Adhikarana 1 (1-2) · Śloka 2
अथातो दुन्दुभिस्वनीयं कल्पं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि| दुन्दुभिस्वनोऽस्मिन्नध्यायेऽस्तीति दुन्दुभिस्वनीयस्तं; दुन्दुभिरत्र निस्वानः||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो दुन्दुभिस्वनीयं कल्पं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि| दुन्दुभिस्वनोऽस्मिन्नध्यायेऽस्तीति दुन्दुभिस्वनीयस्तं; दुन्दुभिरत्र निस्वानः||१-२||
Adhikarana 2 (3-7) · Śloka 7
धवाश्वकर्णशिरीषतिनिशपलाशपिचुमर्दपाटलिपारिभद्रकाम्रोदुम्बरकरहाटकार्जुनककुभसर्ज- कपीतनश्लेष्मातकाङ्कोठामलकप्रग्रहकुटजशमीकपित्थाश्मन्तकार्कचिरबिल्वमहावृक्षारुष्करारलु- मधुकमधुशिग्रुशाकगोजीमूर्वाभूर्जतिल्वकेक्षुरकगोपघोण्टारिमेदानां भस्मान्याहृत्य गवां मूत्रेण क्षारकल्पेन परिस्राव्य विपचेत्, दद्याच्चात्र पिप्पलीमूलतण्डुलीयकवराङ्गचोचमञ्जिष्ठाकरञ्जिकाहस्तिपिप्पलीमरिचविडङ्गगृहधूमानन्ता- सोमसरलाबाह्लीकगुहाकोशाम्रश्वेतसर्षपवरुणलवणप्लक्षनिचुलकवञ्जुलवक्रालवर्धमानपुत्रश्रेणी- सप्तपर्णटुण्टुकैलवालुकनागदन्त्यतिविषाभयाभद्रदारुकुष्ठहरिद्रावचाचूर्णानि लोहानां च समभागानि, ततः क्षारवदागतपाकमवतार्य लोहकुम्भे निदध्यात् ||३|| अनेन दुन्दुभिं लिम्पेत् पताकां तोरणानि च | श्रवणाद्दर्शनात् स्पर्शात् विषात् सम्प्रतिमुच्यते ||४|| एष क्षारागदो नाम शर्करास्वश्मरीषु च | अर्शःसु वातगुल्मेषु कासशूलोदरेषु च ||५|| अजीर्णे ग्रहणीदोषे भक्तद्वेषे च दारुणे | शोफे सर्वसरे चापि देयः श्वासे च दारुणे ||६|| सदा सर्वविषार्तानां सर्वथैवोपयुज्यते | एष तक्षकमुख्यानामपि दर्पाङ्कुशोऽगदः ||७||
🔊 Audio coming soon
धवाश्वकर्णतिनिशेत्यादि| अश्वकर्णः पूर्वदेशे प्रसिद्धः, तिनिशः स्यन्दनः, पलाशः किंशुकः, पिचुमर्दो निम्बः, पारिभद्रको रक्तकुसुमः कण्टकी फलभद्राख्यः, अर्जुनः स्वनामप्रसिद्धो वृक्षविशेषः, ककुभः सुगन्धमूलो विटपविशेषः, सर्जकः स्वनामप्रसिद्धो वृक्षविशेषः, कपीतनो गर्दभाण्डः, श्लेष्मातको बहुवारः, प्रग्रहः किरमालकः, महावृक्षः सेहुण्डः, अरुष्करो भल्लातकः, मधुकं यष्टीमधु, मधुशिग्रुः शाकविटपः, रक्तशोभाञ्जनक इत्यपरे, शाको महापत्रः `श्रीपर्ण’ इति लोके, गोजी गोजिह्वा, इक्षुरकः कोकिलाक्षकः, गोपघोण्टा कर्कोटी, अरिमेदो रामकः; एषां धवादीनामरिमेदान्तानां समूलदलकाण्डशाखानां समेन भागेन गृहीतानां भस्मान्याहृत्य गवां मूत्रेण क्षारषड्गुणेन क्षारकल्पेन परिस्राव्य एकविंशतिवारान् गालयित्वेत्यर्थः, विपचेत् साधयेत्, तावद्यावदच्छो रक्तः पिच्छिलश्च भवति| दद्याच्चात्रेत्यादि| मूलं पिप्पलीमूलं, वराङ्गं वनवासिकात्वक्, चोचं द्वितीया स्थूला