Adhikarana 1 (1-2) · Śloka 2
अथातः सर्पदष्टविषचिकित्सितं कल्पं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातः सर्पदष्टविषचिकित्सितं कल्पं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि||१-२||
Adhikarana 2 (3-4) · Śloka 4
सर्वैरेवादितः सर्पैः शाखादष्टस्य देहिनः | दंशस्योपरि बध्नीयादरिष्टाश्चतुरङ्गुले ||३|| प्लोतचर्मान्तवल्कानां मृदुनाऽन्यतमेन वै | न गच्छति विषं देहमरिष्टाभिर्निवारितम् ||४||
🔊 Audio coming soon
सर्पदष्टचिकित्सितं द्विविधं सामान्यं विशिष्टं च; तत्र सामान्यमेव प्रथमं निर्दिशन्नाह- सर्वैरित्यादि| शाखा हस्तपादकम्| अरिष्टा वस्त्रादिभिर्मन्त्रपुरस्कृतैर्बन्धः| प्लोतेत्यादि| प्लोतं वस्त्रं, चर्मान्तं चर्मैकदेशः, वल्कं वृक्षादित्वक्, मृदुना कोमलेन, अन्यतमेन एकतमेन, प्लोतेन चर्मान्तेन वल्कलेन वेत्यर्थः||३-४||
Adhikarana 3 (5) · Śloka 5
दहेद्दंशमथोत्कृत्य यत्र बन्धो न जायते | आचूषणच्छेददाहाः सर्वत्रैव तु पूजिताः ||५||
🔊 Audio coming soon
अरिष्टामभिधाय दाहमुद्दिशन्नाह- दहेदित्यादि| उत्कृत्य छित्त्वा| दहेदिति अत्र `मण्डलिदंशं वर्जयित्वा’ इति शेषः| न जायते न सम्भवति| सर्वत्रैव सर्वस्मिन् देहे| पूजिताः श्लाघिताः| दाहस्य पुनरुपादानमुत्कर्तनमन्तरेणापि दाहविधानार्थम्||५||
Adhikarana 4 (6) · Śloka 6
प्रतिपूर्य मुखं वस्त्रैर्हितमाचूषणं भवेत् | स दष्टव्योऽथवा सर्पो लोष्टो वाऽपि हि तत्क्षणम् ||६||
🔊 Audio coming soon
प्रतिपूर्येत्यादि| वस्त्रैरित्युपलक्षणं, तेन कृष्णवल्मीकमृत्पांशुनाऽपि प्रतिपूर्याचूषणं हितं, विषहरत्वाद्वल्मीकस्य| स दष्टव्य इत्यादि| दष्टेन पुरुषेण हस्ताभ्यामुपसङ्गृह्य पुच्छे वक्त्रे च सर्पः सम्यग् दष्टव्यः, तदभावे लोष्टो वा दष्टव्यः| तद्भक्षणं तु तत्रैव सङ्क्रमणहेतुरित्यर्थः||६||
Adhikarana 5 (7) · Śloka 7
अथ मण्डलिना दष्टं न कथञ्चन दाहयेत् | स पित्तबाहुल्यविषाद्दंशो दाहाद्विसर्पते ||७||
🔊 Audio coming soon
केनचिद्दष्टे दाहनिषेधमाह- अथ मण्डलिना दष्टमित्यादि||७||
Adhikarana 6 (8) · Śloka 8
अरिष्टामपि मन्त्रैश्च बध्नीयान्मन्त्रकोविदः | सा तु रज्ज्वादिभिर्बद्धा विषप्रतिकरी मता ||८||
🔊 Audio coming soon
न केवलं प्लोतादिभिः परमरिष्टेत्याह- अरिष्टामित्यादि| मन्त्रकोविदो मन्त्रज्ञः पुरुषः| केवलैरपि मन्त्रैररिष्टां बध्नीयात्| न परं मन्त्रैरेवारिष्टेत्याह- सा त्वित्यादि| सा पुनररिष्टा मन्त्ररहितैरपि रज्ज्वादिभिर्बद्धा विषप्रतिकरी विषप्रतीकारहेतुः | एतेन मन्त्रतन्त्राभ्यां तु विषप्रतीकारः||८||
Adhikarana 7 (9-10) · Śloka 10
देवब्रह्मर्षिभिः प्रोक्ता मन्त्राः सत्यतपोमयाः | भवन्ति नान्यथा क्षिप्रं विषं हन्युः सुदुस्तरम् ||९|| विषं तेजोमयैर्मन्त्रैः सत्यब्रह्मतपोमयैः | यथा निवार्यते क्षिप्रं प्रयुक्तैर्न तथौषधैः ||१०||
🔊 Audio coming soon
मन्त्रस्य शक्तिं दर्शयन्नाह- देवब्रह्मर्षिभिरित्यादि| देवर्षिविहितत्वेन सत्यमयाः, ब्रह्मर्षिविहितत्वेन तपोमयाः| प्रोक्ताः कथिता न तु कृताः, मन्त्राणां नित्यत्वात्| अन्ये तु `सत्यब्रह्मतपोमया’ इति पठित्वा व्याख्यानयन्ति- देवा इन्द्रादयः, ब्रह्मा स्वनामप्रसिद्धः, ऋषयः देवर्षि-ब्रह्मर्षि-राजर्षयः| तत्र देवकृतत्वेन सत्यप्रत्ययाः, ब्रह्मकृतत्वेन ब्रह्ममयाः, त्रिविधर्षिकृतत्वेन तपोमयाः; मन्त्राः कुरुकुल्लाभेरुण्डादयः परतन्त्राभिहिता इह नोपदिष्टाः||९-१०||
