Adhikarana 1 (1-2) · Śloka 2
अथातो ग्रन्थपच्यर्बुदगलगण्डानां निदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो ग्रन्थपच्यर्बुदगलगण्डानां निदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि||१-२||
Adhikarana 2 (3) · Śloka 3
वातादयो मांसमसृक् च दुष्टाः सन्दूष्य मेदश्च कफानुविद्धम् | वृत्तोन्नतं विग्रथितं तु शोफं कुर्वन्त्यतो ग्रन्थिरिति प्रदिष्टः ||३||
🔊 Audio coming soon
तेषां हेतुसम्प्राप्तिलक्षणनिरुक्तीराह- वातादय इत्यादि| वातादयो दोषा दुष्टा मांसमसृक् च सन्दूष्य शोफं कुर्वन्तीति सम्बन्धः| एतेन त्रयो ग्रन्थय उक्ताः| मेदश्च कफानुविद्धं कफसंसृष्टं वायुदूषितत्वाच्छोफं करोतीति सम्बन्धः| भोजेऽपि वातकर्तृत्वं मेदोग्रन्थावभिहितम्| तथा च,- “वायुर्मेदो यदा मांसे सङ्क्षिपेदथवा त्वचि| तत्र मेदोभवो ग्रन्थिः श्यावो भवति कण्डुलः”- इत्यादि| अयं चतुर्थो ग्रन्थिः| चकारात् सिराजो ग्रन्थिः पञ्चमो ग्राह्यः| दुष्टा वृद्धिं गता इत्यर्थः| वृत्तो वर्तुलः, उन्नत उच्छ्रितः| विग्रथितोऽत्यर्थं कठिनः| वातादयो दुष्टा इत्यनेन हेतूपदेशः, मांसमसृक् च सन्दूष्येति सम्प्राप्तिः, वृत्तोन्नतं विप्रथितं तु शोफमिति लक्षणोपदेशः, अतो ग्रन्थिरिति प्रदिष्ट इति निरुक्तिः||३||
Adhikarana 3 (4) · Śloka 4
आयम्यते व्यथ्यत एति तोदं प्रत्यस्यते कृत्यत एति भेदम् | कृष्णोऽमृदुर्बस्तिरिवाततश्च भिन्नः स्रवेच्चानिलजोऽस्रमच्छम् ||४||
🔊 Audio coming soon
तेषां वातादिजानां प्रत्येकं विशिष्टं लक्षणमाह- आयम्यत इत्यादि| आयम्यते वायोराकर्षणेन दीर्घ इव क्रियते, ‘ग्रन्थिः’ इति शेषः| व्यथ्यते विधूयते| एति गच्छति| तोदं व्यथाम्| प्रत्यस्यते क्षिप्यते| कृत्यते छिद्यते| एति भेदमिति भेदं च गच्छति| अमृदुः कर्कशः| बस्तिरिवाततश्चेति मूत्राशयवद्दीर्घः| अस्रं रुधिरम्||४||
Adhikarana 4 (5) · Śloka 5
दन्दह्यते धूप्यति चूष्यते च पापच्यते प्रज्वलतीव चापि | रक्तः सपीतोऽप्यथवाऽपि पित्ताद्भिन्नः स्रवेदुष्णमतीव चास्रम् ||५||
🔊 Audio coming soon
दन्दह्यते भृशं दह्यत इव| धूप्यति चातिमात्रम् अतिशयेन सन्तापं करोति| पापच्यते भृशं पच्यत इव| प्रज्वलतीव भस्मीभवतीव||५||
Adhikarana 5 (6) · Śloka 6
शीतोऽविवर्णोऽल्परुजोऽतिकण्डूः पाषाणवत् संहननोपपन्नः | चिराभिवृद्धिश्च कफप्रकोपाद्भिन्नः स्रवेच्छुक्लघनं च पूयम् ||६||
🔊 Audio coming soon
अविवर्ण ईषद्विवर्णः| पाषाणवत् पाषाण इव ‘कठिन’ इत्यध्याहारः| संहननोपपन्नः सङ्घातान्वितो महानित्यर्थः||६||