त्वक् यां शाल्मलकमित्याचक्षते, करञ्जिका नक्तमालः, अनन्ता उत्पलसारिवा, सोमः सोमवल्कः कट्फलाख्यः, बाह्लीकं कुङ्कुमं, गुहा शालपर्णी, प्लक्षः पर्कटी, निचुलको जलवेतसः, वक्रं तगरं, आलं हरितालं, वर्धमान एरण्डः, पुत्रश्रेणी द्रवन्ती, टुण्टुकः श्योनाकः, एलवालुकः स्वनामप्रसिद्धः, नागदन्ती इन्द्रवारुणीभेदः, जेज्जटाचार्यमते तु दन्ती; एषां पिप्पल्यादीनां चूर्णानि लोहानां च सर्वेषां यथालाभं क्षारोदकात् त्रिंशत्तमभागेन, अत्र अस्मिन् क्षारोदके, दद्यात् निक्षिपेदित्यर्थः| तदनु पुनर्विपचेद् यावन्नातिद्रवं नातिसान्द्रं च भवति| गयदासस्तु शिरीषपिचुमर्दककुभारुष्करमधुकेक्षुरकान् परित्यज्य त्रिंशदेव पठति; पिप्पल्यादिष्वावापेषु च मरिचसोमगुहालवणवक्रालान् परित्यज्य त्रिंशद्द्रव्याणि पठति||३-७||
Adhikarana 3 (8-11) · Śloka 11
विडङ्गत्रिफलादन्तीभद्रदारुहरेणवः | तालीशपत्रमञ्जिष्ठाकेशरोत्पलपद्मकम् ||८|| दाडिमं मालतीपुष्पं रजन्यौ सारिवे स्थिरे | प्रियङ्गुस्तगरं कुष्ठं बृहत्यौ चैलवालुकम् ||९|| सचन्दनगवाक्षीभिरेतैः सिद्धं विषापहम् | सर्पिः कल्याणकं ह्येतद्ग्रहापस्मारनाशनम् ||१०|| पाण्ड्वामयगरश्वासमन्दाग्निज्वरकासनुत् | शोषिणामल्पशुक्राणां वन्ध्यानां च प्रशस्यते ||११||
🔊 Audio coming soon
विडङ्गत्रिफलेत्यादि| इदं कल्याणकं घृतं भूतविद्यायां पठितत्वात् केचिन्न पठन्ति||८-११||
Adhikarana 4 (12-13) · Śloka 13
अपामार्गस्य बीजानि शिरीषस्य च माषकान् | श्वेते द्वे काकमाचीं च गवां मूत्रेण पेषयेत् ||१२|| सर्पिरेतैस्तु संसिद्धं विषसंशमनं परम् | अमृतं नाम विख्यातमपि सञ्जीवयेन्मृतम् ||१३||
🔊 Audio coming soon
अपामार्गस्येत्यादि| शिरीषस्य च माषकानिति माषका इव माषकाः तान्, बीजानीत्यर्थः| श्वेते द्वे इति श्वेता महाश्वेता च कटभीद्वयमित्यर्थः; अन्ये तु श्वेते द्वे श्वेतस्यन्दः श्वेतवचेति भाषन्ते| अत्र श्रुतत्वाद् घृताद् गोमूत्रं चतुर्गुणं देयम्||१२-१३||
Adhikarana 5 (14-27) · Śloka 27
चन्दनागुरुणी कुष्ठं तगरं तिलपर्णिकम् | प्रपौण्डरीकं नलदं सरलं देवदारु च ||१४|| भद्रश्रियं यवफलां भार्गी नीलीं सुगन्धिकाम् | कालेयकं पद्मकं च मधुकं नागरं जटाम् ||१५|| पुन्नागैलैलवालूनि गैरिकं ध्यामकं बलाम् | तोयं सर्जरसं मांसीं शतपुष्पां हरेणुकाम् ||१६|| तालीशपत्रं क्षुद्रैलां प्रियङ्गुं सकुटन्नटम् | शिलापुष्पं सशैलेयं पत्रं कालानुसारिवाम् ||१७|| कटुत्रिकं शीतशिवं काश्मर्यं कटुरोहिणीम् | सोमराजीमतिविषां पृथ्विकामिन्द्रवारुणीम् ||१८|| उशीरं वरुणं मुस्तं कुस्तुम्बुरु नखं तथा | श्वेते हरिद्रे स्थौणेयं लाक्षां च लवणानि च ||१९|| कुमुदोत्पलपद्मानि पुष्पं चापि