Adhikarana 8 (11) · Śloka 12
मन्त्राणां ग्रहणं कार्यं स्त्रीमांसमधुवर्जिना | मिताहारेण शुचिना कुशास्तरणशायिना ||११|| गन्धमाल्योपहारैश्च बलिभिश्चापि देवताः | पूजयेन्मन्त्रसिद्ध्यर्थं जपहोमैश्च यत्नतः ||१२||
🔊 Audio coming soon
मन्त्रग्रहणविधानमाह- मन्त्राणामित्यादि| अत्र मधु मद्यं क्षौद्रं चोभयमपि वर्जनीयम्| यताहारेण संयताहारेण हविष्यैकाहारेणेत्यर्थः| शुचिना बाह्याभ्यन्तरपवित्रेण| माल्यं माला, उपहारो धूपदीपादिकं पूजोपकरणं, बलिः सपशुनैवैद्यम्| होमश्चेति चकारेण ध्यानेनापीत्यनुक्तं समुच्चीयते||११||१२||
Adhikarana 9 (13) · Śloka 13
मन्त्रास्त्वविधिना प्रोक्ता हीना वा स्वरवर्णतः | यस्मान्न सिद्धिमायान्ति तस्माद्योज्योऽगदक्रमः ||१३||
🔊 Audio coming soon
विधिहीनगृहीतस्य हीनस्वरादेर्वा मन्त्रस्यासिद्धावगदक्रमो योज्य इत्याह- मन्त्रास्त्वित्यादि| अविधिना स्त्रीमांसमधुवर्जनादिविधिं विना; प्रोक्ता `गुरुणा’ इति शेषः||१३||
Adhikarana 10 (14-16) · Śloka 16
समन्ततः सिरा दंशाद्विध्येत्तु कुशलो भिषक् | शाखाग्रे वा ललाटे वा व्यध्यास्ता विसृते विषे ||१४|| रक्ते निर्ह्रियमाणे तु कृत्स्नं निर्ह्रियते विषम् | तस्माद्विस्रावयेद्रक्तं सा ह्यस्य परमा क्रिया ||१५|| समन्तादगदैर्दंशं प्रच्छयित्वा प्रलेपयेत् | चन्दनोशीरयुक्तेन वारिणा परिषेचयेत् ||१६||
🔊 Audio coming soon
यतो रक्तमेव प्राप्य विषं विकारकार्यतस्तदपकर्षणायाह- समन्तत इत्यादि| समन्ततः सर्वत्र| वाशब्दोऽत्र समुच्चयार्थे| विसृते प्रसृते| प्रलेपयेद् रक्तसेचनावशिष्टविप्रशमाय महागदादिभिः| चन्दनेत्यादि| चन्दनोशीरक्वाथेनेत्यर्थः, अन्ये तु चन्दनोशीरकल्कमिश्रितजलेनेत्याहुः||१४-१६||
Adhikarana 11 (17) · Śloka 18
पाययेतागदांस्तांस्तान् क्षीरक्षौद्रघृतादिभिः | तदलाभे हिता वा स्यात् कृष्णा वल्मीकमृत्तिका ||१७|| कोविदारशिरीषार्ककटभीर्वाऽपि भक्षयेत् |१८|
🔊 Audio coming soon
पाययेतेत्यादि| रक्तावसेचनपूर्वं हृदयावरणार्थं तांस्तान् महागदादीनक्षमात्रापरिमितान् क्षीरादिभिर्यथादोषं पातुं प्रयोजयेत्| आदिशब्दाद्दधितक्रयोर्ग्रहणम्| कोविदारः काञ्चनारः| कटभी श्वेतस्यन्दः||१७||-
Adhikarana 12 (18-19) · Śloka 19
न पिबेत्तैलकौलत्थमद्यसौवीरकाणि च ||१८|| द्रवमन्यत्तु यत्किञ्चित् पीत्वा पीत्वा तदुद्वमेत् | प्रायो हि वमनेनैव सुखं निर्ह्रियते विषम् ||१९||
🔊 Audio coming soon
विषे कानपि द्रवान् निरस्यन्नाह- न पिबेत्तैलकौलत्थेत्यादि| कुलत्थानामयं कौलत्थो यूषः, सौवीरकं काञ्जिकम्||१८-१९||
Adhikarana 13 (20-23) · Śloka 24
फणिनां विषवेगे तु प्रथमे शोणितं हरेत् | द्वितीये मधुसर्पिर्भ्यां पाययेतागदं भिषक् ||२०|| नस्यकर्माञ्जने युञ्ज्यात्तृतीये विषनाशने | वान्तं चतुर्थे पूर्वोक्तां यवागूमथ दापयेत् ||२१|| शीतोपचारं कृत्वाऽऽदौ भिषक् पञ्चमषष्ठयोः | पाययेच्छोधनं तीक्ष्णं यवागूं चापि कीर्तिताम् ||२२|| सप्तमे त्ववपीडेन शिरस्तीक्ष्णेन शोधयेत् | तीक्ष्णमेवाञ्जनं दद्यात्, तीक्ष्णशस्त्रेण मूर्ध्नि च ||२३|| कृत्वा काकपदं चर्म सासृग्वा पिशितं क्षिपेत् |२४|
🔊 Audio coming soon
