Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

8. kīṭakalpaḥ

Adhikarana 1 (1-4) · Śloka 4

अथातः कीटकल्पं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| सर्पाणां शुक्रविण्मूत्रशवपूत्यण्डसम्भवाः | वाय्वग्न्यम्बुप्रकृतयः कीटास्तु विविधाः स्मृताः ||३|| सर्वदोषप्रकृतिभिर्युक्तास्ते परिणामतः | कीटत्वेऽपि सुघोराः स्युः, सर्व एव चतुर्विधाः ||४||

🔊 Audio coming soon

Adhikarana 2 (5-7) · Śloka 8

कुम्भीनसस्तुण्डिकेरी शृङ्गी शतकुलीरकः | उच्चिटिङ्गोऽग्निनामा च चिच्चिटिङ्गो मयूरिका ||५|| आवर्तकस्तथोरभ्रः सारिकामुखवैदलौ | शरावकुर्दोऽभीराजिः परुषश्चित्रशीर्षकः ||६|| शतबाहुश्च यश्चापि रक्तराजिश्च कीर्तितः | अष्टादशेति वायव्याः कीटाः पवनकोपनाः ||७|| तैर्भवन्तीह दष्टानां रोगा वातनिमित्तजाः |८|

🔊 Audio coming soon

Adhikarana 3 (8-11) · Śloka 12

कौण्डिन्यकः कणभको वरटी पत्रवृश्चिकः ||८|| विनासिका ब्राह्मणिका बिन्दुलो भ्रमरस्तथा | बाह्यकी पिच्चिटः कुम्भी वर्चःकीटोऽरिमेदकः ||९|| पद्मकीटो दुन्दुभिको मकरः शतपादकः | पञ्चालकः पाकमत्स्यः कृष्णतुण्डोऽथ गर्दभी ||१०|| क्लीतः कृमिसरारी च यश्चाप्युत्क्लेशकस्तथा | एते ह्यग्निप्रकृतयश्चतुर्विंशतिरेव च ||११|| तैर्भवन्तीह दष्टानां रोगाः पित्तनिमित्तजाः |१२|

🔊 Audio coming soon

Adhikarana 4 (12-14) · Śloka 15

विश्वम्भरः पञ्चशुक्लः पञ्चकृष्णोऽथ कोकिलः ||१२|| सैरेयकः प्रचलको वलभः किटिभस्तथा | सूचीमुखः कृष्णगोधा यश्च काषायवासिकः ||१३|| कीटो गर्दभकश्चैव तथा त्रोटक एव च | त्रयोदशैते सौम्याः स्युः कीटाः श्लेष्मप्रकोपणाः ||१४|| तैर्भवन्तीह दष्टानां रोगाः कफनिमित्तजाः |१५|

🔊 Audio coming soon

Adhikarana 5 (15-18) · Śloka 18

तुङ्गीनासो विचिलकस्तालको वाहकस्तथा ||१५|| कोष्ठागारी क्रिमिकरो यश्च मण्डलपुच्छकः | तुण्ड(ङ्ग)नाभः सर्षपिको वल्गुलिः शम्बुकस्तथा ||१६|| अग्निकीटश्च विज्ञेया द्वादश प्राणनाशनाः | तैर्भवन्तीह दष्टानां वेगज्ञानानि सर्पवत् ||१७|| तास्ताश्च वेदनास्तीव्रा रोगा वै सान्निपातिकाः | क्षाराग्निदग्धवद्दंशो रक्तपीतसितारुणः ||१८||

🔊 Audio coming soon

Adhikarana 6 (19-22) · Śloka 23

ज्वराङ्गमर्दरोमाञ्चवेदनाभिः समन्वितः | छर्द्यतीसारतृष्णाश्च दाहो मूर्च्छा विजृम्भिका ||१९|| वेपथुश्वासहिक्काश्च दाहः शीतं च दारुणम् | पिडकोपचयः शोफो ग्रन्थयो मण्डलानि च ||२०|| दद्रवः कर्णिकाश्चैव विसर्पाः किटिभानि च | तैर्भवन्तीह दष्टानां यथास्वं चाप्युपद्रवाः ||२१|| येऽन्ये तेषां विशेषास्तु तूर्णं तेषां समादिशेत् | दूषीविषप्रकोपाच्च तथैव विषलेपनात् ||२२|| लिङ्गं तीक्ष्णविषेष्वेत... |२३|