तथाऽर्कजम् | चम्पकाशोकसुमनस्तिल्वकप्रसवानि च ||२०|| पाटलीशाल्मलीशैलुशिरीषाणां तथैव च | कुसुमं तृणमूल्याश्च सुरभीसिन्धुवारजम् ||२१|| धवाश्वकर्णपार्थानां पुष्पाणि तिनिशस्य च | गुग्गुलुं कुङ्कुमं बिम्बीं सर्पाक्षीं गन्धनाकुलीम् ||२२|| एतत् सम्भृत्य सम्भारं सूक्ष्मचूर्णानि कारयेत् | गोपित्तमधुसर्पिर्भिर्युक्तं शृङ्गे निधापयेत् ||२३|| भग्नस्कन्धं विवृताक्षं मृत्योर्दंष्ट्रान्तरं गतम् | अनेनागदमुख्येन मनुष्यं पुनराहरेत् ||२४|| एषोऽग्निकल्पं दुर्वारं क्रुद्धस्यामिततेजसः | विषं नागपतेर्हन्यात् प्रसभं वासुकेरपि ||२५|| महासुगन्धिनामाऽयं पञ्चाशीत्यङ्गसंयुतः | राजाऽगदानां सर्वेषां राज्ञो हस्ते भवेत् सदा ||२६|| स्नातानुलिप्तस्तु नृपो भवेत् सर्वजनप्रियः | भ्राजिष्णुतां च लभते शत्रुमध्यगतोऽपि सन् ||२७||
🔊 Audio coming soon
चन्दनागुरुणीत्यादि| तिलपर्णिकं `हुलहुल’ इति लोके, गयी तु तैलपर्णिकः सरलरसः नवनीतखोटिरिति प्रसिद्धः, नलदम् उशीरभेदः लामज्जकं, भद्रश्रियं श्वेतचन्दनं, यवफला दुग्धिका, नीली नीलाञ्जनिका शारदं फलं, सुगन्धिका सर्पसुगन्धा, कालेयकं पीतचन्दनं, जटा द्वितीया मांसी, पुन्नागः स्वनामप्रसिद्धः, एला स्थूलैला, एलवालुकं स्वनामप्रसिद्धं, ध्यामकं कत्तृणं, तोयं बालकं, हरेणुः रेणुका, क्षुद्रैला सूक्ष्मैला, कुटन्नटः वन्यकः, `फञ्जीमदनक’ इति लोके, शिलापुष्पं शिला मनःशिला, पुष्पं पुष्पकासीसं, कालानुसारिवा तगरभेदः, काश्मरी श्रीपर्णी, शीतशीवं कर्पूरं, शमीत्यपरे, सोमराजी बाकुची, पृथ्विका श्यामवर्णः स्थूलजीरकः, हिङ्गुपत्रिकेत्यपरे, श्वेते इति कटभीद्वयं, श्वेतामिति केचित् पठन्ति तत्र श्वेता वचा, स्थौणेयं ग्रन्थिपर्णकं, लवणानि पञ्चैव, प्रसवशब्देनात्र कुसुमानि फलानि च ग्राह्याणि प्रसवस्योभयवाचित्वात्, तृणशून्याः केतक्याः, मल्लिकाया इत्यपरे, सुरसीसिन्धुवाराभ्यां जातं कुसुममित्यर्थः, सिन्धुवारो निर्गुण्डीभेदः, अश्वकर्णः सर्जभेदः, तिनिशः स्यन्दनः, बिम्बी कुन्दुरिका, सर्पाक्षी रक्तपुष्पा पूर्वदेशे प्रसिद्धा, गन्धनाकुली सुगन्धमूला रास्ना, शिलापुष्पमित्यत्र तिलपुष्पमिति केचित् पठन्ति तच्च प्रसिद्धं, तन्मते शृङ्गेणाधारेण पञ्चाशीतिः पूर्यते| अष्टौ लवणानीति जेज्जटाचार्यः, तन्नेच्छति गयी, यतः पञ्चाशीतेरङ्गानामाधिक्यं स्यात्| `कुमुदोत्पलपद्मानि पुष्पं वाऽपि तथाऽर्कजं’ इत्यत्र स्थाने `पाटलाकाश्मरीशेलुशिरीषप्रसवानि च’ इति गयदासाचार्यः पठति| एषोऽग्निकल्पमित्यादि| एषः अगदः, अग्निकल्पं दुर्वारं विषं वासुकेरपि क्रुद्धस्य अमिततेजसो नागपतेः प्रसभं हठेन हन्यादिति सम्बन्धः| राजाऽगदानां सर्वेषां राज्ञो हस्ते भवेत् सदेति यतोऽयं सर्वागदानां राजा अत एव राज्ञो हस्ते सदा नित्यं भवितुमर्हति; तेन हस्तस्थितागदेन पाणिना स्पृष्टमन्नपानं निर्विषं भवति; हस्तस्थापनप्रयोजनमिदम्| स्नातानुलिप्त इत्यादि| स्नानानुलेपनाभ्यां वशीकरणम्||१४-२७||
