Adhikarana 1 (1-2) · Śloka 2
अथातो मूषिककल्पं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो मूषिककल्पं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि||१-२||
Adhikarana 2 (3-6) · Śloka 6
पूर्वं शुक्रविषा उक्ता मूषिका ये समासतः | नामलक्षणभैषज्यैरष्टादश निबोध मे ||३|| लालनः पुत्रकः कृष्णो हंसिरश्चिक्वि(क्कि)रस्तथा | छुच्छुन्दरोऽलसश्चैव कषायदशनोऽपि च ||४|| कुलिङ्गश्चाजितश्चैव चपलः कपिलस्तथा कोकिलोऽरुणसञ्ज्ञश्च महाकृष्णस्तथोन्दुरः ||५|| श्वेतेन महता सार्धं कपिलेनाखुना तथा | मूषिकश्च कपोताभस्तथैवाष्टादश स्मृताः ||६||
🔊 Audio coming soon
तानेवाष्टादशभेदान् निर्दिशन्नाह- लालन इत्यादि||३-६||
Adhikarana 3 (7) · Śloka 7
शुक्रं पतति यत्रैषां शुक्रस्पृष्टैः स्पृशन्ति वा | नखदन्तादिभिस्तस्मिन् गात्रे रक्तं प्रदुष्यति ||७||
🔊 Audio coming soon
ननु `दष्टरूपं समासोक्तं’ इति वक्ष्यति तत्कथं शुक्रविषत्वमेवेत्याह- शुक्रमित्यादि| नखदन्तादिभिरित्यादिशब्दात् पुरीषमूत्राभ्यां च; तथा चालम्बायने,- “शुक्रेणाथ पुरीषेण मूत्रेणापि नखैस्तथा| दंष्ट्राभिर्वा क्षिपन्तीह मूषिकाः पञ्चधा विषम्”- इति| कस्मिंश्चित्तन्त्रान्तरे विशेषोऽस्ति, तथा च,- “गर्भिण्या मूषिकया दष्टे अम्लादिदोहदः, ऋतुमत्या दष्टे रक्तमेहनमाध्मानं रतिशीलता च” इत्यादि||७||
Adhikarana 4 (8-9) · Śloka 10
जायन्ते ग्रन्थयः शोफाः कर्णिका मण्डलानि च | पीडकोपचयश्चोग्रो विसर्पाः किटिभानि च ||८|| पर्वभेदो रुजस्तीव्रा मूर्च्छाऽङ्गसदनं ज्वरः | दौर्बल्यमरुचिः श्वासो वमथुर्लोमहर्षणम् ||९|| दष्टरूपं समासोक्तमेतद्व्यासमतः शृणु |१०|
🔊 Audio coming soon
सामान्यं मूषिकदष्टलक्षणमभिधातुमाह- जायन्ते ग्रन्थय इत्यादि| कर्णिका कमलमध्यबीजकोशाकृतिः| पर्वभेदः सन्धेः स्फोटः| अङ्गसदनम् अङ्गग्लानिः||८-९||-
Adhikarana 5 (10) · Śloka 11
लालास्रावो लालनेन हिक्का छर्दिश्च जायते ||१०|| तण्डुलीयककल्कं तु लिह्यात्तत्र समाक्षिकम् |११|
🔊 Audio coming soon
तेषां विशिष्टं लक्षणं चिकित्सितं च निर्दिशन्नाह- लालास्राव इत्यादि| लालास्रावच्छर्दिहिक्का वातकोपजा भवन्ति| तण्डुलीयककल्कादिकं व्याधिप्रत्यनीकं चिकित्सितं, दोषप्रत्यनीकं तु सामान्यचिकित्सितोक्तं `तप्तघृतेन दग्ध्वा विस्रावयेद्दंशं’ इत्यादिकम्; एवमन्यत्रापि व्याधिदोषप्रत्यनीकं चिकित्सितं स्वयमूहनीयं; प्रतिमूषिकोक्तं तु चिकित्सितं प्रायो व्याधिप्रत्यनीकमेव||१०||-
Adhikarana 6 (11-12) · Śloka 12