Adhikarana 6 (7) · Śloka 7
शरीरवृद्धिक्षयवृद्धिहानिः स्निग्धो महानल्परुजोऽतिकण्डूः | मेदःकृतो गच्छति चात्र भिन्ने पिण्याकसर्पिःप्रतिमं तु मेदः ||७||
🔊 Audio coming soon
शरीरवृद्धिक्षयवृद्धिहानिरिति देहाप्यायनह्रासाभ्यामाप्यायनह्रासौ यस्य स तथा| गच्छति स्रवति मेद इति सम्बन्धः| अत्र मेदोग्रन्थौ भिन्ने सति, पिण्याकसर्पिःप्रतिमं तिलकल्कस्त्यानघृतसदृशम्||७||
Adhikarana 7 (8-9) · Śloka 9
व्यायामजातैरबलस्य तैस्तैराक्षिप्य वायुर्हि सिराप्रतानम् | सम्पीड्य सङ्कोच्य विशोष्य चापि ग्रन्थिं करोत्युन्नतमाशु वृत्तम् ||८|| ग्रन्थिः सिराजः स तु कृच्छ्रसाध्यो भवेद्यदि स्यात् सरुजश्चलश्च | अरुक् स एवाप्यचलो महांश्च मर्मोत्थितश्चापि विवर्जनीयः ||९|| इति ग्रन्थीनां निदानं समाप्तम् |
🔊 Audio coming soon
सिराजस्य ग्रन्थेः सम्प्राप्तिं दर्शयन्नाह- व्यायामजातैरित्यादि| व्यायामजातैः व्यायामसमूहैः| अबलस्य पुरुषस्य| सिराप्रतानं सिराविस्तारम्| सिराजस्य कृच्छ्रसाध्यत्वमाह- स तु कृच्छ्रसाध्य इत्यादि| तस्यासाध्यत्वमाह- अरुगित्यादि| महांश्चेति चकारेण वातादिजा अप्येवंरूपा वर्जनीयाः| मर्मोत्थितश्चेति चकारेण अरुजोऽपि विवर्जनीयः| अन्ये पुनरत्र “मांसास्रजं चार्बुदलक्षणेन तुल्यं हि दृष्टं त्वथ लक्षणज्ञैः”- इति षष्ठं ग्रन्थिं पठन्ति| तन्न, जेज्जटादिभिः परिहृतत्वात्||८-९||
Adhikarana 8 (10-12) · Śloka 12
हन्वस्थिकक्षाक्षकबाहुसन्धिमन्यागलेषूपचितं तु मेदः | ग्रन्थिं स्थिरं वृत्तमथायतं वा स्निग्धं कफश्चाल्परुजं करोति ||१०|| तं ग्रन्थिभिस्त्वामलकास्थिमात्रैर्मत्स्याण्डजालप्रतिमैस्तथाऽन्यैः | अनन्यवर्णैरुपचीयमानं चयप्रकर्षादपचीं वदन्ति ||११|| कण्डूयुतास्तेऽल्परुजः प्रभिन्नाः स्रवन्ति नश्यन्ति भवन्ति चान्ये | मेदःकफाभ्यां खलु रोग एष सुदुस्तरो वर्षगणानुबन्धी ||१२||
🔊 Audio coming soon
इदानीमपच्याः सम्प्राप्त्यादीनाह- हन्वस्थीत्यादि| हन्वोरस्थि हन्वस्थि; सन्धिशब्दो हन्वस्थ्यादिभिर्बाह्वन्तैः प्रत्येकं सम्बध्यते; बाहुसन्धिशब्देन कूर्पसन्धिरुच्यते; अक्षकं कोष्ठकं तस्य सन्धिः, एतेन ग्रीवाग्रकसन्धिरुच्यते ; मन्या ग्रीवापश्चिमभागस्था धमनी| हन्वस्थीत्यादिसम्प्राप्तिः, ग्रन्थिं स्थिरं वृत्तमित्यादिलक्षणम्| तं ग्रन्थिभिरित्यादि तं पूर्वोक्तं ग्रन्थिम्| अनन्यवर्णैः समानवर्णैः| उपचीयमानं वर्धमानम्| चयप्रकर्षादिति उपचयातिशयादित्यर्थः| चयप्रकर्षादपचीमिति निरुक्तिः| खलुशब्दोऽप्यर्थः| तेन मेदःकफौ वातादिदोषान्तरानुविद्धौ ज्ञेयौ| तथाहि