Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

8. kīṭakalpaḥ

Adhikarana 1 (1-4) · Śloka 4

अथातः कीटकल्पं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| सर्पाणां शुक्रविण्मूत्रशवपूत्यण्डसम्भवाः | वाय्वग्न्यम्बुप्रकृतयः कीटास्तु विविधाः स्मृताः ||३|| सर्वदोषप्रकृतिभिर्युक्तास्ते परिणामतः | कीटत्वेऽपि सुघोराः स्युः, सर्व एव चतुर्विधाः ||४||

🔊 Audio coming soon

तत्र कीटान् हेतुलक्षणसङ्ख्याकर्मचिकित्सितैर्निर्दिशन्नाह- सर्पाणामित्यादि| सर्पाणां दर्वीकरमण्डलिराजिमतां शुक्रादिपञ्चसम्भवा यथासङ्ख्यं वाय्वग्न्यम्बुप्रकृतयः कीटाः| शवो मृतसर्पशरीरं, तस्य पूतिः शटनम्| त्रीन् कीटान् दर्वीकरमण्डलिराजिलसम्बन्धेन वाय्वादिप्रकृतिक्रमान्निर्दिश्य चतुर्थं स्वभावेन कर्मणा च निर्दिशन्नाह- सर्वदोषेत्यादि| सर्वदोषस्वभावैर्युक्ताः; परिणामतः परिणामो नाम भिन्नजातीयैरनेकैरेकीभावेन कार्यस्यारम्भः, स चात्र दर्वीकरादिभिन्नजातीयैर्वैकरञ्जाख्यापत्योत्पादनलक्षणः, तस्मात्| सुघोराः त्रिदोषकोपनाः, वैकरञ्जसर्पजातिशुक्रादिसम्भवत्वेन| एकीकृत्य सङ्ख्यामाह- सर्व एवेत्यादि||१-४||

Adhikarana 2 (5-7) · Śloka 8

कुम्भीनसस्तुण्डिकेरी शृङ्गी शतकुलीरकः | उच्चिटिङ्गोऽग्निनामा च चिच्चिटिङ्गो मयूरिका ||५|| आवर्तकस्तथोरभ्रः सारिकामुखवैदलौ | शरावकुर्दोऽभीराजिः परुषश्चित्रशीर्षकः ||६|| शतबाहुश्च यश्चापि रक्तराजिश्च कीर्तितः | अष्टादशेति वायव्याः कीटाः पवनकोपनाः ||७|| तैर्भवन्तीह दष्टानां रोगा वातनिमित्तजाः |८|

🔊 Audio coming soon

तानेव चतुःप्रकारान् वातादिस्वभावैर्निर्दिशन्नाह - कुम्भीनस इत्यादि| एते कीटकभेदा नानादेशीयलोकादवगन्तव्याः, यतः सुवीरनन्दिवराहजेज्जटगयदासादिभिः टीकाकारैर्न व्याख्याताः| वातनिमित्तजा रोगास्तोदादयो ज्वरादयश्च| वातप्रकोपणानां कुम्भीनसादीनां मध्ये शृङ्ग्युच्चिटिङ्गशरावकुर्दचित्रशीर्षकान् वर्जयित्वा शेषाश्चतुर्दश मुखसन्दंशविषाः||५-७||-

Adhikarana 3 (8-11) · Śloka 12

कौण्डिन्यकः कणभको वरटी पत्रवृश्चिकः ||८|| विनासिका ब्राह्मणिका बिन्दुलो भ्रमरस्तथा | बाह्यकी पिच्चिटः कुम्भी वर्चःकीटोऽरिमेदकः ||९|| पद्मकीटो दुन्दुभिको मकरः शतपादकः | पञ्चालकः पाकमत्स्यः कृष्णतुण्डोऽथ गर्दभी ||१०|| क्लीतः कृमिसरारी च यश्चाप्युत्क्लेशकस्तथा | एते ह्यग्निप्रकृतयश्चतुर्विंशतिरेव च ||११|| तैर्भवन्तीह दष्टानां रोगाः पित्तनिमित्तजाः |१२|

🔊 Audio coming soon

कौण्डिन्यक इत्यादि| बिन्दुलस्थाने `विलुट’ इति केचित्| पित्तनिमित्तजा दाहादयो ज्वरादयश्च| पित्तप्रकोपणानां मध्ये कौण्डिन्यकवरटीभ्रमरपिच्चिटवर्चःकीटमकरशतपदपञ्चालकपाकमत्स्यकृष्णतुण्डान् विहाय शेषाश्चतुर्दश मुखसन्दंशविषाः||८-११||-

Adhikarana 4 (12-14) · Śloka 15

विश्वम्भरः पञ्चशुक्लः पञ्चकृष्णोऽथ कोकिलः ||१२|| सैरेयकः प्रचलको वलभः किटिभस्तथा | सूचीमुखः कृष्णगोधा यश्च काषायवासिकः ||१३|| कीटो गर्दभकश्चैव तथा त्रोटक एव च | त्रयोदशैते सौम्याः स्युः कीटाः श्लेष्मप्रकोपणाः ||१४|| तैर्भवन्तीह दष्टानां रोगाः कफनिमित्तजाः |१५|

🔊 Audio coming soon

विश्वम्भर इत्यादि| श्लेष्मनिमित्तजा रोगाः कण्ड्वादयो ज्वरादयश्च| श्लेष्मप्रकोपिणां मध्ये विश्वम्भरप्रचलाककृष्णगोधाकाषायवासिकांश्चतुरो वर्जयित्वा नवान्ये मुखसन्दंशविषाः||१२-१४||-

Adhikarana 5 (15-18) · Śloka 18

तुङ्गीनासो विचिलकस्तालको वाहकस्तथा ||१५|| कोष्ठागारी क्रिमिकरो यश्च मण्डलपुच्छकः | तुण्ड(ङ्ग)नाभः सर्षपिको वल्गुलिः शम्बुकस्तथा ||१६|| अग्निकीटश्च विज्ञेया द्वादश प्राणनाशनाः | तैर्भवन्तीह दष्टानां वेगज्ञानानि सर्पवत् ||१७|| तास्ताश्च वेदनास्तीव्रा रोगा वै सान्निपातिकाः | क्षाराग्निदग्धवद्दंशो रक्तपीतसितारुणः ||१८||

🔊 Audio coming soon

सर्वदोषप्रकृतिकानाह- तुङ्गीनास इत्यादि| तैः सर्वदोषप्रकृतिकैः प्राणनाशनैः कीटैः| तास्ताः तोददाहकण्ड्वादिका वेदनाः, रोगा ज्वरादयः| दंश इत्यादि| रक्तपीतः पित्तेन, सितः कफेन, अरुणो वातेन| सर्वदोषप्रकृतिकानां मध्ये वाहकसर्षपशम्बूकान् वर्जयित्वा नव मुखसन्दंशविषाः||१५-१८||

Adhikarana 6 (19-22) · Śloka 23

ज्वराङ्गमर्दरोमाञ्चवेदनाभिः समन्वितः | छर्द्यतीसारतृष्णाश्च दाहो मूर्च्छा विजृम्भिका ||१९|| वेपथुश्वासहिक्काश्च दाहः शीतं च दारुणम् | पिडकोपचयः शोफो ग्रन्थयो मण्डलानि च ||२०|| दद्रवः कर्णिकाश्चैव विसर्पाः किटिभानि च | तैर्भवन्तीह दष्टानां यथास्वं चाप्युपद्रवाः ||२१|| येऽन्ये तेषां विशेषास्तु तूर्णं तेषां समादिशेत् | दूषीविषप्रकोपाच्च तथैव विषलेपनात् ||२२|| लिङ्गं तीक्ष्णविषेष्वेत... |२३|

🔊 Audio coming soon

इदानीं चतुर्विधानपि तांस्तीक्ष्णमन्दविषभेदेन निर्दिशन्नाह- ज्वराङ्गेत्यादि| शीतं च दारुणमित्यत्र चकाराद्दाहोऽपि दारुण एव| यथास्वं यथाकीटदोषमित्यर्थः| येऽन्ये इत्यादि| तेषां तीक्ष्णविषाणां कीटानामत्रोक्तेभ्यो येऽन्ये विशेषा उपद्रवास्तेषां भेदांस्तूर्णं समादिशेदिति| तेषामिति कर्मणि षष्ठी, तेन तान् क्षिप्रं कथयेत्, कथं? दूषीविषप्रकोपात् दूषीविषप्रकोपं वीक्ष्य| यपि लुप्ते पञ्चमीयम्| तथैव विषलेपनादिति लेपनमत्राहारस्तेन विषालेपनं विषाहारं वीक्ष्येत्यर्थः||१९-२२||

Adhikarana 7 (23) · Śloka 24

...च्छृणु मन्दविषेष्वतः | प्रसेकारोचकच्छर्दिशिरोगौरवशीतकाः ||२३|| पिडकाकोठकण्डूनां जन्म दोषविभागतः |२४|

🔊 Audio coming soon

शृणु मन्दविषेष्वित्यादि| शीतको अल्पं शीतं, कोठादीनां जन्म यथा कीटदोषविभागेन||२३||-