पुत्रकेणाङ्गसादश्च पाण्डुवर्णश्च जायते ||११|| चीयते ग्रन्थिभिश्चाङ्गमाखुशावकसन्निभैः | शिरीषेङ्गुदकल्कं तु लिह्यात्तत्र समाक्षिकम् ||१२||
🔊 Audio coming soon
पुत्रकेणाङ्गेत्यादि| आखुशावकसन्निभैर्मूषिकपुत्रकतुल्यैर्ग्रन्थिभिरङ्गं चीयते व्याप्यत इत्यर्थः| आखुशावकनिभा ग्रन्थयः सर्वमूषिकदंशेषु जायन्ते विशेषेण पुत्रकदष्टे| नागार्जुनोऽत्राह,- “तेन दर्शयते दष्टो व्यक्तं मूषिकपुत्रकान्| एतत् पुत्रकदष्टस्य व्यक्तं भवति लक्षणम्”- इति| `शिरीषेङ्गुदचूर्णं तु’ इति पठित्वा गयदासः अनयोः पत्रचूर्णमिति व्याख्यानयति; जेज्जटाचार्यस्तु `शिरीषफलकल्कं तु’ इति पठति||११-१२||
Adhikarana 7 (13) · Śloka 13
कृष्णेन दंशे शोफोऽसृक्छर्दिः प्रायश्च दुर्दिने | शिरीषफलकुष्ठं तु पिबेत् किंशुकभस्मना ||१३||
🔊 Audio coming soon
कृष्णेनेत्यादि| ग्रन्थ्यादीन्यत्रापि सामान्यमूषिकलक्षणानि विज्ञेयानि; एवं सर्वत्रोन्नेयम्| प्रायश्चेति वचनादन्यत्राप्यसृक्च्छर्दिः| किंशुकभस्मना किंशुककुसुमभस्मोदकेनेत्यर्थः||१३||
Adhikarana 8 (14) · Śloka 14
हंसिरेणान्नविद्वेषो जृम्भा रोम्णां च हर्षणम् | पिबेदारग्वधादिं तु सुवान्तस्तत्र मानवः ||१४||
🔊 Audio coming soon
हंसिरेणेत्यादि| सुवान्तः सुष्ठु वान्तः||१४||
Adhikarana 9 (15) · Śloka 16
चिक्वि(क्कि)रेण शिरोदुःखं शोफो हिक्का वमिस्तथा | जालिनीमदनाङ्कोठकषायैर्वामयेत्तु तम् ||१५|| यवनालर्षभीक्षारं बृहत्योश्चात्र दापयेत् |१६|
🔊 Audio coming soon
चिक्विरेणेत्यादि| जालिनी कोशातकी, ऋषभी कपिकच्छुः, बृहत्योश्चेति चकारेण क्षारमित्यत्रापि सम्बन्धनीयम्| क्षारश्चात्र क्षारोदकम्| गयदासस्तु `जालिनीमदनाङ्कोठ’ इत्यादिस्थाने `सुवान्तो जालिनीक्वाथैः सारमङ्कोठजं पिबेत्’ इति पठति न यवनालादि||१५||-
Adhikarana 10 (16-17) · Śloka 18
छुच्छुन्दरेण तृट् छर्दिर्ज्वरो दौर्बल्यमेव च ||१६|| ग्रीवास्तम्भः पृष्ठशोफो गन्धाज्ञानं विसूचिका | चव्यं हरीतकी शुण्ठी विडङ्गं पिप्पली मधु ||१७|| अङ्कोठबीजं च तथा पिबेदत्र विषापहम् |१८|
🔊 Audio coming soon
छुच्छुन्दरेणेत्यादि| छुच्छुन्दरदष्टलक्षणं तच्चिकित्सितं च गयदासोऽन्यथा पठति; यथा- “भ्रमश्छुच्छुन्दरेणोग्रो ग्रीवास्तम्भो विसूचिका| यवनालर्षभीक्षारं बृहत्योश्चात्र दापयेत्” इति||१६-१७||-
Adhikarana 11 (18-20) · Śloka 21
ग्रीवास्तम्भोऽलसेनोर्ध्ववायुर्दंशे रुजा ज्वरः ||१८|| महागदं ससर्पिष्कं लिह्यात्तत्र समाक्षिकम् | निद्रा कषायदन्तेन हृच्छोषः कार्श्यमेव च ||१९|| क्षौद्रोपेताः शिरीषस्य लिह्यात् सारफलत्वचः | कुलिङ्गेन रुजः शोफो राज्यश्च दंशमण्डले ||२०|| सहे ससिन्धुवारे च लिह्यात्तत्र समाक्षिके |२१|
