Adhikarana 1 (1-2) · Śloka 2
अथातः प्रमेहनिदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातः प्रमेहनिदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि||१-२||
Adhikarana 2 (3) · Śloka 3
दिवास्वप्नाव्यायामालस्यप्रसक्तं शीतस्निग्धमधुरमेद्यद्रवान्नपानसेविनं पुरुषं जानियात् प्रमेही भविष्यतीति ||३||
🔊 Audio coming soon
प्रमेहहेतुमाह- दिवास्वप्नेत्यादि| प्रसक्तं प्रकर्षेण सक्तमतिशयेनानुषङ्गिणम्| मेद्यं मेदुरं मेदोजनकमित्यर्थः| पुरुषं जानीयात् प्रमेही भविष्यति; तत्राहुरेके- स्त्रीणां प्रमेहा न भवन्ति, तथा च तन्त्रान्तरे- “रजःप्रसेकान्नारीणां मासि मासि विशुध्यति| सर्वं शरीरं दोषाश्च न प्रमेहन्त्यतः स्त्रियः” इति; एतत्तु न युक्तं, सर्वतन्त्राप्रसिद्धेः प्रत्यक्षविरोधाच्च||३||
Adhikarana 3 (4) · Śloka 4
तस्य चैवम्प्रवृत्तस्यापरिपक्वा एव वातपित्तश्लेष्माणो यदा मेदसा सहैकत्वमुपेत्य मूत्रवाहिस्रोतांस्यनुसृत्याधो गत्वा बस्तेर्मुखमाश्रित्य निर्भिद्यन्ते तदा प्रमेहाञ्जनयन्ति ||४||
🔊 Audio coming soon
सम्प्राप्तिं दर्शयन्नाह- तस्येत्यादि| अपरिपक्वा आमाः| मेदसेति अत्रापिशब्दो लुप्तो द्रष्टव्यः, तेन वसादयो ग्राह्याः; अन्ये ति ‘मेदश्चापरिपक्वं’ इति पठन्ति, चकोरेणानुक्तानपि वसादीन् समुच्चिन्वन्ति| उपेत्य गत्वा| निर्भिद्यन्ते निःसरन्तीत्यर्थः| अन्ये तु ‘विनिर्भिद्यान्ते’ इति पठित्वा, ‘तत्रैव स्थिर्ति कुर्वन्ति’ इति तु व्याख्यानयन्ति; अपरे ‘अतिद्रवत्वं यान्ति’ इत्याहुः||४||
Adhikarana 4 (5) · Śloka 5
तेषां तु पूर्वरूपाणि- हस्तपादतलदाहः स्निग्धपिच्छिलगुरुता गात्राणां मधुरशुक्लमूत्रता तन्द्रा सादः पिपासा दुर्गन्धश्च श्वासस्तालुगलजिह्वादन्तेषु मलोत्पत्तिर्जटिलीभावः केशानां वृद्धिश्च नखानाम् ||५||
🔊 Audio coming soon
पूर्वरूपमाह- तेषामित्यादि| केशानां जटिलीभावोऽन्योन्यमिलनं, स्वेदमलबाहुल्याद्रोगप्रभावाच्च||५||
Adhikarana 5 (6) · Śloka 6
तत्राविलप्रभूतमूत्रलक्षणाः सर्व एव प्रमेहा भवन्ति ||६||
🔊 Audio coming soon
प्रमेहाणां सामान्यं लक्षणमाह- तत्रेत्यादि| आविलं समलम्||६||
Adhikarana 6 (7) · Śloka 7
सर्व एव सर्वदोषसमुत्थाः सह पिडकाभिः ||७||
🔊 Audio coming soon
तेषां प्रमेहाणां प्रमेहपिडकानां च दोषं निर्दिशन्नाह- सर्व एवेत्यादि| एतेन प्रमेहाणां प्रमेहपिडकानां च कुष्ठवत् सर्वदोषजत्वमुक्तम्||७||
Adhikarana 7 (8) · Śloka 8