Adhikarana 8 (24) · Śloka 25

योगैर्नानाविधैरेषां चूर्णानि गरमादिशेत् ||२४|| दूषीविषप्रकाराणां तथा चाप्यनुलेपनात् |२५|

🔊 Audio coming soon

इदानीं कीटदेहचूर्णानां नानौषधयोगात्तथाऽनुलेपनतोऽपि गरत्वमाह- योगैरित्यादि| अथालम्बायनोक्तः कीटानां सामान्यज्ञानोपायो लिख्यते,- “कृष्णाभिर्बिन्दुलेखाभिः पक्षैः पादैर्मुखैर्नखैः| शूकैः कण्टकलाङ्गूलैः संश्लिष्टैः पक्षरोमभिः| स्वनैः प्रमाणैः संस्थानैर्लिङ्गैश्चापि शरीरगैः| विषवीर्यैश्च कीटानां रूपज्ञानं विभाव्यते”- इति| तथा कतिचित् कीटा विशिष्टाकृतिवर्णादिभिस्तदुक्ता एव लिख्यन्ते,- “अजाप्रतिमरूपो यः शूकहीनस्त्वरोमशः| सितः शरकुलीरस्तु क्ष्वेडचूर्णविषः स्मृतः|| गैरिकाभो महाकीटः सपक्षो मार्जितोदरः| खेचरो गुदशूकश्च कौण्डिन्य इति स स्मृतः|| कुरण्टपुष्पवर्णाभः सपक्षो मार्जितोदरः| तुण्डशूकविषः कीटः कोष्ठागारीति सञ्ज्ञितः|| लाक्षारुधिरवर्णाभः श्वेतबिन्दुविचित्रितः| क्षुद्रको ह्यग्निसङ्काशो भ्राजते निशि चाग्निवत्|| कीटः खद्योत इत्युक्तो दष्टस्तेनापि दह्यते| दंष्ट्राविषः श्वेतबिन्दुः सपक्षः षट्पदः खगः|| स तु वै शम्बूको नाम कालकः सप्तमण्डलः| चतुष्पादो दीर्घपत्र उल्ललाटो बहुप्रजः|| वृक्षालयो दन्तविषः कृकलास इति स्मृतः| चन्द्राभः कृकलासोऽन्यस्तद्भेदस्तु त्रिकण्टकः”- इति| तेषां न केवलं नियमेन शूकादिदंशेन विषप्रादुर्भावः, किं तर्हि अभ्यवहारचूर्णानुलेपनैश्च दूषीविषलिङ्गप्रादुर्भाव इत्याह- “यश्चैतानत्ति चूर्णैर्वा चूर्ण्यते लिप्यतेऽथवा| मूत्रादिभिस्तस्य दूषीविषलिङ्गं समादिशेत्”- इति| जेज्जटगयदासावत्र आपातनिकापूर्वकं पाठं पठतः, स च वर्तमानपुस्तकेषु न दृश्यते||२४||-

Adhikarana 9 (25-27) · Śloka 27

एकजातीनतस्तूर्ध्वं कीटान् वक्ष्यामि भेदतः ||२५|| सामान्यतो दष्टलिङ्गैः साध्यासाध्यक्रमेण च | त्रिकण्टः करिणी चापि हस्तिकक्षोऽपराजितः | चत्वार एते कणभा व्याख्यातास्तीव्रवेदनाः ||२६|| तैर्दष्टस्य श्वयथुरङ्गमर्दो गुरुता गात्राणां दंशः कृष्णश्च भवति ||२७||

🔊 Audio coming soon

इदानीं वातपित्तकफसन्निपातप्रकृतीन् कीटान् निर्दिश्य, एकजातीयानप्येकलक्षणचिकित्सार्थं निर्दिशन्नाह- एकजातीनतस्तूर्ध्वमित्यादि| भेदत इति भेदं वीक्ष्य| त्रिकण्टकादयश्चत्वारः कणभाः; कणभत्वमेकजातित्वं, त्रिकण्टकादिस्तु भेदः, `कृकण्टक’ इति केचित्| सर्व एव कणभाश्चतुष्पदाः कीटाः साध्याश्च||२५-२७||

Adhikarana 10 (28) · Śloka 28

प्रतिसूर्यकः , पिङ्गाभासो, बहुवर्णो, निरूपमो गोधेरेक इति पञ्च गोधेरकाः ; तैर्दष्टस्य शोफो दाहरुजौ च भवतः, गोधेरकेणैतदेव ग्रन्थिप्रादुर्भावो ज्वरश्च ||२८||

🔊 Audio coming soon

प्रतिसूर्यक इत्यादि| केचित्तु प्रतिसूर्यक इत्यादिस्थाने एवं पठन्ति- “प्रतिसूर्यः पिङ्गनासो बहुलोमा महाशिराः| तथा निरूपमश्चेति पञ्च गौधेरकाः स्मृताः|| तैर्भवन्तीह दृष्टानां वेगज्ञानानि सर्पवत्| रुजश्च विविधाकारा ग्रन्थयश्च सुदारुणाः” इति| गौधेरकलक्षणं तन्त्रान्तरे,- “कृष्णसर्पेण गोधायां भवेद्यस्तु चतुष्पदः| सर्पो गौधेरको नाम तेन दष्टो न जीवति”- इति||२८||

Adhikarana 11 (29-31) · Śloka 31

गलगोलिका - श्वेता, कृष्णा, रक्तराजी, रक्तमण्डला, सर्वश्वेता, सर्षपिकेत्येवं षट्; ताभिर्दष्टे सर्षपिकावर्जं दाहशोफक्लेदा भवन्ति, सर्षपिकया हृदयपिडाऽतिसारश्च, तासु मध्ये सर्षपिका प्राणहरी ||२९|| शतपद्यस्तु- परुषा, कृष्णा, चित्रा, कपिला, पीतिका, रक्ता, श्वेता, अग्निप्रभा, इत्यष्टौ; ताभिर्दष्टे शोफो वेदना दाहश्च हृदये, श्वेताग्निप्रभाभ्यामेतदेव दाहो मूर्च्छा चातिमात्रं श्वेतपिडकोत्पत्तिश्च ||३०|| मण्डूकाः- कृष्णः, सारः, कुहको, हरितो, रक्तो, यववर्णाभो, भृकुटी, कोटिकश्चेत्यष्टौ; तैर्दष्टस्य दंशे कण्डूर्भवति पीतफेनागमश्च वक्त्रात्, भृकुटीकोटिकाभ्यामेतदेव दाहश्छर्दिर्मूर्च्छा चातिमात्रम् ||३१||

🔊 Audio coming soon

मण्डूका इत्यादि| अत्र भृकुटीकोटिकावसाध्यौ| अथ मण्डूकोत्पत्तिः भृकुटीलक्षणं च तन्त्रान्तरोक्तं पठ्यते,- “वर्षमाणे सृजेच्छुक्रं प्रावृट्काले महोरगः| ततः शरत्प्रतप्तायां भूमौ मण्डो जलस्य हि| तस्मिन् मण्डोदके जाता मण्डूकास्तेन सञ्ज्ञिताः|| मण्डूको गोगतिस्तज्ज्ञैः कोटिकः परिकीर्तितः| तेन दष्टस्य मरणं, नास्ति तस्य प्रतिक्रिया”- इति||२९-३१||

Adhikarana 12 (32) · Śloka 32

विश्वम्भराभिर्दष्टे दंशः सर्षपाकाराभिः पिडकाभिः सरुजाभिश्चीयते, शीतज्वरार्तश्च पुरुषो भवति ||३२||

🔊 Audio coming soon

विश्वम्भराभिर्दष्ट इत्यादि| विश्वम्भराश्च त्रयः||३२||

Adhikarana 13 (33) · Śloka 33

अहिण्डुकाभिर्दष्टे तोददाहकण्डुश्वयथवो भवन्ति मोहश्च; कण्डूमकाभिर्दष्टे पीताङ्गश्छर्द्यतीसारज्वरादिभिरभिहन्यते; शूकवृन्ताभिर्दष्टे कण्डूकोठाः प्रवर्धन्ते शूकं चात्र लक्ष्यते ||३३||

🔊 Audio coming soon

अहिण्डुकाभिर्दष्ट इत्यादि| अहिण्डुकाकण्डूमकशूकवृन्तानां दष्टलक्षणं केचिन्न पठन्ति, विश्वम्भराभेदत्वेन विश्वम्भराग्रहेण ग्रहणात्; अन्ये तु अहिण्डुकादीनां पृथग्दष्टलक्षणं पठन्ति, पृथक्चिकित्सितोपादानात्||३३||

