Adhikarana 1 (1-2) · Śloka 2
अथातो विसर्पनाडीस्तनरोगनिदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो विसर्पनाडीस्तनरोगनिदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि||१-२||
Adhikarana 2 (3) · Śloka 3
त्वङ्मांसशोणितगताः कुपितास्तु दोषाः सर्वाङ्गसारिणमिहास्थितमात्मलिङ्गम् | कुर्वन्ति विस्तृतमनुन्नतमाशु शोफं तं सर्वतो विसरणाच्च विसर्पमाहुः ||३||
🔊 Audio coming soon
इदानीं सम्प्राप्तिहेतुस्वरूपनिरुक्तीराह- त्वङ्मांसेत्यादि| त्वङ्मांसशोणितगताः कुपिता दोषाः शोफं कुर्वन्तीति सम्बन्धः| किम्भूतं शोफं? सर्वाङ्गसारिणम्| इह अस्मिञ् शास्त्रे, तं विसर्पमाहुरिति सम्बन्धः| पुनरपि किम्भूतम्? अस्थितम् अनवस्थितं, देशाद्देशान्तरगमनात्; अन्ये तु आस्थितं प्राप्तं; किं तत्? आत्मलिङ्गम्; एतेन वातादिशोथलिङ्गं प्राप्तमित्यर्थः; अन्ये तु इहास्थितं क्वचिदेवावयवे स्थितमिति व्याख्यानयन्ति| विस्तृतं विस्तीर्णम्| अनुन्नतं तनुत्वाच्छोफस्य | विसरणाच्चेति चकारात् नानाप्रकारं विसर्पतीति समुच्चीयते| त्वङ्मांसशोणितगता इति सम्प्राप्तिः| कुपिता दोषा इति हेतुः| सर्वाङ्गसारिणमित्यादि स्वरूपम्| सर्वतो विसरणाच्चेति निरुक्तिः||३||
Adhikarana 3 (4) · Śloka 4
वातात्मकोऽसितमृदुः परुषोऽङ्गमर्दसम्भेदतोदपवनज्वरलिङ्गयुक्तः | गण्डैर्यदा तु विषमैरतिदूषितत्वाद्युक्तः स एव कथितः खलु वर्जनीयः ||४||
🔊 Audio coming soon
तेषां दोषभेदेन विशिष्टं लक्षणां दर्शयन्नाह- वातात्मक इत्यादि| असितः कृष्णः| अङ्गमर्दो वेदनाविशेषः| इदं शुद्धवातविसर्पलक्षणमुक्तम्| गण्डैरित्यादि| गण्डैरग्निदग्धसदृशैः स्फोटैर्युक्त इति सम्बन्धः| अतिदूषितत्वात् काभ्यां? वातपित्ताभ्याम्| इदं पित्तानुगतवातविसर्पलक्षणमुक्तम्| अपरे तु सकलेनापि श्लोकेन शुद्धवातविसर्पलक्षणमाहुः, तन्मतेऽतिदूषितत्वाद् वातेनैवेति बोद्धव्यम्||४||
Adhikarana 4 (5) · Śloka 5
पित्तात्मको द्रुतगतिर्ज्वरदाहपाकस्फोटप्रभेदबहुलः क्षतजप्रकाशः | दोषप्रवृद्धिहतमांससिरो यदा स्यात् स्रोतोजकर्दमनिभो न तदा स सिध्येत् ||५||
🔊 Audio coming soon
पित्तात्मक इत्यादि| ज्वरादिभिः प्रभेदान्तैर्बहुलशब्दः प्रत्येकं सम्बध्यते| क्षतजप्रकाश इति रक्तमिव यः प्रकाशत इत्यर्थः| पूर्वार्धेन केवलपित्तारब्धो विसर्प उक्तः| दोषप्रवृद्धीत्यादि दोषप्रवृद्ध्या पित्तकफवृद्ध्या हतं मांसं सिराश्च यस्मिन् स तथा| स्रोतोजकर्दमनिभ इति अञ्जनसदृशकर्दमद्रव्यतुल्यः| अनेनोत्तरार्धेन कफपैत्तिको विसर्प उक्तः||५||
