Adhikarana 1 (1-2) · Śloka 2
अथातोऽन्नपानरक्षाकल्पं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
चिकित्सास्थानानन्तरं कल्पस्थानमारभ्यते; यतश्चिकित्सास्थानादिभूते द्विव्रणीयाध्याये `विषजुष्टस्य विज्ञानं विषनिश्चयमेव च| चिकित्सितं च वक्ष्यामि कल्पे तु प्रविभागशः’ इत्यनेन श्लोकेन विषजुष्टव्रणस्य कल्पस्थाने प्रतिपादनं सूचितं तस्मात्, तत्रापि स्वस्थस्य व्याधिक्षीणस्य चान्नैरेव प्राणानां धारणं क्रियतेऽतः प्रागन्नपानरक्षाकल्पं व्याख्यातुकामः प्राह- अथात इत्यादि| अन्ने भक्ष्यमवरुद्धं घनसाधर्म्यात्; पाने लेह्यमवरुद्धं द्रवसाधर्म्यात्; एवं चतुर्विधस्यापि रक्षाकल्पः| रक्षणं रक्षा, सा पुनरदुष्टस्य; दुष्टस्य पुनर्विषभेषजकल्पनात् कल्पः; रक्षया सहितः कल्पो रक्षाकल्पः| आदिशब्दोऽत्र लुप्तनिर्दिष्टो द्रष्टव्यः, तेन दन्तकाष्ठादीनामपि लक्षणचिकित्सितकल्पनम्||१-२||
Adhikarana 2 (3) · Śloka 3
धन्वन्तरिः काशिपतिस्तपोधर्मभृतां वरः |
सुश्रुतप्रभृतीञ्छिष्याञ्छशासाहतशासनः ||३||
अथ प्रथममन्नादीनां रक्षामेव निर्दिदिक्षुराह- धन्वन्तरिरित्यादि| धन्वन्तरिः सुश्रुतप्रभृतीन् शिष्यान् शशास शिक्षितवान्| तपोधर्मभृतां वर इति तपस्विनां धार्मिकाणां च मध्ये श्रेष्ठः| अहतशासनः अनभिभूताज्ञ इत्यर्थः| अन्ये त्वेवं पठन्ति- `दिवोदासः क्षितिपतिस्तपोधर्मश्रुताकरः| सुश्रुतप्रमुखाञ्छिष्याञ्छशासाहतशासनः’ इति| आकरः खनिः||३||
Adhikarana 3 (4-6) · Śloka 6
रिपवो विक्रमाक्रान्ता ये च स्वे कृत्यतां गताः |
सिसृक्षवः क्रोधविषं विवरं प्राप्य तादृशम् ||४||
विषैर्निहन्युर्निपुणं नृपतिं दुष्टचेतसः |
स्त्रियो वा विविधान् योगान् कदाचित्सुभगेच्छया ||५||
विषकन्योपयोगाद्वा क्षणाज्जह्यादसून्नरः |
तस्माद्वैद्येन सततं विषाद्रक्ष्यो नराधिपः ||६||
नृपतिः कुतो रक्षणीय इत्याह- रिपव इत्यादि| सिसृक्षवः स्रष्टुमिच्छवः| क्रोधेन विषं क्रोधविषम्| न केवलं रिपवः स्वे चात्मीया भृत्याः, कृत्यतां गताः विद्वेषं गताः| तथा च कृत्यशब्दार्थोऽमरकोषे- “कृत्यं क्रियादेवतयोस्त्रिषु विद्विष्टकार्ययोः”- इति| विवरं छिद्रं प्राप्य, तादृशं नृपतिं वधक्षमं, स्त्रियो दुष्टचित्ता विविधान् योगान् संयोगविषाणि प्राप्य, कदाचिदज्ञानात् सुभगेच्छया वा विविधान् योगान् सिसृक्षवो दातुमिच्छन्त्यो राजानं निहन्युः| विषकन्योपयोगाद्वा क्षणाज्जह्यादसून्नरः| उक्तं च- “हन्ति स्पृशन्ती स्वेदेन गम्यमाना च मैथुने| पक्वं वृन्तादिव फलं प्रशातयति मेहनम्”- इति| `कृत्यतां’ गता इत्यत्र `विकृतिं गताः’ इत्यन्ये पठन्ति||४-६||
Adhikarana 4 (7) · Śloka 7
यस्माच्च चेतोऽनित्यत्वमश्ववत् प्रथितं नृणाम् |
न विश्वस्यात्ततो राजा कदाचिदपि कस्यचित् ||७||
न परं पूर्वोक्तेभ्यो रिपुप्रभृतिभ्यो राजा रक्षणीयोऽपि तु राज्ञा कस्यापि विश्वासो न विधेयः, कुत इत्याह- यस्माच्चेत्यादि| अश्ववदिति आशुतमगत्या अश्वा उच्यन्ते, एतेन शीघ्रसञ्चारित्वोपलक्षणार्थं चेतोऽनित्यत्वमुक्तं, यस्मादश्वस्येव शीघ्रसञ्चारित्वं नानाभावेन चेतसः, तस्मात् कदाचिदपि कस्यापि विश्वासं न विदध्यान्महीपतिः| वैद्यविषये च विश्वासहेतुः सूत्रस्थाने `विसृजत्यात्मनाऽऽत्मानं’- इत्यादिश्लोकेनाभिहितः||७||