Adhikarana 14 (34-38) · Śloka 38

पिपीलिकाः- स्थूलशीर्षा, संवाहिका, ब्राह्मणिका, अङ्गुलिका; कपिलिका, चित्रवर्णेति षट्; ताभिर्दष्टे दंशे श्वयथुरग्निस्पर्शवद्दाहशोफौ भवतः ||३४|| मक्षिकाः- कान्तारिका, कृष्णा, पिङ्गला, मधूलिका, काषायी, स्थालिकेत्येवं षट्; ताभिर्दष्टस्य कण्डुशोफदाहरुजो भवन्ति, स्थालिकाकाषायीभ्यामेतदेव श्यावपिडकोत्पत्तिरुपद्रवाश्च ज्वरादयो भवन्ति, काषायी स्थालिका च प्राणहरे ||३५|| मशकाः- सामुद्रः, परिमण्डलो, हस्तिमशकः, कृष्णः, पार्वतीय इति पञ्च; तैर्दष्टस्य तीव्रा कण्डूर्दंशशोफश्च, पार्वतीयस्तु कीटैः प्राणहरैस्तुल्यलक्षणः ||३६|| नखावकृष्टेऽत्यर्थं पिडकादाहपाका भवन्ति | जलौकसां दष्टलक्षणमुक्तं चिकित्सितं च ||३७|| भवन्ति चात्र- गोधेरकः स्थालिका च ये च श्वेताग्निसप्रभे | भृकुटी कोटिकश्चैव न सिध्यन्त्येकजातिषु ||३८||

🔊 Audio coming soon

इदानीमिहैकजात्येषु पञ्चस्वसाध्यान् निर्दिशन्नाह- गोधेरक इत्यादि| स्थालिका चेति चकारेण काषायी समुच्चीयते| ये चेति चकारेण गलगोलिकेषु सर्षपिकाऽप्यनुक्ता समुच्चीयते| भृकुटी कोटिकश्चैवेति चकारेणानुक्ता जलौकःस्विन्द्रायुधा समुच्चीयते||३४-३८||

Adhikarana 15 (39-40) · Śloka 40

शवमूत्रपुरीषैस्तु सविषैरवमर्शनात् | स्युः कण्डूदाहकोठारुःपिडकातोदवेदनाः ||३९|| प्रक्लेदवांस्तथा स्रावो भृशं सम्पाचयेत्त्वचम् | दिग्धविद्धक्रियास्तत्र यथावदवचारयेत् ||४०||

🔊 Audio coming soon

एषां बहिश्चूर्णावचूर्णनादौ लिङ्गमुद्दिश्य चिकित्सामुद्दिशन्नाह- शवमूत्रपुरीषैरित्यादि| प्रक्लेदवानिति सविषचूर्णावमृष्टप्रदेशे इत्यर्थः||३९-४०||

Adhikarana 16 (41) · Śloka 41

नावसन्नं न चोत्सन्नमतिसंरम्भवेदनम् | दंशादौ विपरीतार्ति कीटदष्टं सुबाधकम् ||४१||

🔊 Audio coming soon

इदानीं कीटदष्टस्य दंशलक्षणेन कृच्छ्रतामुद्दिशन्नाह- नावसन्नमित्यादि| नावसन्नं नातिभिन्नं, न चोत्सन्नं नात्युन्नतम्, इत्थम्भूतमपि यदतिसंरम्भवेदनम् अतिशयव्यथं, दंशादौ विपरीतार्ति अनुग्रविषदष्टे तीव्रार्तिर्भवति, उग्रविषदष्टे तु मन्दार्तिरिति विपरीतार्तिः| सुबाधकं कृच्छ्रसाध्यम्||४१||

Adhikarana 17 (42) · Śloka 42

दष्टानुग्रविषैः कीटैः सर्पवत् समुपाचरेत् | त्रिविधानां तु पूर्वेषां त्रैविध्येन क्रिया हिताः ||४२||

🔊 Audio coming soon

इदानीमुग्रविषकीटानां चिकित्सामुद्दिशन्नाह- कीटैर्दष्टानुग्रेत्यादि| उग्रविषैः प्राणहरैस्त्रिदोषप्रकृतिभिः| सर्पवत् सर्पदष्टानिव, सर्पदष्टस्य सर्पवेगोक्ताभिः क्रियाभिरित्यर्थः| त्रिविधानामिति दर्वीकरमण्डलिराजिलशुक्रादियोनिभेदात्त्रिप्रकाराणाम्| पूर्वेषाम् आद्युक्तानाम्| त्रैविध्येनेति वातादिभेदेनेत्यर्थः||४२||

Adhikarana 18 (43) · Śloka 44

स्वेदमालेपनं सेकं चोष्णमत्रावचारयेत् | अन्यत्र मूर्च्छिताद्दंशात् पाककोथप्रपीडितात् ||४३|| विषघ्नं च विधिं सर्वं बहुशः शोधनानि च |४४|

🔊 Audio coming soon

इदानीं सामान्यं चिकित्सितमाह- स्वेदमालेपनमित्यादि| अन्यत्र मूर्च्छितादिति मूर्च्छितं वर्जयित्वा, मूर्च्छिते न कुर्यादित्यर्थः| विषघ्नं च विधिं सर्वमित्यादि| संशमनविधिं पाननस्याभ्यङ्गालेपनपरिषेकाञ्जनादिकं वातादिविषहरद्रव्यकल्पितम्| संशोधनानि चेति वमनविरेकास्थापनानि, `यथादोषम्’ इत्यध्याहारः||४३||-

Adhikarana 19 (44-45) · Śloka 45

शिरीषकटुकाकुष्ठवचारजनिसैन्धवैः ||४४|| क्षीरमज्जवसासर्पिःशुण्ठीपिप्पलिदारुषु | उत्कारिका स्थिरादौ वा सुकृता स्वेदने हिता ||४५||

🔊 Audio coming soon

इदानीं वातादिदोषविषहरस्वेदद्रव्यसूत्रमुद्दिशन्नाह- शिरीषेत्यादि| उत्कारिका लप्सिका| स्थिरादौ शालपर्ण्यादौ| सुकृता शोभना कृता| एतेन क्षीरादिद्रवैः शिरीषादिद्रव्याणां श्लक्ष्णपेषितानां मात्राक्रमेण नातिद्रवो नाल्पद्रवः पाक इति सर्वं बोध्यते||४४-४५||

Adhikarana 20 (46) · Śloka 46

न स्वेदयेत चादंशं धूमं वक्ष्यामि वृश्चिके |४६|

🔊 Audio coming soon

मुक्त्वा कीटविषमित्यनेन हेतुना सर्वेष्वेव कीटेषु स्वेदं प्रसक्तं क्वचिन्निरस्यन्नाह- न स्वेदयेतेत्यादि| वृश्चिकविषे दंशं न स्वेदयेत, आङो व्यवहितस्यापि क्रियापदेन सम्बन्धात्| तत्रापि किञ्चिदूष्मस्वेदमाह- धूममित्यादि| धूमश्च `शिखिकुक्कुटबर्हाणि’ इत्यादिनाऽग्रे वक्तव्यः| न स्वेदयेत चादंशमित्यत्र चकारो भिन्नक्रमे धूमं चेत्यत्र द्रष्टव्यः; तेन मन्दविषवृश्चिकदष्टस्योत्कारिकास्वेद उक्तो न विरुध्यते|४६|-

Adhikarana 21 (46-47) · Śloka 47

अगदानेकजातीषु प्रवक्ष्यामि पृथक् पृथक् ||४६|| कुष्ठं वक्रं वचा पाठा बिल्वमूलं सुवर्चिका | गृहधूमं हरिद्रे द्वे त्रिकण्टकविषे हिताः ||४७||

🔊 Audio coming soon

इदानीं वातादिभेदेन चतुर्विधप्रकृतीनां सप्तषष्टिसङ्ख्योपेतानां चिकित्सितमभिधाय वृश्चिकलूतावर्जं चतुःपञ्चाशतामेकजातीनां चिकित्सितं निर्दिशन्नाह- अगदानेकजातीष्वित्यादि| वक्रं तगरं, सुवर्चिका स्वर्जिकाक्षारः| त्रिकण्टकग्रहणमपरसजातीयानां कणभप्रभृतीनां प्राधान्यादुपलक्षणम्| हित इति अगद इति शेषः||४६-४७||

Adhikarana 22 (48) · Śloka 48

रजन्यागारधूमश्च वक्रं कुष्ठं पलाशजम् | गलगोलिकद्ष्टानामगदो विषनाशनः ||४८||

🔊 Audio coming soon

प्रतिसूर्यकादिचिकित्साया वक्ष्यमाणत्वाद्गलगोलिकोपक्रममाह- रजनीत्यादि| पलाशजं `बीजम्’ इत्यध्याहार्यम्||४८||

Adhikarana 23 (49-50) · Śloka 50

कुङ्कुमं तगरं शिग्रु पद्मकं रजनीद्वयम् | अगदो जलपिष्टोऽयं शतपद्विषनाशनः ||४९|| मेषशृङ्गी वचा पाठा निचुलो रोहिणी जलम् | सर्वमण्डूकदष्टानामगदोऽयं विषापहः ||५०||

🔊 Audio coming soon

निचुलो वेतसः, जलं वालकम्||४९-५०||

Adhikarana 24 (51) · Śloka 51

धवाश्वगन्धातिबलाबलासातिगुहागुहाः | विश्वम्भराभिदष्टानामगदोऽयं विषापहः ||५१||

🔊 Audio coming soon

धवाश्वेत्यादि| विश्वम्भराभिः तिसृभिः| अतिबला कङ्कतिका, अतिगुहा शालिपर्णी, गुहा पृश्निपर्णी||५१||