🔊 Audio coming soon

Adhikarana 7 (23) · Śloka 24

...च्छृणु मन्दविषेष्वतः | प्रसेकारोचकच्छर्दिशिरोगौरवशीतकाः ||२३|| पिडकाकोठकण्डूनां जन्म दोषविभागतः |२४|

🔊 Audio coming soon

Adhikarana 8 (24) · Śloka 25

योगैर्नानाविधैरेषां चूर्णानि गरमादिशेत् ||२४|| दूषीविषप्रकाराणां तथा चाप्यनुलेपनात् |२५|

🔊 Audio coming soon

Adhikarana 9 (25-27) · Śloka 27

एकजातीनतस्तूर्ध्वं कीटान् वक्ष्यामि भेदतः ||२५|| सामान्यतो दष्टलिङ्गैः साध्यासाध्यक्रमेण च | त्रिकण्टः करिणी चापि हस्तिकक्षोऽपराजितः | चत्वार एते कणभा व्याख्यातास्तीव्रवेदनाः ||२६|| तैर्दष्टस्य श्वयथुरङ्गमर्दो गुरुता गात्राणां दंशः कृष्णश्च भवति ||२७||

🔊 Audio coming soon

Adhikarana 10 (28) · Śloka 28

प्रतिसूर्यकः , पिङ्गाभासो, बहुवर्णो, निरूपमो गोधेरेक इति पञ्च गोधेरकाः ; तैर्दष्टस्य शोफो दाहरुजौ च भवतः, गोधेरकेणैतदेव ग्रन्थिप्रादुर्भावो ज्वरश्च ||२८||

🔊 Audio coming soon

Adhikarana 11 (29-31) · Śloka 31

गलगोलिका - श्वेता, कृष्णा, रक्तराजी, रक्तमण्डला, सर्वश्वेता, सर्षपिकेत्येवं षट्; ताभिर्दष्टे सर्षपिकावर्जं दाहशोफक्लेदा भवन्ति, सर्षपिकया हृदयपिडाऽतिसारश्च, तासु मध्ये सर्षपिका प्राणहरी ||२९|| शतपद्यस्तु- परुषा, कृष्णा, चित्रा, कपिला, पीतिका, रक्ता, श्वेता, अग्निप्रभा, इत्यष्टौ; ताभिर्दष्टे शोफो वेदना दाहश्च हृदये, श्वेताग्निप्रभाभ्यामेतदेव दाहो मूर्च्छा चातिमात्रं श्वेतपिडकोत्पत्तिश्च ||३०|| मण्डूकाः- कृष्णः, सारः, कुहको, हरितो, रक्तो, यववर्णाभो, भृकुटी, कोटिकश्चेत्यष्टौ; तैर्दष्टस्य दंशे कण्डूर्भवति पीतफेनागमश्च वक्त्रात्, भृकुटीकोटिकाभ्यामेतदेव दाहश्छर्दिर्मूर्च्छा चातिमात्रम् ||३१||

🔊 Audio coming soon

Adhikarana 12 (32) · Śloka 32

विश्वम्भराभिर्दष्टे दंशः सर्षपाकाराभिः पिडकाभिः सरुजाभिश्चीयते, शीतज्वरार्तश्च पुरुषो भवति ||३२||

🔊 Audio coming soon

Adhikarana 13 (33) · Śloka 33

अहिण्डुकाभिर्दष्टे तोददाहकण्डुश्वयथवो भवन्ति मोहश्च; कण्डूमकाभिर्दष्टे पीताङ्गश्छर्द्यतीसारज्वरादिभिरभिहन्यते; शूकवृन्ताभिर्दष्टे कण्डूकोठाः प्रवर्धन्ते शूकं चात्र लक्ष्यते ||३३||