अत ऊर्ध्वं दर्वीकरादिवेगविशेषेण वैशेषिकं चिकित्सितमाह- फणिनामित्यादि| शोणितं हरेदिति सिरया प्रच्छन्नेन शृङ्गेण वा| अगदं दर्वीकरविषोदितम्| वान्तं चतुर्थ इत्यादि| वमन मिह सार्वकार्मिकादिभिरगदैः| पूर्वोक्तां यवागूमिति स्थावरविषविषये कृतवमनादिकर्मणां कोशातक्यादिद्रव्यैः कृतामन्नसंसर्जनार्थम्| एवं पञ्चमषष्ठयोः शोधने कृतेऽन्नसंसर्जनार्थं कीर्तितां यवागूम्| सप्तमे तु प्रत्याख्यायावपीडनादिकम्||२०-२३||-
Adhikarana 14 (24-27) · Śloka 27
पूर्वे मण्डलिनां वेगे दर्वीकरवदाचरेत् ||२४|| अगदं मधुसर्पिर्भ्यां द्वितीये पाययेत च | वामयित्वा यवागूं च पूर्वोक्तामथ दापयेत् ||२५|| तृतीये शोधितं तीक्ष्णैर्यवागूं पाययेद्धिताम् | चतुर्थे पञ्चमे चापि दर्वीकरवदाचरेत् ||२६|| काकोल्यादिर्हितः षष्ठे पेयश्च मधुरोऽगदः | हितोऽवपीडे त्वगदः सप्तमे विषनाशनः ||२७||
🔊 Audio coming soon
पूर्वे मण्डलिनामित्यादि| पूर्वे मण्डलिनां वेगे दर्वीकरवदित्यनेनातिदिष्टं शोणितमोक्षणं जलौकाभिः| अगदं मण्डलिविषोदितमेव| द्वितीये वामयित्वेति वमनद्रव्यक्वाथेन| शोधितं विरिक्तं, तीक्ष्णैः विरेचनद्रव्यैः| पेयश्चेत्यत्र चकारेण शोधनं तीक्ष्णमपि समुच्चीयते| मधुरोऽगद इति महागदादिषु योऽतीक्ष्णः स पेयः| सप्तमे वेगे प्रत्याख्याय विषप्रत्यनीकागदावपीडेनोपचरेत्||२४-२७||
Adhikarana 15 (28-29) · Śloka 30
पूर्वे राजिमतां वेगेऽलाबुभिः शोणितं हरेत् | अगदं मधुसर्पिर्भ्यां संयुक्तं पाययेत च ||२८|| वान्तं द्वितीये त्वगदं पाययेद्विषनाशनम् | तृतीयादिषु त्रिष्वेवं विधिर्दार्वीकरो हितः ||२९|| षष्ठेऽञ्जनं तीक्ष्णतममवपीडश्च सप्तमे |३०|
🔊 Audio coming soon
पूर्वे राजिमतामित्यादि| अवपीडोऽत्र सार्वकार्मिकागदेन| अवपीडश्चेति चकारेण नष्टसञ्ज्ञविधानं वक्ष्यमाणं सूच्यते|||२८-२९||-
Adhikarana 16 (30) · Śloka 31
गर्भिणीबालवृद्धानां सिराव्यधनवर्जितम् ||३०|| विषार्तानां यथोद्दिष्टं विधानं शस्यते मृदु |३१|
🔊 Audio coming soon
चिकित्सितस्य क्वचिदेव कञ्चिद्विशेषमुद्दिशन्नाह- गर्भिणीत्यादि||३०||-
Adhikarana 17 (31) · Śloka 33
रक्तावसेकाञ्जनानि नरतुल्यान्यजाविके ||३१|| त्रिगुणं महिषे सोष्ट्रे गवाश्वे द्विगुणं तु तत् | चतुर्गुणं तु नागानां,... |३३|
🔊 Audio coming soon
सप्तवेगप्रसङ्गेन पशुवेगविशेषस्योक्तत्वाच्चिकित्सिते मात्रायां विशेषमुद्दिशन्नाह- रक्तेत्यादि| रक्तावसेकस्य महती मात्रा प्रस्थप्रमाणा; प्रस्थश्चात्र सार्धत्रयोदशपलप्रमाणः||३१||-
Adhikarana 18 (32-33) · Śloka 33
...केवलं सर्वपक्षिणाम् ||३२|| परिषेकान् प्रदेहांश्च सुशीतानवचारयेत् | माषकं त्वञ्जनस्येष्टं द्विगुणं नस्यतो हितम् | पाने चतुर्गुणं पथ्यं वमनेऽष्टगुणं पुनः ||३३||
🔊 Audio coming soon
पक्षिणां चिकित्सितमुद्दिशन्नाह- केवलमित्यादि| परिषेकप्रदेहौ केवलं नरविषहरद्रव्येण कार्यौ, नतु रक्तावसेकाञ्जनानीत्यर्थः| अञ्जनादीनां प्रमाणमाह- माषकमित्यादि| इदमञ्जनादिप्रमाणं गयदासजेज्जटाभ्यामङ्गीकृतम्| वयं तु वृद्धवाग्भटोक्तसुश्रुतोक्तवाक्यदर्शनादञ्जनादिषु विषविषये महतीं मात्रां मन्यामहे| तथा च तयोर्वाक्यम्,- “गुल्मोदावर्तवीसर्पसर्पदंशाभिपीडितैः| उन्मत्तैः कृच्छ्रमूत्रैश्च महती शीघ्रमेव सा”- इति; सुश्रुते च,- “अहोरात्रादसन्दुष्टा या मात्रा परिजीर्यति| सा च कुष्ठविषोन्मादग्रहापस्मारनाशिनी”- इति; तन्त्रान्तरेऽपि- “विषजुष्टहता ये च कासश्वासहताश्च ये| तरुणा बलवन्तश्च वामयेदुत्तमेन तान्”- इति| एतदुद्देशेन कल्कादीनां महत्या मात्रयाऽत्र युक्तिरवसीयते| महत्या मात्रया च कल्कमोदकचूर्णानां