Adhikarana 5 (6) · Śloka 6
श्लेष्मात्मकः सरति मन्दमशीघ्रपाकः स्निग्धः सितश्वयथुरल्परुगुग्रकण्डुः |६|
🔊 Audio coming soon
श्लेष्मात्मक इत्यादि| सरति विसर्पति| कफवाताभ्यां ग्रन्थिविसर्पः, सः असाध्य एव| स पुरस्तादेव ग्रन्थिनिर्देश (?) इति नात्र निर्दिष्टः; अत्रैव ‘वातकफविसर्पलिङ्गेन निर्दिष्टेनावरुध्यते’ इत्यन्ये|६|-
Adhikarana 6 (6) · Śloka 6
सर्वात्मकस्त्रिविधवर्णरुजोऽवगाढः पक्वो न सिध्यति च मांससिराप्रशातात् ||६||
🔊 Audio coming soon
सान्निपातिकं दर्शयन्नाह- सर्वात्मक इत्यादि| त्रिविधवर्णरुज इति प्रत्येकं वातादिदोषनिर्दिष्टकृष्णपीतसितादिवर्णः, वातादिदोषजनितविसर्पनिर्दिष्टतोददाहकण्ड्वादिवेदनश्च| अवगाढोऽभ्यन्तरमूलः| प्रशातः शटनं; मांससिराप्रशातात् परतो न सिध्यति, मांससिराप्रशातात् पूर्वं कृच्छ्रतः सिध्यति||६||
Adhikarana 7 (7) · Śloka 7
सद्यःक्षतव्रणमुपेत्य नरस्य पित्तं रक्तं च दोषबहुलस्य करोति शोफम् | श्यावं सलोहितमतिज्वरदाहपाकं स्फोटैः कुलत्थसदृशैरसितैश्च कीर्णम् ||७||
🔊 Audio coming soon
सद्य इत्यादि| दोषबहुलस्य पित्तं रक्तं च शोफं करोतीति सम्बन्धः| किं कृत्वा? सद्यःक्षतव्रणमुपेत्य प्राप्य| किम्भूतं शोफं? श्यावमित्यादिविशेषणविशिष्टम्| दोषबहुलस्येति कुष्ठवातरक्तदिपूर्वरूपादिदोषदूषितधातोः, तदुक्तं तयोः पूर्वरूपे ‘क्षतविसर्पणम्’ (नि. ५) इति; अन्ये तु त्रिदोषबहुलस्येत्यर्थमाहुः| कीर्णं व्याप्तम्||७||
Adhikarana 8 (8) · Śloka 8
सिध्यन्ति वातकफपित्तकृता विसर्पाः सर्वात्मकः क्षतकृतश्च न सिद्धिमेति | पैत्तानिलावपि च दर्शितपूर्वलिङ्गौ सर्वे च मर्मसु भवन्ति हि कृच्छ्रसाध्याः ||८||
🔊 Audio coming soon
तेषां साध्यासाध्यात्वमाह- सिध्यन्तीत्यादि| न सिद्धिमेति न साध्यतां याति| दर्शितपूर्वलिङ्गा इति गण्डयुक्तो वातविसर्पः, स्रोतोजकर्दमनिभः पित्तविसर्प इति| अन्ये तु ‘पित्तात्मकोऽञ्जनवपुश्च तथा न सिध्येत्’ इति पठन्ति, चकारेण गण्डैर्यदाऽतिविषमैरित्येवंविशिष्टो वातिकोऽप्यसाध्य इति समुच्चीयत इति व्याख्यानयन्ति| गण्डैर्यदा तु विषमैरित्यादिना वातजस्य, स्रोतोजकर्दमनिभैरित्यादिना| पित्तजस्यासाध्यत्वमुक्तं यत् पुनरुच्यते तत् क्षतजस्यासाध्यताप्रसङ्गेन, प्रसङ्गोक्तं च न पौनरुक्त्यमर्हति||८||
