Adhikarana 1 (1-3) · Śloka 3
अथातो ग्रन्थ्यपच्यर्बुदगलगण्डचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
ग्रन्थिष्वथामेषु भिषग्विदध्याच्छोफक्रियां विस्तरशो विधिज्ञः |
रक्षेद्बलं चापि नरस्य नित्यं तद्रक्षितं व्याधिबलं निहन्ति ||३||
ग्रन्थिष्वित्यादि| शोफक्रियामपतर्पणादिकां विरेचनान्ताम्| विस्तरशो भूयिष्ठम्||१-३||
Adhikarana 2 (4) · Śloka 4
तैलं पिबेत् सर्पिरथो द्वयं वा दत्त्वा वसां वा त्रिवृतं विदध्यात् |
अपेहिवातादशमूलसिद्धं वैद्यश्चतुःस्नेहमथो द्वयं वा ||४||
इदानीमामे ग्रन्थौ विस्रावणशोधनयोः स्नेहनाङ्गस्नेहं निर्दिशन्नाह- तैलमित्यादि| तैलं पिबेत्, सर्पिर्वा पिबेत्, अथवा द्वयं तैलसर्पिषी पिबेत्| वसातैलसर्पिषा च साध्यत्वात् त्रिवृतं विदध्यात्; त्रिभिस्तैलसर्पिर्वसाभिर्वृतो व्याप्तः स्नेहसंयोगस्त्रिवृतसञ्ज्ञः स्यात्, तं विदध्यात् कुर्यात्; ‘वैद्यो ग्रन्थिरोगिणः पानाय’ इति शेषः; अथवा चतुःस्नेहं घृततैलवसामज्जासंयोगजं; द्वयं वा पिबेत्, द्वयमिति तैलसर्पिषी, तैलवसे, तैलमज्जानौ, घृतवसे, घृतमज्जानौ, वसामज्जानौ चेति एवम्प्रकारं द्वयं, चतुःस्नेहं वा एकीभूतं पिबेत्| किम्भूतं पिबेत्? अपेहिवातादशमूलसिद्धमिति अपेहिवाता प्रसारिणी| तत्राद्यं तैलं सर्पिर्द्वयं वा यत् प्रोक्तं तदसंस्कृतमेव, उत्तरार्धोक्तं च चतुःस्नेहं द्वयं वा प्रसारिणीदशमूलकल्कक्वाथसंस्कृतम्, अन्यथा वाशब्देन पुनरुक्तिदोषः स्यात्| यद्यपि पृथङ्निर्दिष्टरसवीर्यविपाकप्रभावाणां तैलसर्पिर्वसामज्जानां संस्कृतानां ग्रन्थिरोगिणः सामान्येनात्र प्रयोगोऽभिहितः, तथाऽपि वातपित्तश्लेष्मसंसृष्टसन्निपातारब्धग्रन्थिषु हेतुप्रकृतिदेशकालसात्म्यानुबन्धानवेक्ष्य यथावच्च पानार्थमुपयोज्या इति ज्ञेयम्| गयी तु ‘अपेहिवाता- ’ त्यत्र ‘आमे विदध्याद्दशमूलसिद्धं’ इति पठति व्याख्यानयति च- तैलं पिबेदित्यादि; तत्र ग्रन्थौ वातभवे आमे तैलं वातहरक्वाथकल्कसिद्धं, पित्तभवे घृतं पित्तहरक्वाथकल्कसिद्धं, तैलमेव कफहरक्वाथसिद्धं कफजे, संसर्गसन्निपाते च द्वित्रिचतुःस्नेहादिसिद्धं विकल्प्यं; तदेव वातहरं निर्दिशन्नाह- आमे विदध्याद्दशमूलसिद्धमित्यादि||४||
Adhikarana 3 (5-7) · Śloka 8
हिंस्राऽथ रोहिण्यमृताऽथ भार्गी श्योनाकबिल्वागुरुकृष्णगन्धाः |
गोजी च पिष्टा सह तालपत्र्या ग्रन्थौ विधेयोऽनिलजे प्रलेपः ||५||
स्वेदोपनाहान् विविधांश्च कुर्यात्तथा प्रसिद्धानपरांश्च लेपान् |
विदार्य वा पक्वमपोह्य पूयं प्रक्षाल्य बिल्वार्कनरेन्द्रतोयैः ||६||
तिलैः सपञ्चाङ्गुलपत्रमिश्रैः संशोधयेत् सैन्धवसम्प्रयुक्तैः |
शुद्धं व्रणं वाऽप्युपरोपयेत्तु तैलेन रास्नासरलान्वितेन ||७||
विडङ्गयष्टीमधुकामृताभिः सिद्धेन वा क्षीरसमन्वितेन |८|