पलं मात्राप्रमाणम्| तथा च,- कल्कमोदकचूर्णानां कर्ष(पल)मद्याच्च लेहतः| कर्षद्वयं पलं वाऽपि वयोरोगाग्न्यपेक्षया”- इति| क्वाथस्य पलचतुष्टयं प्रमाणं; तथा च- “क्वाथद्रव्यपले वारि द्विरष्टगुणमिष्यते| चतुर्भागावशेषं तु पेयं पलचतुष्टयम्”- इति| वमनविषये क्वाथस्य नव प्रस्थाः प्रमाणं; तथा च, “नव प्रस्था तु ज्येष्ठा स्यान्मध्यमा षट् प्रकीर्तिता| निष्क्वाथस्य त्रयः प्रस्था मागधास्तु कनीयसी”- इति| वमनविषये कल्कस्य पलत्रयं प्रमाणम्| तथा च,- “त्रिपलं ज्येष्ठमाख्यातं कनीयस्तु पलं भवेत्| मध्यमं द्वे पले विद्यादिति मे निश्चिता मतिः”- इति| नस्याञ्जनयोश्च मात्रा नस्याञ्जनविधावेव या महती प्रतिपादितेति||३२-३३||
Adhikarana 19 (34) · Śloka 34
देशप्रकृतिसात्म्यर्तुविषवेगबलाबलम् | प्रधार्य निपुणं बुद्ध्या ततः कर्म समाचरेत् ||३४||
🔊 Audio coming soon
देशेत्यादि| देशो भूमिः आतुरश्च; तत्र भूदेशः अश्वत्थदेवतायतनश्मशानादिकः, आतुरशरीरे च मर्मदेशः; प्रकृतिः कायिकी मानसी च; तत्र कायिकी वातादिकृता, मानसी च सत्त्वदिजा| प्रधार्य आलोच्य, बुद्ध्या निपुणं यथा भवत्येवं कर्म समाचरेत्||३४||
Adhikarana 20 (35) · Śloka 35
वेगानुपूर्व्या कर्मोक्तमिदं विषविनाशनम् | कर्मावस्थाविशेषेण विषयोरुभयोः शृणु ||३५||
🔊 Audio coming soon
वेगानुपूर्व्येत्यादि| वेगानुपूर्व्या वेगानामनुक्रमेणेत्यर्थः| उभयोः स्थावरजङ्गमयोः||३५||
Adhikarana 21 (36) · Śloka 36
विवर्णे कठिने शूने सरुजेऽङ्गे विषान्विते | तूर्णं विस्रवणं कार्यमुक्तेन विधिना ततः ||३६||
🔊 Audio coming soon
विवर्णे इत्यादि| तूर्णं त्वरितम्| विस्रावणं रक्तमोक्षणम्||३६||
Adhikarana 22 (37) · Śloka 37
क्षुधार्तमनिलप्रायं तद्विषार्तं समाहितः | पाययेत रसं सर्पिः शुक्तं क्षौद्रं तथा दधि ||३७||
🔊 Audio coming soon
क्षुधार्तमित्यादि| तद्विषार्तमिति वाताधिकविषवेदनार्तम्| अत्र मांसरसादिपानं विषवेगप्राप्तौ सत्यां सुखेन वमनार्थम्||३७||
Adhikarana 23 (38) · Śloka 38
तृड्दाहघर्मसम्मोहे पैत्तं पैत्तविषातुरम् | शीतैः संवाहनस्नानप्रदेहैः समुपाचरेत् ||३८||
🔊 Audio coming soon
तृड्दाहेत्यादि| घर्म इत्युष्णकाले, सम्मोहे मूर्च्छायाम्| पैत्तं पित्तप्रकृतिम्| पैत्तं पित्तजनकं विषम्| संवाहनं सुखकरः स्पर्शः| प्रदेहः प्रलेपः||३८||
Adhikarana 24 (39) · Śloka 39
शीते शीतप्रसेकार्तं श्लैष्मिकं कफकृद्विषम् | वामयेद्वमनैस्तीक्ष्णैस्तथा मूर्च्छामदान्वितम् ||३९||
🔊 Audio coming soon
कफविषातुरस्य चिकित्सामाह- शीते इत्यादि| शीते शीतकाले| श्लैष्मिकं पुरुषम्||३९||
Adhikarana 25 (40) · Śloka 40
कोष्ठदाहरुजाध्मानमूत्रसङ्गरुगन्वितम् | विरेचयेच्छकृद्वायुसङ्गपित्तातुरं नरम् ||४०||
🔊 Audio coming soon
आमाशयगतस्य कफस्य वमनमुद्दिश्य पच्यमानपक्वाशयगतयोः पित्तवातयोर्विरेचनशब्देन विरेकबस्ती निर्दिशन्नाह- कोष्ठेत्यादि| कोष्ठदाहादौ तु विरेचनशब्दो विरेचन एव वर्तते||४०||
Adhikarana 26 (41) · Śloka 41
शूनाक्षिकूटं निद्रार्तं विवर्णाविललोचनम् | विवर्णं चापि पश्यन्तमञ्जनैः समुपाचरेत् ||४१||
🔊 Audio coming soon
शूनाक्षिकूटमित्यादि| अक्षिकूटो भ्रुवोरधोभागः| आविलं दूषिकास्राभ्यां मलिनं, विवर्णं विविधवर्णम्||४१||
Adhikarana 27 (42-49) · Śloka 50