🔊 Audio coming soon
ग्रीवास्तम्भ इत्यादि| सहे मुद्गपर्णीमाषपर्ण्यौ||१८-२०||-
Adhikarana 12 (21) · Śloka 22
अजितेनाङ्गकृष्णत्वं छर्दिर्मूर्च्छा च हृद्ग्रहः ||२१|| स्नुक्क्षीरपिष्टां पालिन्दीं मञ्जिष्ठां मधुना लिहेत् |२२|
🔊 Audio coming soon
अजितेनेत्यादि| पालिन्दी त्रिवृत्||२१||-
Adhikarana 13 (22) · Śloka 23
चपलेन भवेच्छर्दिर्मूर्च्छा च सह तृष्णया ||२२|| क्षौद्रेण त्रिफलां लिह्याद्भद्रकाष्ठजटान्विताम् |२३|
🔊 Audio coming soon
चपलेनेत्यादि| भद्रकाष्ठं देवदारु, जटा जटामांसी| `जटान्वितां’ इत्यत्र `घनान्विताम्’ इति केचित्||२२||-
Adhikarana 14 (23-24) · Śloka 25
कपिलेन व्रणे कोथो ज्वरो ग्रन्थ्युद्गमः सतृट् ||२३|| लिह्यान्मधुयुतां श्वेतां श्वेतां चापि पुनर्नवाम् | ग्रन्थयः कोकिलेनोग्रा ज्वरो दाहश्च दारुणः ||२४|| वर्षाभूनीलिनीक्वाथकल्कसिद्धं घृतं पिबेत् |२५|
🔊 Audio coming soon
कपिलेनेत्यादि| कोथः पूतिप्रादुर्भावः| श्वेतां श्वेतस्यन्दां, `श्वेतां’ इत्यत्र गयदासः `श्रेष्ठां’ इति पठति||२३-२४||
Adhikarana 15 (25-31) · Śloka 32
अरुणेनानिलः क्रुद्धो वातजान् कुरुते गदान् ||२५|| महाकृष्णेन पित्तं च श्वेतेन कफ एव च | महता कपिलेनासृक् कपोतेन चतुष्टयम् ||२६|| भवन्ति चैषां दंशेषु ग्रन्थिमण्डलकर्णिकाः | पिडकोपचयश्चोग्रः शोफश्च भृशदारुणः ||२७|| दधिक्षीरघृतप्रस्थास्त्रयः प्रत्येकशो मताः | करञ्जारग्वधव्योषबृहत्यंशुमतीस्थिराः ||२८|| निष्क्वाथ्य चैषां क्वाथस्य चतुर्थोंऽशः पुनर्भवेत् | त्रिवृद्गोज्यमृतावक्रसर्पगन्धाः समृत्तिकाः ||२९|| कपित्थदाडिमत्वक् च श्लक्ष्णपिष्टाः प्रदापयेत् | तत् सर्वमेकतः कृत्वा शनैर्मृद्वग्निना पचेत् ||३०|| पञ्चानामरुणादीनां विषमेतद्व्यपोहति | काकादनीकाकमाच्योः स्वरसेष्वथवा कृतम् ||३१|| सिराश्च स्रावयेत् प्राप्ताः कुर्यात् संशोधनानि च |३२|
🔊 Audio coming soon
दध्यादीनि प्रस्थमात्राणि, करञ्जादिद्रव्याणां द्विपलिकं भागं, सलिलाढकेन निष्क्वाथ्य, क्वथितं प्रस्थशेषं, तैस्त्रिभिः प्रस्थैः सह संयोज्य, त्रिवृन्मूलादिकल्कपादं च विपचेत्; पक्वं च घृतं विरेचनं भवति| अंशुमती शालपर्णी, गोजी गोजिह्वा, अमृता गुडूची, वक्रं तगरं, सर्पगन्धा सर्पच्छत्रिका| समृत्तिकाः सकृष्णमृत्तिकाः, `अहिमृत्तिका’ इति केचित् पठन्ति, अत्राहिमृत्तिका वल्मीकमृत्तिका; `अगवृत्तिका’ इति जेज्जटाचार्यः पठति, तत्रागवृत्तिका शल्लकी| द्वितीयं घृतमाह- काकादनीत्यादि| काकादनी कृष्णश्रीफलिका, कृतं संस्कृतं, घृतमिति शेषः| सिरा इत्यादि| प्राप्ता युक्ता मर्मानाश्रिताः| संशोधनानि वमनादीनि नस्यपर्यन्तानि, तान्यपि प्राप्तानि; तेनावम्याविरेच्ययोरवरोधः| अन्ये तु विषातुरा अवम्या अपि वम्या एव, `एतेऽप्यजीर्णव्यथिता वाम्या ये च विषातुरा’ इति||२५-३१||-