🔊 Audio coming soon

Adhikarana 14 (34-38) · Śloka 38

पिपीलिकाः- स्थूलशीर्षा, संवाहिका, ब्राह्मणिका, अङ्गुलिका; कपिलिका, चित्रवर्णेति षट्; ताभिर्दष्टे दंशे श्वयथुरग्निस्पर्शवद्दाहशोफौ भवतः ||३४|| मक्षिकाः- कान्तारिका, कृष्णा, पिङ्गला, मधूलिका, काषायी, स्थालिकेत्येवं षट्; ताभिर्दष्टस्य कण्डुशोफदाहरुजो भवन्ति, स्थालिकाकाषायीभ्यामेतदेव श्यावपिडकोत्पत्तिरुपद्रवाश्च ज्वरादयो भवन्ति, काषायी स्थालिका च प्राणहरे ||३५|| मशकाः- सामुद्रः, परिमण्डलो, हस्तिमशकः, कृष्णः, पार्वतीय इति पञ्च; तैर्दष्टस्य तीव्रा कण्डूर्दंशशोफश्च, पार्वतीयस्तु कीटैः प्राणहरैस्तुल्यलक्षणः ||३६|| नखावकृष्टेऽत्यर्थं पिडकादाहपाका भवन्ति | जलौकसां दष्टलक्षणमुक्तं चिकित्सितं च ||३७|| भवन्ति चात्र- गोधेरकः स्थालिका च ये च श्वेताग्निसप्रभे | भृकुटी कोटिकश्चैव न सिध्यन्त्येकजातिषु ||३८||

🔊 Audio coming soon

Adhikarana 15 (39-40) · Śloka 40

शवमूत्रपुरीषैस्तु सविषैरवमर्शनात् | स्युः कण्डूदाहकोठारुःपिडकातोदवेदनाः ||३९|| प्रक्लेदवांस्तथा स्रावो भृशं सम्पाचयेत्त्वचम् | दिग्धविद्धक्रियास्तत्र यथावदवचारयेत् ||४०||

🔊 Audio coming soon

Adhikarana 16 (41) · Śloka 41

नावसन्नं न चोत्सन्नमतिसंरम्भवेदनम् | दंशादौ विपरीतार्ति कीटदष्टं सुबाधकम् ||४१||

🔊 Audio coming soon

Adhikarana 17 (42) · Śloka 42

दष्टानुग्रविषैः कीटैः सर्पवत् समुपाचरेत् | त्रिविधानां तु पूर्वेषां त्रैविध्येन क्रिया हिताः ||४२||

🔊 Audio coming soon

Adhikarana 18 (43) · Śloka 44

स्वेदमालेपनं सेकं चोष्णमत्रावचारयेत् | अन्यत्र मूर्च्छिताद्दंशात् पाककोथप्रपीडितात् ||४३|| विषघ्नं च विधिं सर्वं बहुशः शोधनानि च |४४|

🔊 Audio coming soon

Adhikarana 19 (44-45) · Śloka 45

शिरीषकटुकाकुष्ठवचारजनिसैन्धवैः ||४४|| क्षीरमज्जवसासर्पिःशुण्ठीपिप्पलिदारुषु | उत्कारिका स्थिरादौ वा सुकृता स्वेदने हिता ||४५||

🔊 Audio coming soon

Adhikarana 20 (46) · Śloka 46

न स्वेदयेत चादंशं धूमं वक्ष्यामि वृश्चिके |४६|

🔊 Audio coming soon

Adhikarana 21 (46-47) · Śloka 47

अगदानेकजातीषु प्रवक्ष्यामि पृथक् पृथक् ||४६|| कुष्ठं वक्रं वचा पाठा बिल्वमूलं सुवर्चिका | गृहधूमं हरिद्रे द्वे त्रिकण्टकविषे हिताः ||४७||

🔊 Audio coming soon

Adhikarana 22 (48) · Śloka 48

रजन्यागारधूमश्च वक्रं कुष्ठं पलाशजम् | गलगोलिकद्ष्टानामगदो विषनाशनः ||४८||

🔊 Audio coming soon

Adhikarana 23 (49-50) · Śloka 50

कुङ्कुमं तगरं शिग्रु पद्मकं रजनीद्वयम् | अगदो जलपिष्टोऽयं शतपद्विषनाशनः ||४९|| मेषशृङ्गी वचा पाठा निचुलो रोहिणी जलम् | सर्वमण्डूकदष्टानामगदोऽयं विषापहः ||५०||