इदानीं वातादिजनितग्रन्थिविशेषेण प्रलेपादीनाह- हिंस्रेत्यादि| रोहिणी कटुका| अमृता गुडूची| कृष्णगन्धा शोभाञ्जनकः, शमीत्यपरे| गोजी गोजिह्विका, शाखोटक इत्यन्ये| तालपत्री मुसली| स्वेदेत्यादि| प्रसिद्धा लेपा मिश्रकोक्ता मातुलुङ्ग्यादयः| विदार्येत्यादि| नरेन्द्रः किरमालकः| तोयशब्दोऽत्र क्वाथे वर्तते| पञ्चाङ्गुल एरण्डः| अन्ये ‘बिल्वार्कगणादितोयैः’ इति पठन्ति; तत्र बिल्वादिगणः, अर्कादिगणश्च, तयोः क्वाथैरित्यर्थः| शुद्धमित्यादि| सरला त्रिवृत्, केचित् सरलं शालतरुमाहुः, तयोश्चूर्णान्वितेन तैलेन रोपयेत्, तथा चतुर्गुणगोक्षीरसमन्वितेन तैलेन विडङ्गादिभिः कल्कीकृतैः सिद्धेन वा रोपयेत्||५-७||-
Adhikarana 4 (8-11) · Śloka 11
जलौकसः पित्तकृते हितास्तु क्षीरोदकाभ्यां परिषेचनं च ||८||
काकोलिवर्गस्य च शीतलानि पिबेत् कषायाणि सशर्कराणि |
द्राक्षारसेनेक्षुरसेन वाऽपि चूर्णं पिबेच्चापि हरीतकीनाम् ||९||
मधूकजम्ब्वर्जुनवेतसानां त्वग्भिः प्रदेहानवचारयेत |
सशर्करैर्वा तृणशून्यकन्दैर्दिह्यादभीक्ष्णं मुचुलुन्दजैर्वा ||१०||
विदार्य वा पक्वमपोह्य पूयं धावेत् कषायेण वनस्पतीनाम् |
तिलैः सयष्टीमधुकैर्विशोध्य सर्पिः प्रयोज्यं मधुरैर्विपक्वम् ||११||
जलौकस इत्यादि| तृणशून्यकन्दैः केतकीमूलैः| दिह्यात् लिम्पेत्| अभीक्ष्णं सततम्| मुचुलुन्दः कण्टकीमदनः, अन्ये मुचुकुन्दमाहुः| विदार्येत्यादि| वनस्पतीनां वटप्लक्षपिप्पलोदुम्बराणाम्| तिलैरित्यादि| मधुरैः काकोल्यादिभिर्द्रव्यैः||८-११||
Adhikarana 5 (12-13) · Śloka 13
हृतेषु दोषेषु यथानुपूर्व्या ग्रन्थौ भिषक् श्लेष्मसमुत्थिते तु |
स्विन्नस्य विम्लापनमेव कुर्यादङ्गुष्ठलोहोपलवेणुदण्डैः ||१२||
विकङ्कतारग्वधकाकणन्तीकाकादनीतापसवृक्षमूलैः |
आलेपयेत् पिण्डफलार्कभार्गीकरञ्जकालामदनैश्च विद्वान् ||१३||
हृतेष्वित्यादि| यथानुपूर्व्या स्नेहस्वेदादिक्रमेण| वमनविरेचनास्थापनशिरोविरेचनशोणितस्रावणैर्दोषेषु कफपित्तवातेषु हृतेषु तथा शोणिते च हृते स्विन्नस्य विम्लापनं कार्यमित्याह- अङ्गुष्ठलोहोपलवेणुदण्डैः; विम्लापनमङ्गुष्ठादिभिर्मर्दनेन श्वयथुविम्लापनं कुर्यात्| विकङ्कतेत्यादि| विकङ्कतवृक्षः कटायिका| आरग्वधः किरमालकः| काकणन्ती गुञ्जा| काकादनी वायसतिन्दुका, अहिंस्रेत्यन्ये| तापसवृक्ष इङ्गुदः| पिण्डफला तिक्तालाबुः| काला कटुहिंस्रा||१२-१३||
Adhikarana 6 (14) · Śloka 14
अमर्मजातं शममप्रयान्तमपक्वमेवापहरेद्विदार्य |
दहेत् स्थिते चासृजि सिद्धकर्मा सद्यःक्षतोक्तं च विधिं विदध्यात् ||१४||
अमर्मेत्यादि| श्लेष्मसमुत्थमेव ग्रन्थिमर्मण्युत्पन्नं शममप्रयान्तं पूर्वोक्तक्रमैः शान्तिमगच्छन्तमपक्वमेव विदार्य अपहरेत्| सद्यःक्षतोक्तविधिर्मधुघृतादिप्रयोगः| केचित् ‘अमर्मजं चैवमपच्यमानं’ इति पठन्ति||१४||
Adhikarana 7 (15-16) · Śloka 16
या मांसकन्द्यः कठिना बृहत्यस्तास्वेष योज्यश्च विधिर्विधिज्ञैः |
शस्त्रेण वाऽऽपाट्य सुपक्वमाशु प्रक्षालयेत् पथ्यतमैः कषायैः ||१५||
संशोधनैस्तं च विशोधयेत्तु क्षारोत्तरैः क्षौद्रगुडप्रगाढैः |
शुद्धे च तैलं त्ववचारणीयं विडङ्गपाठारजनीविपक्वम् ||१६||
या इत्यादि| याश्च महत्यो मांसकन्द्यो मांसप्ररोहाः, तास्वियमेव क्रिया| शस्त्रेणेत्यादि शस्त्रेण पाटनं अमर्मजे, मर्मजे तु भेषजैः| पथ्यतमैरिति कफोत्थव्रणहरैः| संशोधनैरित्यादि| क्षारोत्तरैर्यवक्षारप्रधानैः| ‘क्षौद्रघृतप्रगाढैः’ इति पाठान्तरम्||१५-१६||