Adhikarana 16 (32) · Śloka 32
सर्वेषां च विधिः कार्यो मूषिकाणां विषेष्वयम् ||३२||
🔊 Audio coming soon
अरुणाद्याश्रितं सिराव्यधादिकं सामान्यतः सर्वत्रातिदिशन्नाह- सर्वेषामित्यादि| अयं विधिः सिराव्यधादिकः कर्तव्य इत्यर्थः||३२||
Adhikarana 17 (33) · Śloka 33
दग्ध्वा विस्रावयेद्दंशं प्रच्छितं च प्रलेपयेत् | शिरीषरजनीकुष्ठकुङ्कुमैरमृतायुतैः ||३३||
🔊 Audio coming soon
दग्ध्वेत्यादि| दग्ध्वा `घृतेनाग्नितप्तेन’ इति शेषः| विस्रावयेत् प्रच्छन्नेन प्रच्छितं दंशम्| शिरीषादिभिः कल्कैरालेपयेत्| तथैव केचित् प्रच्छितं दंशं विस्रावयेच्छोणितं शिरीषादिकल्कैरालेपयेच्चेत्याहुः||३३||
Adhikarana 18 (34) · Śloka 34
छर्दनं जालिनीक्वाथैः शुकाख्याङ्कोठयोरपि ||३४||
🔊 Audio coming soon
शोधनं सूत्रितं द्रव्यैर्विवृण्वन्नाह- छर्दनमित्यादि| शुकाख्यः चर्मकारवटः||३४||-
Adhikarana 19 (34-36) · Śloka 36
शुकाख्याकोषवत्योश्च मूलं मदन एव च | देवदालीफलं चैव दध्ना पीत्वा विषं वमेत् | सर्वमूषिकदष्टानामेष योगः सुखावहः ||३५|| फलं वचा देवदाली कुष्ठं गोभूत्रपेषितम् | पूर्वकल्पेन योज्याः स्युः सर्वोन्दुरुविषच्छिदः ||३६||
🔊 Audio coming soon
अपरावपि वमनयोगावाह- शुकाख्येत्यादि| कोषवती घोषकः| मूलमित्यत्र फलमित्यन्ये| फलमित्यादि| पूर्वकल्पेन दध्ना लेहमित्यर्थः||३४-३६||
Adhikarana 20 (37) · Śloka 37
विरेचने त्रिवृद्दन्तीत्रिफलाकल्क इष्यते |३७|
🔊 Audio coming soon
विरेचनमाह- विरेचने इत्यादि| दन्तीस्थाने केचिन्नीलीं पठन्ति|३७|
Adhikarana 21 (37) · Śloka 38
शिरोविरेचने सारः शिरीषस्य फलानि च ||३७|| हितस्त्रिकटुकाढ्यश्च गोमयस्वरसोऽञ्जने |३८|
🔊 Audio coming soon
शिरोविरेचने इत्यादि| सारः शिरीषस्य, गयदासस्तु शालतमालमधूकानामाह| फलानि चेति शिरीषस्येति सम्बन्धः| त्रिकटुकाढ्यः त्रिकटुकोत्कट इत्यर्थः| एतच्च योगान्तरम्||३७||-
Adhikarana 22 (38-40) · Śloka 40
कपित्थगोमयरसौ लिह्यान्माक्षिकसंयुतौ ||३८|| रसाञ्जनहरिद्रेन्द्रयवकट्वीषु वा कृतम् | प्रातः सातिविषं कल्कं लिह्यान्माक्षिकसंयुतम् ||३९|| तण्डुलीयकमूलेषु सर्पिः सिद्धं पिबेन्नरः | आस्फोतमूलसिद्धं वा पञ्चकापित्थमेव वा ||४०||