तत्र, कफादुदकेक्षुवालिकासुरासिकताशनैर्लवणपिष्टसान्द्रशुक्रफेनमेहा दश साध्याः, दोषदूष्याणां समक्रियत्वात्; पित्तान्नीलहरिद्राम्लक्षारमञ्जिष्ठाशोणितमेहाः षड् याप्याः, दोषदूष्याणां विषमक्तियत्वात्; वातात् सर्पिर्वसाक्षौद्रहस्तिमेहाश्चत्वारोऽसाध्यतमाः, महात्ययिकत्वात् ||८||
🔊 Audio coming soon
सर्वेषां सर्वदोषजत्वेऽप्युत्कर्षतो दोषग्रहणं दर्शयन्नाह- तत्रेत्यादि| उदकमेहः, इक्षुवालिकामेहः , सुरामेहः, सिकतामेहः, शनैर्मेहः, लवणमेहः, पिष्टमेहः, सान्द्रमेहः, शुक्रमेहः, फेनमेहश्चेति दश प्रमेहाः साध्या यद्यतिशयेन मेदो दूषितं न भवति| दोषदूष्याणां समक्रियत्वादिति अत्र दोषः श्लेष्मा, दूष्याणि रसमांसमेदोमज्जाशुक्रलसीकौजांसि, एषां कटुतिक्तकषायादिभिः समैव क्रिया| पित्तादित्यादि| याप्या इति अत्रापि यद्यतिशयेन भेदो दूषितं न भवति| दोषदूष्याणां विषमक्रियत्वादिति अत्र दोषः पित्तं, दूष्याणि रसमांसादीनि, एतेषां तु विषमा क्रिया पित्तहन्त्री रसमांसाद्युत्पादिकेति| वातादित्यादि| महात्ययिकत्वादिति शीघ्रं विनाशकारित्वात्, महात्ययिकत्वं पुनरेषामुत्तरोत्तरसारतरधातुस्रावकरत्वात्; विषमक्रियत्वाच्चेत्यत्रापि सम्बध्यते||८||
Adhikarana 8 (9) · Śloka 9
तत्र वातपित्तमेदोभिरन्वितः श्लेष्मा श्लेष्मप्रमेहाञ्जनयति, वातकफशोणितमेदोभिरन्वितं पित्तं पित्तप्रमेहान्, कफपित्तवसामज्जमेदोभिरन्वितो वायुर्वातप्रमेहान् ||९||
🔊 Audio coming soon
इदानीं सर्वेषामेव सर्वजत्वं प्रकटयन्नाह- तत्रेत्यादि||९||
Adhikarana 9 (10) · Śloka 10
तत्र, श्वेतमवेदनमुदकसदृशमुदकमेही मेहति; इक्षुरसतुल्यमिक्षुवालिकामेही; सुरातुल्यं सुरामेही; सरुजं सिकतानुविद्धं सिकतामेही; शनैः सकफं मृत्स्नं शनैर्मेही; विशदं लवणतुल्यं लवणमेही; हृष्टरोमा पिष्टरसतुल्यं पिष्टमेही; आविलं सान्द्रं सान्द्रमेही; शुक्रतुल्यं शुक्रमेही; स्तोकं स्तोकं सफेनमच्छं फेनमेही मेहति ||१०||
🔊 Audio coming soon
कफजानामनुक्रमेण लक्षणं दर्शयन्नाह- तत्रेत्यादि| सिकतानुविद्धं वालुकामिश्रम्| मृत्स्नं पिच्छिलम्| लवणतुल्यं लवणाम्बुतुल्यम्| हृष्टरोमा प्राप्तरोमञ्चः| पुष्टरसतुल्यं पिष्टमिश्रोदकतुल्यम्| आविलमत्यर्थं कलुषं, पुनर्वचनात्| मेहति मूत्रयतीत्यर्थः||१०||
Adhikarana 10 (11) · Śloka 11
अत ऊर्ध्वं पित्तनिमित्तान् वक्ष्यामः- सफेनमच्छं नीलं नीलमेही मेहति; सदाहं हरिद्राभं हरिद्रामेही; अम्लरसगन्धमम्लमेही; स्रुतक्षारप्रतिमं क्षारमेही; मञ्जिष्ठोदकप्रकाशं मञ्जिष्ठामेही; शोणितप्रकाशं शोणितमेही मेहति ||११||
🔊 Audio coming soon
अत इत्यादि| स्रुतक्षारप्रतिमं गलितक्षारद्रवतुल्यम्| मञ्जिष्ठोदकप्रकाशं शोणितप्रकाशं च मूत्रं रक्तपित्तेऽपि भवति, तत् कोऽयं प्रमेहविशेषः? अत्रोच्यते- रक्तपित्ते प्रमेहपूर्वरूपं न भवति, मञ्जिष्ठाशोणितमेहयोस्तु प्रमेहपूर्वरूपसम्भव इति विशोषः||११||
