Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

12. vr̥ddhyupadaṁśaślīpadanidānam

Adhikarana 1 (1-2) · Śloka 2

अथातो वृद्ध्युपदंशश्लीपदानां निदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अथात इत्यादि||१-२||

Adhikarana 2 (3) · Śloka 3

वातपित्तश्लेष्मशोणितमेदोमूत्रान्त्रनिमित्ताः सप्त वृद्धयो भवन्ति | तासां मूत्रान्त्रनिमित्ते वृद्धी वातसमुत्थे, केवलमुत्पत्तिहेतुरन्यतमः ||३||

🔊 Audio coming soon

वृद्धीनां सङ्ख्यामाह- वातेत्यादि| सङ्ख्येयनिर्देशादेव सप्तसङ्ख्यासिद्धौ सप्तग्रहणं द्वन्द्वजादिवृद्धिनिषेधार्थं; तासां पुनरसम्भवो व्याधिस्वभावात्| धातुमलकृतायामपि वृद्धौ दोषस्यैव चिकित्सार्थं सम्भवं दर्शयन्नाह- तासामित्यादि| वातसमुत्थे वातात् सम्यगुत्तिष्ठेते वृद्धिं गच्छत इत्यर्थः| जननहेतुः पुनरन्यतम इति तं प्रतिपादयन्नाह- केवलमुत्पत्तिहेतुरन्यतम इति| केवलं परम्, उत्पत्तेरुत्पादकस्य हेतुः कारणमन्यत् मूत्रमन्त्रं वा| अन्ये तु अनयोर्वृद्ध्योर्यं उत्पत्तेर्हेतुर्वायुः सोऽन्यतमो भिन्नो ज्ञेयः; एतेन मूत्रसन्धारणकुपितो वायुर्मूत्रवृद्धेः कारणं, भारहरणादिभिः कुपितस्त्वन्त्रवृद्धेरित्यर्थः||३||

Adhikarana 3 (4) · Śloka 4

अधः प्रकुपितोऽन्यतमो हि दोषः फलकोशवाहिनीरभिप्रपद्य धमनीः फलकोषयोर्वृद्धिं जनयति, तां वृद्धिमित्याचक्षते ||४||

🔊 Audio coming soon

तासां सम्प्राप्तिमाह- अधः प्रकुपित इत्यादि| फलकोशयोरित्यनेन द्विवचनेन मुष्कद्वय एव वृद्धिरिति न ज्ञेयं, किं तर्हि एकस्मिन्नपि पक्षे वृद्धिरिति ज्ञातव्यम्||४||

Adhikarana 4 (5) · Śloka 5

तासां भविष्यतीनां पूर्वरूपाणि- बस्तिकटीमुष्कमेढ्रेषु वेदना मारुतनिग्रहः फलकोशशोफश्चेति ||५||

🔊 Audio coming soon

तासां पूर्वरूपाण्याह- तासामित्यादि||५||

Adhikarana 5 (6) · Śloka 6

तत्रानिलपरिपूर्णां बस्तिमिवाततां परुषामनिमित्तानिलरुजां वातवृद्धिमाचक्षते; पक्वोदुम्बरसङ्काशां ज्वरदाहोष्मवतीं चाशुसमुत्थानपाकां पित्तवृद्धिं; कठिनामल्पवेदनां शीतां कण्डूमतीं श्लेष्मवृद्धिं; कृष्णस्फोटावृतां पित्तवृद्धिलिङ्गां रक्तवृद्धिं, मृदुस्निग्धां कण्डूमतीमल्पवेदनां तालफलप्रकाशां मेदोवृद्धिं; मूत्रसन्धारणशीलस्य मूत्रवृद्धिर्भवति, सा गच्छतोऽम्बुपूर्णा दृतिरिव क्षुभ्यति मूत्रकृच्छ्रवेदनां वृषणयोः श्वयथुं कोशयोश्चापादयति, तां मूत्रवृद्धिं विद्यात्; भारहरणबलवद्विग्रहवृक्षप्रपतनादिभिरायासविशेषैर्वायुरभिप्रवृद्धः प्रकुपितश्च स्थूलान्त्रस्येतरस्य चैकदेशं विगुणमादायाधो गत्वा वङ्क्षणसन्धिमुपेत्य ग्रन्थिरूपेण स्थित्वाऽप्रतिक्रियमाणे च कालान्तरेण फलकोशं प्रविश्य मुष्कशोफमापादयति, आध्मातो बस्तिरिवाततः प्रदीर्घः स शोफो भवति, सशब्दमवपीडितश्चोर्ध्वमुपैति, विमुक्तश्च पुनराध्मायते , तामन्त्रवृद्धिमसाध्यामित्याचक्षते ||६||