Adhikarana 5 (8-11) · Śloka 11
कुलीनं धार्मिकं स्निग्धं सुभृतं सन्ततोत्थितम् |
अलुब्धमशठं भक्तं कृतज्ञं प्रियदर्शनम् ||८||
क्रोधपारुष्यमात्सर्यमायालस्यविवर्जितम् |
जितेन्द्रियं क्षमावन्तं शुचिं शीलदयान्वितम् ||९||
मेधाविनमसंश्रान्तमनुरक्तं हितैषिणम् |
पटुं प्रगल्भं निपुणं दक्षमालस्यवर्जितम् ||१०||
पूर्वोक्तैश्च गुणैर्युक्तं नित्यं सन्निहितागदम् |
महानसे प्रयुञ्जीत वैद्यं तद्विद्यपूजितम् ||११||
स च वैद्यो गुणवानेव विश्वासभाजनमिति वैद्यस्य गुणान् निर्दिशन्नाह- कुलीनमित्यादि| कुलीनो ह्यदुष्टबीजक्षेत्रतया नाकार्येषु प्रवर्तते, कुलमत्रायुर्वेदाध्यायिकुलं ब्राह्मणक्षत्रियवैश्यभेदेन त्रिविधं, कुलगुणसम्पन्नशूद्रेण सह चतुर्विधमित्यन्ये; `तद्भवं’ इति गयी| स्निग्धः स्नेहेन मित्रभावेन राज्ञा सह व्यवस्थितः, एतेन मित्रमिव सर्वथा रक्षति| सुभृतं सम्यग्भृतं यथा च शरीरयात्रा भवति| तथा चोक्तं- “सूपौदनं घृतमलं व्यञ्जनं दृढममलिनं च वासः”- इति| सततोत्थितः अहोरात्रमध्ययनाध्यापनतदर्थचिन्तानृपशरीरस्वास्थ्यापादानेषु तत्परो नित्याभियुक्त इति| परगुणविध्वंसो मात्सर्यम्| माया परबन्धनबुद्धिः| अनुरक्तं सदाऽऽतुरलग्नं रागयुक्तम्| पटुं वक्तारं, प्रगल्भं धृष्टं, दक्षं चतुरं, आलस्यवर्जनं द्विरुक्तमत्यन्तनिषेधार्थम्| पूर्वोक्तैर्गुणैः `तत्त्वाधिगतशास्त्रार्थः’ इत्यादिकैः| महानसे रसवत्याम्| तद्विद्यपूजितमिति तद्विद्यैः पाकनिष्ठिततत्त्वज्ञानैः भिषग्भिः पूजितम्| गयी तु `अलुब्धमशठं भक्तं’ इत्यादिकं `नित्यं सन्निहितागदम्’ इत्यन्तं न पठति, पुनरुक्तदोषत्वात्||८-११||
Adhikarana 6 (12-13) · Śloka 13
प्रशस्तदिग्देशकृतं शुचिभाण्डं महच्छुचि |
सजालकं गवाक्षाढ्यमाप्तवर्गनिषेवितम् ||१२||
विकक्षसृष्टसंसृष्टं सवितानं कृतार्चनम् |
परीक्षितस्त्रीपुरुषं भवेच्चापि महानसम् ||१३||
तदेव महानसं कीदृशं कार्यमित्याह- प्रशस्तेत्यादि| प्रशस्ता दिक् अत्राग्नेयी, देशस्तु प्रशस्तगुणसम्पदा युक्तः, महत् विस्तीर्णं, शुचि अनुपहतं, सजालकं जालकसंहितं, गवाक्षाढ्यं वातायनसमृद्धं, विकक्षसृष्टसंसृष्टं विगततृणस्थानसम्पर्कं, एतेन रसवतीसमीपे तृणसञ्चयो न करणीय इत्युक्तं भवति, सवितानं वितानकसहितं, कृतार्चनं कृताग्निपूजनम्||१२-१३||
Adhikarana 7 (14) · Śloka 14
तत्राध्यक्षं नियुञ्जीत प्रायो वैद्यगुणान्वितम् |१४|
महानसव्यापारिणमाह- तत्राध्यक्षमित्यादि| अध्यक्षम् अधिपतिम्| वैद्यगुणान्वितं वैद्यगुणैः कुलीनधार्मिकत्वादिभिर्युक्तमित्यर्थः|१४|-
Adhikarana 8 (14-15) · Śloka 16
शुचयो दक्षिणा दक्षा विनीताः प्रियदर्शनाः ||१४||
संविभक्ताः सुमनसो नीचकेशनखाः स्थिराः |
स्नाता दृढं संयमिनः कृतोष्णीषाः सुसंयताः ||१५||
तस्य चाज्ञाविधेयाः स्युर्विविधाः परिकर्मिणः |१६|
शुचय इत्यादि| दक्षिणा अभिजाताः, कुलीना इति यावत्| दक्षाः चतुराः| विनीता विनययुक्ताः, शक्तिवन्त इत्यर्थः| संविभक्ताः विभज्य कर्मणि नियोजिताः| स्थिरा अचपलाः| दृढं संयमिनः सोपशमा इत्यर्थः| सुसंयताः सुष्ठु लौल्यादिदोषरहिताः, आयत्तपरिधानादिका वा इत्यर्थः| आज्ञाविधेया आदेशकारिणः| परिकर्मिणः सूपकारादयः||१४-१५||-
Adhikarana 9 (16) · Śloka 17
आहारस्थितयश्चापि भवन्ति प्राणिनो यतः ||१६||