🔊 Audio coming soon
संशमनयोगानाह- कपित्थेत्यादि| प्रत्येकं कपित्थरसो गोमयरसश्च समधुर्लेहः| रसाञ्जनेत्यादि| कट्वी कटुरोहिणी| तण्डुलीयकेत्यादि| कपित्थफलमूलपुष्पत्वक्पत्रकल्ककषायसिद्धं पञ्चकापित्थं घृतं सर्वमूषिकविषहरम्||३८-४०||
Adhikarana 23 (41) · Śloka 41
मूषिकाणां विषं प्रायः कुप्यत्यभ्रेष्वनिर्हृतम् | तत्राप्येष विधिः कार्यो यश्च दूषीविषापहः ||४१||
🔊 Audio coming soon
प्रशान्तकोपस्याप्यवश्यं वमनादिशोधनं करणीयमिति दर्शयन्नाह- मूषिकाणामित्यादि| एष विधिः वमनविरेचनशिरोविरेचननयनाञ्जनादिः| यश्च दूषीविषापहो विधिः सोऽप्यत्र कार्यः; एतेन दूषीविषतुल्यता मूषिकविषस्योक्ता||४१||
Adhikarana 24 (42) · Śloka 42
स्थिराणां रुजतां वाऽपि व्रणानां कर्णिकां भिषक् | पाटयित्वा यथादोषं व्रणवच्चापि शोधयेत् ||४२||
🔊 Audio coming soon
इदानीमाखुविषव्रणे कर्णिका भवन्ति तथाऽन्यविषदुष्टव्रणेऽपि, तच्चिकित्सामुद्दिशन्नाह- स्थिराणामित्यादि| स्थैर्येण कफात्मकता, रुजतामित्यनेन वातात्मकता व्रणानामुक्ता| कर्णिकां मांसकर्णीकम्| पाटयित्वा विदार्य, पाटयित्वेत्यत्र पाचयित्वेति केचित्, पातयित्वेत्यपरे| लालनपुत्रकादिमूषिकजातिविशेषज्ञानं नानादेशीयलोकेभ्योऽवगन्तव्यम्||४२||
Adhikarana 25 (43-45) · Śloka 46
श्वशृगालतरक्ष्वृक्षव्याघ्रादीनां यदाऽनिलः | श्लेष्मप्रदुष्टो मुष्णाति सञ्ज्ञां सञ्ज्ञावहाश्रितः ||४३|| तदा प्रस्रस्तलाङ्गूलहनुस्कन्धोऽतिलालवान् | अत्यर्थबधिरोऽन्धश्च सोऽन्योन्यमभिधावति ||४४|| तेनोन्मत्तेन दष्टस्य दंष्ट्रिणा सविषेण तु | सुप्तता जायते दंशे कृष्णं चातिस्रवत्यसृक् ||४५|| दिग्धविद्धस्य लिङ्गेन प्रायशश्चोपलक्षितः |४६|
🔊 Audio coming soon
इदानीं मूषकस्य चतुष्पदजरायुजहिंस्रत्वसामान्याच्छ्वादीनां विषं लक्षणचिकित्सितैरुद्दिशन्नाह- श्वशृगालतरक्ष्वृक्षेत्यादि| श्वा कुक्कुरः, शृगालः प्रसिद्धः, तरक्षुः मृगशत्रुर्व्याघ्रविशेषः `जरख’ इति लोके, ऋक्षो भल्लूकोऽतिलोमशः `रीच्छ’ इति प्रसिद्धः; आदिशब्दाद्वृकचित्रकादयो हिंस्राः पशवो ग्राह्याः| श्वादीनां यदाऽनिलो वायुः श्लेष्मप्रदुष्टः सन्, सञ्ज्ञावहाश्रितो सञ्ज्ञावहस्रोतोगतः, सञ्ज्ञां सम्यग्ज्ञानं, मुष्णाति हरति| सम्यग्ज्ञानहरणाच्च कीदृशो भवतीत्याह- तदेत्यादि| प्रस्रस्तं स्थानच्युतं लाङ्गूलं बालधिर्मेहनं वा हनुः स्कन्धश्च यस्य सः; प्रस्रस्तशब्दो लाङ्गूलादिभिः प्रत्येकं सम्बन्धनीयः| अतिलालवान् अतिशयेन लालास्रावयुक्तः| अत्यर्थबधिरोऽन्धश्च अतिशयेन बधिरोऽन्धो वेत्यर्थः| अन्योन्यमभिधावति परस्परं