Adhikarana 8 (17-19) · Śloka 20
मेदःसमुत्थे तिलकल्कदिग्धं दत्त्वोपरिष्टाद्द्विगुणं पटान्तम् |
हुताशतप्तेन मुहुः प्रमृज्याल्लोहेन धीमानदहन् हिताय ||१७||
प्रलिप्य दार्वीमथ लाक्षया वा प्रतप्तया स्वेदनमस्य कार्यम् |
निपात्य वा शस्त्रमपोह्य मेदो दहेत् सुपक्वं त्वथवा विदार्य ||१८||
प्रक्षाल्य मूत्रेण तिलैः सुपिष्टैः सुवर्चिकाद्यैर्हरितालमिश्रैः |
ससैन्धवैः क्षौद्रघृतप्रगाढैः क्षारोत्तरैरेनमभिप्रशोध्य ||१९||
तैलं विदद्याद्द्विकरञ्जगुञ्जावंशावलेखेङ्गुदमूत्रसिद्धम् |२०|
अतो मेदोग्रन्थिचिकित्सितमाह- मेद इत्यादि| दार्वी दारुहस्तकः| अपक्वमेदोजे शस्त्रं निपात्य मेदोऽपकृष्य दहेत्, पक्वं वा मेदोग्रन्थिं विदार्य गवादिमूत्रैः प्रक्षाल्य तिलैः सुवर्चिकायवक्षारसैन्धवहरितालक्षौद्रघृतप्रधानैरभिप्रशोध्य वक्ष्यमाणतैलावचारणम्| तैलमित्यादि द्विकरञ्जादिकल्कसिद्धेन चतुर्गुणगोमूत्रद्रवेण तैलेन रोपयेत्| वंशावलेखो वंशत्वक्||१७-१९||-
Adhikarana 9 (20-23) · Śloka 23
जीमूतकैः कोशवतीफलैश्च दन्तीद्रवन्तीत्रिवृतासु चैव ||२०||
सर्पिः कृतं हन्त्यपचीं प्रवृद्धां द्विधा प्रवृत्तं तदुदारवीर्यम् |
निर्गुण्डिजातीबरिहिष्ठयुक्तं जीमूतकं माक्षिकसैन्धवाढ्यम् ||२१||
अभिप्रतप्तं वमनं प्रगाढं दुष्टापचीषूत्तममादिशन्ति |
कैडर्यबिम्बीकरवीरसिद्धं तैलं हितं मूर्धविरेचनं च ||२२||
शाखोटकस्य स्वरसेन सिद्धं तैलं हितं नस्यविरेचनेषु |
मधूकसारश्च हितोऽवपीडे फलानि शिग्रोः खरमञ्जरेर्वा ||२३||
इदानीमपचीचिकित्सामाह- जीमूतकैरित्यादि| जीमूतको देवदाली| कोशवती कटुकोशातकी| द्विधाप्रवृत्तम् उभयतोभागदोषहरम्| उदारवीर्यम् उत्कटवीर्यम्| जीमूतककोशवत्योः फलकल्कं दन्त्यादीनां तिसॄणां मूलस्य च स्नेहचतुर्थांशेन कृत्वा, जलं चतुर्गुणं दत्त्वा, विपचेत्; कल्कक्वाथाभ्यामित्यपरे| निर्गुण्डीत्यादि| बरिहिष्ठं वालकम्| जीमूतको देवदाली| निर्गुण्डीजातीबरिहिष्ठानामञ्जलिं सलिलाढकेन निःक्वाथ्य पादशेषं विधाय ततः पुरुषापेक्षया जलमुष्णमादाय, तच्च जीमूतकफलकल्पेन प्रत्येकं माक्षिकसैन्धवाढ्यं कृत्वा, युक्तं वमनविधिना, दुष्टास्वपचीषूत्तममादिशन्ति वमनद्रव्यमुत्तममादिशन्ति| कैडर्येत्यादि कैडर्यः पर्वतनिम्बः| कैडर्यादिकल्कचतुर्थांशं जलचतुर्गुणं तैलं साध्यम्| अन्ये तु कैडर्येत्यत्र निर्गुण्डीति पठन्ति| निर्गुण्डीस्वरसे चतुर्गुणे बिम्बीकरवीरकल्कं तैलं साध्यम्| शाखोटकस्येत्यादि| शाखोटकवल्कलानां चतुर्गुणे स्वरसे तैलं सिद्धं; नस्ये तु अकल्कमित्येके, तत्कल्ककषायमेवेत्यन्ये| मधूकेत्यादि| अवपीड्य दीयते इत्यवपीडः, नस्यभेद इत्यर्थः| खरमञ्जरिः अपामार्गः| मधूकसारशिग्रुफलापामार्गतण्डुला उष्णोदकेन पिष्ट्वा अवपीडोऽरूक्षलक्षण एव||२०-२३||
Adhikarana 10 (24) · Śloka 24
ग्रन्थीनमर्मप्रभवानपक्वानुद्धृत्य चाग्निं विदधीत पश्चात् |