तस्मान्महानसे वैद्यः प्रमादरहितो भवेत् |१७|
महानसे वैद्यस्य सावधानत्वं सहेतुकमाह- आहारस्थितय इत्यादि||१६||-
Adhikarana 10 (17) · Śloka 18
माहानसिकवोढारः सौपौदनिकपौपिकाः ||१७||
भवेयुर्वैद्यवशगा ये चाप्यन्येऽत्र केचन |१८|
तेषां परिकर्मिणां वैद्याधीनत्वमाह- माहानसिकवोढार इत्यादि| महानसे नियुक्ता माहानसिका रसवतीपतय इत्यर्थः; वोढारो वोढ्रादयो वेष्टिकर्मकराः काहारादयो वा| सौपा उपकरणभूतद्रव्यसाधकाः सूपव्यञ्जनादिकारकाः, औदनिका उपकार्यभूतभक्तस्य साधकाः, पौपिकाः पूपादिभक्ष्याणां साधकाः कन्दूका इत्यर्थः| अन्येऽत्र केचनेति वेसवारकारकादयः||१७||-
Adhikarana 11 (18-22) · Śloka 23
इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः ||१८||
विद्याद्विषस्य दातारमेभिर्लिङ्गैश्च बुद्धिमान् |
न ददात्युत्तरं पृष्टो विवक्षन् मोहमेति च ||१९||
अपार्थं बहु सङ्कीर्णं भाषते चापि मूढवत् |
स्फोटयत्यङ्गुलीर्भूमिमकस्माद्विलिखेद्धसेत् ||२०||
वेपथुर्जायते तस्य त्रस्तश्चान्योऽन्यमीक्षते |
क्षामो विवर्णवक्त्रश्च नखैः किञ्चिच्छिनत्त्यपि ||२१||
आलभेतासकृद्दीनः करेण च शिरोरुहान् |
निर्यियासुरपद्वारैर्वीक्षते च पुनः पुनः ||२२||
वर्तते विपरीतं तु विषदाता विचेतनः |२३|
तदधिकृतस्यैव विषदातृज्ञानमुद्दिशन्नाह- इङ्गितज्ञ इत्यादि| इङ्गितज्ञो वैद्यः| एभिर्लिङ्गैः वक्ष्यमाणैः| विवक्षन् वक्तुमिच्छन्| अपार्थं निरर्थकम्| त्रस्तश्चान्योन्यमीक्षत इति स्वपापकर्मोपलम्भभयेन अन्यमन्यमीक्षत इति| क्षामः क्षीणः| विवर्णो मलिनवर्णः| हस्तेन केशान् आलभेत स्पृशेत्| असकृत् अनेकवारम्| दीनो विलक्षः| निर्यियासुः निर्यातुमिच्छुः| अपद्वारैः अमार्गैः||१८-२२||-
Adhikarana 12 (23-24) · Śloka 24
केचिद्भयात् पार्थिवस्य त्वरिता वा तदाज्ञया ||२३||
असतामपि सन्तोऽपि चेष्टां कुर्वन्ति मानवाः |
तस्मात् परीक्षणं कार्यं भृत्यानामादृतैर्नृपैः ||२४||
विषदपरीक्षणे च राज्ञा आदरपरेण भवितव्यमितीममर्थं सहेतुकं प्रतिपादयन्नाह- केचिदित्यादि| असतामपि असाधूनामपि| आदृतैः सादरैरित्यर्थः||२३-२४||
Adhikarana 13 (25-27) · Śloka 27
अन्ने पाने दन्तकाष्ठे तथाऽभ्यङ्गेऽवलेखने |
उत्सादने कषाये च परिषेकेऽनुलेपने ||२५||
स्रक्षु वस्त्रेषु शय्यासु कवचाभरणेषु च |
पादुकापादपीठेषु पृष्ठेषु गजवाजिनाम् ||२६||
विषजुष्टेषु चान्येषु नस्यधूमाञ्जनादिषु |
लक्षणानि प्रवक्ष्यामि चिकित्सामप्यनन्तरम् ||२७||
येष्वधिष्ठानेषु गरविषं प्रयच्छन्ति तान्यदूषितानि रक्षितुं, दूषितेषु चिकित्सार्थं च लक्षणानि निर्देष्टुकामः प्राह- अन्न इत्यादि| दन्तकाष्ठसहचरितं जिह्वानिर्लेखनं मुखशोधनकषायश्च दन्तकाष्ठग्रहणेन गृह्यते| अवलेखने कङ्कतिकादौ केशप्रसाधने| उत्साहने उद्वर्तने| परिषेके स्नाने| कषायोऽत्र रोध्रादिकस्तैलापनयनाय| स्रक्षु पुष्पमालासु| कवचं सन्नाहम्| पादपीठेषु पादाधारेषु| विषजुष्टेषु चान्येष्विवत्यनेन शिरोभ्यङ्गशिरस्त्राणादयो गृह्यन्ते||२५-२७||
Adhikarana 14 (28-33) · Śloka 34
नृपभक्ताद्बलिं न्यस्तं सविषं भक्षयन्ति ये |
तत्रैव ते विनश्यन्ति मक्षिकावायसादयः ||२८||
हुतभुक् तेन चान्नेन भृशं चटचटायते |
मयूरकण्ठप्रतिमो जायते चापि दुःसहः ||२९||