Adhikarana 25 (52) · Śloka 52

शिरीषं तगरं कुष्ठं शालिपर्णी सहा निशे | अहिण्डुकाभिर्दष्टानामगदो विषनाशनः ||५२||

🔊 Audio coming soon

शिरीषमित्यादि| सहा मुद्गपर्णी| निशे पिण्डहरिद्रादारुहरिद्रे||५२||

Adhikarana 26 (53-55) · Śloka 56

कण्डूमकाभिर्दष्टानां रात्रौ शीताः क्रिया हिताः | दिवा ते नैव सिध्यन्ति सूर्यरश्मिबलार्दिताः ||५३|| वक्रं कुष्ठमपामार्गः शूकवृन्तविषेऽगदः | भृङ्गस्वरसपिष्टा वा कृष्णवल्मीकमृत्तिका ||५४|| पिपीलिकाभिर्दष्टानां मक्षिकामशकैस्तथा | गोमूत्रेण युतो लेपः कृष्णवल्मीकमृत्तिका ||५५|| नखावघृष्टसञ्जाते शोफे भृङ्गरसो हितः |५६|

🔊 Audio coming soon

कण्डूमकाभिरित्यादि| कण्डूमकाभिर्दष्टाः पुरुषाः| सूर्यरश्मिभिर्बलं येषां ते सूर्यरश्मिबलाः कण्डूमकाः, तैरर्दिताः पीडिताः| पिपीलिकादिभिस्त्रिभिर्दष्टे गोमूत्रयुक्ता कृष्णवल्मीकमृत्तिका| नखेत्यादि नखावकृष्टे नखोद्घृष्टे सति सञ्जातशोफे मार्कवस्य भृङ्गराजस्य रसो लेपे हितः स्यात्| गयदासस्तु भृङ्गस्वरसपिष्टा स्यादित्यादि पठित्वा पिपीलिकादित्रये दष्टे भृङ्गराजपिष्टकृष्णवल्मीकमृत्तिकालेपं प्रतिपादयति; गोमूत्रयुतकृष्णवल्मीकमृत्तिकालेपनं तु नखावकृष्टे तथा मार्कवस्वरसालेपनं च||५३-५५||-

Adhikarana 27 (56) · Śloka 56

प्रतिसूर्यकदष्टानां सर्पदष्टवदाचरेत् |५६|

🔊 Audio coming soon

प्रतिसूर्यकेत्यादि| आचरेत् `चिकित्सितं’ इत्यध्याहारः|५६|-

Adhikarana 28 (56) · Śloka 56

त्रिविधा वृश्चिकाः प्रोक्ता मन्दमध्यमहाविषाः ||५६||

🔊 Audio coming soon

एवमेकजातीयान् कीटानभिधाय वृश्चिकान्निर्देष्टुमाह- त्रिविधा वृश्चिका इत्यादि| नन्वेकजातिभ्यः पृथग्भूता वृश्चिका लूताश्च कस्मान्निर्दिश्यन्ते इति? उच्यते-विषचिकिस्तितविशेषापेक्षः पृथगारम्भः||५६||

Adhikarana 29 (57) · Śloka 57

गोशकृत्कोथजा मन्दा मध्याः काष्ठेष्टिकोद्भवाः | सर्पकोथोद्भवास्तीक्ष्णा ये चान्ये विषसम्भवाः ||५७||

🔊 Audio coming soon

तानेव त्रीनपि कारणधर्मचिकित्सितभेदैर्भिन्नान् प्रथमं कारणादेवाह- गोशकृदित्यादि| गोशकृदित्यत्र गोशब्दस्यापरपशूपलक्षणत्वाच्छकृच्छब्दस्यापरमलोपलक्षणत्वाद्गोमहिष्यादिशकृन्मूत्रकोथजा मन्दाः| ये चान्ये इत्यादि| अन्येऽपि ये विषसम्भवास्तेऽपि तीव्राः| अन्ये त्वेवं पठन्ति,- “सर्पकोथोद्भवास्तीव्रा दिग्धविद्धविषैर्हते| कोथे मध्या गवादीनां शकृत्कोथेऽवराः स्मृताः”- इति||५७||

Adhikarana 30 (58) · Śloka 58

मन्दा द्वादश मध्यास्तु त्रयः पञ्चदशोत्तमाः | दश विंशतिरित्येते सङ्ख्यया परिकीर्तिताः ||५८||

🔊 Audio coming soon

इदानीं तेषां पृथक् सङ्ख्यामाह- मन्दा द्वादशेत्यादि| गयदासस्तु- “त्रयोदश प्राणहरास्त्रयो मध्यास्तथाऽपरे| मन्दवीर्या दशैकश्च वृश्चिका विषवेदिभिः|| सप्तविंशतिरित्येते सङ्ख्यया परिकीर्तिताः”- इति पठति||५८||

Adhikarana 31 (59-60) · Śloka 61

कृष्णः श्यावः कर्बुरः पाण्डुवर्णो गोमूत्राभः कर्कशो मेचकश्च | पीतो धूम्रो रोमशः शाड्वलाभो रक्तः श्वेतेनोदरेणेति मन्दाः ||५९|| युक्ताश्चैते वृश्चिकाः पुच्छदेशे स्युर्भूयोभिः पर्वभिश्चेतरेभ्यः | एभिर्दष्टे वेदना वेपथुश्च गात्रस्तम्भः कृष्णरक्तागमश्च ||६०|| शाखादष्टे वेदना चोर्ध्वमेति दाहस्वेदौ दंशशोफो ज्वरश्च |६१|

🔊 Audio coming soon

इदानीं मन्दविषाणां लक्षणकर्माण्याह- कृष्ण इत्यादि| कृष्णादयो द्वादशापि श्वेतेनोदरेणोपलक्षिताः| वेदना चोर्ध्वमेतीति त्रिविधानामपि वृश्चिकानां सामान्यलक्षणमत्र प्रायोवृत्त्याऽभिहितम्| स्युर्भूयोभिः पर्वभिश्चेतरेभ्य इति इतरेभ्यो वृश्चिकेभ्यो मन्दविषा वृश्चिका भूयोभिर्बहुतरैः पर्वभिरुपलक्षिता भवेयुः||५९-६०||-

Adhikarana 32 (61-62) · Śloka 63

रक्तः पीतः कापिलेनोदरेण सर्वे धूम्राः पर्वभिश्च त्रिभिः स्युः ||६१|| एते मूत्रोच्चारपूत्यण्डजाता मध्या ज्ञेयास्त्रिप्रकारोरगाणाम् | यस्यैतेषामन्वयाद्यः प्रसूतो दोषोत्पत्तिं तत्स्वरूपां स कुर्यात् ||६२|| जिह्वाशोफो भोजनस्यावरोधो मूर्च्छा चोग्रा मध्यवीर्याभिदष्टे |६३|

🔊 Audio coming soon

मध्यविषाणां लक्षणकर्माण्याह- रक्त इत्यादि| कपिलेन सह रक्तः पीतश्चेति त्रयः| एते च त्रयोऽप्युदरेण धूम्राः| पूर्वत्र काष्ठेष्टिकोद्भवत्वमिह तु सर्पमूत्रोच्चारादिसम्भवत्वमित्युभयहेतूपादानाद् व्यस्तसमस्तोभयहेतूद्भवत्वं मध्यानां बोद्धव्यम्| दिग्धविद्धसर्पदष्टानां च शरीरकोथे मध्यानां जन्म मतान्तरेण प्रतिपादितमेव| त्रिप्रकारोरगाणामित्यादि दर्वीकरादिभेदेन त्रिप्रकाराणामेतेषां यस्यान्वयाद्यो यादृक् प्रसूतः स तत्स्वरूपां दोषोत्पत्तिं कुर्यात्||६१-६२||-

Adhikarana 33 (63-66) · Śloka 66

श्वेतश्चित्रः श्यामलो लोहिताभो रक्तः श्वेतो रक्तनीलोदरौ च ||६३|| पीतोऽरक्तो नीलपीतोऽपरस्तु रक्तो नीलो नीलशुक्लस्तथा च | रक्तो बभ्रुः पूर्ववच्चैकपर्वा यश्चापर्वा पर्वणी द्वे च यस्य ||६४|| नानारूपा वर्णतश्चापि घोरा ज्ञेयाश्चैते वृश्चिकाः प्राणचौराः | जन्मैतेषां सर्पकोथात् प्रदिष्टं देहेभ्यो वा घातितानां विषेण ||६५|| एभिर्दष्टे सर्पवेगप्रवृत्तिः स्फोटोत्पत्तिर्भ्रान्तिदाहौ ज्वरश्च | खेभ्यः कृष्णं शोणितं याति तीव्रं तस्मात् प्राणैस्त्यज्यते शीघ्रमेव ||६६||