क्षारेण वाऽपि प्रतिसारयेत्तु संलिख्य शस्त्रेण यथोपदेशम् ||२४||
ग्रन्थीनित्यादि| उद्धृत्य च शस्त्रेण परं यदा औषधेनासाध्यत्वम्||२४||
Adhikarana 11 (25-26) · Śloka 26
पार्ष्णिं प्रति द्वे दश चाङ्गुलानि मित्वेन्द्रबस्तिं परिवर्ज्य धीमान् |
विदार्य मत्स्याण्डनिभानि वैद्यो निष्कृष्य जालान्यनलं विदध्यात् ||२५||
आ गुल्फकर्णात् सुमितस्य जन्तोस्तस्याष्टभागं खुडकाद्विभज्य |
घोणर्जुवेधः सुरराजबस्तेर्हित्वाऽक्षिमात्रं त्वपरे वदन्ति ||२६||
स्थानकर्माभिधाय स्थानान्तरकर्माणि निर्दिशन्नाह- पार्ष्णिमित्यादि| पार्ष्णिः गुल्फस्य पश्चाद्भागः| द्वादशाङ्गुलानि मित्वोर्ध्वमिन्द्रबस्तिं परित्यज्य, छित्त्वा, मेदोजालानि मत्स्याण्डेन निभानि आकृष्य अग्निमवचारयेत्| जङ्घामध्ये द्व्यङ्गुलमिन्द्रबस्तिः, जेज्जटाचार्यस्तु अर्धाङ्गुलमाह| अन्ये तु पार्ष्णिं प्रतीत्यत्र प्रतिशब्दं विपरीतार्थकमाहुः, तेन विपरीतायां पार्ष्ण्यामित्यर्थः; तेन दक्षिणभागगतायामपच्यां वामजङ्घायां, वामभागगतायामपच्यां दक्षिणजङ्घायाम्, अभयतोभागगतायामुभयतः कर्म कर्तव्यमिति ज्ञेयम्| ‘भागे च परिप्रती’ इत्युक्तत्वाद्भागार्थोऽपि प्रतिशब्दो व्याख्यातव्यः; तेन पार्ष्णिभागे जङ्घायाः पाश्चात्यभागे व्यधः कार्यः| द्वे दश चाङ्गुलानीति मित्वेत्यत्र पृथग्विभक्तिनिर्देशात् पार्ष्णितो दशाङ्गुलानि विहायाङ्गुलद्वयमात्रो व्यधः कार्य इति ज्ञेयम्| इन्द्रबस्तिं त्रयोदशेऽङ्गुले स्थितमर्धाङ्गुलप्रमाणं परित्यज्य हित्वा, धीमान् बुद्धिमान् ऊहापोहयोग्यो दृष्टकर्मेत्यर्थः, वैद्यः यः सम्यगायुर्वेदविद्यां वेत्ति, जालानि मेदोजालानि, अनलं विदध्यात् अपुनर्भवायाग्नितप्तया शलाकया दहेदित्यर्थः; एवं हि मूलोच्छेदादपच्युपशम इति वदन्ति| अमुमेवार्थं केचिदन्येन पाठेन पठन्ति- आ गुल्फेत्यादि| आ खुल(ड)कात् गुल्फकर्णात् गुल्फौ कर्णाविव यस्य स तथा; खुलको जङ्घापादयोः सन्धिः| सुरराजबस्तेरिन्द्रबस्तेरष्टभागं जङ्घायाश्चरणहीनाया विंशत्यङ्गुलाया अष्टमो भागः सार्धमङ्गुलद्वयं हित्वा, यद्यपि द्व्यङ्गुल इन्द्रबस्तिस्तथाऽपि तदुपघातपरिहारार्थं सार्धमेवाङ्गुलद्वयं ज्ञे(हे)यम्| अन्ये तु अक्षिमात्रमेव द्व्यङ्गुलं नेत्रप्रमाणं हित्वेति वदन्ति| घोणर्जुवेध इति गुल्फकर्णस्य, खुलकस्य , घोणा नासा इव घोणा, यथोत्तरीयकण्डरा तस्याः ऋजुरवक्रो वेधो व्यधः, ‘कुर्यात्’ इत्यत्रापि पाठे स एवार्थः| अपच्यास्तु जङ्घाकण्डरागतमेदोमूलतायां भोजवचनं- “वातपित्तकफा वृद्धा मेदश्चापि समाचितम्| जङ्घयोः कण्डरां प्राप्य मत्स्याण्डसदृशान् बहून्”- इत्यादीति गयी; जेज्जटस्याप्ययमभिप्रायः| गूढपदभङ्गटिप्पनेऽन्यथा व्याख्यातम्- आ गुल्फकर्णादिति गुल्फकर्णावभिव्याप्य, आङत्राभिविधौ न मर्यादायां, सुमितस्य सुनिश्चितं मितस्य तस्य प्रमाणस्य षट्सप्तत्यङ्गुलमितस्याष्टमभागः सार्धनवाङ्गुलमात्रं, खुलकात् पार्ष्णिभागाद् द्व्यङ्गुलप्रमाणात् , विभज्य पृथक्कृत्य, घोणा नासा तस्या ऋजु यथा भवति तथाऽवक्रो वेधः कर्तव्यः| तच्च विध विधाने इति धातो