भिन्नार्चिस्तीक्ष्णधूमश्च नचिराच्चोपशाम्यति |
चकोरस्याक्षिवैराग्यं जायते क्षिप्रमेव तु ||३०||
दृष्ट्वाऽन्नं विषसंसृष्टं म्रियन्ते जीवजीवकाः |
कोकिलः स्वरवैकृत्यं क्रौञ्चस्तु मदमृच्छति ||३१||
हृष्येन्मयूर उद्विग्नः क्रोशतः शुकसारिके |
हंसः क्ष्वेडति चात्यर्थं भृङ्गराजस्तु कूजति ||३२||
पृषतो विसृजत्यश्रुं विष्ठां मुञ्चति मर्कटः |
सन्निकृष्टांस्ततः कुर्याद्राज्ञस्तान् मृगपक्षिणः ||३३||
वेश्मनोऽथ विभूषार्थं रक्षार्थं चात्मनः सदा |३४|
रसरूपादिभिस्तल्लिङ्गमुद्दिशन्नाह- नृपभक्तादित्यादि| नृपभक्तात् राजभोजनात्| हुतभुगित्यादि| हुतभुक् वह्निः| तेन सविषेणान्नेन चटचटायत इति शब्देन विषज्ञानं; मयूरकण्ठप्रतिम इति रूपेण विषज्ञानं; तीक्ष्णधूमश्चेति गन्धेन विषज्ञानं; रसेन विषज्ञानं विनश्यन्ति मक्षिकावायसादय इत्यनेनाभिहितम्| एवं शब्दादिभिः पञ्चभि(चतुर्भि)र्विषज्ञानं प्रतिपाद्यापरेणापि प्रकारेण चकोरादिपक्षिमृगचक्षुरादिविकारेण विषज्ञानमुद्दिशति- चकोरस्येत्यादि| अक्षिवैराग्यं रूपग्रहणेऽलसत्वमिति गयी, विगतरागे अक्षिणी भवत इति सङ्ग्रहारुणौ| जीवजीवकः पक्षिविशेषः, `क्रुरिच’ इति लोके| मदमृच्छति हर्षं यातीत्यर्थः| हृष्येन्मयूर उद्विग्न इति उद्विग्नः चलितः सन् मयूरो हृष्येत् तुष्येदित्यर्थः; विजिरिह चलनार्थो न भयार्थः; परस्परविरोधात्| क्रोशतः शुकसारिके इति भयाद्रोदनशब्दं कुरुत इत्यर्थः| हंसः क्ष्वेडति चात्यर्थमिति अतिशयेन शब्दायत इत्यर्थः| भृङ्गराजस्तु कूजतीति भृङ्गराजो भ्रमरको धूम्याटसदृशः पक्षिराज इति लोके, कूजति अव्यक्तं शब्दायते| पृषतः चित्रबिन्दुः, `चित्तल’ इति लोके||२८-३३||-
Adhikarana 15 (34-36) · Śloka 36
उपक्षिप्तस्य चान्नस्य बाष्पेणोर्ध्वं प्रसर्पता ||३४||
हृत्पीडा भ्रान्तनेत्रत्वं शिरोदुःखं च जायते |
तत्र नस्याञ्जने कुष्ठं लामज्जं नलदं मधु ||३५||
कुर्याच्छिरीषरजनीचन्दनैश्च प्रलेपनम् |
हृदि चन्दनलेपस्तु तथा सुखमवाप्नुयात् ||३६||
विषदूषितस्यान्नस्य भोक्तुं दत्तस्य बाष्पोष्मणाऽन्तर्गतेन बाह्येन च किं स्यात्तदाह- उपक्षिप्तस्येत्यादि| उपक्षिप्तस्य भोक्तुं दत्तस्यान्नस्य बाष्पेणोर्ध्वं प्रसर्पता गच्छता हृत्पीडादिकं जायते| नलदं मांसी, लामज्जम् उशीरभेदः| अन्तःप्रविष्टे बाष्पे नस्याञ्जनयोर्विषयः| कुर्यादित्यादि| चन्दनं रक्तं शुक्लं वा| एतौ लेपौ बाह्येन बाष्पस्पर्शेन जाते हृत्पीडादौ ज्ञेयौ| उपक्षिप्तस्येत्यत्र `उखाक्षिप्तस्य’ इति केचित् पठन्ति; उखा स्थाली||३४-३६||
Adhikarana 16 (37) · Śloka 37
पाणिप्राप्तं पाणिदाहं नखशातं करोति च |
अत्र प्रलेपः श्यामेन्द्रगोपासोमोत्पलानि च ||३७||
पाणिप्राप्तमित्यादि- नखशातं नखपातनम्| श्यामा श्यामालता, प्रियङ्गुरित्यपरे; इन्द्रा इन्द्रवारुणी; गोपा सुगन्धमूला सारिवा; `इन्द्रगोप’ इत्यन्ये पठन्ति, तत्रेन्द्रगोपः कीटविशेषः; सोमा गुडूची, सोमलतेत्यन्ये; उत्पलं नीलोत्पलम्||३७||
Adhikarana 17 (38-39) · Śloka 39
स चेत् प्रमादान्मोहाद्वा तदन्नमुपसेवते |
अष्ठीलावत्ततो जिह्वा भवत्यरसवेदिनी ||३८||
तुद्यते दह्यते चापि श्लेष्मा चास्यात् प्रसिच्यते |
तत्र बाष्पेरितं कर्म यच्च स्याद्दान्तकाष्ठिकम् ||३९||
