Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

14. śūkadōṣanidānam

Adhikarana 1 (1-2) · Śloka 2

अथातः शूकदोषनिदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अथात इत्यादि| शूकदोषनिदानमिति अत्रादिशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः, तेन शूकादिदोषनिदानमित्यर्थः; आदिशब्दाच्च दुष्टयोनिगूढान्तर्लोमयोनिदुर्भगागमनमभिघातश्चाभिप्रेतः| तन्नेच्छति गयी, दुष्टयोन्यादीनामुपदंशहेतुत्वात्| शूकः सजन्तुजलमलः, लिङ्गवृद्धिकरो योगो वा; दोषोऽत्र दुष्टिः, असम्यक्करणाद्वैकृतम्; अथवा दोषो वातादिः, वातादिकृतो वा विकारः; तेषां लक्षणस्यैव निर्देशान्निदानं, न तु हेतोः; हेतुः पुनरत्र शूक एव, स च प्रतिज्ञासूत्रेणैवाभिहितः||१-२||

Adhikarana 2 (3) · Śloka 3

लिङ्गवृद्धिमिच्छतामक्रमप्रवृत्तानां शूकदोषनिमित्ता दश चाष्टौ च व्याधयो जायन्ते | तद्यथा सर्षपिका, अष्ठीलिका, ग्रथितं, कुम्भीका, अलजी, मृदितं, सम्मूढपिडका, अवमन्थः, पुष्करिका, स्पर्शहानिः, उत्तमा, शतपोनकः, त्वक्पाकः, शोणितार्बुदं, मांसार्बुदं, मांसपाकः, विद्रधिः, तिलकालकश्चेति ||३||

🔊 Audio coming soon

तेषां शूकदोषजानां व्याधीनां सामान्यां सम्प्राप्तिमाह- लिङ्गेत्यादि| लिङ्गवृद्धिः स्थूलीकरणम्; आयामपरिणाहाभ्यामित्यन्ये | वात्स्यायनाद्युक्तलिङ्गवृद्धिकरयोगस्य अक्रमोऽनाचारः; ‘उत्तरबस्तिकर्मणोऽनाचार’ इत्यन्ये, तन्नेच्छति गयी| सङ्ख्येयनिर्देशादेव सङ्ख्यायां लब्धायामष्टादशवचनं सङ्ख्येयनिर्देशभ्रान्तिनिरासार्थम्||३||

Adhikarana 3 (4) · Śloka 4

गौरसर्षपतुल्या तु शूकदुर्भग्नहेतुका | पिडका कफरक्ताभ्यां ज्ञेया सर्षपिका बुधैः ||४||

🔊 Audio coming soon

शूकदुर्भग्नहेतुकेति दुरवचारितशूकहेतुकेत्यर्थः| अन्ये ‘शूकदुर्भगहेतुका’ इति पठन्ति, व्याख्यानयन्ति च- शूको दुष्टभगश्च हेतुर्यस्याः सा तथा| तन्नेच्छति गयी||४||

Adhikarana 4 (5) · Śloka 5

कठिना विषमैरन्तैर्मारुतस्य प्रकोपतः | शूकैस्तु विषसम्भुग्नैः पिडकाऽष्ठीलिका भवेत् ||५||

🔊 Audio coming soon

कठिनेत्यादि| शूकैरष्ठीलिका भवेदिति सम्बन्धः| विषमैः अप्रशस्तैः| अन्तैरिति कोऽर्थः; पतितैः| अन्ये तु “विषमैरन्तैरुपलक्षिता” इति व्याचक्षते; एतेन विषमान्तसहितेत्युक्तम्| विषसम्भुग्नैः विषेण कृत्वा वक्रैरित्यर्थः||५||