Adhikarana 6 (28) · Śloka 28
उष्णवर्ज्यो विधिः कार्यो विषार्तानां विजानता | मुक्त्वा कीटविषं तद्धि शीतेनाभिप्रवर्धते ||२८||
🔊 Audio coming soon
विषार्तानां शोधनाङ्गत्वेनापि स्वेदो न क्रियत इत्यर्थमाह- उष्णवर्ज्य इत्यादि||२८||
Adhikarana 7 (29-31) · Śloka 31
अन्नपानविधावुक्तमुपधार्य शुभाशुभम् | शुभं देयं विषार्तेभ्यो विरुद्धेभ्यश्च वारयेत् ||२९|| फाणितं शिग्रुसौवीरमजीर्णाध्यशनं तथा | वर्जयेच्च समासेन नवधान्यादिकं गणम् ||३०|| दिवास्वप्नं व्यवायं च व्यायामं क्रोधमातपम् | सुरातिलकुलत्थांश्च वर्जयेद्धि विषातुरः ||३१||
🔊 Audio coming soon
उपधार्य ज्ञात्वेत्यर्थः, शुभाशुभं हिताहितं, वारयेद्विषार्तानेव| फाणितमित्यादि| कुलत्थांश्चेत्यत्र चकारेण पिण्याकमूलकलसुनकलायकुसुम्भातसीशिशुमारकूर्मनिष्पावजम्ब्वाम्रातकचूतादिकानि च वर्जयेत्||२९-३१||
Adhikarana 8 (32) · Śloka 32
प्रसन्नदोषं प्रकृतिस्थधातुमन्नाभिकाङ्क्षं समसूत्रजिह्वम् | प्रसन्नवर्णेन्द्रियचित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम् ||३२||
🔊 Audio coming soon
अविषश्च कीदृश इत्याह- प्रसन्नदोषमित्यादि| प्रसन्नदोषं स्वभावावस्थितवातादिकं, प्रकृतिस्थधातुं दधतीति धातवो रसादयो मलाश्च| अन्नाभिकाङ्क्षं भोजनाभिलाषिणं, एतेन समाग्नित्वमुक्तम्| समसूत्रजिह्वमिति समसूत्रा जिह्वा यस्य स तथा तम्| एतदुक्तं भवति- निर्विषस्य हि पुरुषस्य चित्तेन सह समसूत्रतया जिह्वा रसवेदिनी भवति, सविषस्य विषप्रभावेण दूषितचित्तत्वाज्जिह्वा रसवेदिनी न भवतीत्यर्थः| अनेन श्लोकेन `समदोषः समाग्निश्च’ इत्यादिश्लोकस्य सर्व एवार्थो निबद्धः| वैद्योऽवगच्छेदविषं मनुष्यमिति उक्तलक्षणः पुरुषोऽविषो भवति, विपरीतलक्षणस्तु विषातुरः| तथा हि,- “प्रवृद्धदोषं विकृतिस्थधातुमनन्नकाङ्क्षं क्षतसूत्रजिह्वम्| विरुद्धवर्णेन्द्रियचित्तचेष्टं वैद्योऽवगच्छेत् सविषं मनुष्यम्”- इति| `सममूत्रविट्कं’ इति केचित् पठन्ति, तच्च सुबोधम्| इदं सविषाविषलक्षणं तीक्ष्णतमे स्थावरविषे सर्पदष्टे च द्रष्टव्यं, नतु मन्दविषे चिरेण धातुदूषणकरे मूषिकविषे कीटविषेषु च; अत एवोत्तरत्र मूषिककीटविकल्पाविति| जेज्जटस्तु मूषिककल्पानन्तरं दुन्दुभिस्वनीयं कल्पं पठति||३२||
Adhikarana puShpikA · Śloka 6
इति सुश्रुतसंहितायां कल्पस्थाने दुन्दुभिस्वनीयकल्पो नाम षष्ठोऽध्यायः ||६||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां कल्पस्थाने षष्ठोऽध्यायः||६||