स चेदित्यादि| अष्ठीला दीर्घवर्तुलपाषाणविशेषः, अन्ये पुनः अष्ठीलवदिति पठन्ति, अष्ठीलशब्दोऽकारान्तोऽप्यस्तीति मन्तव्यम्| बाष्पेरितं कर्मेति यत् सविषबाष्पसम्पर्के `कुर्याच्छिरीषरजनी’ इत्यादिभिः प्रोक्तं कर्म; दान्तकाष्ठिकमिति धातकीपुष्पादिभिः प्रतिसारणं; तच्च प्रतिसारणमप्रच्छिते शोफे विधेयम्||३८-३९||
Adhikarana 18 (40-41) · Śloka 41
मूर्च्छां छर्दिमतीसारमाध्मानं दाहवेपथू |
इन्द्रियाणां च वैकृत्यं कुर्यादामाशयं गतम् ||४०||
तत्राशु मदनालाबुबिम्बीकोशातकीफलैः |
छर्दनं दध्युदश्विद्भ्यामथवा तण्डुलाम्बुना ||४१||
मूर्च्छामित्यादि| अलाबुः तिक्तालाबुः; कोशातकी घोषकः, घुसेण्डिकेति लोके| उदश्वित् तक्रम्||४०-४१||
Adhikarana 19 (42-43) · Śloka 43
दाहं मूर्च्छामतीसारं तृष्णामिन्द्रियवैकृतम् |
आटोपं पाण्डुतां कार्श्यं कुर्यात् पक्वाशयं गतम् ||४२||
विरेचनं ससर्पिष्कं तत्रोक्तं नीलिनीफलम् |
दध्ना दूषीविषारिश्च पेयो वा मधुसंयुतः ||४३||
दाहमित्यादि| आटोपं वातादीनामप्रवृत्तिम्| तत्रोक्तमिति तत्र विषभेषजकल्पे| नीलिनीफलं नीलाञ्जनिकाफलं, यस्य श्रीफलेति लोके प्रसिद्धिः| पिप्पल्यो ध्यामकमित्यादिदूषीविषारिर्वक्ष्यमाणः; दूषीविषारिश्चाक्षप्रमाणः, दधि पानयोग्यप्रमाणं ज्ञेयं, मधु अष्टमाषकप्रमितं प्रक्षिप्य दध्ना दूषीविषारिः पातव्यः| वाशब्दश्च प्रथमोक्तविरेचनयोगापेक्षया समुच्चये||४२-४३||
Adhikarana 20 (44-45) · Śloka 45
द्रवद्रव्येषु सर्वेषु क्षीरमद्योदकादिषु |
भवन्ति विविधा राज्यः फेनबुद्बुदजन्म च ||४४||
छायाश्चात्र न दृश्यन्ते दृश्यन्ते यदि वा पुनः |
भवन्ति यमलाश्छिद्रास्तन्व्यो वा विकृतास्तथा ||४५||
द्रवद्रव्येषु क्षीरादिषु यत् स्थूलं लक्षणं तदाह- द्रवद्रव्येष्वित्यादि| विविधा राज्यो नानाप्रकारा लेखाः| विविधा राज्यः श्रीवाग्भटेन व्याख्याताः, तथा च,- “नीला राजी रसे ताम्रा क्षीरे दधनि दृश्यते| श्यावा पीताऽसिता तक्रे घृते पानीयसन्निभा|| काली मद्याम्भसोः क्षौद्रे हरित्तैलेऽरुणोपमा” इति| फेनेत्यादि फेनस्य बुद्बुदस्य चोत्पत्तिरित्यर्थः| यमला युग्माः| छिद्राः ससुषिराः| तन्व्यः सूक्ष्माः| गयी तु तन्व्य इत्यत्र `अन्या’ इति पठित्वा व्याख्याति- अन्यतरेषां पशूनामिव छायाः| विकृताः सौम्यस्यापि रौद्राः, रौद्रस्यापि सौम्याः||४४-४५||
Adhikarana 21 (46-47) · Śloka 47
शाकसूपान्नमांसानि क्लिन्नानि विरसानि च |
सद्यः पर्युषितानीव विगन्धानि भवन्ति च ||४६||
गन्धवर्णरसैर्हीनाः सर्वे भक्ष्याः फलानि च |
पक्वान्याशु विशीर्यन्ते पाकमामानि यान्ति च ||४७||
शाकेत्यादि| चकारोऽनुक्तसमुच्चयार्थः; तेन तिक्तानि च भवन्तीत्यर्थः| गन्धवर्णरसैरित्यादि| गन्धवर्णरसैरित्यत्र स्पर्शग्रहणं लुप्तनिर्दिष्टं द्रष्टव्यं, तेन स्पर्शेनापि हीना भवन्तीत्यर्थः| पक्वान्याशु विशीर्यन्त इति पक्वानि फलान्याशु शीघ्रं विशीर्यन्ते पूतिभावं गच्छन्ति||४६-४७||
Adhikarana 22 (48-50) · Śloka 50
विशीर्यते कूर्चकस्तु दन्तकाष्ठगते विषे |
जिह्वादन्तौष्ठमांसानां श्वयथुश्चोपजायते ||४८||
अथास्य धातकीपुष्पपथ्याजम्बूफलास्थिभिः |
सक्षौद्रैः प्रच्छिते शोफे कर्तव्यं प्रतिसारणम् ||४९||
अथवाऽङ्कोठमूलानि त्वचः सप्तच्छदस्य वा |
शिरीषमाषका वाऽपि सक्षौद्राः प्रतिसारणम् ||५०||