Adhikarana 11 (12) · Śloka 12
अत ऊर्ध्वं वातनिमित्तान् वक्ष्यामः- सर्पिःप्रकाशं सर्पिर्मेही मेहति; वसाप्रकाशं वसामेही; क्षौद्ररसवर्णं क्षौद्रमेही; मत्तमातङ्गवदनुप्रबन्धं हस्तिमेही मेहति ||१२||
🔊 Audio coming soon
अत इत्यादि| अनुप्रबन्धं सततम्||१२||
Adhikarana 12 (13) · Śloka 13
मक्षिकोपसर्पणमालस्यं मांसोपचयः प्रतिश्यायः शैथिल्यारोचकाविपाकाः कफप्रसेकच्छर्दिनिद्राकासश्वासाश्चेति श्लेष्मजानामुपद्रवाः; वृषणयोरवदरणं बस्तिभेदो मेढ्रतोदो हृदि शूलमम्लीकाज्वरातीसारारोचका वमथुः परिधूपनं दाहो मूर्च्छा पिपासा निद्रानाशः पाण्डुरोगः पीतविण्मूत्रनेत्रत्वं चेति पैत्तिकानां; हृद्ग्रहो लौल्यमनिद्रा स्तम्भः कम्पः शूलं बद्धपुरीषत्वं चेति वातजानाम् | एवमेते विंशति प्रमेहाः सोपद्रवा व्याख्याताः ||१३||
🔊 Audio coming soon
इदानीं प्रतिदोषमुपद्रवान् दर्शयन्नाह- मक्षिकोपसर्पणमित्यादि| अवदरणं विदरणम्| अम्लीका अम्लोद्गारः| वमथुः छर्दिः| परिधूपनं समन्ततस्तापः| दाहोऽग्निदग्धस्येव| लौल्यं सर्वरसाभिकाङ्क्षा वातजग्रहणीवत्||१३||
Adhikarana 13 (14) · Śloka 14
तत्र वसामेदोभ्यामभिपन्नशरीरस्य त्रिभिर्दोषैश्चानुगतधातोः प्रमेहिणो दश पिडका जायन्ते | तद्यथा- शराविका, सर्षपिका, कच्छपिका, जालिनी, विनता, पुत्रिणी, मसूरिका, अलजी, विदारिका, विद्रधिका चेति ||१४||
🔊 Audio coming soon
पिडकानामुपद्रवविशेषाणां सम्प्राप्तिं दर्शयन्नाह- तत्रेत्यादि| वसा मांसस्नेहः, ‘सकलशरीस्नेहः’ इत्यन्ये| अभिपन्नशरीरस्य व्याप्तशरीरस्य| अनुगतधातोर्व्याप्तधातोः| पिडकास्तु प्रायेणाधःकाय एव| तासां पिडकानां नामान्याह- तद्यथेत्यादि||१४||
Adhikarana 14 (15-19) · Śloka 19
शरावमात्रा तद्रूपा निम्नमध्या शराविका | गौरसर्षपसंस्थाना तत्प्रमाणा च सार्षपी ||१५|| सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः | जालिनी तीव्रदाहा तु मांसजालसमावृता ||१६|| महती पिडका नीला पिडका विनता स्मृता | महत्यल्पाचिता ज्ञेया पिडका सा तु पुत्रिणी ||१७|| मसूरसमसंस्थाना ज्ञेया सा तु मसूरिका | रक्ता सिता स्फोटवती दारुणा त्वलजी भवेत् ||१८|| विदारीकन्दवद्वृत्ता कठिना च विदारिका | विद्रधेर्लक्षणैर्युक्ता ज्ञेया विद्रधिका बुधैः ||१९||
🔊 Audio coming soon
तासां लक्षणामाह- शरावमात्रेत्यादि| गौरसर्षपसंस्थाना गौरसर्षपाकरा| जालिनित्यादि| यद्यपि ‘ये यन्मयास्मृता मेहास्तेषामेतास्तु तक्तृताः’- इत्यग्रे वक्ष्यते, तथाऽपि जालिनी पित्तेत्तरा ज्ञेया, तद्वचनस्य बाहुल्येनोक्तत्वात्| महती स्थूला| अल्पाचितेति सूक्ष्मपिडकावेष्टिता||१५-१९||