🔊 Audio coming soon

Adhikarana 24 (51) · Śloka 51

धवाश्वगन्धातिबलाबलासातिगुहागुहाः | विश्वम्भराभिदष्टानामगदोऽयं विषापहः ||५१||

🔊 Audio coming soon

Adhikarana 25 (52) · Śloka 52

शिरीषं तगरं कुष्ठं शालिपर्णी सहा निशे | अहिण्डुकाभिर्दष्टानामगदो विषनाशनः ||५२||

🔊 Audio coming soon

Adhikarana 26 (53-55) · Śloka 56

कण्डूमकाभिर्दष्टानां रात्रौ शीताः क्रिया हिताः | दिवा ते नैव सिध्यन्ति सूर्यरश्मिबलार्दिताः ||५३|| वक्रं कुष्ठमपामार्गः शूकवृन्तविषेऽगदः | भृङ्गस्वरसपिष्टा वा कृष्णवल्मीकमृत्तिका ||५४|| पिपीलिकाभिर्दष्टानां मक्षिकामशकैस्तथा | गोमूत्रेण युतो लेपः कृष्णवल्मीकमृत्तिका ||५५|| नखावघृष्टसञ्जाते शोफे भृङ्गरसो हितः |५६|

🔊 Audio coming soon

Adhikarana 27 (56) · Śloka 56

प्रतिसूर्यकदष्टानां सर्पदष्टवदाचरेत् |५६|

🔊 Audio coming soon

Adhikarana 28 (56) · Śloka 56

त्रिविधा वृश्चिकाः प्रोक्ता मन्दमध्यमहाविषाः ||५६||

🔊 Audio coming soon

Adhikarana 29 (57) · Śloka 57

गोशकृत्कोथजा मन्दा मध्याः काष्ठेष्टिकोद्भवाः | सर्पकोथोद्भवास्तीक्ष्णा ये चान्ये विषसम्भवाः ||५७||

🔊 Audio coming soon

Adhikarana 30 (58) · Śloka 58

मन्दा द्वादश मध्यास्तु त्रयः पञ्चदशोत्तमाः | दश विंशतिरित्येते सङ्ख्यया परिकीर्तिताः ||५८||

🔊 Audio coming soon

Adhikarana 31 (59-60) · Śloka 61

कृष्णः श्यावः कर्बुरः पाण्डुवर्णो गोमूत्राभः कर्कशो मेचकश्च | पीतो धूम्रो रोमशः शाड्वलाभो रक्तः श्वेतेनोदरेणेति मन्दाः ||५९|| युक्ताश्चैते वृश्चिकाः पुच्छदेशे स्युर्भूयोभिः पर्वभिश्चेतरेभ्यः | एभिर्दष्टे वेदना वेपथुश्च गात्रस्तम्भः कृष्णरक्तागमश्च ||६०|| शाखादष्टे वेदना चोर्ध्वमेति दाहस्वेदौ दंशशोफो ज्वरश्च |६१|

🔊 Audio coming soon

Adhikarana 32 (61-62) · Śloka 63

रक्तः पीतः कापिलेनोदरेण सर्वे धूम्राः पर्वभिश्च त्रिभिः स्युः ||६१|| एते मूत्रोच्चारपूत्यण्डजाता मध्या ज्ञेयास्त्रिप्रकारोरगाणाम् | यस्यैतेषामन्वयाद्यः प्रसूतो दोषोत्पत्तिं तत्स्वरूपां स कुर्यात् ||६२|| जिह्वाशोफो भोजनस्यावरोधो मूर्च्छा चोग्रा मध्यवीर्याभिदष्टे |६३|

🔊 Audio coming soon

Adhikarana 33 (63-66) · Śloka 66

श्वेतश्चित्रः श्यामलो लोहिताभो रक्तः श्वेतो रक्तनीलोदरौ च ||६३|| पीतोऽरक्तो नीलपीतोऽपरस्तु रक्तो नीलो नीलशुक्लस्तथा च | रक्तो बभ्रुः पूर्ववच्चैकपर्वा यश्चापर्वा पर्वणी द्वे च यस्य ||६४|| नानारूपा वर्णतश्चापि घोरा ज्ञेयाश्चैते वृश्चिकाः प्राणचौराः | जन्मैतेषां सर्पकोथात् प्रदिष्टं देहेभ्यो वा घातितानां विषेण ||६५|| एभिर्दष्टे सर्पवेगप्रवृत्तिः स्फोटोत्पत्तिर्भ्रान्तिदाहौ ज्वरश्च | खेभ्यः कृष्णं शोणितं याति तीव्रं तस्मात् प्राणैस्त्यज्यते शीघ्रमेव ||६६||