रूपम्, तथाऽपि वेधशब्दोऽत्र व्यधने वर्तते, धातूनामनेकार्थत्वात्| स च खुलकस्याङ्गुलत्रितयमष्टमभागस्य च सार्धनवाङ्गुलकमेवं सार्धद्वादशाङ्गुलपरिमाणेनेन्द्रबस्तिर्मर्मापि परिहृतं भवत्येवमुक्तमिन्द्रबस्तिं हित्वेति| तथा चोक्तं- “त्रयोदशाङ्गुले पार्ष्णिं प्रति कालान्तरासुहृत्| इन्द्रबस्तिरसृक्स्रावी मांसगोऽर्धाङ्गुलो भवेत्”- इति| अक्षिमात्रमङ्गुलद्वयप्रमाणमपरे भिषज इति वदन्ति| एवं प्रथमश्लोकेनाधस्ताद्द्वितीयश्लोकेनेन्द्रबस्तेरुपरिष्टाज्जङ्घायाः पाश्चात्यभागगतकण्डराया द्व्यङ्गुलमात्रो व्यधः कार्य इति स्थितम्; एवमनुपशमे वामपार्श्वजायां दक्षिणजङ्घापृष्ठमध्यादिन्द्रबस्तेरधस्तादूर्ध्वं वा शस्त्रेणाक्षिमात्रं व्रणं कृत्वा, मत्स्याण्डजालनिभं मेदोऽपनीयग्निना दहेत्, अनेनेतरपार्श्वजा व्याख्याता, एवमुभयपार्श्वजातायामुभयत इति| भोजाऽत्राह- “वातपित्तकफा वृद्धा मेदश्चापि समाचितम्| जङ्घयोः कण्डरां प्राप्य मत्स्याण्डसदृशान् बहून्|| कुर्वन्ति ग्रन्थीन् यस्तेभ्यः पुनः प्रकुपितोऽनिलः| दोषस्तैरूर्ध्वगो वक्षःकक्षामन्यागलाश्रितः|| नानाप्रकारान् कुरुते ग्रन्थीन् सा त्वपची मता| व्यामिश्रदोषोत्पन्नां तु कृच्छ्रसाध्यां विनिर्दिशेत्|| तासां वातोत्तरा कृष्णा वातिकीवेदनायुता|| क्षिप्रपाकसमुत्थाना दाहयुक्ता च पैत्तिकी|| गूढाऽविपाका कठिना कफात् स्निग्धा रुजाकरी|| मेदोधिका श्लैष्मिकी च विशेषात् सा समार्दवा|| तां तु मालाकृतिं मन्याकण्ठहृद्धनुसन्धिषु|| गलमालां विजानीयादपचीतुल्यलक्षणाम्”- इति| “तस्माज्जङ्घायामेव कर्मणा मूलोच्छेदः कार्यः” इति गूढपदभङ्गात्| वाग्भटेन चोभयत्रापि व्यधो दर्शितः| यथा- “इत्यशान्तौ गदस्यान्यपार्श्वजङ्घासमाश्रितम्| बस्तेरूर्ध्वमधस्ताद्वा मेदो हृत्वाऽग्निना दहेत्”- (वा. उ. ३०) इति||२५-२६||
Adhikarana 12 (27) · Śloka 27
मणिबन्धोपरिष्टाद्वा कुर्याद्रेखात्रयं भिषक् |
अङ्गुल्यन्तरितं सम्यगपचीनां निवृत्तये ||२७||
हन्वस्थिसन्धिमन्यागलस्थितापच्यां जङ्घागतं कर्माभिधाय कक्षाकूर्परसन्धिगतास्वपचीषु बाहुगतमेव कर्म विनिर्दिशन्नाह- मणिबन्धेत्यादि| अत्रापि पूर्ववत्, “एतेनेतरसक्थि बाहू च व्याख्यातौ” (शा. ८) इति वचनादिन्द्रबस्तेरष्टभागमक्षिमात्रं वा विहायाग्रे रेखात्रयं कुर्यात्| तत्रापि विंशत्यङ्गुलजङ्घाया द्वादशाङ्गुलानि किञ्चिदधिको भागेन, एवं षोडशाङ्गुलकूर्परमणिबन्धमध्ये किञ्चिदधिकानि नवाङ्गुलानि मित्वा रेषात्रयमङ्गुलान्तरमिति||२७||
Adhikarana 13 (28) · Śloka 29
चूर्णस्य काले प्रचलाककाकगोधाहिकूर्मप्रभवां मसीं तु |
दद्याच्च तैलेन सहेङ्गुदीनां यद्वक्ष्यते श्लीपदिनां च तैलम् ||२८||
विरेचनं धूममुपाददीत भवेच्च नित्यं यवमुद्गभोजी |२९|
वमनविरेचनशिरोविरेचनैस्तथा स्थानान्तरगतशस्त्रक्षारानलैरन्तर्बहिःप्रमार्जनाभ्यामन्तर्बहिःशुद्धीर्निर्दिश्य संशमनं निर्दिशन्नाह- चूर्णस्येत्यादि|- चूर्णस्य काले रोपणकाले, प्रचलाकादीनां मसीर्दद्यात् क्षारमित्यर्थः| प्रचलाको मयूरः, कृकलासमन्ये प्राहुः| इङ्गुदीनां तैलेन क्षारमेव दद्यात्| यानि च तैलानि श्लीपदे तानि च दद्यात्||२८||-