Adhikarana 9 (9) · Śloka 10
शोफं न पक्वमिति पक्वमुपेक्षते यो यो वा व्रणं प्रचुरपूयमसाधुवृत्तः | अभ्यन्तरं प्रविशति प्रविदार्य तस्य स्थानानि पूर्वविहितानि ततः स पूयः ||९|| तस्यातिमात्रगमनाद्गतिरित्यतश्च नाडीव यद्वहति तेन मता तु नाडी |१०|
🔊 Audio coming soon
नाडीं निर्दिशन्नाह- शोफमित्यादि| व्रणमित्यत्रोपेक्षत इति सम्बन्धः| असाधुवृत्तः अहिताहाराचारः| स्थानानि त्वगादीनि व्रणवास्तुशब्दाभिहितानि| तस्य पूयस्य| अतश्चेति चकारो नाडीनिरुक्तिपक्षान्तरसमुच्चये| तामेव नाडीनिरुक्तिमाह- नाडीव यद्वहति तेन मता तु नाडी; येन हेतुना नाडीवत् प्रणालीवद्वहति याति तेन हेतुना नाडी मतेत्यर्थः| शोफं न पक्वमित्यादि हेतुः, अभ्यन्तरमित्यादि सम्प्राप्तिः, नाडीवेत्यादि निरुक्तिः||९||
Adhikarana 10 (10) · Śloka 10
दोषैस्त्रिभिर्भवति सा पृथगेकशश्च सम्मूर्च्छितैरपि च शल्यनिमित्ततोऽन्या ||१०||
🔊 Audio coming soon
सङ्ख्यां नियमयन्नाह- दोषैरित्यादि| दोषैःपृथगिति तिस्रः, एकशश्च सन्निपतितैरन्या, अपराश्च तिस्रः| सम्मूर्च्छितैरपि च द्विदोषसंयोगोत्थाः; अन्यथा अपिचकारौ निरर्थकौ स्याताम्| सम्मूर्च्छितैर्मिश्रीभूतैरित्यर्थः| शल्यनिमित्ततोऽन्या अभिघातजाऽपरेत्यर्थः| गयी तु त्रिभिर्दोषैः पृथक् तिस्रः, एकशश्च सम्मूर्च्छितैरन्या सान्निपातिकी, शल्यनिमित्ता च पञ्चमीति पञ्चैव नाड्य इति व्याख्यानयति||१०||
Adhikarana 11 (11) · Śloka 11
तत्रानिलात् परुषसूक्ष्ममुखी सशूला फेनानुविद्धमधिकं स्रवति क्षपायाम् |११|
🔊 Audio coming soon
तेषां वातादीनां प्रत्येकं विशिष्टं लक्षणमाह- तत्रानिलादित्यादि| फेनानुविद्धं फेनमिश्रम्|११|-
Adhikarana 12 (11) · Śloka 11
तृट्तापतोदसदनज्वरभेदहेतुः पीतं स्रवत्यधिकमुष्णमहःसु पित्तात् ||११||
🔊 Audio coming soon
तृट्तापेत्यादि| तृट्तापादीनां हेतुः तृषादीन् करोतीत्यर्थः||११||
Adhikarana 13 (12) · Śloka 12
ज्ञेया कफाद्बहुघनार्जुनपिच्छिलास्रा रात्रिस्रुतिः स्तिमितरुक्कठिना सकण्डूः |१२|
🔊 Audio coming soon
ज्ञेया कफादित्यादि| बहुघनार्जुनपिच्छिलास्रेति विपुलसान्द्रधवलपिच्छिलस्रावेत्यर्थः| अत्रास्रशब्दः स्राववाची चिन्त्य एव| अन्ये तु ‘कफाद्बहुघनार्जुनपिच्छिलस्रुत्’ इति पठन्ति, तत्र स्रुत् स्राव इत्यर्थः| स्तिमितरुगिति मन्दवेदनेत्यर्थः|१२|-