Adhikarana 5 (6) · Śloka 6

शूकैर्यत् पूरितं शश्वद्ग्रथितं तत् कफोत्थितम् |६|

🔊 Audio coming soon

शूकैरित्यादि| शश्वत् प्रतिदिनम्, एतेनैकदिनान्तरपूरणं प्रशस्तमिच्छन्ति कामतन्त्राचार्याः; नित्यपूरणाद्ग्रथितनाम्नो रोगस्योत्पत्तिः|६|-

Adhikarana 6 (6) · Śloka 6

कुम्भीका रक्तपित्तोत्था जाम्बवास्थिनिभाऽशुभा ||६||

🔊 Audio coming soon

कुम्भीकेत्यादि| कुम्भीका कुम्भीफलमिव| अशुभेति शुभा शुक्ला, तद्विरोधेनाशुभा कृष्णेत्यर्थः| इयमपि दुरवचारितशूकजा| ‘आशुजा’ इति केचित् पठन्ति; तत्र शूकपातानन्तरं शीघ्रं जायत इत्यर्थः||६||

Adhikarana 7 (7) · Śloka 7

अलजीलक्षणैर्युक्तामलजीं च वितर्कयेत् | मृदितं पीडितं यत्तु संरब्धं वायुकोपतः ||७||

🔊 Audio coming soon

अलजीलक्षणैः प्रमेहपिडकालजीलक्षणैरित्यर्थः| इयमपि दुष्टशूकावचारणाज्ज्ञेया| यत् पुनर्लिङ्गं पातितशूकं सत् हस्ताभ्यां भृशपीडितम्, अत एव वातकोपतः संरब्धं सशोफं, तन्मृदिताख्यरोगाक्रान्तं ज्ञेयम्||७||

Adhikarana 8 (8) · Śloka 8

पाणिभ्यां भृशसम्मूढे सम्मूढपिडका भवेत् |८|

🔊 Audio coming soon

भृशसम्मूढे अत्यर्थपिच्चितावनते, ‘पातितशूके लिङ्गे’ इत्यध्याहार्यम्| सम्मूढपिडका मृदितं च वातरक्तात्|८|-

Adhikarana 9 (8) · Śloka 9

दीर्घा बह्व्यश्च पिडका दीर्यन्ते मध्यतस्तु याः ||८|| सोऽवमन्थः कफासृग्भ्यां वेदनारोमहर्षकृत् |९|

🔊 Audio coming soon

बह्व्यः प्रभूताः| अवमन्थोऽपि स्थूलीकरणशूककर्मापचारेण ज्ञेयः||८||-

Adhikarana 10 (9) · Śloka 10

पित्तशोणितसम्भूता पिडका पिडकाचिता ||९|| पद्मपुष्करसंस्थाना ज्ञेया पुष्करिकेति सा |१०|

🔊 Audio coming soon

पद्मपुष्करं पद्मकर्णिका| एषाऽपि शूककर्मापचारजा ज्ञेया||९||-

Adhikarana 11 (10) · Śloka 10

जनयेत् स्पर्शहानिं तु शोणितं शूकदूषितम् ||१०||

🔊 Audio coming soon

जनयेदित्यादि| स्पर्शहानिं स्पर्शहानिनामानं व्याधिविशेषम्| शूकदूषितं शूकेन दुष्टिं नीतम्||१०||

Adhikarana 12 (11) · Śloka 11

मुद्गमाषोपमा रक्ता पिडका रक्तपित्तजा | उत्तमैषा तु विज्ञेया शूकाजीर्णनिमित्तजा ||११||

🔊 Audio coming soon

मुद्गेत्यादि| उत्तमा व्याधिविशेषः| शूकाजीर्णनिमित्तजेति शूकाजीर्णं पुनः पुनर्दुरवचारितशूकविकृतिलक्षण एव परिणामः, तदेव निमित्तं, ततो जातेति; अन्ये तु “शूकाजीर्णं शूकेनाजीर्णं प्रतिक्षणपातितशूकनिमित्ताभ्यां रक्तपिताभ्यां जायते” इत्याहुः||११||