Adhikarana 14 (29-31) · Śloka 31
कर्कारुकैर्वारुकनारिकेलप्रियालपञ्चाङ्गुलबीजचूर्णैः ||२९||
वातार्बुदं क्षीरघृताम्बुसिद्धैरुष्णैः सतैलैरुपनाहयेत्तु |
कुर्याच्च मुख्यान्युपनाहनानि सिद्धैश्च मांसैरथ वेसवारैः ||३०||
स्वेदं विदध्यात् कुशलस्तु नाड्या शृङ्गेण रक्तं बहुशो हरेच्च |
वातघ्ननिर्यूहपयोम्लभागैः सिद्धं शताख्यं त्रिवृतं पिबेद्वा ||३१||
कर्कारुकैरित्यादि| कर्कारुकं कूष्माण्डं, एर्वारुः ग्रीष्मकर्कटी, प्रियालश्चारः, पञ्चाङ्गुल एरण्डः| क्षीरघृतसिद्धै रक्तपित्तानुबन्धे| उपनाहयेत् बध्नीयात्| वातघ्नेत्यादि| वातघ्ना देवदार्वादयः| तत्क्वाथक्षीरसौवीरभागैस्त्रिभिः स्नेहचतुर्गुणैरकल्कैस्तैलपाकः, एवमेव शतधा पक्वं शतपाकम्, एवं त्रिवृतं वा मज्जवर्जं घृततैलवसाभिर्वृतं पूर्वकल्कवातहरक्वाथपयोम्लैः सिद्धम्; एवमेव शतधाऽपतानकविधानेन वा सिद्धं त्रिवृतं, तत्राप्ययमेव साधनविधिः||२९-३१||
Adhikarana 15 (32-34) · Śloka 34
स्वेदोपनाहा मृदवस्तु कार्याः पित्तार्बुदे कायविरेचनं च |
विघृष्य चोदुम्बरशाकगोजीपत्रैर्भृशं क्षौद्रयुतैः प्रलिम्पेत् ||३२||
श्लक्ष्णीकृतैः सर्जरसप्रियङ्गुपत्तङ्गरोध्राञ्जनयष्टिकाह्वैः |
विस्राव्य चारग्वधगोजिसोमाः श्यामा च योज्या कुशलेन लेपे ||३३||
श्यामागिरिह्वाञ्जनकीरसेषु द्राक्षारसे सप्तलिकारसे च |
घृतं पिबेत् क्लीतकसम्प्रसिद्धं पित्तार्बुदी तज्जठरी च जन्तुः ||३४||
स्वेदोपनाहा इत्यादि| मृदुः स्वेदो द्रवस्वेदः, उपनाहो बन्धः काकोल्यादिमृदुद्रव्यकृतः क्षीराम्लपिष्टश्च नात्युष्णः| मृदुकायविरेचनं न शिरोविरेचनमिति व्यवच्छेदविषयः| भृशं विघृष्य उदुम्बरादिपत्रैः| तत्र शाकः खरमसृणपत्रो महातरुः; गोजी दार्वीपत्रिका, शाखोटक इत्यन्ये| विस्राव्येत्यादि| सोमः सोमलता, कट्फलमित्यपरे| श्यामेत्यादि| श्यामा त्रिवृत्, गिरिह्वा श्वेतस्यन्दः, अञ्जनकी नीलाञ्जनिका शारदं फलं, श्रीफलिकेति लोके| सप्तलिका यवतिक्ता| क्लीतकेत्यादि| यष्टीमधुकल्केन सामान्यस्नेहपरिभाषया सिद्धं घृतं शोधनं पित्तार्बुदी पित्तोदरी च पिबेत्||३२-३४||
Adhikarana 16 (35-36) · Śloka 36
शुद्धस्य जन्तोः कफजेऽर्बुदे तु रक्तेऽवसिक्ते तु ततोऽर्बुदं तत् |
द्रव्याणि यान्यूर्ध्वमधश्च दोषान् हरन्ति तैः कल्ककृतैः प्रदिह्यात् ||३५||
कपोतपारावतविड्विमिश्रैः सकांस्यनीलैः शुकलाङ्गलाख्यैः |
मूत्रैस्तु काकादनिमूलमिश्रैः क्षारप्रदिग्धैरथवा प्रदिह्यात् ||३६||
शुद्धस्येति वमनेन| अलाब्वा रक्तेऽवसिक्तेऽपच्या दोषानूर्ध्वमधश्च यानि द्रव्याणि जीमूतकीघोषवतीफलदन्तीद्रवन्तीत्रिवृदादीनि हरन्ति तेषां कल्कैर्लिम्पेत्| कांस्यनीलः कांस्यमसी| शुकः ग्रन्थिपर्णः , लाङ्गलाख्या कलिकारिका| काकादनी वायसतिन्दुका| कपोतादिविड्विमिश्रैः कांस्यनीलादिसहितैर्वायसतिन्दुकाया मूलयुक्तैर्मूत्रैर्विलिम्पेत्; अथवा क्षारप्रदिग्धैः क्षारसंयुक्तैर्मूत्रैः प्रलिम्पेत्; ‘क्षारप्रघृष्टैरथवा’ इत्यन्ये; तत्र क्षारोदकेन प्रघृष्टैर्वा कपोतविडादिभिः प्रदिह्यादित्यर्थः||३५-३६||