शिरोरुग्गौरवालस्यहनुस्तम्भगलग्रहे | शिरो विरेचयेत् क्षिप्रं मन्यास्तम्भे च दारुणे ||४२|| नष्टसञ्ज्ञं विवृत्ताक्षं भग्नग्रीवं विरेचनैः | चूर्णैः प्रधमनैस्तीक्ष्णैर्विषार्तं समुपाचरेत् ||४३|| ताडयेच्च सिराः क्षिप्रं तस्य शाखाललाटजाः | तास्वप्रसिच्यमानासु मूर्ध्नि शस्त्रेण शस्त्रवित् ||४४|| कुर्यात् काकपदाकारं व्रणमेवं स्रवन्ति ताः | सरक्तं चर्म मांसं वा निक्षिपेच्चास्य मूर्धनि ||४५|| चर्मवृक्षकषायं वा कल्कं वा कुशलो भिषक् | वादयेच्चागदैर्लिप्त्वा दुन्दुभींस्तस्य पार्श्वयोः ||४६|| लब्धसञ्ज्ञं पुनश्चैनमूर्ध्वं चाधश्च शोधयेत् | निःशेषं निर्हरेच्चैवं विषं परमदुर्जयम् ||४७|| अल्पमप्यवशिष्टं हि भूयो वेगाय कल्पते | कुर्याद्वा सादवैवर्ण्यज्वरकासशिरोरुजः ||४८|| शोफशोषप्रतिश्यायतिमिरारुचिपीनसान् | तेषु चापि यथादोषं प्रतिकर्म प्रयोजयेत् ||४९|| विषार्तोपद्रवांश्चापि यथास्वं समुपाचरेत् |५०|
🔊 Audio coming soon
नष्टसञ्ज्ञमित्यादि| विवृताक्षं व्यावर्तितनेत्रम्| सरक्तमिति| सरक्तं हि मांसादिकं शिरसि निक्षिप्तं विषसङ्क्रामणं भवति| चर्मवृक्षः पूर्वदेशे नौवृक्षः| कषायोऽत्र निर्यासः| असावपि प्रयोगो विषसङ्क्रमणहेतुः| दुन्दुभीन् निःस्वानान्| एवं च परमदुर्जयं विषं निर्हरेत्; कुत इत्याह- अल्पमित्यादि| भूयः पुनरपि वेगाय कल्पते वेगार्थं भवति| सादः अङ्गग्लानिः| प्रतिश्यायस्थाने जेज्जटाचार्यः स्तैमित्यं पठति, अत्र स्तैमित्यं निश्चलता||४२-४९||-
Adhikarana 28 (50) · Śloka 51
अथारिष्टां विमुच्याशु प्रच्छयित्वाऽङ्कितं तया ||५०|| दह्यात्तत्र विषं स्कन्नं भूयो वेगाय कल्पते |५१|
🔊 Audio coming soon
अरिष्टास्थापनबन्धनविषदूषितशोणितस्य चिकित्सां दूष्यविषप्रत्यनीकामुद्दिशन्नाह- अथारिष्टामित्यादि| अथ अनन्तरम्| तया अङ्कितं देशं प्रच्छयित्वा दिह्यात् `अगदैः’ इति शेषः; अन्यथा तत्र विषं स्कन्नं स्त्यानीभूतं भूयो वेगाय कल्पते पुनर्वेगार्थं प्रादुर्भवतीत्यर्थः||५०||-
Adhikarana 29 (51-54) · Śloka 54
एवमौषधिभिर्मन्त्रैः क्रियायोगैश्च यत्नतः ||५१|| विषे हृतगुणे देहाद्यदा दोषः प्रकुप्यति | तदा पवनमुद्वृत्तं स्नेहाद्यैः समुपाचरेत् ||५२|| तैलमत्स्यकुलत्थाम्लवर्ज्यैर्विषहरायुतैः | पित्तज्वरहरैः पित्तं कषायस्नेहबस्तिभिः ||५३|| कफमारग्वधाद्येन सक्षौद्रेण गणेन तु | श्लेष्मघ्नैरगदैश्चैव तिक्तै रूक्षैश्च भोजनैः ||५४||
🔊 Audio coming soon
एवमित्यादि| औषधिभिः महागदादिनिर्दिष्टाभिः, मन्त्रैः कुरुकुल्लादिनिर्दिष्टैः, क्रियायोगैः दूष्यभूतशोणितहरबहिःपरिमार्जनसेचनालेपनादिभिः; तथैवान्तःपरिमार्जनैर्वमनविरेचनास्थापनशिरोविरेचनाख्यैः| विषे हृतगुणे अपहृतविषादजननतीक्ष्णादिगुणे| दोषः अनिलादिः| उद्वृत्तम् उच्चलितं परस्थानमिति यावत्| स्नेहाद्यैरिति आद्यशब्दान्मृदुसंशोधनस्वादुभोजनाङ्गविमर्दनादिभिः| पित्तज्वरहरैरित्यादि समुपाचरेदित्यनुवर्तते| कफमारग्वधाद्येनेत्यादि||५१-५४||
Adhikarana 30 (55) · Śloka 55
वृक्षप्रपातविषमपतितं मृतमम्भसि | उद्बद्धं च मृतं सद्यश्चिकित्सेन्नष्टसञ्ज्ञवत् ||५५||
🔊 Audio coming soon
वृक्षेत्यादि| प्रपातो नदीतटादिः, विषमो निम्नोन्नतप्रदेशः, वृक्षादिपतितं प्राणिनं; मृतमम्भसि अम्भसि मृतं, उद्बद्धमुल्लम्बितं च मृतं, सद्यो झटिति, नष्टसञ्ज्ञवच्चिकित्सेत्| तत्र मृतशब्दो मृत्युसमीपे वर्तमानो गृह्यते; न पुनर्मृत एव, तस्य निष्फलचिकित्सितत्वात्| केचिदाचार्या अमुं पाठं न मन्यन्ते, ये तु मन्यन्ते तन्मतानुसारेण लिखितोऽयमित्यदोषः||५५||