दष्टुमभिधावति| हनुस्कन्धस्थाने `गलस्कन्ध ’ इति केचित् पठन्ति| `प्रमूढोऽन्यतमस्तेषां खादन् विपरिधावति’ इति अत्र उत्तरार्धं केचित् पठन्ति| एषां मध्येऽन्यतम एकतमः प्रमूढः सन् खादन् विशेषेण परिधावति| तेनोन्मत्तेन दष्टस्येत्यादि| तेन दंष्ट्रिणा सविषेणोन्मत्तेन दष्टस्य पुरुषस्य दंशे सुप्तता बाधिर्य जायते| उपलक्षितो युक्त इत्यर्थः||४३-४५||-
Adhikarana 26 (46) · Śloka 47
येन चापि भवेद्दष्टस्तस्य चेष्टां रुतं नरः ||४६|| बहुशः प्रतिकुर्वाणः क्रियाहीनो विनश्यति |४७|
🔊 Audio coming soon
अत्रैवारिष्टमुद्दिशन्नाह- येन चापि भवेदित्यादि| चेष्टा क्रिया, रुतं शब्दः, बहुशः अनेकवारं, प्रतिकुर्वाणः अनुकुर्वन्, क्रियाहीनः स्वकीयकायादिव्यापाररहितः||४६||-
Adhikarana 27 (47) · Śloka 48
दंष्ट्रिणा येन दष्टश्च तद्रूपं यस्तु पश्यति ||४७|| अप्सु वा यदि वाऽऽदर्शेऽरिष्टं तस्य विनिर्दिशेत् |४८|
🔊 Audio coming soon
इदानीमपरमप्यरिष्टं निर्दिशन्नाह- दंष्ट्रिणा येनेत्यादि| तद्दंष्ट्रिरूपदर्शनमरिष्टं मरणलक्षणम्||४७||-
Adhikarana 28 (48) · Śloka 49
त्रस्यत्यकस्माद्योऽभीक्ष्णं दृष्ट्वा स्पृष्ट्वाऽपि वा जलम् ||४८|| जलत्रासं तु विद्यात्तं रिष्टं तदपि कीर्तितम् |४९|
🔊 Audio coming soon
पुनरपरमप्यरिष्टं निर्दिशन्नाह- त्रस्यतीत्यादि| अकस्मात् जलत्रासहेतुं विना| अपिशब्दाच्छ्रुत्वाऽपि| जलत्रासं जलत्रासरोगं जानीयात्तस्येति सम्बन्धः| रिष्टमित्यादि| तदपि जलत्रसनमरिष्टं मरणलक्षणं कीर्तितं; एतच्चारिष्टं दष्टस्य, अदष्टे जलत्रसनारिष्टस्य वक्ष्यमाणत्वात्| अत्रार्थे तन्त्रान्तरम्,- “व्याधितेन श्वादिना दष्टस्य श्लेष्मा प्रकुपितश्चेतोवाहिनीर्धमनीरनुप्रविश्य सञ्ज्ञानाशमापादयति सद्यः कालान्तराद्वा”; अवभृते विशेषतः- “ततो नरः स्पृष्ट्वा दृष्ट्वा श्रुत्वा वा जलं त्रस्यति, तस्यापि तदरिष्टं जानीयात्” इति| गयदासस्तु `यदि त्रस्यत्यदष्टोऽपि’ इत्यादि पठति||४८||-
Adhikarana 29 (49) · Śloka 50
अदष्टो वा जलत्रासी न कथञ्चन सिध्यति ||४९|| प्रसुप्तोऽथोत्थितो वाऽपि स्वस्थस्त्रस्तो न सिध्यति |५०|
🔊 Audio coming soon
एवमदष्टस्यापि जलत्रासोऽरिष्टमेवेति दर्शयन्नाह- अदष्ट इत्यादि| अस्मिन्नर्थे तन्त्रान्तरम्,- “अदष्टस्यापि जन्तोर्हि जलत्रासो भवेद्यदि| तस्य रिष्टं हि भिषजो ब्रुवते विषचिन्तकाः” इति| जलं विनाऽपि जलत्रासो जायते श्लेष्मसञ्चयात्| तथा चोक्तं,- “बुद्धिस्थानं यदा श्लेष्मा केवलं प्रतिपद्यते| तदा बुद्धौ निरुद्धायां श्लेष्मणाऽधिष्ठितो नरः|जाग्रत् सुप्तोऽथवाऽऽत्मानं