विशीर्यत इत्यादि| कूर्चको दन्तकाष्ठस्याग्रिमो भागः| विशीर्यते त्रुट्यति| अथास्य धातकीत्याद्येको योगः, प्रतिसारणं घर्षणं; अथवाऽङ्कोठेत्यादिर्द्वितीयो योगः; शिरीषमाषका वाऽपीत्यादिस्तृतीयो योगः; सप्तच्छदत्वचः पृथग्योग इति गयी, तदा चत्वारो योगाः| शिरीषमाषकाः शिरीषबीजानि||४८-५०||
Adhikarana 23 (51) · Śloka 51
जिह्वानिर्लेखकवलौ दन्तकाष्ठवदादिशेत् |५१|
जिह्वेत्यादि| जिह्वानिर्लेखनस्य कवलस्य च विषदूषितस्य लिङ्गानि चिकित्सितं च दन्तकाष्ठस्येव ब्रूयात्|५१|-
Adhikarana 24 (51-54) · Śloka 54
पिच्छिलो बहुलोऽभ्यङ्गो विवर्णो वा विषान्वितः ||५१||
स्फोटजन्मरुजास्रावत्वक्पाकः स्वेदनं ज्वरः |
दरणं चापि मांसानामभ्यङ्गे विषसंयुते ||५२||
तत्र शीताम्बुसिक्तस्य कर्तव्यमनुलेपनम् |
चन्दनं तगरं कुष्ठमुशीरं वेणुपत्रिका ||५३||
सोमवल्ल्यमृता श्वेता पद्मं कालीयकं त्वचम् |
कपित्थरसमूत्राभ्यां पानमेतच्च युज्यते ||५४||
पिच्छिल इत्यादि| अभ्यङ्गः अभ्यत्राभ्यञ्जनद्रव्यं तैलादि| बहलो घनः| वेणुपत्रिका वंशपत्राणि; अन्ये वेणुपत्रिकां वंशसदृशपत्रिकां द्रव्यान्तरमाहुः| सोमवल्ली गुडूची| अमृता अमृतासङ्गः खर्परिकातुत्थकं, उत्तरपदलोपात्| श्वेता श्वेतस्यन्दः| कालीयकं दारुहरिद्रा| त्वचं वराङ्गम्| इदमनुलेपनं शीततोयेन| मूत्रं गोमूत्रम्| एतच्चेति चन्दनादिकम्||५१-५४||
Adhikarana 25 (55) · Śloka 55
उत्सादने परीषेके कषाये चानुलेपने |
शय्यावस्त्रतनुत्रेषु ज्ञेयमभ्यङ्गलक्षणैः ||५५||
उत्सादन इत्यादि| तनुत्रे सन्नाहे| उत्सादनादिषु सप्तसु अभ्यङ्गलक्षणानुवादेन लिङ्गं तथा चिकित्सितमपि तत्रोक्तमेव वेदितव्यम्||५५||
Adhikarana 26 (56-58) · Śloka 58
केशशातः शिरोदुःखं खेभ्यश्च रुधिरागमः |
ग्रन्थिजन्मोत्तमाङ्गेषु विषजुष्टेऽवलेखने ||५६||
प्रलेपो बहुशस्तत्र भाविताः कृष्णमृत्तिकाः |
ऋष्यपित्तघृतश्यामापालिन्दीतण्डुलीयकैः ||५७||
गोमयस्वरसो वाऽपि हितो वा मालतीरसः |
रसो मूषिकपर्ण्या वा धूमो वाऽगारसम्भवः ||५८||
केशशात इत्यादि| ऋष्यपित्तघृतश्यामादिस्वरसैः सप्ताहं भावितया कृष्णमृदा बहुशः प्रलेपो हित इत्यर्थः| ऋष्यो नीलाण्डः `रोरु’ इति प्रसिद्धः| कालखण्डलग्ननलिकामध्यगतजलं पित्तम्| श्यामा प्रियङ्गुः, पालिन्दी त्रिवृत्, मूषिकपर्णी द्रवन्ती, द्रव्यान्तरमित्यन्ये| प्रलेपशब्दो गोमयस्य रसो वेत्यत्र हितशब्देन सह सम्बन्धनीयः; तेन गोमयरसादिप्रलेपो वा हितो भवतीति सम्बन्धः स्यात्||५६-५८||
Adhikarana 27 (59) · Śloka 59
शिरोऽभ्यङ्गः शिरस्त्राणं स्नानमुष्णीषमेव च |
स्रजश्च विषसंसृष्टाः साधयेदवलेखनात् ||५९||
इदानीं शिरोगतावलेखनप्रसङ्गेन शिरोगतानामन्येषामपि लिङ्गं चिकित्सितं च दर्शयन्नाह- शिरोऽभ्यङ्ग इत्यादि| अवलेखनादिति अवलेखनोक्तलिङ्गचिकित्सितात्||५९||
Adhikarana 28 (60-61) · Śloka 61
मुखालेपे मुखं श्यावं युक्तमभ्यङ्गलक्षणैः |
पद्मिनीकण्टकप्रख्यैः कण्टकैश्चोपचीयते ||६०||
तत्र क्षौद्रघृतं पानं प्रलेपश्चन्दनं घृतम् |
पयस्या मधुकं फञ्जी बन्धुजीवः पुनर्नवा ||६१||
मुखालेप इत्यादि| पयस्या अर्कपुष्पी| फञ्जी भार्गी| बन्धुजीवो मध्याह्नपुष्पकः| तत्र मुखालेपे अतुल्ययोर्मधुघृतयोः पानं, श्वेतचन्दनघृतादिभिः पुनर्नवान्तैर्लेपः||६०-६१||