🔊 Audio coming soon

तीक्ष्णविषाणां लक्षणकर्माण्याह- श्वेतश्चित्र इत्यादि| पूर्ववच्चेति पूर्वे मध्यविषा यथा जिह्वाशोफादिकारकास्तथैवैतेऽपि जिह्वाशोफादि कुर्वन्तीत्यर्थः| एकपर्वेति द्वयोरस्थ्नोः सङ्घातः पर्व, एकं पर्व यस्य स तथा| पर्वणी द्वे च यस्येति चकारेण बहुपर्वाणोऽपि भवन्तीति समुच्चीयते| खेभ्य इति खेभ्यः स्रोतोभ्यः| अरिष्टमिदम्||६३-६६||

Adhikarana 34 (67) · Śloka 68

उग्रमध्यविषैर्दष्टं चिकित्सेत् सर्पदष्टवत् | आदंशं स्वेदितं चूर्णैः प्रच्छितं प्रतिसारयेत् ||६७|| रजनीसैन्धवव्योषशिरीषफलपुष्पजैः |६८|

🔊 Audio coming soon

इदानीं चिकित्सा प्रस्तूयते- उग्रमध्येत्यादि| मूर्च्छा चोग्रा चेत्यनेन सर्पदष्टषष्ठसप्तमवेगलक्षणस्य वचनान्मध्यविषेऽपि सर्पदष्टचिकित्सा कार्या| इहापरामपि चिकित्सामाह- आदंशमित्यादि| प्रतिसारणं घर्षणं, तच्च दुष्टरक्तप्रवर्तनार्थम्| मातुलुङ्गाम्लेत्यादि| मातुलुङ्गाम्लं बीजपूरकरसः| सुरसाग्रजं तुलसीपल्लवं, मल्लिकाकुसुममिति केचित्| स्वेदे इत्यादि वातकफावजयाय| पाने सर्पिरित्यादि| बहुवातस्य सर्पिःपानं मधुयुतं, बहुपित्तस्य क्षीरं बहुशर्करं चेति योगद्वयम्||६७||-

Adhikarana 35 (68-74) · Śloka 74

मातुलुङ्गाम्लगोमूत्रपिष्टं च सुरसाग्रजम् ||६८|| लेपे, स्वेदे सुखोष्णं च गोमयं हितमिष्यते | पाने क्षौद्रयुतं सर्पिः क्षीरं वा बहुशर्करम् ||६९|| दंशं मन्दविषाणां तु चक्रतैलेन सेचयेत् | विदारीगणसिद्धेन सुखोष्णेनाथवा पुनः ||७०|| कुर्याच्चोत्कारिकास्वेदं विषघ्नैरुपनाहयेत् | गुडोदकं वा सुहिमं चातुर्जातकसंयुतम् ||७१|| पानमस्मै प्रदातव्यं क्षीरं वा सगुडं हिमम् | शिखिकुक्कुटबर्हाणि सैन्धवं तैलसर्पिषी ||७२|| धूमो हन्ति प्रयुक्तस्तु शीघ्रं वृश्चिकजं विषम् | कुसुम्भपुष्पं रजनी निशा वा कोद्रवं तृणम् ||७३|| एभिर्घृताक्तैर्धूपस्तु पायुदेशे प्रयोजितः | नाशयेदाशु कीटोत्थं वृश्चिकस्य च यद्विषम् ||७४||

🔊 Audio coming soon

इदानीं मन्दविषाणां चिकित्सामाह- दंशमित्यादि| चक्रतैलं चक्रपीडितं तिलतैलं, अत्र चक्रशब्दोपादानं हस्तादियन्त्रपीडननिषेधार्थम्| विदारिगणसिद्धेनेत्यादिशब्दस्य लोपाद्विदार्यादिगणसिद्धेन, `तैलेन’ इति शेषः| कुर्याच्चोत्कारिकेत्यादि| उत्कारिका लप्सिका| उत्कारिका तु शिरीषादिविषहरद्रव्यैः पूर्वोक्ता पूर्वकल्पिता च| उपनाहयेद् विषघ्नद्रव्यैरुपनाहस्वेदं कुर्यात्| गुडोदकमित्यादि| बर्हाणि पिच्छानि||६८-७४||

Adhikarana 36 (75-76) · Śloka 76

लूताविषं घोरतमं दुर्विज्ञेयतमं च तत् | दुश्चिकित्स्यतमं चापि भिषग्भिर्मन्दबुद्धिभिः ||७५|| सविषं निर्विषं चैतदित्येवं परिशङ्किते | विषघ्नमेव कर्तव्यमविरोधि यदौषधम् ||७६||

🔊 Audio coming soon

लूताविषमादिकारणलक्षणचिकित्सितैर्निर्दिशन्नाह- लूतेत्यादि| घोरतमं कष्टसाध्यं, दुर्विज्ञेयतमम् अतिदुःखेन विज्ञातुं शक्यम्| तस्य दुर्विज्ञेयत्वादेव संशये सति विषहरमेव करणीयमित्याह- सविषमित्यादि| अविरोधि धातुभिः सह यन्न विरुध्यतेऽन्नपानं तत्; न पुनरगदकरणं, धातुविरोधात्||७५-७६||

Adhikarana 37 (77-78) · Śloka 78

अगदानां हि संयोगो विषजुष्टस्य युज्यते | निर्विषे मानवे युक्तोऽगदः सम्पद्यतेऽसुखम् ||७७|| तस्मात् सर्वप्रयत्नेन ज्ञातव्यो विषनिश्चयः | अज्ञात्वा विषसद्भावं भिषग्व्यापादयेन्नरम् ||७८||

🔊 Audio coming soon

तमेव धातुविरोधं दर्शयन्नाह- अगदानामित्यादि| असुखं कष्टम्||७७-७८||

Adhikarana 38 (79) · Śloka 79

प्रोद्भिद्यमानस्तु यथाऽङ्कुरेण न व्यक्तजातिः प्रविभाति वृक्षः | तद्वद्दुरालक्ष्यतमं हि तासां विषं शरीरे प्रविकीर्णमात्रम् ||७९||

🔊 Audio coming soon

लूताविषदुर्विज्ञेयतायामुपमानप्रमाणं निर्दिशन्नाह- प्रोद्भिद्यमान इत्यादि| प्रविकीर्णमात्रं प्रथमं विक्षिप्तमात्रम्, अल्पविस्तृतमित्यर्थः||७९||

Adhikarana 39 (80-82) · Śloka 82

ईषत्सकण्डु प्रचलं सकोठमव्यक्तवर्णं प्रथमेऽहनि स्यात् | अन्तेषु शूनं परिनिम्नमध्यं प्रव्यक्तरूपं च दिने द्वितीये ||८०|| त्र्यहेण तद्दर्शयतीह रूपं विषं चतुर्थेऽहनि कोपमेति | अतोऽधिकेऽह्नि प्रकरोति जन्तोर्विषप्रकोपप्रभवान् विकारान् ||८१|| षष्ठे दिने विप्रसृतं तु सर्वान् मर्मप्रदेशान् भृशमावृणोति | तत् सप्तमेऽत्यर्थपरीतगात्रं व्यापादयेन्मर्त्यमतिप्रवृद्धम् ||८२||

🔊 Audio coming soon

ईषत्सकण्डु प्रचलमित्यादि| ईषत्सकण्डु किञ्चित्कण्डूयुक्तं, प्रचलं प्रचलनशीलम्| गयदासस्तु प्रबलमिति पठित्वा व्याख्यानयति- प्रबलम् ईषत् प्रथमदिने, द्वितीयादिषु दिनेषु तु प्रबलतरं क्रमेण प्रबलतमं च; यदाह,- “षष्ठे दिने विप्रसृतं तु सर्वान् मर्मप्रदेशान् भृशमावृणोति”- इति| सकोठं किञ्चित् कोठयुक्तं, कोठश्च वरटीदंशस्थानः| दर्शयतीह रूपमिति रूपं चात्र तन्त्रान्तरोक्तं ज्वररोमहर्षरक्तमण्डलादिकम्| तथा च वृद्धवाग्भटः- “तृतीये सज्वरो रोमहर्षकृद्रक्तमण्डलः| शरावरूपस्तोदाढ्यो रोमकूपेषु सास्रवः”- इति| कोपमेति उन्मार्गप्रवृत्तं भवति, ततोऽधिके पञ्चमदिने उन्मार्गप्रवृत्तं सत् विषकोपप्रभवान् विकारान् करोति| `तृड्दाहकण्डूप्रबलं’ इति केचित्||८०-८२||

Adhikarana 40 (83-84) · Śloka 84

यास्तीक्ष्णचण्डोग्रविषा हि लूतास्ताः सप्तरात्रेण नरं निहन्युः | अतोऽधिकेनापि निहन्युरन्या यासां विषं मध्यमवीर्यमुक्तम् ||८३|| यासां कनीयो विषवीर्यमुक्तं ताः पक्षमात्रेण विनाशयन्ति | तस्मात् प्रयत्नं भिषगत्र कुर्यादादंशपाताद्विषघातियोगैः ||८४||

🔊 Audio coming soon

तासां तीक्ष्णमध्यमन्दविषाणां कालावधिमाह- यास्तीक्ष्णचण्डोग्रेत्यादि| तीक्ष्णं दाहपाकस्रावकरं, चण्डम् अतिकोपाटोपकरं; तीक्ष्णचण्डत्वेनोग्रमसह्यं विषं यासां तास्तथा| अतोऽनेनैकादशाहात् परत इति सामर्थ्याद् ग्राह्यम्| तथा चालम्बायनः,- “लूतास्तीक्ष्णविषा हन्युः सप्ताष्टनवभिर्दिनैः| एकादशाहात् परतो विषं यासां तु मध्यमम्”- इति||८३-८४||

