं मतिमान् वैद्यो यावन्न छिद्यते गतिः |
भगन्दरेऽप्येष विधिः कार्यो वैद्येन जानता ||३२||
अर्बुदादिषु चोत्क्षिप्य मूले सूत्रं निधापयेत् |
सूचीभिर्यववक्राभिराचितान् वा समन्ततः |
मूले सूत्रेण बध्नीयाच्छिन्ने चोपचरेद्व्रणम् ||३३||
कृशेत्यादि| क्षारसूत्रेण क्षाराक्तसूत्रेण| तत्र क्षारसूत्रावचारणाप्रकारं निर्दिशन्नाह- एषण्येत्यादि| अर्बुदादिष्विति आदिशब्दाद्ग्रन्थ्यादीनां ग्रहणम्| तनुमूलेषु अर्बुदादिषु, उत्क्षिप्य मूले क्षारसूत्रं निधापयेत्; विशालमूलांश्चार्बुदादीन् क्षारसूत्रप्रतिष्ठापनार्थे सर्वतः सूचीभिराविध्य , मूले क्षारसूत्रेण बध्नीयात्||२९-३३||
Adhikarana 14 (34-41) · Śloka 42
या द्विव्रणीयेऽभिहितास्तु वर्त्यस्ताः सर्वनाडीषु भिषग्विदध्यात् |
घोण्टाफलत्वग्लवणानि लाक्षापूगीफलं चालवणं च पत्रम् ||३४||
स्नुह्यर्कदुग्धेन तु कल्क एष वर्तीकृतो हन्त्यचिरेण नाडीः |
बिभीतकाम्रास्थिवटप्रवाला हरेणुकाशङ्खिनिबीजमस्यः ||३५||
वाराहिकन्दश्च तथा प्रदेयो नाडीषु तैलेन च मिश्रयित्वा ||३६||
धत्तूरजं मदनकोद्रवजं च बीजं कोशातकी शुकनसा मृगभोजिनी च |
अङ्कोटबीजकुसुमं गतिषु प्रयोज्यं लाक्षोदकाहृतमलासु विकृत्य चूर्णम् ||३७||
तथा च गोमांसमसीं हिताय कोष्ठाश्रितस्यादरतो दिशन्ति |
वर्तीकृतं माक्षिकसम्प्रयुक्तं नाडीघ्नमुक्तं लवणोत्तमं वा ||३८||
दुष्टव्रणे यद्विहितं च तैलं तत् सर्वनाडीषु भिषग्विदध्यात् |
चूर्णीकृतैरथ विमिश्रितमेभिरेव तैलं प्रयुक्तमचिरेण गतिं निहन्ति ||३९||
एष्वेव मूत्रसहितेषु विधाय तैलं तत् साधितं गतिमपोहति सप्तरात्रात् |
पिण्डीतकस्य तु वराहविभावितस्य मूलेषु कन्दशकलेषु च सौवहेषु ||४०||
तैलं कृतं गतिमपोहति शीघ्रमेतत् कन्देषु चामरवरायुधसाह्वयेषु |
भल्लातकार्कमरिचैर्लवणोत्तमेन सिद्धं विडङ्गरजनीद्वयचित्रकैश्च ||४१||
स्यान्मार्कवस्य च रसेन निहन्ति तैलं नाडीं कफानिलकृतामपचीं व्रणांश्च |४२|
ततः परं सर्वनाडीनां सामान्यविधिमाह- या इत्यादि| मिश्रकोक्तातीतावेक्षणेन द्विव्रणीयेऽभिहिता ‘अन्तःशल्यानणुमुखान्’ (चि. १) इत्यादिवाक्ये वर्त्यः शोधनाः प्रयोज्याः| इहापि वर्तिं निर्दिशन्नाह- घोण्टेत्यादि| घोण्टाफलं बदरीफलं, तस्य त्वक् वल्कलम्| लवणानि सैन्धवादीनि| अलवणा काकमर्दनिका , तस्या इदं पत्रमालवणम्| बिभीतकेत्यादि शङ्खिनी यवतिक्ता| बिभीतकाम्रास्थ्यादीनां दाहेन मस्यः क्षारा इत्यर्थः| वाराहिकन्दो