🔊 Audio coming soon

तासां वातादिजानां लक्षणमाह- तत्रानिलेत्यादि| आतताम् आध्माताम्| मेदोवृद्धिमिति कफेन सह| मूत्रेत्यादि शीलं स्वभावः| क्षुभ्यति सञ्चलति| आध्मातो बस्तिरिव परिपूर्णो मूत्राशय इव| आततो विस्तीर्णः| उपैति उद्गच्छति, विमुक्तश्च सशब्दमेवाध्मायते||६||

Adhikarana 6 (7) · Śloka 7

तत्रातिमैथुनादतिब्रह्मचर्याद्वा तथाऽतिब्रह्मचारिणीं चिरोत्सृष्टां रजस्वलां दीर्घरोमां कर्कशरोमां सङ्कीर्णरोमां निगूढरोमामल्पद्वारां महाद्वारामप्रियामकामामचौक्षसलिलप्रक्षालितयोनिमप्रक्षालितयोनिं योनिरोगोपसृष्टां स्वभावतो वा दुष्टयोनिं वियोनिं वा नारीमत्यर्थमुपसेवमानस्य तथा करजदशनविषशूकनिपातनाद्बन्धनाद्धस्ताभिघाताच्चतुष्पदीगमनादचौक्षसलिलप्रक्षालनादवपीडनाच्छ्रुक्रवेगविधारणान्मैथुनान्ते वाऽप्रक्षालनादिभिर्मेढ्रमागम्य प्रकुपिता दोषाः क्षतेऽक्षते वा श्वयथुमुपजनयन्ति, तमुपदंशमित्याचक्षते ||७||

🔊 Audio coming soon

वृद्धेरन्तरमुपदंशानां हेत्वद्यभिधानमाह- तत्रातिमैथुनेत्यादि| अतिब्रह्मचारिण्या मैथुनातिनिवृत्त्या सङ्कुचितकर्कशयोनिमुखत्वात्| चिरोत्सृष्टां प्रभूतकालत्यक्तां, अत्रापि स एव हेतुः| ब्रह्मचारिण्या जन्मनः प्रभृत्येव मैथुनाभावः, चिरोत्सृष्टायास्तु कदाचिदेवेत्यनयोर्भेदः| रजस्वलाया दुष्टार्तवप्रसङ्गात्| दीर्घकर्कशादिरोमाभिगमने पीडनाभिघातप्रसङ्गात्| सङ्कीर्णरोमा घनरोमा| निगूढरोमा अभ्यन्तररोमा| अल्पद्वारायामपि स एव हेतुः| महाद्वारायां शोफहेतुश्चिन्त्त्य एव, तस्मात् केचिन्न पठन्ति| अप्रियायां लिङ्गानुत्थानेनेतश्चेताभिघातप्रसङ्गात्| अकामायाः सक्थिसङ्कोचेन द्वाराल्पत्वात्| अचोक्षसलिलप्रक्षालितयोनेः सलिलदोषात्, अचोक्षमपवित्रम्| अप्रक्षालितयोनेः स्वेदमलदोषात्| योनिरोगोपसृष्टाया रोगदोषानुसारेण दोषोदयात्| स्वभावतो वा दुष्टयोनेर्वातादय एव कारणम्| वियोनिं हस्तजङ्घान्तरं, तस्य कर्कशत्वात्| करजा नखाः, दशना दन्ताः, शूकस्य सविषजलजकीटस्य, निपातनाल्लिङ्गादिशरीरे पातनादथवा तेषां मर्दनात् पीडनात्| चतुष्पद्योऽजादयो रासभ्यादयो वा, तासामप्यल्पारम्ययोनित्वात्| अचोक्षसलिलप्रक्षालनादिभिरिति अचोक्षसलिलप्रक्षालनमत्र लिङ्गस्य न तु योनेः||७||

Adhikarana 7 (8) · Śloka 8

स पञ्चविधस्त्रिभिर्दोषैः पृथक् समस्तैरसृजा चेति ||८||

🔊 Audio coming soon

तेषां सङ्ख्यामाह- स पञ्चविध इत्यादि| त्रिभिर्दोषैः पृथगिति त्रयः, समस्तैरेकः, असृजा चैकः, एवं पञ्च||८||

Adhikarana 8 (9) · Śloka 9

तत्र वातिके पारुष्यं त्वक्परिपुटनं स्तब्धमेढ्रता परुषशोफता विविधाश्च वातवेदनाः; पैत्तिके ज्वरः श्वयथुः पक्वोडुम्बरसङ्काशस्तीव्रदाहः क्षिप्रपाकः पित्तवेदनाश्च; श्लैष्मिके श्वयथुः कण्डूमान् कठिनः स्निग्धः श्लेष्मवेदनाश्च; रक्तजे कृष्णस्फोटप्रादुर्भावोऽत्यर्थमसृक्प्रवृत्तिः पित्तलिङ्गान्यत्यर्थं ज्वरदाहौ शोषश्च, याप्यश्चैव कदाचित्; सर्वजे सर्वलिङ्गदर्शनमवदरणं च शेफसः कृमिप्रादुर्भावो मरणं चेति ||९||