Adhikarana 29 (62) · Śloka 63
अस्वास्थ्यं कुञ्जरादीनां लालास्रावोऽक्षिरक्तता |
स्फिक्पायुमेढ्रमुष्केषु यातुश्च स्फोटसम्भवः ||६२||
तत्राभ्यङ्गवदेवेष्टा यातृवाहनयोः क्रिया |६३|
इदानीं कुञ्जरादीनां विषजुष्टानां लक्षणं चिकित्सितं चोद्दिशन्नाह- अस्वास्थ्यमित्यादि| यातुः आरोहकस्य| यातृवाहनयोः क्रियेति अत्र यातृशब्द आरोहकपर्यायः||६२||-
Adhikarana 30 (63-64) · Śloka 65
शोणितागमनं खेभ्यः शिरोरुक्कफसंस्रवः ||६३||
नस्यधूमगते लिङ्गमिन्द्रियाणां च वैकृतम् |
तत्र दुग्धैर्गवादीनां सर्पिः सातिविषैः शृतम् ||६४||
पाने नस्ये च सश्वेतं हितं समदयन्तिकम् |६५|
शोणितागमनमित्यादि| सश्वेतं वचासहितं; गयी तु श्वेतां कटभीमाह| समदयन्तिकं मल्लिकासहितम्| गवादीनां क्षीरैरतिविषाकल्कसिद्धं घृतं पाने हितं नस्ये च| मदयन्तिकावचाकल्केन सिद्धं हितमित्यर्थः||६३-६४||-
Adhikarana 31 (65-66) · Śloka 66
गन्धहानिर्विवर्णत्वं पुष्पाणां म्लानता भवेत् ||६५||
जिघ्रतश्च शिरोदुःखं वारिपूर्णे च लोचने |
तत्र बाष्पेरितं कर्म मुखालेपे च यत् स्मृतम् ||६६||
गन्धहानिरित्यादि||६५-६६||
Adhikarana 32 (67-68) · Śloka 68
कर्णतैलगते श्रोत्रवैगुण्यं शोफवेदने |
कर्णस्रावश्च तत्राशु कर्तव्यं प्रतिपूरणम् ||६७||
स्वरसो बहुपुत्रायाः सघृतः क्षौद्रसंयुतः |
सोमवल्करसश्चापि सुशीतो हित इष्यते ||६८||
कर्णेत्यादि| बहुपुत्रा शतावरी; बहुपत्राया इति केचित् पठन्ति, ते च व्याख्यानयन्ति- बहुपत्रा मयूरशिखा| सोमवल्कः कट्फलः, तद्रसः कर्णपूरणे||६७-६८||
Adhikarana 33 (69-71) · Śloka 72
अश्रूपदेहो दाहश्च वेदना दृष्टिविभ्रमः |
अञ्जने विषसंसृष्टे भवेदान्ध्यमथापि च ||६९||
तत्र सद्यो घृतं पेयं तर्पणं च समागधम् |
अञ्जनं मेषशृङ्गस्य निर्यासो वरुणस्य च ||७०||
मुष्ककस्याजकर्णस्य फेनो गोपित्तसंयुतः |
कपित्थमेषशृङ्ग्योश्च पुष्पं भल्लातकस्य वा ||७१||
एकैकं कारयेत् पुष्पं बन्धूकाङ्कोटयोरपि |७२|
अश्रूपदेह इत्यादि| उपदेहो मलवृद्धिः| सद्यो घृतमित्यत्र जेज्जटस्तु सद्य एव घृतं पेयमिति व्याख्यानयति| समागधमिति आवर्तितक्षीरसाधितपिप्पलीकल्कसिद्धं घृतं तर्पणमिति वृद्धवाग्भटः| तर्पणम् अक्षितर्पणं, तदेव सपिप्पलीकं पेयं पानार्हम्| तथैव मेषशृङ्गीरसेनाञ्जनम्| एवं वरुणादीनां रसेन पृथक् पृथगञ्जनम्| मुष्ककः कालमुष्ककः| अजकर्णः सर्जः पूर्वदेशे प्रसिद्धः| फेनः समुद्रफेनः| गोपित्तं गोरोचना| कपित्थादीनां प्रत्येकं पुष्पमञ्जनं, न समुदितानाम्||६९-७१||-
Adhikarana 34 (72-73) · Śloka 73
शोफः स्रावस्तथा स्वापः पादयोः स्फोटजन्म च ||७२||
भवन्ति विषजुष्टाभ्यां पादुकाभ्यामसंशयम् |
उपानत्पादपीठानि पादुकावत् प्रसाधयेत् ||७३||
शोफ इत्यादि| स्वापः स्पर्शाज्ञानम्| उपानदित्यादि| पादुकावत् प्रसाधयेत् लक्षणतः प्रतीकारतश्च||७२-७३||
Adhikarana 35 (74) · Śloka 75
भूषणानि हतार्चींषि न विभान्ति यथा पुरा |
स्वानि स्थानानि हन्युश्च दाहपाकावदारणैः ||७४||
पादुकाभूषणेषूक्तमभ्यङ्गविधिमाचरेत् |७५|
भूषणानीत्यादि| हतार्चींषि तेजोरहितानि||७४||-
Adhikarana 36 (75-78) · Śloka 79
विषोपसर्गो बाष्पादिर्भूषणान्तो य ईरितः ||७५||
समीक्ष्योपद्रवांस्तस्य विदधीत चिकित्सितम् |
महासुगन्धिमगदं यं प्रवक्ष्यामि तं भिषक् ||७६||