गृष्टिकाकन्दः| तथेत्यादि तेनैव प्रकारेण गोमांसस्यापि मसीं कोष्ठाश्रितासु नाडीषु हिताय आदरेण प्रतिपादयन्ति| वर्तीकृतमित्यादि पक्वमधुसैन्धववर्तिरपि नाडीहरा| दुष्टेत्यादि|- दुष्टव्रणे यद्विहितं च तैलमिति सर्वव्रणे “द्रवन्ती चिरबिल्वं” इत्यादिना वर्गेण “यथोपपत्ति कर्तव्यं तैलमेतेषु शोधनम्” (चि. २) इत्यभिहितम्| धत्तूरजमित्यादि धत्तूरजं बीजम्| मदोत्पादकाः कोद्रवा मदनकोद्रवाः; अन्ये तु व्याख्यानयन्ति- मदनं कोद्रवजं बीजं चेति| कोशातकी देवदाली| शुकनसा चर्मकारवटः| मृगभोजिनी इन्द्रवारुणी| अङ्कोटबीजपुष्पयुक्तैः कृतं चूर्णं गतिषु देयम्| लाक्षोदकाहृतमलासु लाक्षादिगणक्वाथप्रक्षालनेन आसमन्तात् हृतमलासु, दोषापनयनाच्छुद्धास्वित्यर्थः; अन्ये तु लाक्षोदकप्रक्षालनेन भेदनपीडनाभ्यां च हृतमलासु गतिषु, धत्तूरमदनकोद्रवादिचूर्णं विकृत्यालोड्य लाक्षोदकेनैव प्रयोज्यमिति सम्बन्धं कथयन्ति| चूर्णीकृतैरित्यादि| एभिरेव धत्तूरकादिभिश्चूर्णीकृतैर्मिश्रीकृत्य तैलं प्रयुक्तमचिरेण गतिं निहन्तीति जेज्जटः; गयी तु, ‘तैलं कृतं गतिमपोहति शीघ्रमेव’ इति पठित्वा कृतग्रहणात्तैलं सामान्यपाकपरिभाषया कृतं साधितं गतिमपोहतीति व्याख्याति| एष्वित्यादि|- एष्वेव धत्तूरकादिबीजादिष्वित्यर्थः| पिण्डीतकस्येत्यादि| वराहपिण्डीतकमूलसुवहकादिशकलेषु वज्रकन्देषु च स्नेहपाकसामान्यपरिभाषया सिद्धं तैलं नाडीहरम्| विस्तरमाह- पिण्डीतकस्त्रिविधः कृष्णपुष्पः, श्वेतपुष्पः, पीतपुष्पश्च; तेष्वत्र वराहवर्णपुष्पैर्विभाव्यत इति वराहविभावितः कृष्णपुष्पो ग्राह्यः; सुवहा गन्धनाकुली नापिणीति लोके, गोधापदीत्यपरे, कन्दालीत्यन्ये, तस्याः कन्दशकलेषु कन्दखण्डेषु; कृतं संस्कृतम्| ‘कन्देषु चामरवरायुधसाह्वयेषु’ इत्यत्र अमरवर इन्द्रस्तस्यायुधं वज्रं तेन समान आह्वयः सञ्ज्ञा येषां ते अमरवरायुधसाह्वया वज्रकन्दास्तेषु| चकारात् ‘तैलं कृतम्’ इत्यनुवर्तते| भल्लातकेत्यादि मार्कवरसेन भृङ्गराजरसेन||३४-४१||-
Adhikarana 15 (42-44) · Śloka 45
स्तन्ये गते विकृतिमाशु भिषक् तु धात्रीं पीतां घृतं परिणतेऽहनि वामयेत्तु ||४२||
निम्बोदकेन मधुमागधिकायुतेन वान्तागतेऽहनि च मुद्गरसाशना स्यात् |
एवं त्र्यहं चतुरहं षडहं वमेद्वा सर्पिः पिबेत्त्रिफलया सह संयुतं वा ||४३||
भार्गीं वचामतिविषां सुरदारु पाठां मुस्तादिकं मधुरसां कटुरोहिणीं च |
धात्री पिबेत्तु पयसः परिशोधनार्थ मारग्वधादिषु वरं मधुना कषायम् ||४४||