Adhikarana 17 (37-40) · Śloka 40
निष्पावपिण्याककुलत्थकल्कैर्मांसप्रगाढैर्दधिमस्तुयुक्तैः |
लेपं विदध्यात् कृमयो यथाऽत्र मूर्च्छन्ति मुञ्चन्त्यथ मक्षिकाश्च ||३७||
अल्पावशिष्टे कृमिभक्षिते च लिखेत्ततोऽग्निं विदधीत पश्चात् |
यदल्पमूलं त्रपुताम्रसीसपट्टैः समावेष्ट्य तदायसैर्वा ||३८||
क्षाराग्निशस्त्राण्यसकृद्विदध्यात् प्राणानहिंसन् भिषगप्रमत्तः |
आस्फोतजातीकरवीरपत्रैः कषायमिष्टं व्रणशोधनार्थम् ||३९||
शुद्धे च तैलं विदधीत भार्गीविडङ्गपाठात्रिफलाविपक्वम् |
यदृच्छया चोपगतानि पाकं पाकक्रमेणोपचरेद्विधिज्ञः ||४०||
निष्पावेत्यादि|- निष्पावः शिम्बः| विदध्यात् कुर्यात्| मूर्च्छन्ति पतन्ति| मुञ्चन्त्यथ मक्षिकाश्चेति ‘कृमीन्’ इति शेषः| शिखराणां च कृमिभिर्भक्षितत्वादल्पावशिष्टत्वम्| असकृत् अनेकवारम्| अप्रमत्तः सावधानः| आस्फोता सारिवा| शुद्ध इत्यादि| शुद्धे च रोपणार्थं भार्ग्यादितैलं तैलपाककल्पेन| यदृच्छयेत्यादि| यदृच्छया पुनराकस्मिकोत्पादे अभिघातादिनिमित्तेऽबुद्धिपूर्वके वा||३७-४०||
Adhikarana 18 (41-42) · Śloka 43
मेदोर्बुदं स्विन्नमथो विदार्य विशोध्य सीव्येद्गतरक्तमाशु |
ततो हरिद्रागृहधूमरोध्रपतङ्गचूर्णैः समनःशिलालैः ||४१||
व्रणं प्रतिग्राह्य मधुप्रगाढैः करञ्जतैलं विदधीत शुद्धे |
सशेषदोषाणि हि योऽर्बूदानि करोति तस्याशु पुनर्भवन्ति ||४२||
तस्मादशेषाणि समुद्धरेत्तु हन्युः सशेषाणि यथा हि वह्निः |४३|
मेद इत्यादि| पतङ्गो रक्तकाष्ठम् | आलं हरितालम्| करञ्जतैलं विद्रध्युक्तं, तत्फलतैलमेवेत्यन्ये||४१-४२||-
Adhikarana 19 (43-47) · Śloka 47
संस्वेद्य गण्डं पवनोत्थमादौ नाड्याऽनिलघ्नौषधपत्रभङ्गैः ||४३||
अम्लैः समूत्रैर्विविधैः पयोभिरुष्णैः सतैलैः पिशितैश्च विद्वान् |
विस्रावयेत् स्विन्नमतन्द्रितश्च शुद्धं व्रणं चाप्युपनाहयेत्तु ||४४||
शणातसीमूलकशिग्रुकिण्वप्रियालमज्जानुयुतैस्तिलैस्तु |
कालामृताशिग्रुपुनर्नवार्कगजादिनामाकरहाटकुष्ठैः ||४५||
एकैषिकावृक्षकतिल्वकैश्च सुराम्लपिष्टैरसकृत् प्रदिह्यात् ||४६||
तैलं पिबेच्चामृतवल्लिनिम्बहंसाह्वयावृक्षकपिप्पलीभीः |
सिद्धं बलाभ्यां च सदेवदारु हिताय नित्यं गलगण्डरोगे ||४७||
संस्वेद्येत्यादि| पत्रभङ्गैः पल्लवैः| अनिलघ्नं वातहरम्| एरण्डादिपल्लवयुतं तु शुद्धवाते, अम्लैः काञ्जिकादिभिः पित्तावृते वायौ, कफावृते मूत्रक्वथितैः; रक्तावृते पयोभिः क्षीरैः, पिशितैश्चेति पिशितरसैः क्वथितैः, अथवा पिशितैर्मांसैः पल्लवैः सह क्वथितैर्धातुक्षयजे वायौ| विस्रावयेत् जलौकादिभिः, ऊरुमूलसंश्रितसिराव्यधेन वा| रक्तादिहरणशुद्धं गलगण्डं निरन्तरं शणादिबीजैरुपनाहयेत्| शुद्धमिति वचनात् सौश्रुतेऽपि रक्ताहरणस्य शुद्धिसञ्ज्ञा; तेन “चतुष्प्रकारा संशुद्धिः” (च. सू. २२) इति चरकवचनं तु प्रायिकं स्मृतम्| किण्वं सुराबीजम्| कालेत्यादि| काला हिंस्रा, गजादिनामा हस्तिपिप्पली, करहाटं मदनफलम्| एकैषिका अम्बष्ठा, त्रिवृदित्येके; वृक्षकः कुटजः| असकृत् अनेकवारम्| प्रदिह्यात् लिम्पेत्| तैलमित्यादि| हंसाह्वया हंसपदी| तैलं पिबेत् सिद्धमिति सम्बन्धः||४३-४७||