भोजः,- “वातपित्तकफा वृद्धा मेदश्चापि समाचितम्| जङ्घयोः कण्डराः प्राप्य मत्स्याण्डसदृशान् बहून्|| कुर्वन्ति ग्रथितांस्तेभ्यः पुनः प्रकुपितोऽनिलः| तान् दोषानूर्ध्वगो वक्षःकक्षामन्यागलाश्रितः|| नानाप्रकारान् कुरुते ग्रन्थीन् सा त्वपची स्मृता| व्यामिश्रदोषजाता सा कृच्छ्रसाध्या प्रकीर्तिता|| तासां वातोत्तरा रूक्षा वातवेदनयाऽन्विता| क्षिप्रपाकसमुत्थाना दाहयुक्ता तु पैत्तिकी|| गूढा वाऽपाककठिना कफात् स्निग्धाऽल्परुक्करा| मेदोऽधिका श्लैष्मिकी च विशेषादतिमार्दवा|| अपची कण्ठमन्यासु कक्षावङ्क्षणसन्धिसु| तां तु मालाकृतिं विद्यात् कण्ठहृद्धनुसन्धिषु|| गण्डमालां विजानीयादपचीतुल्यलक्षणाम्”- इति| चरके गण्डमाला गण्डे एव पठिता “मेदःकफाच्छोणितसञ्चयोत्थो गण्डस्य पार्श्वे गलगण्ड एकः| स्याद्गण्डमाला बहुभिस्तु गण्डैर्दीप्तानले यूनि बलान्विते च|| साध्या स्मृता पीनसपार्श्वशूलकासज्वरच्छर्दियुता त्वसाध्या” (च. चि. १२)- इति| अन्ये तु ‘मेदःकफाभ्यां पुनरेष रोगः’ इति पठन्ति; पुनःशब्दादधिकार्थाद्दोषान्तरसम्बन्धः स्थापितो भवतीति च वदन्ति| तत्रापि स एवार्थः| वर्षगणानुबन्धी वर्षसमूहसम्बन्धीत्यर्थः| एतेन दीर्घरोगित्वं सूचितम्| मेदःकफाभ्यामिति हेतूद्देशः||१०-१२||
Adhikarana 9 (13) · Śloka 14
गात्रप्रदेशे क्वचिदेव दोषाः सम्मूर्च्छिता मांसमभिप्रदूष्य | वृत्तं स्थिरं मन्दरुजं महान्तमनल्पमूलं चिरवृद्ध्यपाकम् ||१३|| कुर्वन्ति मांसोपचयं तु शोफं तमर्बुदं शास्त्रविदो वदन्ति |१४|
🔊 Audio coming soon
इदानीमर्बुदादीनां सम्प्राप्त्यादीनाह- गात्रप्रदेशे इत्यादि| क्वचिदेव गात्रप्रदेशे दोषाः शोफं कुर्वन्तीति सम्बन्धः| सम्मूर्च्छिता वृद्धिं गताः| क्वचिदेवानियतप्रदेशे, न पुनरपचीवद्धन्वस्थ्यादिसन्धिष्वेव| अपाकम् अविद्यमानपाकम्| मांसोपचयं मांससङ्घातम्| गात्रप्रदेशे क्वचिदेवेति सम्प्राप्तिः| सम्मूर्च्छिता दोषा इति हेतुः| वृत्तं स्थिरमित्यादि स्वलक्षणम्| गयी तु ‘कुर्वन्ति मांसोच्छ्रयमत्यगाधम्’ इति पठति||१३||-
Adhikarana 10 (14) · Śloka 15
वातेन पित्तेन कफेन चापि रक्तेन मांसेन च मेदसा च ||१४|| तज्जायते तस्य च लक्षणानि ग्रन्थेः समानानि सदा भवन्ति |१५|
🔊 Audio coming soon
तज्जायते तदर्बुदं भवतीत्यर्थः| तस्य च लक्षणानि तस्य वातपित्तकफमेदोजस्य||१४||-
Adhikarana 11 (15-16) · Śloka 17
दोषः प्रदुष्टो रुधिरं सिरास्तु सम्पीड्य सङ्कोच्य गतस्त्वपाकम् ||१५|| सास्रावमुन्नह्यति मांसपिण्डं मांसाङ्कुरैराचितमाशुवृद्धिम् | स्रवत्यजस्रं रुधिरं प्रदुष्टमसाध्यमेतद्रुधिरात्मकं स्यात् ||१६|| रक्तक्षयोपद्रवपीडितत्वात् पाण्डुर्भवेत् सोऽर्बुदपीडितस्तु |१७|