सामान्यमेतदुपदिष्टमतो विशेषाद्दोषान् पयोनिपतितान् शमयेद्यथास्वम् |४५|
स्तन्य इत्यादि| स्तन्ये दोषौर्विकृतिं गते परिगते| परिणतेऽहनि सायङ्काल , पीतां घृतं संशमनमेव घृतं पीतवतीं, एतच्च प्रतप्तकनकनिकरपीतलोहिते सवितरि स्नेहपानकल्पस्यापवादः| सामान्योक्तमपि कफघ्नद्रव्यसंस्कृतं घृतम्| जेज्जटादयस्तु परिणते निष्पन्ने स्नेहफले सति स्निग्धामित्यर्थः, अहनि तस्मिन्नेव दिवसे| तन्नेच्छति गयी, सामान्यवाक्येनैव स्निग्धाय वमनस्य विहितत्वात्| स्वेदस्य पूर्वकर्मत्वात् स्विन्नां, निम्बोदकेन निम्बक्वाथेन वामयेत्| वान्तागतेऽहनि च मुद्गरसाशना स्यात् नतु वमनदिवसे भोजयेदित्यर्थः| तत्र प्रथमवमनेन कफस्य निःशेषमनपहृतत्वादशुद्धदेहां स्नेहस्वेदावन्तराऽन्तरा सेवयित्वा षडहं वा चतुरहं त्र्यहं वा यावद्विशुद्धिरिति, शुद्धदेहायास्तु पुनर्वमनं त्याज्यम्, अन्यथा ग्लानिः स्तन्यक्षयश्च| तस्माच्छुद्धदेहा वातपित्तानुबन्धे स्नेहपाकपरिभाषया त्रिफलासिद्धं सर्पिः पिबेदेवेति वाशब्दाद्व्यवस्थितार्थाल्लभ्यते| संशोधनमभिधाय संशमनमाह- भार्गीमित्यादि| मुस्तादिकं द्रव्यसङ्ग्रहणीयोक्तम्| मधुरसा मूर्वा ‘चोरस्नायुः’ इति लोके| भार्ग्यादिभिः सह मुस्तादेर्गणस्य कषायपानं वरं श्रेष्ठम्| पयोनिपतितान् स्तन्यनिपतितान्| शमयेद्यथास्वमिति यस्य यदात्मकं प्रत्यनीकं तेन शमयेदिति||४२-४४||-
Adhikarana 16 (45-47) · Śloka 47
रोगं स्तनोत्थितमवेक्ष्य भिषग्विदध्या द्यद्विद्रधावभिहितं बहुशो विधानम् ||४५||
सम्पच्यमानमपि तं तु विनोपनाहैः सम्भोजनेन खलु पाचयितुं यतेत |
शीघ्रं स्तनो हि मृदुमांसतयोपनद्धः सर्वं प्रकोथमुपयात्यवदीर्यते च ||४६||
पक्वे तु दुग्धहरिणीः परिहृत्य नाडीः कृष्णं च चूचुकयुगं विदधीत शस्त्रम् |
आमे विदाहिनि तथैव गते च पाकं धात्र्याः स्तनौ सततमेव च निर्दुहीत ||४७||
सम्भोजनेनेति यथेष्टभोजनेनेत्यर्थः| उपनाहो ह्यत्यर्थं पाककारि, तस्मादुपनाहनिषेधमाह- शीघ्रमित्यादि| हि स्फुटं, प्रकोथं पूतिमांसताम्| आमेत्यादि आमे विदग्धतापरिहाराय, विदाहिनि विपाकपरिहाराय, पक्वे नाडीव्रणपरिहाराय, स्तनौ निर्दुहीत||४५-४७||
Adhikarana puShpikA · Śloka 17
इति सुश्रुतसंहितायां चिकित्सास्थाने विसर्पनाडीस्तनरोगचिकित्सितं नाम सप्तदशोऽध्यायः ||१७||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने सप्तदशोऽध्यायः||१७||