Adhikarana 14 (12) · Śloka 12
दोषद्वयाभिहितलक्षणदर्शनेन तिस्रो गतीर्व्यतिकरप्रभवास्तु विद्यात् ||१२||
🔊 Audio coming soon
द्वन्द्वजा आह- दोषद्वयाभिहितेत्यादि| व्यतिकरप्रभवा द्वन्द्वजाः; वातपित्तजा, पित्तकफजा, वातकफजा चेति तिस्रः| गयी तु दोषद्वयाभिहितेत्यादि द्वन्द्वजानां लक्षणं न पठति||१२||
Adhikarana 15 (13) · Śloka 13
दाहज्वरश्वसनमूर्च्छनवक्त्रशोषा यस्यां भवन्त्यभिहितानि च लक्षणानि | तामादिशेत् पवनपित्तकफप्रकोपाद्धोरामसुक्षयकरीमिव कालरात्रिम् ||१३||
🔊 Audio coming soon
सान्निपातिकीमाह- दाहज्वरेत्यादि| असुक्षयकरीं प्राणापहारिणीं; कामिव? कालरात्रिमिव यमभगिनीमिव||१३||
Adhikarana 16 (14) · Śloka 14
नष्टं कथञ्चिदनुमार्गमुदीरितेषु स्थानेषु शल्यमचिरेण गतिं करोति | सा फेनिलं मथितमच्छमसृग्विमिश्रमुष्णं स्रवेत सहसा सरुजा च नित्यम् ||१४||
🔊 Audio coming soon
शल्यनिमित्तां दर्शयन्नाह- नष्टमित्यादि| उदीरितेषु स्थानेषु त्वगादिषु| मथितमुन्मथितमिव| उष्णमुष्णस्पर्शं; ‘स्रावं’ इत्यध्याहारः||१४||
Adhikarana 17 (15) · Śloka 15
यावत्यो गतयो यैश्च कारणैः सम्भवन्ति हि | तावन्तः स्तनरोगाः स्युः स्त्रीणां तैरेव हेतुभिः ||१५||
🔊 Audio coming soon
इदानीं स्तनरोगाणां सङ्ख्यां हेतुं च दर्शयन्नाह- यावत्य इत्यादि| यावत्यो यावत्प्रमाणा गतयः, यैश्च कारणैर्वातपित्तकफसन्निपाताभिघातैः, तावन्तः तावत्प्रमाणाः||१५||
Adhikarana 18 (16) · Śloka 16
धमन्यः संवृतद्वाराः कन्यानां स्तनसंश्रिताः | दोषाविसरणात्तासां न भवन्ति स्तनामयाः ||१६||
🔊 Audio coming soon
इदानीं समानायामपि जातावसम्भूतगर्भाणां ते रोगा न भवन्तीति दर्शयन्नाह- धमन्य इत्यादि| कन्यानामसम्भूतगर्भाणां स्त्रीणामित्यर्थः| अविसरणम् अप्रसरणम्||१६||
Adhikarana 19 (17) · Śloka 17
तासामेव प्रजातानां गर्भिणीनां च ताः पुनः | स्वभावादेव विवृता जायन्ते सम्भवन्त्यतः ||१७||
🔊 Audio coming soon
तासामेव सगर्भाणां प्रजातानां च ता एव धमन्यो विवृतद्वारा भवन्तीति दर्शयन्नाह- तासामेवेत्यादि| प्रजातानां प्रसूतानाम्| ता इति धमन्यः| विवृताः प्रसृतद्वाराः, जायन्ते भवन्तीत्यर्थः| सम्भवन्तीति ‘स्तनरोगा’ इति शेषः||१७||