🔊 Audio coming soon

Adhikarana 34 (67) · Śloka 68

उग्रमध्यविषैर्दष्टं चिकित्सेत् सर्पदष्टवत् | आदंशं स्वेदितं चूर्णैः प्रच्छितं प्रतिसारयेत् ||६७|| रजनीसैन्धवव्योषशिरीषफलपुष्पजैः |६८|

🔊 Audio coming soon

Adhikarana 35 (68-74) · Śloka 74

मातुलुङ्गाम्लगोमूत्रपिष्टं च सुरसाग्रजम् ||६८|| लेपे, स्वेदे सुखोष्णं च गोमयं हितमिष्यते | पाने क्षौद्रयुतं सर्पिः क्षीरं वा बहुशर्करम् ||६९|| दंशं मन्दविषाणां तु चक्रतैलेन सेचयेत् | विदारीगणसिद्धेन सुखोष्णेनाथवा पुनः ||७०|| कुर्याच्चोत्कारिकास्वेदं विषघ्नैरुपनाहयेत् | गुडोदकं वा सुहिमं चातुर्जातकसंयुतम् ||७१|| पानमस्मै प्रदातव्यं क्षीरं वा सगुडं हिमम् | शिखिकुक्कुटबर्हाणि सैन्धवं तैलसर्पिषी ||७२|| धूमो हन्ति प्रयुक्तस्तु शीघ्रं वृश्चिकजं विषम् | कुसुम्भपुष्पं रजनी निशा वा कोद्रवं तृणम् ||७३|| एभिर्घृताक्तैर्धूपस्तु पायुदेशे प्रयोजितः | नाशयेदाशु कीटोत्थं वृश्चिकस्य च यद्विषम् ||७४||

🔊 Audio coming soon

Adhikarana 36 (75-76) · Śloka 76

लूताविषं घोरतमं दुर्विज्ञेयतमं च तत् | दुश्चिकित्स्यतमं चापि भिषग्भिर्मन्दबुद्धिभिः ||७५|| सविषं निर्विषं चैतदित्येवं परिशङ्किते | विषघ्नमेव कर्तव्यमविरोधि यदौषधम् ||७६||

🔊 Audio coming soon

Adhikarana 37 (77-78) · Śloka 78

अगदानां हि संयोगो विषजुष्टस्य युज्यते | निर्विषे मानवे युक्तोऽगदः सम्पद्यतेऽसुखम् ||७७|| तस्मात् सर्वप्रयत्नेन ज्ञातव्यो विषनिश्चयः | अज्ञात्वा विषसद्भावं भिषग्व्यापादयेन्नरम् ||७८||

🔊 Audio coming soon

Adhikarana 38 (79) · Śloka 79

प्रोद्भिद्यमानस्तु यथाऽङ्कुरेण न व्यक्तजातिः प्रविभाति वृक्षः | तद्वद्दुरालक्ष्यतमं हि तासां विषं शरीरे प्रविकीर्णमात्रम् ||७९||

🔊 Audio coming soon

Adhikarana 39 (80-82) · Śloka 82

ईषत्सकण्डु प्रचलं सकोठमव्यक्तवर्णं प्रथमेऽहनि स्यात् | अन्तेषु शूनं परिनिम्नमध्यं प्रव्यक्तरूपं च दिने द्वितीये ||८०|| त्र्यहेण तद्दर्शयतीह रूपं विषं चतुर्थेऽहनि कोपमेति | अतोऽधिकेऽह्नि प्रकरोति जन्तोर्विषप्रकोपप्रभवान् विकारान् ||८१|| षष्ठे दिने विप्रसृतं तु सर्वान् मर्मप्रदेशान् भृशमावृणोति | तत् सप्तमेऽत्यर्थपरीतगात्रं व्यापादयेन्मर्त्यमतिप्रवृद्धम् ||८२||

🔊 Audio coming soon

Adhikarana 40 (83-84) · Śloka 84

यास्तीक्ष्णचण्डोग्रविषा हि लूतास्ताः सप्तरात्रेण नरं निहन्युः | अतोऽधिकेनापि निहन्युरन्या यासां विषं मध्यमवीर्यमुक्तम् ||८३|| यासां कनीयो विषवीर्यमुक्तं ताः पक्षमात्रेण विनाशयन्ति | तस्मात् प्रयत्नं भिषगत्र कुर्यादादंशपाताद्विषघातियोगैः ||८४||