मज्जन्तमिव मन्यते| सलिले त्रस्यति तदा जलत्रासं तु तं विदुः|| श्लेष्मघ्नं तत्र कर्तव्यं शोधनं शमनानि च| आहारस्य विधानेन यावत् स प्रकृतिं व्रजेत्”- इति| अयं जलत्रासः कुपितकफस्य भवतीति रिष्टं न भवति, अत एवात्र चिकित्सोपदेशः, दष्टस्य तु रिष्टमेव| तथा स्वस्थस्य सुप्तस्य जाग्रतो वा जलमन्तरेण त्रासोऽरिष्टमेवेति दर्शयन्नाह- प्रसुप्तोऽथोत्थितो वाऽपीत्यादि||४९||-
Adhikarana 30 (50-52) · Śloka 53
दंशं विस्राव्य तैर्दष्टे सर्पिषा परिदाहितम् ||५०|| प्रदिह्यादगदैः, सर्पिः पुराणं पाययेत च | अर्कक्षीरयुतं ह्यस्य दद्याच्चापि विशोधनम् ||५१|| श्वेतां पुनर्नवां चास्य दद्याद्धत्तूरकायुताम् | पललं तिलतैलं च रूपिकायाः पयो गुडः ||५२|| निहन्ति विषमालर्कं मेघवृन्दमिवानिलः |५३|
🔊 Audio coming soon
इदानीं चिकित्सावसरः- दंशं विस्राव्येत्यादि| विस्राव्य निष्पीडनेन स्रावयित्वा बीजभूतस्य विषस्य नाशनार्थं, सर्पिषा दाहस्तु तच्छेषनाशनार्थम्| अगदैः महागदादिभिः, प्रदिह्यात् लिम्पेत्| विस्रावितशोणितस्य वातशमनार्थं बाह्यमौषधमुद्दिश्याभ्यन्तरमुद्दिशन्नाह- सर्पिरित्यादि| विशोधनं विशोधनद्रव्यं, तत्र कफाधिक्ये वमनद्रव्ययुतं पित्ताधिक्ये विरेचनद्रव्ययुतमर्कक्षीरं दद्यात्| जेज्जटस्तु `अर्कक्षीरं घृतं वाऽस्य’ इति पठति| अन्ये `दद्याच्छीर्षविरेचनं’ इति पठन्ति| श्वेतामित्यादि|- श्वेतामिति पुनर्नवाविशेषणम्; अन्ये श्वेतां कटभीमाहुः| धत्तूरकायुतां धत्तूरमूलान्विताम्| गयी तु `धत्तूरार्धसमायुताम्’ इति पठित्वा, धत्तूरमूलस्यार्धेन युतामिति व्याख्यानयति| अन्ये तु धत्तूरफलसंयुतामित्याहुः||५०-५२||-
Adhikarana 31 (53-58) · Śloka 59
मूलस्य शरपुङ्खायाः कर्षं धत्तूरकार्धिकम् ||५३|| तण्डुलोदकमादाय पेषयेत्तण्डुलैः सह | उन्मत्तकस्य पत्रैस्तु संवेष्ट्यापूपकं पचेत् ||५४|| खादेदौषधकाले तमलर्कविषदूषितः | करोति श्वविकारांस्तु तस्मिञ्जीर्यति चौषधे ||५५|| विकाराः शिशिरे याप्या गृहे वारिविवर्जिते | ततः शान्तविकारस्तु स्नात्वा चैवापरेऽहनि ||५६|| शालिषष्टिकयोर्भक्तं क्षीरेणोष्णेन भोजयेत् | दिनत्रये पञ्चमे वा विधिरेषोऽर्धमात्रया ||५७|| कर्तव्यो भिषजाऽवश्यमलर्कविषनाशनः | कुप्येत् स्वयं विषं यस्य न स जीवति मानवः ||५८|| तस्मात् प्रकोपयेदाशु स्वयं यावत् प्रकुप्यति |५९|
🔊 Audio coming soon