🔊 Audio coming soon

तेषां वातादिजानां प्रत्येकं लक्षणमाह- तत्र वातिके इत्यादि| “मेढ्रसन्धौ व्रणाः केचित् केचित् सर्वाश्रयाः स्मृताः| कुलत्थाकृतयः केचित् केचिन्मुद्गदलोपमाः|| रुजादाहपरीताश्च तृष्णामोहसमन्विताः| शीघ्रं केचिद्विसर्पन्ति शनैः केचित्तथाऽपरे|| स्त्रीणां पुंसां च जायन्ते उपदंशाः सुदारुणाः”- इति तन्त्रान्तरे||९||

Adhikarana 9 (10) · Śloka 10

कुपितास्तु दोषा वातपित्तश्लेष्माणोऽधःप्रपन्ना वङ्क्षणोरुजानुजङ्घास्ववतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शोफं जनयन्ति, तं श्लीपदमित्याचक्षते | तत्त्रिविधं- वातपित्तकफनिमित्तमिति ||१०||

🔊 Audio coming soon

अतः परं श्लीपदारम्भः, उपदंशस्थानेऽपि श्लीपदसम्भवात्; ‘शिश्नौष्ठनासास्वपि च केचिदिच्छन्ति तद्विदः’ इति वचनात्| तेषां सम्प्राप्तिं निर्दिशन्नाह- प्रकुपितास्त्वित्यादि| प्रकुपिता इत्यनेन सामर्थ्यादेव हेतवो निर्दिष्टाः, अहतोर्दोषस्यादुष्टत्वात्| स्थानसंश्रयलक्षणा सम्प्राप्तिरपि लक्षणमेव| तत्र पूर्वो लक्षणोदयो दोषदूष्यराशेरेव; दूष्यान् दूषयन्तो दोषाः शोफं जनयन्ति| तं श्लीपदमित्याचक्षते इति पारिभाषिकी निरुपाधिरेव श्लीपदसञ्ज्ञेतीतिशब्देन प्रकाशयति||१०||

Adhikarana 10 (11) · Śloka 11

तत्र, वातजं खरं कृष्णं परुषमनिमित्तानिलरुजं परिस्फुटति च बहुशः; पित्तजं तु पीतावभासमीषन्मृदु ज्वरदाहप्रायं च; श्लेष्मजं तु श्वेतं स्निग्धावभासं मन्दवेदनं भारिकं महाग्रन्थिकं कण्टकैरुपचितं च ||११||

🔊 Audio coming soon

कफजे भारिकं गुर्वित्यर्थः||११||

Adhikarana 11 (12) · Śloka 12

तत्र संवत्सरातीतमतिमहद्वल्मीकजातं प्रसृतमिति वर्जनीयानि ||१२||

🔊 Audio coming soon

वल्मीकजातं वल्मीकवज्जातम्, अतिबहुतरशिखरैर्ग्रन्थिभिरुपचितत्वात्; परपदार्थेषु हि प्रवृत्ता शब्दा वतिमन्तरेणापि वत्यर्थं जनयन्ति||१२||

Adhikarana 12 (13) · Śloka 13

भवन्ति चात्र- त्रीण्यप्येतानि जानीयाच्छ्लीपदानि कफोच्छ्रयात् | गुरुत्वं च महत्त्वं च यस्मान्नास्ति विना कफात् ||१३||

🔊 Audio coming soon

वातपित्तश्लीपदान्यपि कफाधिकान्येवेति दर्शयन्नाह- त्रीणीत्यादि||१३||

Adhikarana 13 (14) · Śloka 14

पुराणोदकभूयिष्ठाः सर्वर्तुषु च शीतलाः | ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः ||१४||

🔊 Audio coming soon

देशविशेष एवास्योत्पत्तिं दर्शयन्नाह- पुराणोदकभूयिष्ठा इत्यादि| अनूपदेशस्य पुराणोदकभूयिष्ठता| जाङ्गलस्योन्नतसमभूतलत्वात् सलिलं पतितं न तिष्ठति, स्थितमपि रूक्षोष्णशुष्कत्वाद्देशस्य शोषमुपैति; तेन जाङ्गलदेशस्य शीतेऽप्यशीतता||१४||

Adhikarana 14 (15) · Śloka 15

पादवद्धस्तयोश्चापि श्लीपदं जायते नृणाम् | कर्णाक्षिनासिकौष्ठेषु केचिदिच्छन्ति तद्विदः ||१५||

🔊 Audio coming soon

श्लीपदस्य पादाभ्यामन्यस्मिन्नप्यङ्गे उत्पत्तिं दर्शयन्नाह- पादवद्धस्तयोश्चापीत्यादि||१५||

Adhikarana puShpikA · Śloka 12

इति सुश्रुतसंहितायां निदानस्थाने वृद्ध्युपदंशश्लीपदनिदानं नाम द्वादशोऽध्यायः ||१२||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां निदानस्थाने द्वादशोऽध्यायः||१२||