🔊 Audio coming soon

Adhikarana 41 (85-87) · Śloka 88

विषं तु लालानखमूत्रदंष्ट्रारजःपुरीषैरथ चेन्द्रियेण | सप्तप्रकारं विसृजन्ति लूतास्तदुग्रमध्यावरवीर्ययुक्तम् ||८५|| सकण्डुकोठं स्थिरमल्पमूलं लालाकृतं मन्दरुजं वदन्ति | शोफश्च कण्डूश्च पुलालिका च धूमायनं चैव नखाग्रदंशे ||८६|| दंशं तु मूत्रेण सकृष्णमध्यं सरक्तपर्यन्तमवेहि दीर्णम् | दंष्ट्राभिरुग्रं कठिनं विवर्णं जानीहि दंशं स्थिरमण्डलं च ||८७|| रजःपुरीषेन्द्रियजं हि विद्धि स्फोटं विपक्वामलपीलुपाण्डुम् |८८|

🔊 Audio coming soon

Adhikarana 42 (88-89) · Śloka 89

एतावदेतत् समुदाहृतं तु वक्ष्यामि लूताप्रभवं पुराणम् ||८८|| सामान्यतो दष्टमसाध्यसाध्यं चिकित्सितं चापि यथाविशेषम् ||८९||

🔊 Audio coming soon

Adhikarana 43 (90-93) · Śloka 93

विश्वामित्रो नृपवरः कदाचिदृषिसत्तमम् | वशिष्ठं कोपयामास गत्वाऽऽश्रमपदं किल ||९०|| कुपितस्य मुनेस्तस्य ललाटात् स्वेदबिन्दवः | अपतन् दर्शनादेव रवेस्तत्समतेजसः ||९१|| तृणे महर्षिणा लूने धेन्वर्थं सम्भृतेऽपि च | ततो जातास्त्विमा घोरा नानारूपा महाविषाः | अपकाराय वर्तन्ते नृपसाधनवाहने ||९२|| यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदबिन्दवः | तस्माल्लूतेति भाष्यन्ते सङ्ख्यया ताश्च षोडश ||९३||

🔊 Audio coming soon

Adhikarana 44 (94-99) · Śloka 100

कृच्छ्रसाध्यास्तथाऽसाध्या लूतास्तु द्विविधाःस्मृताः | तासामष्टौ कृच्छ्रसाध्या वर्ज्यास्तावत्य एव तु ||९४|| त्रिमण्डला तथा श्वेता कपिला पीतिका तथा | आलमूत्रविषा रक्ता कसना चाष्टमी स्मृता ||९५|| ताभिर्दष्टे शिरोदुःखं कण्डूर्दंशे च वेदना | भवन्ति च विशेषेण गदाः श्लैष्मिकवातिकाः ||९६|| सौवर्णिका लाजवर्णा जालिन्येणीपदी तथा | कृष्णाऽग्निवर्णा काकाण्डा मालागुणाऽष्टमी तथा ||९७|| ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च | ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदोषजाः ||९८|| पिडका विविधाकारा मण्डलानि महान्ति च | महान्तो मृदवः शोफा रक्ताः श्यावाश्चलास्तथा ||९९|| सामान्यं सर्वलूतानामेतदादंशलक्षणम् |१००|