Adhikarana 31 (56) · Śloka 56
गाढं बद्धेऽरिष्टया प्रच्छिते वा तीक्ष्णैर्लेपैस्तद्विधैर्वाऽवशिष्टैः | शूने गात्रे क्लिन्नमत्यर्थपूति ज्ञेयं मांसं तद्विषात् पूति कष्टम् ||५६||
🔊 Audio coming soon
गाढमित्यादि| गाढमरिष्टया बद्धे, अथवा प्रच्छिते, तीक्ष्णैर्लेपैस्तद्विधैः शरीरवर्तिभिः, अवशिष्टैः अनुद्धृतैः, ज्ञेयं ज्ञातव्यं, तन्मांसं , विषात् पूति पूतिसञ्ज्ञकं, कष्टं कृच्छ्रसाध्यम्||५६||
Adhikarana 32 (57) · Śloka 58
सद्यो विद्धं निस्रवेत् कृष्णरक्तं पाकं यायाद्दह्यते चाप्यभीक्ष्णम् | कृष्णीभूतं क्लिन्नमत्यर्थपूति शीर्णं मांसं यात्यजस्रं क्षताच्च ||५७|| तृष्णा मूर्च्छा भ्रान्तिदाहौ ज्वरश्च यस्य स्युस्तं दिग्धविद्धं व्यवस्येत् |५८|
🔊 Audio coming soon
सद्यो विद्धमित्यादि| अभीक्ष्णं पुनः पुनः, क्लिन्नम् आर्द्रीभूतं, अत्यर्थं पूति अतिशयेन दुर्गन्धं, शीर्णं शटितम्, अजस्रम् अनवरतं, भ्रान्तिः वस्तूनामन्यथा प्रतीतिः, स्युः भवेयुः, दिग्धविद्धं विषलिप्तबाणताडितं, व्यवस्येत् जानीयात्||५७||-
Adhikarana 33 (58) · Śloka 59
पूर्वोद्दिष्टं लक्षणं सर्वमेतज्जुष्टं यस्यालं विषेण व्रणाः स्युः ||५८|| लूतादष्टा दिग्धविद्धा विषैर्वा जुष्टा प्रायस्ते व्रणाः पूतिमांसाः |५९|
🔊 Audio coming soon
पूर्वोद्दिष्टमित्यादि| यस्य प्राणिनोऽलमत्यर्थं शत्रूणामवचारितेन विषेण जुष्टा व्रणाः स्युर्भवेयुः, तस्य एतत् सर्वं पूर्वोद्दिष्टं लक्षणं भवति; कुत इत्याह- लूतादष्टा इत्यादि| ये व्रणा लूतादष्टदिग्धविद्धादयस्ते प्रायः पूतिमांसा भवन्तीत्यर्थः||५८||-
Adhikarana 34 (59-60) · Śloka 60
तेषां युक्त्या पूतिमांसान्यपोह्य वार्योकोभिः शोणितं चापहृत्य ||५९|| हृत्वा दोषान् क्षिप्रमूर्ध्वं त्वधश्च सम्यक् सिञ्चेत् क्षीरिणां त्वक्कषायैः | अन्तर्वस्त्रं दापयेच्च प्रदेहान् शीतैर्द्रव्यैराज्ययुक्तैर्विषघ्नैः ||६०||
🔊 Audio coming soon
एषां पूर्वोक्तानां चिकित्सामाह- तेषामित्यादि| वार्योकोभिः जलौकोभिरित्यर्थः| क्षीरिणां न्यग्रोधोदुम्बराश्वत्थप्लक्षगर्दभाण्डानाम्| शीतैरित्यादि| शीतवीर्यस्पर्शैर्विषघ्नैः पित्तविसर्पोक्तैरित्यर्थः| आज्यमिश्रैः शतधौतघृतयुक्तैः||५९-६०||
Adhikarana 35 (61) · Śloka 61
भिन्ने त्वस्थ्ना दुष्टजातेन कार्यः पूर्वो मार्गः पैत्तिके यो विषे च |६१|
🔊 Audio coming soon
भिन्ने इत्यादि| दुष्टजातेन दुष्टजीवसम्भूतेन अस्थिविषाणामस्थ्नेत्यर्थः| अस्थ्ना दुष्टजातेनेत्युपलक्षणं, तेन तत्सदृशशकृन्मूत्रशुक्रस्पर्शपर्दनगुदास्थिशूकशवैः सविषकण्टकैर्वृश्चिककण्टकैश्च कृते व्रणे| पूर्वो मार्गः अनन्तरोक्तः `तेषां युक्त्या पूतिमांसान्यपोह्य’ इत्यादिकः; न परं दुष्टास्थ्यादिभिर्भिन्ने व्रणे पूर्वो मार्गः अनन्तरोक्तोऽपि यो व्रणस्तस्मिन्नपि पूर्वो मार्गः कार्यः|६१|-
Adhikarana 36 (61-62) · Śloka 63
त्रिवृद्विशल्ये मधुकं हरिद्रे रक्ता नरेन्द्रो लवणश्च वर्गः ||६१|| कटुत्रिकं चैव सुचूर्णितानि शृङ्गे निदध्यान्मधुसंयुतानि | एषोऽगदो हन्ति विषं प्रयुक्तः पानाञ्जनाभ्यञ्जननस्ययोगैः ||६२|| अवार्यवीर्यो विषवेगहन्ता महागदो नाम महाप्रभावः |६३|
🔊 Audio coming soon
इदानीमगदकोशमाह- त्रिवृद्विशल्येत्यादि| विशल्या काष्ठपाटला, रक्ता मञ्जिष्ठा, नरेन्द्रः किरमालकः| अवार्यवीर्यः अप्रतिहतवीर्यः||६१-६२||-