Adhikarana 20 (48-50) · Śloka 50
स्वेदोपनाहैः कफसम्भवं तु संस्वेद्य विस्रावणमेव कुर्यात् |
ततोऽजगन्धातिविषाविशल्याविषाणिकाकुष्ठशुकाह्वयाभिः ||४८||
पलाशभस्मोदकपेषिताभिर्दिह्यात् सुगुञ्जाभिरशीतलाभिः |
दशार्धसङ्ख्यैर्लवणैश्च युक्तं तैलं पिबेन्मागधिकादिसिद्धम् ||४९||
प्रच्छर्दनं मूर्धविरेचनं च धूमश्च वैरेचनिको हितस्तु |
पाकक्रमो वाऽपि सदा विधेयो वैद्येन पाकङ्गतयोः कथञ्चित् ||५०||
पित्तगलगण्डाभावादनन्तरं कफजस्य चिकित्सितं दर्शयन्नाह- स्वेदेत्यादि| स्वेदोऽत्र रूक्षः, उपनाहश्च सक्षारमूत्रः| अजगन्धा बोवयिका, विशल्या अग्निशिखवृक्षः , विषाणिका आवर्तनिका, शुकाह्वयः चर्मकारवटः| दशेत्यादि दशार्धसङ्ख्यैर्लवणैरिति पञ्चलवणैः| मागधिकादिसिद्धं पिप्पल्यादिक्वाथकल्काभ्यां सिद्धम्| पाकङ्गतयोः पाकं प्राप्तयोर्वातकफजयोः||४८-५०||
Adhikarana 21 (51) · Śloka 51
कटुत्रिकक्षौद्रयुताः समूत्रा भक्ष्या यवान्नानि रसाश्च मौद्गाः |
सशृङ्गवेराः सपटोलनिम्बा हिताय देया गलगण्डरोगे ||५१||
सर्वगलगण्डविषये योगं निर्दिशन्नाह- कटुत्रिकेत्यादि| भक्ष्या धानोल्लुम्बादयः| यवान्नानि गृञ्जनादीनि| समूत्रा इति मूत्रस्विन्नशुष्काणां भक्ष्ययवाणामिति बोद्धव्यम्| कटुत्रिकमधुभ्यां योजना| रसाश्च मौद्गा मुद्गयूषाः| सशृङ्गवेराः सार्द्रका देयाः||५१||
Adhikarana 22 (52-55) · Śloka 55
मेदःसमुत्थे तु यथोपदिष्टां विध्येत् सिरां स्निग्धतनोर्नरस्य |
श्यामासुधालोहपुरीषदन्तीरसाञ्जनैश्चापि हितः प्रदेहः ||५२||
मूत्रेण वाऽऽलोड्य हिताय सारं प्रातः पिबेत् सालमहीरुहाणाम् |
शस्त्रेण वाऽऽपाट्य विदार्य चैनं मेदः समुद्धृत्य हिताय सीव्येत् ||५३||
मज्जाज्यमेदोमधुभिर्दहेद्वा दग्धे च सर्पिर्मधु चावचार्यम् |
कासीसतुत्थे च ततोऽत्र देये चूर्णीकृते रोचनया समेते ||५४||
तैलेन चाभ्यज्य हिताय दद्यात् सारोद्भवं गोमयजं च भस्म |
हितश्च नित्यं त्रिफलाकषायो गाढश्च बन्धो यवभोजनं च ||५५||
मेदःसमुत्थ इत्यादि| यथोपदिष्टामिति ऊरुसन्धिनिर्दिष्टाम्| श्यामेत्यादि|- श्यामा त्रिवृत्, सुधा सेहुण्डः, लोहपुरीषं लोहमलम्; अन्ये तु लोहमगरुं वदन्ति, तथा पुरीषं कपोतपारावतविट्| मूत्रेणेत्यादि| सालसारादितरूणां सारकल्कं कर्षमात्रं गोमूत्रेण पिबेत्| जेज्जटस्तु सारोद्भवं भस्म मूत्रेणालोड्य पिबेदिति वदति| शस्त्रेणेत्यादि| दाहे च मधुघृतावचारणं पश्चात्कर्म| कासीसेत्यादि| ततोऽनन्तरं कासीसतुत्थगोरोचनाचूर्णावचारणं व्रणे| सारोद्भवं सालसारादिसारोद्भवम्| प्रक्षालने त्रिफलाकषायश्च||५२-५५||
Adhikarana puShpikA · Śloka 18
इति सुश्रुतसंहितायां चिकित्सास्थाने ग्रन्थ्यपच्यर्बुदगलगण्डचिकित्सितं नामाष्टादशोऽध्यायः ||१८||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतटीकायां चिकित्सास्थानेऽष्टादशोऽध्यायः|