🔊 Audio coming soon

Adhikarana 45 (100-115) · Śloka 115

विशेषलक्षणं तासां वक्ष्यामि सचिकित्सितम् ||१००|| त्रिमण्डलाया दंशेऽसृक् कृष्णं स्रवति दीर्यते | बाधिर्यं कलुषा दृष्टिस्तथा दाहश्च नेत्रयोः ||१०१|| तत्रार्कमूलं रजनी नाकुली पृश्निपर्णिका | पानकर्मणि शस्यन्ते नस्यालेपाञ्जनेषु च ||१०२|| श्वेतायाः पिडका दंशे श्वेता कण्डूमती भवेत् | दाहमूर्च्छाज्वरवती विसर्पक्लेदरुक्करी ||१०३|| तत्र चन्दनरास्नैलाहरेणुनलवञ्जुलाः | कुष्ठं लामज्जकं वक्रं नलदं चागदो हितः ||१०४|| आदंशे पिडका ताम्रा कपिलायाः स्थिरा भवेत् | शिरसो गौरवं दाहस्तिमिरं भ्रम एव च ||१०५|| तत्र पद्मककुष्ठैलाकरञ्जककुभत्वचः | स्थिरार्कपर्ण्यपामार्गदूर्वाब्राह्म्यो विषापहाः ||१०६|| आदंशे पीतिकायास्तु पिडका पीतिका स्थिरा | भवेच्छर्दिर्ज्वरः शूलं मूर्ध्नि रक्ते तथाऽक्षिणी ||१०७|| तत्रेष्टाः कुटजोशीरतुङ्गपद्मकवञ्जुलाः | शिरीषकिणिहीशेलुकदम्बककुभत्वचः ||१०८|| रक्तमण्डनिभे दंशे पिडकाः सर्षपा इव | जायन्ते तालुशोषश्च दाहश्चालविषार्दिते ||१०९|| तत्र प्रियङ्गुह्रीबेरकुष्ठलामज्जवञ्जुलाः | अगदः शतपुष्पा च सपिप्पलवटाङ्कुराः ||११०|| पूतिर्मूत्रविषादंशो विसर्पी कृष्णशोणितः | कासश्वासवमीमूर्च्छाज्वरदाहसमन्वितः ||१११|| मनःशिलालमधुककुष्ठचन्दनपद्मकैः | मधुमिश्रैः सलामज्जैरगदस्तत्र कीर्तितः ||११२|| आपाण्डुपिडको दंशो दाहक्लेदसमन्वितः | रक्ताया रक्तपर्यन्तो विज्ञेयो रक्तसंयुतः ||११३|| कार्यस्तत्रागदस्तोयचन्दनोशीरपद्मकैः | तथैवार्जुनशेलुभ्यां त्वग्भिराम्रातकस्य च ||११४|| पिच्छिलं कसनादंशाद्रुधिरं शीतलं स्रवेत् | कासश्वासौ च तत्रोक्तं रक्तलूताचिकित्सितम् ||११५||

🔊 Audio coming soon

Adhikarana 46 (116-119) · Śloka 119

पुरीषगन्धिरल्पासृक् कृष्णाया दंश एव तु | ज्वरमूर्च्छावमीदाहकासश्वाससमन्वितः ||११६|| तत्रैलावक्रसर्पाक्षीगन्धनाकुलिचन्दनैः | महासुगन्धिसहितैः प्रत्याख्यायागदः स्मृतः ||११७|| दंशो दाहोऽग्निवक्रायाः स्रावोऽत्यर्थं ज्वरस्तथा | चोषकण्डूरोमहर्षा दाहविस्फोटसंयुतः ||११८|| कृष्णाप्रशमनं चात्र प्रत्याख्याय प्रयोजयेत् | सारिवोशीरयष्ट्याह्वचन्दनोत्पलपद्मकम् ||११९||

🔊 Audio coming soon

Adhikarana 47 (120) · Śloka 120

सर्वासामेव युञ्जीत विषे श्लेष्मातकत्वचम् | भिषक् सर्वप्रकारेण तथा चाक्षीवपिप्पलम् ||१२०||

🔊 Audio coming soon

Adhikarana 48 (121-127) · Śloka 127

कृच्छ्रसाध्यविषा ह्यष्टौ प्रोक्ता द्वे च यदृच्छया | अवार्यविषवीर्याणां लक्षणानि निबोध मे ||१२१|| ध्यामः सौवर्णिकादंशः सफेनो मत्स्यगन्धकः | श्वासः कासो ज्वरस्तृष्णा मूर्च्छा चात्र सुदारुणा ||१२२|| आदंशे लाजवर्णाया ध्यामं पूति स्रवेदसृक् | दाहो मूर्च्छाऽतिसारश्च शिरोदुःखं च जायते ||१२३|| घोरो दंशस्तु जालिन्या राजिमानवदीर्यते | स्तम्भः श्वासस्तमोवृद्धिस्तालुशोषश्च जायते ||१२४|| एणीपद्यास्तथा दंशो भवेत् कृष्णतिलाकृतिः | तृष्णामूर्च्छाज्वरच्छर्दिकासश्वाससमन्वितः ||१२५|| दंशः काकाण्डिकादष्टे पाण्डुरक्तोऽतिवेदनः | तृण्मूर्च्छाश्वासहृद्रोगहिक्काकासाः स्युरुच्छ्रिताः ||१२६|| रक्तो मालागुणादंशो धूमगन्धोऽतिवेदनः | बहुधा च विशीर्येत दाहमूर्च्छाज्वरान्वितः ||१२७||