Adhikarana 41 (85-87) · Śloka 88

विषं तु लालानखमूत्रदंष्ट्रारजःपुरीषैरथ चेन्द्रियेण | सप्तप्रकारं विसृजन्ति लूतास्तदुग्रमध्यावरवीर्ययुक्तम् ||८५|| सकण्डुकोठं स्थिरमल्पमूलं लालाकृतं मन्दरुजं वदन्ति | शोफश्च कण्डूश्च पुलालिका च धूमायनं चैव नखाग्रदंशे ||८६|| दंशं तु मूत्रेण सकृष्णमध्यं सरक्तपर्यन्तमवेहि दीर्णम् | दंष्ट्राभिरुग्रं कठिनं विवर्णं जानीहि दंशं स्थिरमण्डलं च ||८७|| रजःपुरीषेन्द्रियजं हि विद्धि स्फोटं विपक्वामलपीलुपाण्डुम् |८८|

🔊 Audio coming soon

अधिष्ठानविशेषादपि तासां विषं विषे च लिङ्गं दर्शयन्नाह- विषं तु लालेत्यादि| रज आर्तवम्, इन्द्रियं शुक्रम्| सकण्डुकोठमित्यादि| कोठः कोठपिडकाः| शोफ इत्यादि| पुलालिका रोमाञ्चः| धूमायनं धूमोद्वमनमिवाङ्गानाम्| दंशं तु मूत्रेणेत्यादि| रजःप्रभृतिजे `दंशे’ इत्यध्याहारः| विद्धि जानीहि||८५-८७||

Adhikarana 42 (88-89) · Śloka 89

एतावदेतत् समुदाहृतं तु वक्ष्यामि लूताप्रभवं पुराणम् ||८८|| सामान्यतो दष्टमसाध्यसाध्यं चिकित्सितं चापि यथाविशेषम् ||८९||

🔊 Audio coming soon

इदानीमतीतानागतोक्तैः समानतां विशिष्टतां च विभजन्नाह- एतावदेतदित्यादि| इयत्प्रमाणमेतत् प्रथमादिदिवसाश्रयं लालाद्यधिष्ठानाश्रयं च सर्वलूताविषयं समुदाहृतमागमप्रसिद्धमुक्तमित्यर्थः| वक्ष्यामीत्यादि| लूताप्रभवं लूतानामाद्युत्पत्तिकारणं, पुराणं पुराभवं, सामान्यतो वक्ष्यामीति सम्बन्धः; तथा दष्टं दंशमप्यसाध्यं साध्यं च सामान्यतो वक्ष्यामीति| चिकित्सितं चेत्यादि| चिकित्सितं यथाविशेषं विशेषानतिक्रमेण; चकाराल्लक्षणमपि विशेषानतिक्रमेण वक्ष्यामीति सम्बन्धः||८८-८९||

Adhikarana 43 (90-93) · Śloka 93

विश्वामित्रो नृपवरः कदाचिदृषिसत्तमम् | वशिष्ठं कोपयामास गत्वाऽऽश्रमपदं किल ||९०|| कुपितस्य मुनेस्तस्य ललाटात् स्वेदबिन्दवः | अपतन् दर्शनादेव रवेस्तत्समतेजसः ||९१|| तृणे महर्षिणा लूने धेन्वर्थं सम्भृतेऽपि च | ततो जातास्त्विमा घोरा नानारूपा महाविषाः | अपकाराय वर्तन्ते नृपसाधनवाहने ||९२|| यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदबिन्दवः | तस्माल्लूतेति भाष्यन्ते सङ्ख्यया ताश्च षोडश ||९३||

🔊 Audio coming soon

तत्प्रभवमुद्दिशन्नाह- विश्वामित्र इत्यादि| किलेत्यागमसंवादे| तत्समतेजसो रविसमानतेजसो वशिष्ठस्य स्वेदबिन्दवः अपतन् पतिताः| धेन्वर्थं सम्भृते गवादिचरणार्थं सञ्चिते| मतान्तरेणोत्पत्तिरन्यथा वर्ण्यते,- “अन्ये वदन्ति भुक्तस्य दुष्टस्यान्नस्य मूर्च्छनात्| सम्भवन्ति विषस्फोटा ये लूताकीटलक्षणम्| यथास्वं धारयन्तस्ते लूताकीटाश्च कीर्तिताः”- इत्यादि||९०-९३||

Adhikarana 44 (94-99) · Śloka 100

कृच्छ्रसाध्यास्तथाऽसाध्या लूतास्तु द्विविधाःस्मृताः | तासामष्टौ कृच्छ्रसाध्या वर्ज्यास्तावत्य एव तु ||९४|| त्रिमण्डला तथा श्वेता कपिला पीतिका तथा | आलमूत्रविषा रक्ता कसना चाष्टमी स्मृता ||९५|| ताभिर्दष्टे शिरोदुःखं कण्डूर्दंशे च वेदना | भवन्ति च विशेषेण गदाः श्लैष्मिकवातिकाः ||९६|| सौवर्णिका लाजवर्णा जालिन्येणीपदी तथा | कृष्णाऽग्निवर्णा काकाण्डा मालागुणाऽष्टमी तथा ||९७|| ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च | ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदोषजाः ||९८|| पिडका विविधाकारा मण्डलानि महान्ति च | महान्तो मृदवः शोफा रक्ताः श्यावाश्चलास्तथा ||९९|| सामान्यं सर्वलूतानामेतदादंशलक्षणम् |१००|

🔊 Audio coming soon

आलाविषा मूत्रविषा चेति द्वे||९४-९९||

Adhikarana 45 (100-115) · Śloka 115

विशेषलक्षणं तासां वक्ष्यामि सचिकित्सितम् ||१००|| त्रिमण्डलाया दंशेऽसृक् कृष्णं स्रवति दीर्यते | बाधिर्यं कलुषा दृष्टिस्तथा दाहश्च नेत्रयोः ||१०१|| तत्रार्कमूलं रजनी नाकुली पृश्निपर्णिका | पानकर्मणि शस्यन्ते नस्यालेपाञ्जनेषु च ||१०२|| श्वेतायाः पिडका दंशे श्वेता कण्डूमती भवेत् | दाहमूर्च्छाज्वरवती विसर्पक्लेदरुक्करी ||१०३|| तत्र चन्दनरास्नैलाहरेणुनलवञ्जुलाः | कुष्ठं लामज्जकं वक्रं नलदं चागदो हितः ||१०४|| आदंशे पिडका ताम्रा कपिलायाः स्थिरा भवेत् | शिरसो गौरवं दाहस्तिमिरं भ्रम एव च ||१०५|| तत्र पद्मककुष्ठैलाकरञ्जककुभत्वचः | स्थिरार्कपर्ण्यपामार्गदूर्वाब्राह्म्यो विषापहाः ||१०६|| आदंशे पीतिकायास्तु पिडका पीतिका स्थिरा | भवेच्छर्दिर्ज्वरः शूलं मूर्ध्नि रक्ते तथाऽक्षिणी ||१०७|| तत्रेष्टाः कुटजोशीरतुङ्गपद्मकवञ्जुलाः | शिरीषकिणिहीशेलुकदम्बककुभत्वचः ||१०८|| रक्तमण्डनिभे दंशे पिडकाः सर्षपा इव | जायन्ते तालुशोषश्च दाहश्चालविषार्दिते ||१०९|| तत्र प्रियङ्गुह्रीबेरकुष्ठलामज्जवञ्जुलाः | अगदः शतपुष्पा च सपिप्पलवटाङ्कुराः ||११०|| पूतिर्मूत्रविषादंशो विसर्पी कृष्णशोणितः | कासश्वासवमीमूर्च्छाज्वरदाहसमन्वितः ||१११|| मनःशिलालमधुककुष्ठचन्दनपद्मकैः | मधुमिश्रैः सलामज्जैरगदस्तत्र कीर्तितः ||११२|| आपाण्डुपिडको दंशो दाहक्लेदसमन्वितः | रक्ताया रक्तपर्यन्तो विज्ञेयो रक्तसंयुतः ||११३|| कार्यस्तत्रागदस्तोयचन्दनोशीरपद्मकैः | तथैवार्जुनशेलुभ्यां त्वग्भिराम्रातकस्य च ||११४|| पिच्छिलं कसनादंशाद्रुधिरं शीतलं स्रवेत् | कासश्वासौ च तत्रोक्तं रक्तलूताचिकित्सितम् ||११५||