मूलमित्यादि| धत्तूरकार्धिकमिति धत्तूरकजटायाः कर्षार्धं देयम्| उन्मत्तकस्य पत्रैस्त्वित्यादि| धत्तूरकस्य सप्त पर्णानि ग्राह्याणि, तन्त्रान्तरदर्शनात्| तस्य भक्षितस्य जरणकाले योगप्रभवादातुरः कुक्कुरचेष्टा एव करोति| औषधपरिणतिकाले यांश्च विकारानातुरः करोति तेषु प्रतीकारमाह- विकारा इत्यादि| विकारा उन्मत्तश्वादिदष्टोत्पन्नाः| शिशिरे शीतले वारिविवर्जिते गृहे याप्याः शमनीयाः | तत इत्यादि| क्षीरेणोष्णेन भोजयेदिति अन्नं गव्येनाज्ये(जे)न वा भोजयेदिति गयदासाचार्यः| एष विधिः श्वेतां पुनर्नवामित्यादिकः| अर्धमात्रया प्रागुक्तमात्रातः| कस्मादेष विधिः कार्यो दिनत्रये पञ्चमे वेत्याह- कुप्येदित्यादि||५३-५८||-
Adhikarana 32 (59-61) · Śloka 62
बीजरत्नौषधीगर्भैः कुम्भैः शीताम्बुपूरितैः ||५९|| स्नापयेत्तं नदीतीरे समन्त्रैर्वा चतुष्पथे | बलिं निवेद्य तत्रापि पिण्याकं पललं दधि ||६०|| माल्यानि च विचित्राणि मांसं पक्वामकं तथा | अलकाधिपते यक्ष सारमेयगणाधिप ! ||६१|| अलर्कजुष्टमेतन्मे निर्विषं कुरु माचिरात् |६२|
🔊 Audio coming soon
इदानीमलर्कविषे भूतानुबन्धो भवतीति तच्चिकित्सार्थं सविधिवैदिकं मन्त्रमुद्दिशन्नाह- बीजरत्नौषधीत्यादि| तमलर्कजुष्टम् अलर्कविषजुष्टम्| पिण्याकः तिलखली, पललः सस्नेहस्तिलकल्कः| अलकाया नगर्या अधिपतिः धनदः, यक्षो देवयोनिः, सारमेयगणाधिपः कुक्कुरसमूहपतिः, तस्य सम्बोधने| अलकाधिपतिर्यक्ष एव सारमेयगणाधिपतिः| अलर्कं उन्मत्तकुक्कुरः||५९-६१||-
Adhikarana 33 (62) · Śloka 63
दद्यात् संशोधनं तीक्ष्णमेवं स्नातस्य देहिनः ||६२|| अशुद्धस्य सुरूढेऽपि व्रणे कुप्यति तद्विषम् |६३|
🔊 Audio coming soon
दद्यादित्यादि||६२||-
Adhikarana 34 (63-64) · Śloka 64
श्वादयोऽभिहिता व्याला येऽत्र दंष्ट्राविषा मया ||६३|| अतः करोति दष्टस्तु तेषां चेष्टां रुतं नरः | बहुशः प्रतिकुर्वाणो न चिरान्म्रियते च सः ||६४||
🔊 Audio coming soon
इदानीमुन्मत्तश्वादिविषं प्रतिपादयितुमुन्मत्तव्यालानामुन्मत्ततासूचकश्वप्रकारेणाभिहितत्वमाह- श्वादयोऽभिहिता व्याला इत्यादि| येऽत्र दंष्ट्राविषा व्यालाः ते श्वादयः श्वप्रकारा उन्मत्तश्वसदृशा मया प्रतिपादिताः, ते तु वातपित्तप्रकोपणदंशासृक्कृष्णत्वेन पुराणसर्पिःपानेन चानुमिताः||६३-६४||
Adhikarana 35 (65) · Śloka 65
नखदन्तक्षतं व्यालैर्यत्कृतं तद्विमर्दयेत् | सिञ्चेत्तैलेन कोष्णेन ते हि वातप्रकोपकाः ||६५||
🔊 Audio coming soon
उन्मत्तश्वादिचिकित्सितं सहेतुकं दर्शयन्नाह- नखदन्तक्षतमित्यादि||६५||
Adhikarana puShpikA · Śloka 7
इति सुश्रुतसंहितायां कल्पस्थाने मूषिककल्पो नाम सप्तमोऽध्यायः ||७||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतटीकायां कल्पस्थाने सप्तमोऽध्यायः||७||