🔊 Audio coming soon

Adhikarana 49 (128) · Śloka 128

असाध्यास्वप्यभिहितं प्रत्याख्यायाशु योजयेत् | दोषोच्छ्रायविशेषेण दाहच्छेदविवर्जितम् ||१२८||

🔊 Audio coming soon

Adhikarana 50 (129) · Śloka 129

साध्याभिराभिर्लूताभिर्दष्टमात्रस्य देहिनः | वृद्धिपत्रेण मतिमान् सम्यगादंशमुद्धरेत् ||१२९||

🔊 Audio coming soon

Adhikarana 51 (130-133) · Śloka 133

अमर्मणि विधानज्ञो वर्जितस्य ज्वरादिभिः | दंशस्योत्कर्तनं कुर्यादल्पश्वयथुकस्य च ||१३०|| मधुसैन्धवसंयुक्तैरगदैर्लेपयेत्ततः | प्रियङ्गुरजनीकुष्ठसमङ्गामधुकैस्तथा ||१३१|| सारिवां मधुकं द्राक्षां पयस्यां क्षीरमोरटम् | विदारीगोक्षुरक्षौद्रमधुकं पाययेत वा ||१३२|| क्षीरिणां त्वक्कषायेण सुशीतेन च सेचयेत् | उपद्रवान् यथादोषं विषघ्नैरेव साधयेत् ||१३३||

🔊 Audio coming soon

Adhikarana 52 (134) · Śloka 134

नस्याञ्जनाभ्यञ्जनपानधूमं तथाऽवपीडं कवलग्रहं च | संशोधनं चोभयतः प्रगाढं कुर्यात्सिरामोक्षणमेव चात्र ||१३४||

🔊 Audio coming soon

Adhikarana 53 (135) · Śloka 135

कीटदष्टव्रणान् सर्वानहिदष्टव्रणानपि | आदाहपाकात्तान् सर्वाञ्चिकित्सेद्दुष्टवद्भिषग् ||१३५||

🔊 Audio coming soon

Adhikarana 54 (136-137) · Śloka 137

विनिवृत्ते ततः शोफे कर्णिकापातनं हितम् | निम्बपत्रं त्रिवृद्दन्ती कुसुम्भं कुसुमं मधु ||१३६|| गुग्गुलुः सैन्धवं किण्वं वर्चः पारावतस्य च | विषवृद्धिकरं चान्नं हित्वा सम्भोजनं हितम् ||१३७||

🔊 Audio coming soon

Adhikarana 55 (138) · Śloka 138

विषेभ्यः खलु सर्वेभ्यः कर्णिकामरुजां स्थिराम् | प्रच्छयित्वा मधून्मिश्रैः शोधनीयैरुपाचरेत् ||१३८||

🔊 Audio coming soon

Adhikarana 56 (139) · Śloka 139

सप्तषष्ठस्य कीटानां शतस्यैतद्विभागशः | दष्टलक्षणमाख्यातं चिकित्सा चाप्यनन्तरम् ||१३९||

🔊 Audio coming soon

Adhikarana 57 (140) · Śloka 140

सविंशमध्यायशतमेतदुक्तं विभागशः |१४०|

🔊 Audio coming soon

Adhikarana 58 (140) · Śloka 140

इहोद्दिष्टाननिर्दिष्टानर्थान् वक्ष्याम्यथोत्तरे ||१४०||

🔊 Audio coming soon

Adhikarana 59 (141-143) · Śloka 143

सनातनत्वाद्वेदानामक्षरत्वात्तथैव च | तथा दृष्टफलत्वाच्च हितत्वादपि देहिनाम् ||१४१|| वाक्समूहार्थविस्तारात् पूजितत्वाच्च देहिभिः | चिकित्सितात् पुण्यतमं न किञ्चिदपि शुश्रुमः ||१४२|| ऋषेरिन्द्रप्रभावस्यामृतयोनेर्भिषग्गुरोः | धारयित्वा तु विमलं मतं परमसम्मतम् | उक्ताहारसमाचार इह प्रेत्य च मोदते ||१४३||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 8

इति सुश्रुतसंहितायां कल्पस्थाने कीटकल्पो नामाष्टमोऽध्यायः ||८|| इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां पञ्चमं कल्पस्थानं समाप्तम् |

🔊 Audio coming soon