पानालेपननस्येषु विदधीताञ्जनेषु च |
विरेचनानि तीक्ष्णानि कुर्यात् प्रच्छर्दनानि च ||७७||
सिराश्च व्यधयेत् क्षिप्रं प्राप्तं विस्रावणं यदि |
मूषिकाऽजरुहा वाऽपि हस्ते बद्धा तु भूपतेः ||७८||
करोति निर्विषं सर्वमन्नं विषसमायुतम् |७९|
आवस्थिकीं क्रियां निर्दिशन्नाह- विषोपसर्ग इत्यादि| उपद्रवान् वीक्ष्य चिकित्सितं विदधीतेत्याह- महासुगन्धिमित्यादि| महासुगन्धिस्तु `चन्दनागरुणी कुष्ठं’ इत्यादि यावत् `महासुगन्धिनामैष पञ्चाशीत्यङ्गसम्भवः’ इति| विदधीताञ्जनेषु चेति बहुवचनाद्गुडिकाचूर्णरसक्रियारूपेषु; चकारेण परिषेककवलादिष्वपि| आशयानुरोधेन चिकित्सां निर्दिशन्नाह- विरेचनानीत्यादि| प्राप्तं युक्तम्| इदानीं प्रभावकृतं चिकित्सितं निर्दिशन्नाह- मूषिकेत्यादि| अजरुहालक्षणमुशनसा प्रोक्तम्- “कन्दः श्वेतः सपिडको भेदे चाञ्जनसन्निभः| गन्धलेपनपानैस्तु विषं जरयते नृणाम्|| दष्टानां विषपीतानां ये चान्ये विषमोहिताः| विषं जरयते तेषां तस्मादजरुहा स्मृता|| मूषिका लोमशा कृष्णा भवेत् साऽपि च तद्गुणा”- इति||७५-७८||-
Adhikarana 37 (79-81) · Śloka 81
हृदयावरणं नित्यं कुर्याच्च मित्रमध्यगः ||७९||
पिबेद्धृतमजेयाख्यममृताख्यं च बुद्धिमान् |
सर्पिर्दधि पयः क्षौद्रं पिबेद्वा शीतलं जलम् ||८०||
मयूरान्नकुलान् गोधाः पृषतान् हरिणानपि |
सततं भक्षयेच्चपि रसांस्तेषां पिबेदपि ||८१||
शरीरे विषव्याप्तिप्रतिषेधमभिधायेदानीं चिते विषव्याप्तिप्रतिषेधमाह- हृदयावरणमित्यादि| हृदयावरणं हृदयप्रच्छादनं हृदयरक्षाकारिभिर्मूषिकाजरुहामृताजेयपुराणघृतदूषीविषारिमहासुगन्धिशिम्बीयूषतीक्ष्णविषघ्नधारणादिभिः| मधुकं कुष्ठमित्यादिकमजेयाख्यं, अपामार्गस्य बीजानि पिप्पलीरित्याद्यमृतं घृतं, सर्पिरादीनि प्रत्येकं चत्वारि पञ्च वा हृदयावरणानि पिबेदिति||७९-८१||
Adhikarana 38 (82-84) · Śloka 84
गोधानकुलमांसेषु हरिणस्य च बुद्धिमान् |
दद्यात् सुपिष्टां पालिन्दीं मधुकं शर्करां तथा ||८२||
शर्करातिविषे देये मायूरे समहौषधे |
पार्षते चापि देयाः स्युः पिप्पल्यः समहौषधाः ||८३||
सक्षौद्रः सघृतश्चैव शिम्बीयूषो हितः सदा |
विषघ्नानि च सेवेत भक्ष्यभोज्यानि बुद्धिमान् ||८४||
गोधादिमांसानां संस्कारयौगिकं विशेषं निर्दिशन्नाह- गोधेत्यादि| मधुकमक्षमात्रं दद्यात्| पालिन्दी त्रिवृत्| शर्करेत्यादि| मयूरस्य मांसे तस्य रसे च सुपिष्टे शर्करातिविषे सशुण्ठ्यौ देये| पार्षत इत्यादि| पृषतस्य मांसे रसे च पिप्पल्यः सनागराः सुपिष्टा देयाः| सक्षौद्र इत्यादि| अनुक्तानि चोद्दिशन्नाह- विषघ्नानीत्यादि| विषघ्नानि विषघ्नैर्द्रव्यैः सह सिद्धानि||८२-८४||
Adhikarana 39 (85) · Śloka 85
पिप्पलीमधुकक्षौद्रशर्करेक्षुरसाम्बुभिः |
छर्दयेद्गुप्तहृदयो भक्षितं यदि वै विषम् ||८५||
आवृतगुप्तहृदयस्य पीतविषस्य शेषं निर्दिशन्नाह- पिप्पलीत्यादि| शर्करेक्षुरसाम्बूनि त्रीणि द्रवाणि, पिप्पलीमधुकं कल्कं, क्षौद्रमिति प्रक्षेपः| गुप्तहृदयो विषघ्नैः प्रच्छादितहृदयः||८५||
Adhikarana puShpikA · Śloka 1
इति सुश्रुतसंहितायां कल्पस्थानेऽन्नपानरक्षाकल्पो नाम प्रथमोऽध्यायः ||१||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतटीकायां कल्पस्थाने प्रथमोऽध्यायः||१||