🔊 Audio coming soon

सामान्यलक्षणमभिधाय तासां विशेषलक्षणं चिकित्सिते च भेदं दर्शयन्नाह- विशेषलक्षणमित्यादि| चकारात् परिषेकेऽपि| श्वेताया इत्यादि| रास्ना गन्धनाकुली| आदंशे इत्यादि| तुङ्गं पद्मकेशरं, पुन्नाग इत्यपरे| वञ्जुलो जलवेतसः; जेज्जटस्तु कम्बुकेति पठित्वा किणिहीति व्याख्यानयति| रक्तमण्डनिमे इत्यादि| `रक्तपाद्या’ इति क्वचित्, तत्रापि रक्ताया एव ग्रहणम्| पिच्छिलमित्यादि| रक्तलूताचिकित्सितं तोयचन्दनादिकम्||१००-११५||

Adhikarana 46 (116-119) · Śloka 119

पुरीषगन्धिरल्पासृक् कृष्णाया दंश एव तु | ज्वरमूर्च्छावमीदाहकासश्वाससमन्वितः ||११६|| तत्रैलावक्रसर्पाक्षीगन्धनाकुलिचन्दनैः | महासुगन्धिसहितैः प्रत्याख्यायागदः स्मृतः ||११७|| दंशो दाहोऽग्निवक्रायाः स्रावोऽत्यर्थं ज्वरस्तथा | चोषकण्डूरोमहर्षा दाहविस्फोटसंयुतः ||११८|| कृष्णाप्रशमनं चात्र प्रत्याख्याय प्रयोजयेत् | सारिवोशीरयष्ट्याह्वचन्दनोत्पलपद्मकम् ||११९||

🔊 Audio coming soon

इदानीं सौवर्णिकादिष्वसाध्येषु द्वयोः कृष्णाग्निवक्रयोः कदाचित्कृच्छ्रसाध्यत्वात् कृच्छ्रसाध्यानन्तरं लक्षणं प्रत्याख्यानपूर्वकं चिकित्सितं चाह- पुरीषगन्धिरित्यादि| सर्पाक्षी लोहितपुष्पा शङ्खपुष्पीभेदः| महासुगन्धिः दुन्दुभिस्वनीयोक्तोऽगदः| दंशे इत्यादि| चोषस्थाने तृष्णेति क्वचित्, संयुत इत्यत्र दंश इति विभक्तिविपरिणामेन योजनीयम्| गयदासस्तु कृष्णाग्निवक्रयोर्नियतासाध्यत्वमङ्गीकुर्वन् सौवर्णिकादिक्रमेणाग्रे लक्षणमात्रमेव पठति||११६-११९||

Adhikarana 47 (120) · Śloka 120

सर्वासामेव युञ्जीत विषे श्लेष्मातकत्वचम् | भिषक् सर्वप्रकारेण तथा चाक्षीवपिप्पलम् ||१२०||

🔊 Audio coming soon

तासामुक्तानां दशानामपि लूतानां विशिष्टं चिकित्सितमभिधाय सामान्यमप्याह सर्वासामित्यादि| सर्वप्रकारेण पानाभ्यञ्जनादयः| अक्षीवपिप्पलमिति अक्षीवात् महानिम्बाज्जातः पिप्पल अक्षीवपिप्पलः, अन्ये शोभाञ्जनाज्जात इति मन्यन्ते| अन्यत्राप्युक्तं- “अक्षीवाज्जातस्य पिप्पलस्य मणिः सर्वविषापहः| शेलुत्वचो वा” इति| आलम्बायनोऽप्यत्राह,- “लूताविषेषु सर्वेषु पाननस्याञ्जनादिना| प्रयोज्यः पिप्पलोऽक्षीवज्जातः शेलुत्वचोऽथवा” इति||१२०||

Adhikarana 48 (121-127) · Śloka 127

कृच्छ्रसाध्यविषा ह्यष्टौ प्रोक्ता द्वे च यदृच्छया | अवार्यविषवीर्याणां लक्षणानि निबोध मे ||१२१|| ध्यामः सौवर्णिकादंशः सफेनो मत्स्यगन्धकः | श्वासः कासो ज्वरस्तृष्णा मूर्च्छा चात्र सुदारुणा ||१२२|| आदंशे लाजवर्णाया ध्यामं पूति स्रवेदसृक् | दाहो मूर्च्छाऽतिसारश्च शिरोदुःखं च जायते ||१२३|| घोरो दंशस्तु जालिन्या राजिमानवदीर्यते | स्तम्भः श्वासस्तमोवृद्धिस्तालुशोषश्च जायते ||१२४|| एणीपद्यास्तथा दंशो भवेत् कृष्णतिलाकृतिः | तृष्णामूर्च्छाज्वरच्छर्दिकासश्वाससमन्वितः ||१२५|| दंशः काकाण्डिकादष्टे पाण्डुरक्तोऽतिवेदनः | तृण्मूर्च्छाश्वासहृद्रोगहिक्काकासाः स्युरुच्छ्रिताः ||१२६|| रक्तो मालागुणादंशो धूमगन्धोऽतिवेदनः | बहुधा च विशीर्येत दाहमूर्च्छाज्वरान्वितः ||१२७||

🔊 Audio coming soon

इदानीमसाध्यानामपि परिहारार्थं लक्षणमाह- कुच्छ्रसाध्येत्यादि| द्वे यदृच्छयेति अवार्यविषवीर्याणां मध्ये द्वे च यदृच्छया सिध्यतः| शेषाणामवार्यविषवीर्याणां षट्सङ्ख्यकानां, निबोध जानीहि| ध्याम इत्यादि| ध्यामो दग्धेष्टकादिवर्णः| घोरो दंश इत्यादि| तमोवृद्धिः पुनः पुनस्तमोदर्शनम्| एणीपद्या इत्यादि| विशीर्येत शटतीत्यर्थः||१२१-१२७||

Adhikarana 49 (128) · Śloka 128

असाध्यास्वप्यभिहितं प्रत्याख्यायाशु योजयेत् | दोषोच्छ्रायविशेषेण दाहच्छेदविवर्जितम् ||१२८||

🔊 Audio coming soon

केचिदसाध्यानामपि चिकित्सितं पठन्ति- असाध्यास्वित्यादि||१२८||

Adhikarana 50 (129) · Śloka 129

साध्याभिराभिर्लूताभिर्दष्टमात्रस्य देहिनः | वृद्धिपत्रेण मतिमान् सम्यगादंशमुद्धरेत् ||१२९||

🔊 Audio coming soon

इदानीं कृच्छ्रसाध्यानां तात्कालिकं चिकित्सितमाह- साध्याभिराभिरित्यादि| अस्याग्रे केचिदमुं पाठं पठन्ति- `जाम्ब्वौष्ठेनाग्नितप्तेन दहेदाकरवारणात् ’- इति||१२९||

Adhikarana 51 (130-133) · Śloka 133

अमर्मणि विधानज्ञो वर्जितस्य ज्वरादिभिः | दंशस्योत्कर्तनं कुर्यादल्पश्वयथुकस्य च ||१३०|| मधुसैन्धवसंयुक्तैरगदैर्लेपयेत्ततः | प्रियङ्गुरजनीकुष्ठसमङ्गामधुकैस्तथा ||१३१|| सारिवां मधुकं द्राक्षां पयस्यां क्षीरमोरटम् | विदारीगोक्षुरक्षौद्रमधुकं पाययेत वा ||१३२|| क्षीरिणां त्वक्कषायेण सुशीतेन च सेचयेत् | उपद्रवान् यथादोषं विषघ्नैरेव साधयेत् ||१३३||

🔊 Audio coming soon

कीदृशस्य दंशस्य छेदं कुर्यादित्याह- अमर्मणि विधानज्ञ इत्यादि| ज्वरादिभिः असाध्यलूतोक्तैः, `असाध्यानां भिषक् प्राज्ञो न युञ्जीत चिकित्सितम्’ इति| मधुसैन्धवेत्यादि| अगदैः महासुगन्ध्यादिभिः| तत् इति छेदादनन्तरम्| समङ्गा वराहक्रान्ता| तथेति प्रियङ्ग्वादिभिरपि लेपयेदित्यर्थः| सारिवामित्यादि| सारिवा उत्पलसारिवा, पयस्या अर्कपुष्पी, क्षीरमोरटं मोरट एव| एकत्र योगे मधुकद्वयं स्थलजजलजभेदेन| क्षीरिणामित्यादि||१३०-१३३||

Adhikarana 52 (134) · Śloka 134

नस्याञ्जनाभ्यञ्जनपानधूमं तथाऽवपीडं कवलग्रहं च | संशोधनं चोभयतः प्रगाढं कुर्यात्सिरामोक्षणमेव चात्र ||१३४||

🔊 Audio coming soon

लूतासु दशविधमुपक्रममाह- नस्याञ्जनाभ्यञ्जनेत्यादि| अभ्यञ्जनस्थाने आलेपनमिति केचित्| संशोधनमुभयतो वमनविरेचनाख्यं कुर्यात्| सिरामोक्षणमित्यत्र `रक्तं हरेच्चापि जलायुकाभिः’ इति केचित्| एतच्च सर्वं विषहरैरेव दशविधमपि||१३४||

Adhikarana 53 (135) · Śloka 135

कीटदष्टव्रणान् सर्वानहिदष्टव्रणानपि | आदाहपाकात्तान् सर्वाञ्चिकित्सेद्दुष्टवद्भिषग् ||१३५||