Adhikarana 13 (12) · Śloka 12

छिद्रैरणुमुखैर्वस्तु चितं यस्य समन्ततः | वातशोणितजो व्याधिर्विज्ञेयः शतपोनकः ||१२||

🔊 Audio coming soon

छिद्रैरित्यादि| छिद्रैः दुरवचारितशूकनिमित्तवातशोणितजैः| वस्तु अधिष्ठानमित्यर्थः||१२||

Adhikarana 14 (13) · Śloka 13

पित्तरक्तकृतो ज्ञेयस्त्वक्पाको ज्वरदाहवान् |१३|

🔊 Audio coming soon

पित्तरक्तेत्यादि| पित्तरक्तकृत इति दुरवचारितशूकजनितपित्तशोणितज इत्यर्थः| गयी तु दुरवचारितशूकदूषितवातपित्तज इत्याहः|१३|-

Adhikarana 15 (13) · Śloka 13

कृष्णौः स्फोटैः सरक्तैश्च पिडकाभिश्च पीडितम् | यस्य वस्तु रुजश्चोग्रा ज्ञेयं तच्छोणितार्बुदम् ||१३||

🔊 Audio coming soon

कृष्णैरित्यादि| यस्य वस्तु अधिष्ठानं स्फोटैः पिडकाभिश्च पीडितं भवति तच्छोणितार्बुदं ज्ञेयमिति सम्बन्धः| अयमपि दुरवचारितशूकेभ्यः||१३||

Adhikarana 16 (14) · Śloka 14

मांसदोषेण जानीयादर्बुदं मांससम्भवम् |१४|

🔊 Audio coming soon

मांसेत्यादि| मांसदोषेण मांसवृद्ध्या| इदमपि दुरवचारितशूके लिङ्गे प्रहारादिभिर्जायते|१४|-

Adhikarana 17 (14) · Śloka 15

शीर्यन्ते यस्य मांसानि यत्र सर्वाश्च वेदनाः ||१४|| विद्यात्तं मांसपाकं तु सर्वदोषकृतं भिषक् |१५|

🔊 Audio coming soon

शीर्यन्ते गलन्ति| एषोऽपि दुरवचारितशूकदूषितदोषजः||१४||-

Adhikarana 18 (15) · Śloka 15

विद्रधिं सन्निपातेन यथोक्तमभिनिर्दिशेत् ||१५||

🔊 Audio coming soon

विद्रधिमित्यादि| अयमपि दुरवचारितशूकदूषितदोषत्रयजः||१५||

Adhikarana 19 (16-17) · Śloka 17

कृष्णानि चित्राण्यथवा शूकानि सविषाणि च | पातितानि पचन्त्याशु मेढ्रं निरवशेषतः ||१६|| कालानि भूत्वा मांसानि शीर्यन्ते यस्य देहिनः | सन्निपातसमुत्थानं तं विद्यात्तिलकालकम् ||१७||

🔊 Audio coming soon

कृष्णानीत्यादि| कृष्णानि कृष्णवर्णानि| चित्राणि शुक्लपीतनीलादिवर्णानीत्यर्थः| कालानि परिणततिलफलवर्णानि| शीर्यन्ते गलन्ति||१६-१७||

Adhikarana 20 (18) · Śloka 18

तत्र मांसार्बुदं यच्च मांसपाकश्च यः स्मृतः | विद्रधिश्च न सिध्यन्ति ये च स्युस्तिलकालकाः ||१८||

🔊 Audio coming soon

शूकदोषजानामसाध्यान्निर्दिशन्नाह- तत्रेत्यादि| ये चेति चकारात् कदाचित् सिध्यन्तीत्युक्तम्||१८||

Adhikarana puShpikA · Śloka 14

इति सुश्रुतसंहितायां निदानस्थाने शूकदोषनिदानं नाम चतुर्दशोऽध्यायः ||१४||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां निदानस्थाने चतुर्दशोऽध्यायः||१४||