🔊 Audio coming soon
रक्तजस्यार्बुदस्य लक्षणमाह- दोषः प्रदुष्ट इत्यादि| प्रदुष्टो दोषः सिरासु गतो रुधिरं सम्पीड्य सङ्कोच्य मांसपिण्डमुन्नह्यतीति सम्बन्धः| उन्नह्यति उद्बध्नातीव; अन्ये तु ‘प्रदुष्टो दोष उन्नह्यति उच्छ्रितो भवति, मांसपिण्डमाशुवृद्धिं शीघ्रवर्धनशीलं करोति’ इति व्याख्यानयन्ति| अपाकम् ईषत्पाकम्||१५-१६||-
Adhikarana 12 (17-18) · Śloka 19
मुष्टिप्रहारादिभिरर्दितेऽङ्गे मांसं प्रदुष्टं प्रकरोति शोफम् ||१७|| अवेदनं स्निग्धमनन्यवर्णमपाकमश्मोपममप्रचाल्यम् | प्रदुष्टमांसस्य नरस्य बाढमेतद्भवेन्मांसपरायणस्य ||१८|| मांसार्बुदं त्वेतदसाध्यमुक्तं... |१९|
🔊 Audio coming soon
मांसजस्य सम्प्राप्तिं दर्शयन्नाह- मुष्टिप्रहारादिभिरित्यादि| समुपैति सम्यग्गच्छति| बाढम् अतिशयेन| मांसपरायणस्य मांसभक्षणशीलस्य| ‘मुष्टिप्रहारादिभिः’ इत्यत्र केचित् ‘काष्ठप्रहारादिभिः’ इति पठन्ति||१७-१८||-
Adhikarana 13 (19-20) · Śloka 20
...साध्येष्वपीमानि विवर्जयेत्तु | सम्प्रस्रुतं मर्मणि यच्च जातं स्रोतःसु वा यच्च भवेदचाल्यम् ||१९|| यज्जायतेऽन्यत् खलु पूर्वजाते ज्ञेयं तदध्यर्बुदमर्बुदज्ञैः | यद्द्वन्द्वजातं युगपत् क्रमाद्वा द्विरर्बुदं तच्च भवेदसाध्यम् ||२०||
🔊 Audio coming soon
साध्येष्वपीत्यादि| साध्येष्वपीमानि विवर्जयेदिति साध्येषु मध्ये इमानि वक्ष्यमाणानि विवर्जयेदित्यर्थः| अध्यर्बुदमपि द्विरर्बुदमेव, अन्ये ‘अत्यर्बुदं’ इति पठन्ति| यद्द्वन्द्वजातमित्यादि द्वन्द्वेन युग्मेन जातं द्वन्द्वजातं; न केवलमध्यर्बुदं द्विरर्बुदं, यद्द्वन्द्वजातं तदपि द्विरर्बुदमित्यर्थः| भेदश्च तयोरुपरिजातत्वेन पार्श्वजातत्वेन च| एतेन द्विरर्बुदद्वितयमप्यसाध्यमुक्तम्||१९-२०||
Adhikarana 14 (21) · Śloka 21
न पाकमायान्ति कफाधिकत्वान्मेदोबहुत्वाच्च विशेषतस्तु | दोषस्थिरत्वाद्ग्रथनाच्च तेषां सर्वार्बुदान्येव निसर्गतस्तु ||२१||
🔊 Audio coming soon
तेषां पाकाभावे हेतुं दर्शयन्नाह- न पाकमित्यादि| ग्रन्थ्यादिष्वपि कफादयश्चत्वारो हेतवः सन्ति, परमर्बुदेषु विशेषतः कफस्य मेदसश्चाधिक्यं तस्मात्, तथा विशेषतो दोषस्थिरत्वाद् दोषकार्यस्य मांसोच्छ्रयस्य तेनैव स्वरूपेण चिरकालावस्थितिशीलत्वात्, तथा ग्रथनाद् ग्रन्थिरूपत्वात्तेषां मेदःप्रभृतीनां; निसर्गतस्त्विति तुशब्दोऽप्यर्थः, तेन स्वभावादप्यर्बुदानि पाकं न गच्छतीत्यर्थः||२१||