🔊 Audio coming soon

लूतानामपि कीटत्वात् सामान्येनैव कीटविषोत्थव्रणानां तथा तादृशानामहिदष्टव्रणानामपि दुष्टव्रणवच्चिकित्सामाह- कीटदष्टव्रणानित्यादि| आदाहपाकादिति यावद्दाहपाकौ तिष्ठतः; विनिवृत्तयोश्च दाहपाकयोर्वक्ष्यमाणो विधिर्भविष्यति| क्वचित् `सदाहपाकान्’ इति पाठः| दुष्टवत् दुष्टव्रणवत्; दुष्टव्रणोक्तं च `दुष्टव्रणेषु कर्तव्यमूर्ध्वं चाधश्च शोधनम्’ इत्यादि| तत्र शोधनं विषहरद्रव्यैः, तथा लेपादिकमपि विषहरमेव दुष्टव्रणचिकित्सितेन||१३५||

Adhikarana 54 (136-137) · Śloka 137

विनिवृत्ते ततः शोफे कर्णिकापातनं हितम् | निम्बपत्रं त्रिवृद्दन्ती कुसुम्भं कुसुमं मधु ||१३६|| गुग्गुलुः सैन्धवं किण्वं वर्चः पारावतस्य च | विषवृद्धिकरं चान्नं हित्वा सम्भोजनं हितम् ||१३७||

🔊 Audio coming soon

निवृत्तदाहादौ व्रणे या विषोत्पन्ना कर्णिका तस्याश्चिकित्सामाह- विनिवृत्ते इत्यादि| कर्णिका मांसकन्दी, पद्मकर्णिकाकारत्वात् कर्णिका भण्यते| तस्याश्च शोणितपित्तोत्थाया मृदुरुजायाः प्रच्छनमन्तरेणैव पातनं सुकरम्| तान्येव पातनद्रव्याण्याह- निम्बपत्रमित्यादि| किण्वं सुराबीजम्| एतन्निम्बपत्रादिकं द्रव्यं लेपनेन कर्णिकापातने हितं, तथा विषवृद्धिकरं तिलकुलत्थाद्यन्नं वर्जयित्वा यदन्यत् पातनम् सम्भोजनं तत् कर्णिकायाः पातने हितम्| गयदासस्तु निम्बपत्रमित्यस्य स्थाने `शिखीवंश’ इति पठित्वा व्याख्यानयति- शिखी लाङ्गलकी, वंशो वंशत्वक्| किण्वस्थाने दन्तं पठति, दन्तो गोदन्तो गवां दन्तः||१३६-१३७||

Adhikarana 55 (138) · Śloka 138

विषेभ्यः खलु सर्वेभ्यः कर्णिकामरुजां स्थिराम् | प्रच्छयित्वा मधून्मिश्रैः शोधनीयैरुपाचरेत् ||१३८||

🔊 Audio coming soon

कफवातोत्थायाः कर्णिकायाश्चिकित्सामाह- विषेभ्य इत्यादि| अरुजाम् अविद्यमानरुजां, स्थिरां कठिनां| शोधनीयैः निम्बपत्रत्रिवृतादिभिः, दन्तीमूलमदनफलकल्कादिभिर्वा||१३८||

Adhikarana 56 (139) · Śloka 139

सप्तषष्ठस्य कीटानां शतस्यैतद्विभागशः | दष्टलक्षणमाख्यातं चिकित्सा चाप्यनन्तरम् ||१३९||

🔊 Audio coming soon

इदानीं परतन्त्रोदितसङ्ख्याविप्रतिपत्तिनिरासार्थं स्वतन्त्रे व्यासोक्तसङ्ख्याः सुखबोधार्थं च कीटेषु दष्टलक्षणचिकित्सितोपदेशेन परिमाणमुद्दिशन्नाह- सप्तषष्ठस्येत्यादि| सप्तषष्ठशतस्य कीटानां दष्टलक्षणमाख्यातं कथितं, विभागशः प्रत्येकं दष्टलक्षणादनन्तरं चिकित्सितमपि समाख्यातम्||१३९||

Adhikarana 57 (140) · Śloka 140

सविंशमध्यायशतमेतदुक्तं विभागशः |१४०|

🔊 Audio coming soon

इदानीं पूर्वतन्त्रस्याध्यायसङ्ख्यायाः परिमाणं यदुद्दिष्टं तन्निर्दिष्टमिति दर्शयन्नाह- सविंशमित्यादि| एतत् सविंशमध्यायशतं, विभागशः सूत्रस्थानादिविभागेनोक्तम्|१४०|-

Adhikarana 58 (140) · Śloka 140

इहोद्दिष्टाननिर्दिष्टानर्थान् वक्ष्याम्यथोत्तरे ||१४०||

🔊 Audio coming soon

शालाक्यकौमारकायचिकित्साभूतविद्यानां नाममात्रेणेहोद्दिष्टानां निर्देशाभावात् कथं ज्ञानमित्याह- इहोद्दिष्टानित्यादि| इह विंशत्यधिकाध्यायशते येऽर्थाः शालाक्यादयो नाममात्रेणोद्दिष्टा नतु प्रपञ्चेन निर्दिष्टाः, तानथ अनन्तरमुत्तरे वक्ष्यामि||१४०||

Adhikarana 59 (141-143) · Śloka 143

सनातनत्वाद्वेदानामक्षरत्वात्तथैव च | तथा दृष्टफलत्वाच्च हितत्वादपि देहिनाम् ||१४१|| वाक्समूहार्थविस्तारात् पूजितत्वाच्च देहिभिः | चिकित्सितात् पुण्यतमं न किञ्चिदपि शुश्रुमः ||१४२|| ऋषेरिन्द्रप्रभावस्यामृतयोनेर्भिषग्गुरोः | धारयित्वा तु विमलं मतं परमसम्मतम् | उक्ताहारसमाचार इह प्रेत्य च मोदते ||१४३||

🔊 Audio coming soon

चिकित्सितस्योपादेयतामागमप्रत्यक्षफलत्वाभ्यामेव निर्दिशन्नाह- सनातनत्वादित्यादि| चिकित्सितादन्यत् पुण्यतमं न किमपि शुश्रुमः न किमपि अनु गुरुपारम्पर्येण श्रुतवन्तः| कुत इत्याह- सनातनत्वाद्वेदानामिति|- आयुर्वेदाङ्गानां शल्यादीनां सनातनत्वान्नित्यभवत्वादकृतकत्वादित्यर्थः| एतेनाकृतकत्वाख्यहेतुकेन दोषाभावेण तत्प्रोक्तस्य चिकित्सितस्य पुण्यतमत्वम्| तथा अक्षरत्वादायुर्वेदाङ्गानां शल्यादीनां न क्षरतीत्यक्षरमविचलनात्मकमुच्यते, एतानि चायुर्वेदाङ्गान्यक्षराणि अविचलनात्मकानि याथातथ्यादित्यर्थः, एतस्मादपि चिकित्सितं पुण्यतमम्| आगमप्रमाणमभिधाय प्रत्यक्षं प्रमाणमाह- तथा दृष्टफलत्वाच्चेति| दृष्टफलमपि किञ्चिदपुण्यतमं यथा स्तेयादीत्याह- हितत्वादपि देहिनामिति| चिकित्सितादित्यस्य स्वरूपविशेषणमाह- वाक्समूहार्थविस्तारादिति|- वाक्समूहेऽर्थविस्तारो यस्मिन्; अत एव पूजितत्वाच्च देहिभिरिति देहिनः व्याधिपरिमोक्षं स्वस्थरक्षणमिच्छन्त आयुर्वेदं विशिष्टपदपदार्थरूपं स्वसुखकामाः पूजयन्ति| यतश्चिकित्सितमुक्तैर्हेतुभिः पवित्रतमं; तस्मादिन्द्रप्रभावस्य मुनेस्तं वेदमविद्यमानपापलक्षणममलं, परमाणां महतां सम्यड्यतं पूजितं हृदये धारणात्| उक्ताहारसमाचार उक्तव्याधिपरिमोक्षस्वस्थरक्षणाहाराचारः| इह इहलोके, प्रेत्य परलोकेऽपि, मोदते हृष्यति| गयदासस्तु `सनातनत्वाद्वेदानामक्षरत्वात्तथैव च’ इतीदृशं व्याख्यानयति- सनातनत्वात् नित्यभवत्वादायुषः सन्तानस्योपकार्यस्य नित्यसद्भावात्तदुपहितकारकोऽप्यायुर्वेदो नित्यः| तत्रायुषः सन्तानस्यैव सन्ततिनित्यतामुद्दिशन्नाह अक्षरत्वादिति|- न क्षरन्तीति अक्षराणि अकारादयः स्वराः कादीनि च व्यञ्जनानि; तद्घटितत्वादायुर्वेदस्यापि नित्यत्वं कारणानुरूपं कार्यमिति कृत्वा||१४१-१४३||

Adhikarana puShpikA · Śloka 8

इति सुश्रुतसंहितायां कल्पस्थाने कीटकल्पो नामाष्टमोऽध्यायः ||८|| इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां पञ्चमं कल्पस्थानं समाप्तम् |

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां कल्पस्थानेऽष्टमोऽध्यायः||८||