Adhikarana 37 (63-64) · Śloka 65
विडङ्गपाठत्रिफलाजमोदाहिङ्गूनि वक्रं त्रिकटूनि चैव ||६३|| सर्वश्च वर्गो लवणः सुसूक्ष्मः सचित्रकः क्षौद्रयुतो निधेयः | शृङ्गे गवां शृङ्गमयेन चैव प्रच्छादितः पक्षमुपेक्षितश्च ||६४|| एषोऽगदः स्थावरजङ्गमानां जेता विषाणामजितो हि नाम्ना |६५|
🔊 Audio coming soon
विडङ्गपाठेत्यादि| वक्रं तगरम्||६३-६४||-
Adhikarana 38 (65-67) · Śloka 68
प्रपौण्डरीकं सुरदारु मुस्ता कालानुसार्या कटुरोहिणी च ||६५|| स्थौणेयकध्यामकगुग्गुलूनि पुन्नागतालीशसुवर्चिकाश्च | कुटन्नटैलासितसिन्धुवाराः शैलेयकुष्ठे तगरं प्रियङ्गुः ||६६|| रोध्रं जलं काञ्चनगैरिकं च समागधं चन्दनसैन्धवं च | सूक्ष्माणि चूर्णानि समानि कृत्वा शृङ्गे निदध्यान्मधुसंयुतानि ||६७|| एषोऽगदस्तार्क्ष्य इति प्रदिष्टो विषं निहन्यादपि तक्षकस्य |६८|
🔊 Audio coming soon
प्रपौण्डरीकमित्यादि| कालानुसार्या कालानुसारिवा| ध्यामकं कत्तृणं, कुटन्नटः श्योनाकः, सितसिन्धुवारः श्वेतनिर्गुण्डी||६५-६७||-
Adhikarana 39 (68-72) · Śloka 73
मांसीहरेणुत्रिफलामुरङ्गीरक्तालतायष्टिकपद्मकानि ||६८|| विडङ्गतालीशसुगन्धिकैलात्वक्कुष्ठपत्राणि सचन्दनानि | भार्गी पटोलं किणिही सपाठा मृगादनी कर्कटिका पुरश्च ||६९|| पालिन्द्यशोकौ क्रमुकं सुरस्याः प्रसूनमारुष्करजं च पुष्पम् | सूक्ष्मानि चूर्णानि समानि शृङ्गे न्यसेत् सपित्तानि समाक्षिकाणि ||७०|| वराहगोधाशिखिशल्लकीनां मार्जारजं पार्षतनाकुले च | यस्यागदोऽयं सुकृतो गृहे स्यान्नाम्नर्षभो नाम नरर्षभस्य ||७१|| न तत्र सर्पाः कुत एव कीटास्त्यजन्ति वीर्याणि विषाणि चैव | एतेन भेर्यः पटहाश्च दिग्धा नानद्यमाना विषमाशु हन्युः ||७२|| दिग्धाः पताकाश्च निरीक्ष्य सद्यो विषाभिभूता ह्यविषा भवन्ति |७३|
🔊 Audio coming soon
मांसीत्यादि| मुरङ्गी शोभाञ्जनकः, रक्ता लता मञ्जिष्ठा, सुगन्धिका सर्पगन्धिका, किणिही कटभी, मृगादनी कर्कटिका, इन्द्रवारुणीफलमित्यन्ये, पुरः गुग्गुलुः, पालिन्दी त्रिवृत्, कालवल्लीत्यपरे, क्रमुकं पूगफलं, रुबुकमित्यन्ये पठन्ति स चैरण्डः, सुरस्याः प्रसूनं तुलसीपुष्पं, शिखी मयूरः, कुक्कुट इत्यन्ये, पृषतानामिदं पार्षतं, पृषतः चित्तलः| यस्य नरर्षभस्य नराधिपस्य, गृहेऽयमगदो नाम्ना सञ्ज्ञया, ऋषभो नाम ऋषभ इति प्रसिद्धः, सुकृतः स्यात् शोभनो निष्पादितो भवेत्||६८-७२||-
Adhikarana 40 (73-74) · Śloka 75
लाक्षा हरेणुर्नलदं प्रियङ्गुः शिग्रुद्वयं यष्टिकपृथ्विकाश्च ||७३|| चूर्णीकृतोऽयं रजनीविमिश्रो सर्पिर्मधुभ्यां सहितो निधेयः | शृङ्गे गवां पूर्ववदापिधानस्ततः प्रयोज्योऽञ्जननस्यपानैः ||७४|| सञ्जीवनो नाम गतासुकल्पानेषोऽगदो जीवयतीह मर्त्यान् |७५|
🔊 Audio coming soon
लाक्षेत्यादि| पृथ्विका एला, हिङ्गुपत्रिकेत्यन्ये| पूर्ववदापिधानः गोशृङ्गिकापिधानः||७३-७४||-
Adhikarana 41 (75) · Śloka 76
श्लेष्मातकीकट्फलमातुलुङ्ग्यः श्वेता गिरिह्वा किणिही सिता च ||७५|| सतण्डुलीयोऽगद एष मुख्यो विषेषु दर्वीकरराजिलानाम् |७६|
🔊 Audio coming soon
श्लेष्मातकीत्यादि| श्लेष्मातकी `बहुवारः’ इति लोके, कट्फलं काश्मरी, मातुलुङ्गो बीजपूरकः, श्वेता गिरिह्वा श्वेतस्यन्दा, किणिही नीलस्यन्दा, सिता शर्करा| अयं दर्वीकरराजिलविषदष्टागदः||७५||-
Adhikarana 42 (76-77) · Śloka 78