Adhikarana 20 (18) · Śloka 18
रसप्रसादो मधुरः पक्वाहारनिमित्तजः | कृत्स्नदेहात् स्तनौ प्राप्तः स्तन्यमित्यभिधीयते ||१८||
🔊 Audio coming soon
‘सक्षीरौ वाऽप्यदुग्धौ वा प्राप्य दोषा’ इति स्त्रीक्षीरस्य स्तनरोगाणां हेतुत्वेनोक्तत्वात् स्त्रीक्षीरस्यैव सम्भवमाह- रसप्रसाद इत्यादि|- रसप्रसादः रसस्य प्रसादो धाम सारस्तेज इत्यर्थः| पक्वाहारनिमित्तज इति प्राधान्यात् पक्वाहारनिमित्तशब्देन रसः कथ्यते, तेन रसज इत्यर्थः| स्तन्यनिरुक्तिमाह- कृत्स्नदेहादित्यादि| रसधातोर्व्यानविक्षिप्तस्य सर्वदेहगतत्वात्||१८||
Adhikarana 21 (19-22) · Śloka 23
विशस्तेष्वपि गात्रेषु यथा शुक्रं न दृश्यते | सर्वदेहाश्रितत्वाच्च शुक्रलक्षणमुच्यते ||१९|| तदेव चेष्टयुवतेर्दर्शनात् स्मरणादपि | शब्दसंश्रवणात् स्पर्शात् संहर्षाच्च प्रवर्तते ||२०|| सुप्रसन्नं मनस्तत्र हर्षणे हेतुरुच्यते | आहाररसयोनित्वादेवं स्तन्यमपि स्त्रियाः ||२१|| तदेवापत्यसंस्पर्शाद्दर्शनात् स्मरणादपि | ग्रहणाच्च शरीरस्य शुक्रवत् सम्प्रवर्तते ||२२|| स्नेहो निरन्तरस्तत्र प्रस्रवे हेतुरुच्यते |२३|
🔊 Audio coming soon
तस्य शरीराभ्यन्तरस्थस्यादृश्यस्यापि प्रसिद्धोपमानेन प्रवर्तने हेतुं दर्शयन्नाह- विशस्तेष्वपीत्यादि| शुक्रलक्षणं ‘स्तन्यमुच्यते’ इति शेषः| कुत इत्याह- यथा शुक्रं विशस्तेषु छिन्नेष्वपि गात्रेषु न दृश्यते, तस्माद्वितीयं हेतुमाह- सर्वदेहाश्रितत्वादिति, शुक्रवत् समस्तशरीराश्रितत्वात्| शुक्रदृष्टान्तेन स्तन्यस्याभ्यन्तरदर्शनं प्रतिपाद्य तेनैव दृष्टान्तेन सामग्रीतस्तस्य प्रवर्तनाद्बहिः प्रत्यक्षतां प्रतिपादयन्नाह- तदेवेत्यादि| तदेव शुक्रं प्रवर्तते बहिर्निःसरति| संहर्षाद् विशिष्टस्पर्शसङ्कल्पलक्षणात्| विशिष्टस्पर्शसङ्कल्पे हेतुचतुष्टयं दर्शयन्नाह- इष्टयुवतेरित्यादि| इष्टयुवतिदर्शनादिहेतुचतुष्टयेन यः संहर्षः स सुप्रसन्न एव मनसि भवतीति मनसोऽपि सुप्रसन्नस्य कारणत्वं दर्शयन्नाह- सुप्रसन्नमित्यादि| सुप्रसन्नमीर्ष्याद्यनभिभूतम्| एवं स्तन्यमपि स्त्रियाः प्रवर्तते, शुक्रमाहाररसयोनित्वात् प्रवर्तते स्तन्यमपि तथा, तस्मात् प्रवर्तते| ननु शुक्रमाहारयोन्यपि संहर्षात् कारणात् प्रवर्तते, अत्र च किं कारणमित्याह- तदेवेत्यादि| तदेव स्तन्यं शुक्रवत् सम्प्रवर्तते| अपत्यसंस्पर्शादिकारणचतुष्टयेऽपि स्नेहो मूलकारणमिति तदेव दर्शयन्नाह- स्नेह इत्यादि| प्रस्रवे स्तन्यस्रवणे| अत्रापि चत्वारो हेतवः, परमिष्टयुवतिस्थानेऽत्रापत्यग्रहणं, मूलहेतुहर्षस्थाने स्नेहः||१९-२२||-