Adhikarana 15 (22) · Śloka 22
वातः कफश्चैव गले प्रवृद्धौ मन्ये तु संसृत्य तथैव मेदः | कुर्वन्ति गण्डं क्रमशः स्वलिङ्गैः समन्वितं तं गलगण्डमाहुः ||२२||
🔊 Audio coming soon
इदानीं गलगण्डसम्प्राप्तिं दर्शयन्नाह- वात इत्यादि| वातादयो गण्डं क्रमशः कुर्वन्तीति सम्बन्धः| किंविशिष्टं गण्डं? स्वलिङ्गैः समन्वितम्| वातेन कफेन च गलगण्डो भवति, न पित्तेन; स्वभावेन पित्तजस्य गलगण्डस्याभावात्||२२||
Adhikarana 16 (23-27) · Śloka 27
तोदान्वितः कृष्णसिरावनद्धः कृष्णोऽरुणो वा पवनात्मकस्तु | मेदोन्वितश्चोपचितश्च कालाद्भवेदतिस्निग्धतरोऽरुजश्च ||२३|| पारुष्ययुक्तश्चिरवृद्ध्यपाको यदृच्छया पाकमियात् कदाचित् वैरस्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रशोषः ||२४|| स्थिरः सवर्णोऽल्परुगुग्रकण्डूः शीतो महांश्चापि कफात्मकस्तु | चिराभिवृद्धिं कुरुते चिराच्च प्रपच्यते मन्दरुजः कदाचित् ||२५|| माधुर्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रलेपः | स्निग्धो मृदुः पाण्डुरनिष्टगन्धो मेदःकृतो नीरुगथातिकण्डूः ||२६|| प्रलम्बतेऽलाबुवदल्पमूलो देहानुरूपक्षयवृद्धियुक्तः | स्निग्धास्यता तस्य भवेच्च जन्तोर्गलेऽनुशब्दं कुरुते च नित्यम् ||२७||
🔊 Audio coming soon
तस्यैव वातादिविशेषलिङ्गानि निर्दिशन्नाह- तोदान्वित इत्यादि| अरुज इति सोऽपि वातगलगण्डो यदा कालात् कालेन कृत्वा मेदोऽन्वितो भवति, तदा अरुजो भवतीत्यर्थः| यदृच्छया अज्ञातहेतुनियमेन, पाकमियात् गच्छेत्| कदाचित् न सर्वकालम्| वातजं कफजं चोक्त्वा मेदोजमाह- स्निग्ध इत्यादि| गलेऽनुशब्दमनुनादं प्रतिशब्दमित्यर्थः||२३-२७||
Adhikarana 17 (28) · Śloka 28
कृच्छ्राच्छ्वसन्तं मृदुसर्वगात्रं संवत्सरातीतमरोचकार्तम् | क्षीणं च वैद्यो गलगण्डिनं तु भिन्नस्वरं चैव विवर्जयेत्तु ||२८||
🔊 Audio coming soon
इदानीं गलगण्डस्यासाध्यतामाह- कृच्छ्रादित्यादि||२८||
Adhikarana 18 (29) · Śloka 29
निबद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले | महान् वा यदि वा ह्रस्वो गलगण्डं तमादिशेत् ||२९||
🔊 Audio coming soon
न सर्व एव गलाश्रयो गण्डो गलगण्डः, किं तर्हि कश्चिदेव वक्ष्यमाणस्वरूप इति दर्शयन्नाह- निबद्ध इत्यादि| नियमेन बद्धो निबद्धः| मुष्कवत् अण्डवत्||२९||
Adhikarana puShpikA · Śloka 11
इति सुश्रुतसंहितायां निदानस्थाने गलगण्डगण्डमालापच्यर्बुदनिदानं नामैकादशोऽध्यायः ||११||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां निदानस्थाने एकादशोऽध्यायः||११||