द्राक्षा सुगन्धा नगवृत्तिका च श्वेता समङ्गा समभागयुक्ता ||७६|| देयो द्विभागः सुरसाच्छदस्य कपित्थबिल्वादपि दाडिमाच्च | तथाऽर्धभागः सितसिन्धुवारादङ्कोठमूलादपि गैरिकाच्च ||७७|| एषोऽगदः क्षौद्रयुतो निहन्ति विशेषतो मण्डलिनां विषाणि |७८|
🔊 Audio coming soon
द्राक्षेत्यादि| सुगन्धा सर्पसुगन्धा नाकुलीति यावत्, नगवृत्तिका शल्लकी, श्वेता श्वेतस्यन्दः| देयो द्विभाग इत्यादि| अर्धभागः अर्धपलं सिन्धुवारादिभ्यः| केचित्तु सुगन्धा नगमृत्तिकेति पठन्ति, तत्रायमर्थः- शोभनगन्धवती पर्वतस्य मृत्तिका, पर्वतमृत्तिकायाः सामान्यतो विषहरत्वात्| सामान्येन सर्वत्र विषहरोऽयमगदः, विशेषतो मण्डलिविषहरो भवति| अयं तु मण्डलिविषहरो नामागदः||७६-७७||-
Adhikarana 43 (78-80) · Śloka 80
वंशत्वगार्द्राऽऽमलकं कपित्थं कटुत्रिकं हैमवती सकुष्ठा ||७८|| करञ्जबीजं तगरं शिरीषपुष्पं च गोपित्तयुतं निहन्ति | विषाणि लूतोन्दुरपन्नगानां कैटं च लेपाञ्जननस्यपानैः ||७९|| पुरीषमूत्रानिलगर्भसङ्गान्निहन्ति वर्त्यञ्जननाभिलेपैः | काचार्मकोथान् पटलांश्च घोरान् पुष्पं च हन्त्यञ्जननस्ययोगैः ||८०||
🔊 Audio coming soon
वंशत्वगार्द्रेत्यादि| वंशत्वगार्द्रा आर्द्रवंशस्य त्वक्, हैमवती वचा| कोथः पूतिभावः क्लिन्नवर्त्मादिषु| अयं तु सार्वकार्मिकोऽगदः||७८-८०||
Adhikarana 44 (81) · Śloka 81
समूलपुष्पाङ्कुरवल्कबीजात् क्वाथः शिरीषात् त्रिकटुप्रगाढः | सलावणः क्षौद्रयुतोऽथ पीतो विशेषतः कीटविषं निहन्ति ||८१||
🔊 Audio coming soon
समूलपुष्पाङ्कुरेत्यादि| अङ्कुरो नवपत्राङ्कुरः, प्रवाल इत्यर्थः| सह लावणेन लवणसमूहेन वर्तते इति सलावणः| केचिदीदृशं पठन्ति- `त्वक्पत्रपुष्पाणि फलं समूलं पिष्ट्वा शिरीषस्य कटुत्रिकं च| सलावणं क्षौद्रयुतं विलीढं विशेषतः कीटविषं निहन्ति’| अयमगदः पञ्चशिरीषनामा||८१||
Adhikarana 45 (82-83) · Śloka 83
कुष्ठं त्रिकटुकं दार्वी मधुकं लवणद्वयम् | मालती नागपुष्पं च सर्वाणि मधुराणि च ||८२|| कपित्थरसपिष्टोऽयं शर्कराक्षौद्रसंयुतः | विषं हन्त्यगदः सर्वं मूषिकाणां विशेषतः ||८३||
🔊 Audio coming soon
कुष्ठं त्रिकटुकमित्यादि| लवणद्वयं सैन्धवं सौवर्चलं च| मालती जाती, नागपुष्पं नागकेशरं, सर्वाणि मधुराणि काकोल्यादीनि| अयमपि सार्वकामिकनामाऽगदः||८२-८३||
Adhikarana 46 (84-86) · Śloka 86
सोमराजीफलं पुष्पं कटभी सिन्धुवारकः | चोरको वरुणः कुष्ठं सर्पगन्धा ससप्तला ||८४|| पुनर्नवा शिरीषस्य पुष्पमारग्वधार्कजम् | श्यामाऽम्बष्ठा विडङ्गानि तथाऽम्राश्मन्तकानि च ||८५|| भूमी कुरबकश्चैव गण एकसरः स्मृतः | एकशो द्वित्रिशो वाऽपि प्रयोक्तव्यो विषापहः ||८६||
🔊 Audio coming soon
सोमराजीफलमित्यादि| सोमराजी बाकुची, सिन्धुवारः श्वेतपुष्पा निर्गुण्डी, चोरको ग्रन्थिपर्णानुकारी, सर्पगन्धा नाकुली, सप्तला यवतिक्ताभेदः, श्यामा श्यामलता, प्रियङ्गुरित्यन्ये, अम्बष्ठा पाठा, अश्मन्तको वृक्षोऽम्लोटकानुसारी, भूमिः कृष्णमृत्तिका, कुरबकः स्निग्धपत्रः सितकुसुमः स्वनामप्रसिद्धः| गण एकसरः स्मृत इति अयमौषधगण एकसरः एकसरसञ्ज्ञकः स्मृतः| एकशो द्वित्रिशो वाऽपि प्रयोक्तव्यो विषापह इति स चौषधगण एकैकशः एकमेकं द्वौ द्वौ त्रीन् त्रीन् वा प्रयोक्तव्यः, प्रयुक्तश्च विषापहो भवति||८४-८६||
Adhikarana puShpikA · Śloka 5
इति सुश्रुतसंहितायां कल्पस्थाने सर्पदष्टविषचिकित्सितं नाम पञ्चमोऽध्यायः ||५||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां कल्पस्थाने पञ्चमोऽध्यायः||५||