Adhikarana 22 (23-24) · Śloka 24
तत् कषायं भवेद्वातात् क्षिप्तं च प्लवतेऽम्भसि ||२३|| पित्तादम्लं सकटुकं राज्योऽम्भसि च पीतिकाः | कफाद्घनं पिच्छिलं च जले चाप्यवसीदति | सर्वैर्दुष्टैः सर्वलिङ्गमभिघाताच्च दुष्यति ||२४||
🔊 Audio coming soon
स्तन्यस्य प्रभवं प्रवर्तनं चाभिधाय प्रकृतिमभिधातुकामः परित्याज्यतया प्रथमं विकृतिं दर्शयन्नाह- तदित्यादि| क्षिप्तं चेति चकारेणानुक्तमपि तनुत्वादिकं समुच्चीयते| सकटुकम् ईषत्तिक्तं, तिक्तेऽपि कटुशब्दस्य प्रवृत्तेः| अम्भसि चेति चकारान्नीललोहिताश्च राज्यो द्रष्टव्याः| पिच्छिलं चेति चकारेण दोषसम्प्लवः सूच्यते| अवसीदति बुडति| अभिघातात् पतनपीडनादिकात्||२३-२४||
Adhikarana 23 (25) · Śloka 25
यत् क्षीरमुदके क्षिप्तमेकीभवति पाण्डुरम् | मधुरं चाविवर्णं च प्रसन्नं तद्विनिर्दिशेत् ||२५||
🔊 Audio coming soon
निर्दोषस्य स्तन्यस्य लक्षणमाह- यदित्यादि| एकीभवति एकत्वं याति मिलतीत्यर्थः| अविवर्णम् ईषत्पीतादिवर्णम्| प्रसन्नं प्रकृतिस्थम्||२५||
Adhikarana 24 (26) · Śloka 26
सक्षीरौ वाऽप्यदुग्धौ वा प्राप्य दोषः स्तनौ स्त्रियाः | रक्तं मांसं च सन्दूष्य स्तनरोगाय कल्पते ||२६||
🔊 Audio coming soon
स्तनरोगहेतुं स्तन्यं प्रकृतिविकृतिभिरभिनिर्दिश्य स्तनरोगसम्प्राप्तिं दर्शयन्नाह- सक्षीरावित्यादि| सक्षीरौ गर्भिण्याः, तस्या दोहस्यासम्भवात्| अदुग्धौ प्रसूतायाः, तस्या दोहस्य सम्भवात्| तत्र यदा दोह्यावदुग्धौ भवतः, तदा क्षीरभरपीडिता दोषाः कुपिताः स्तनरोगाय जायन्ते| स्तनरोगाय कल्पते स्तनरोगार्थे समर्थो भवति||२६||
Adhikarana 25 (27) · Śloka 27
पञ्चानामपि तेषां तु हित्वा शोणितविद्रधिम् | लक्षणानि समानानि बाह्यविद्रधिलक्षणैः ||२७||
🔊 Audio coming soon
तेषामपि सङ्क्षेपार्थं लक्षणमतिदेशेन निर्दिशन्नाह- पञ्चानामपीत्यादि| तेषां स्तनरोगाणाम्| समानानि तुल्यानि, ‘भवन्ति’ इत्यध्याहारः||२७||
Adhikarana puShpikA · Śloka 10
इति सुश्रुतसंहितायां निदानस्थाने विसर्पनाडीस्तनरोगनिदानं नाम दशमोऽध्यायः ||१०||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां निदानस्थाने दशमोऽध्यायः||१०||