Adhikarana 15 (20) · Śloka 20
ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तत्कृताः |२०|
🔊 Audio coming soon
पिडकाजनकान् दोषानाह- ये इत्यादि| ये यन्मया यद्दोषारब्धाः| तेषां प्रमेहाणाम्| एता इति पिडकाः|२०|-
Adhikarana 16 (20) · Śloka 20
गुदे हृदि शिरस्यंसे पृष्ठे मर्मणि चोत्थिताः | सोपद्रवा दुर्बलाग्नेः पिडकाः परिवर्जयेत् ||२०||
🔊 Audio coming soon
तासामसाध्यतां दर्शयन्नाह- गुदे हृदीत्यादि| अंसो बाहुशिरः| सोपद्रवा इति “तृट्कासमांससङ्कोथमोहहिक्कामदज्वराः| विसर्पमर्मरोधाः पिडकानामुपद्रवाः” (च. सू. १७)| ‘सोपद्रवाल्पकायाग्नेः पिडकाः परिवर्जयेत्’ इति केचित् पठन्ति| तत्र सोपद्रव इति पुरुषविशेषणम्||२०||
Adhikarana 17 (21) · Śloka 21
कृत्स्नं शरीरं निष्पीड्य मेदोमज्जवसायुतः | अधः प्रक्रमते वायुस्तेनासाध्यास्तु वातजाः ||२१||
🔊 Audio coming soon
वातजानामसाध्यत्वे हेतुं दर्शयन्नाह- कृत्स्नं शरीरमित्यादि| कृत्स्नं शरीरं निष्पीड्येति निश्च्योतयित्वा मूत्रमार्गेण समस्तान् धातून् प्रवाहयित्वेत्यर्थः| वसेत्युपलक्षणं, तेन ओजोलसीकयोर्ग्रहणम्| अधः प्रक्रमते अधः स्फीतीभवति प्रबलीभवतीत्यर्थः| गयदासाचार्यस्तु आपातनिकापूर्वं प्रमेहपूर्वरूपाणामित्यादिश्लोकत्रयमन्यथा पठति| असाध्यास्त्विति पूर्वहेतुभ्यां चेति तुशब्दार्थः||२१||
Adhikarana 18 (22) · Śloka 22
प्रमेहपूर्वरूपाणामाकृतिर्यत्र दृश्यते | किञ्चिच्चाप्यधिकं मूत्रं तं प्रमेहिणमादिशेत् ||२२||
🔊 Audio coming soon
इदानीं प्रमेहहेतुयुक्तस्य पुरुषस्य सामान्याकारेण लक्षणमाह- प्रमेहपूर्वरूपाणामित्यादि||२२||
Adhikarana 19 (23) · Śloka 23
कृत्स्नान्यर्धानि वा यस्मिन् पूर्वरूपाणि मानवे | प्रवृत्तमूत्रमत्यर्थं तं प्रमेहिणमादिरोत् ||२३||
🔊 Audio coming soon
प्रमेहस्य पूर्वोक्तसामान्यलक्षणस्य शेषं लक्षणमाह- कृत्स्नानीत्यादि| गयदासस्त्वापातनिकापूर्वं प्रमेहपूर्वरूपाणीत्यादिश्लोकमन्यथा पठति; यथा- इदानीं प्रमेहपिडकाचिकित्सितनिर्देश्यमर्थं पञ्चगुणाश्रयं पूर्वरूपशोफपिडकावस्थाख्यं प्रतिपादयन्नाह- प्रमेहपूर्वरूपाणामित्यादि| तस्मिन्मेहो भविष्यतीति मेहस्य तत् पूर्वरूपम्| तत्र च पूर्वरूपेऽपतर्पणं वनस्पतिकषायपानादिकं च कर्तव्यम्| प्रवृत्तमूत्रमत्यर्थमिति रूपज्ञानम्| तत्र रूपचिकित्साविशेषः| तदुक्तम्- “एवमकुर्वतस्तस्य हीन प्रथमकर्मगुणस्य मधुराहारस्य मूत्रं स्वेदः श्लेष्मा च मधुरीभवति, प्रमेहश्चाभिव्यक्तो भवति, तत्रोभयतः संशोधनम्; एवमकुर्वतस्तस्य दोषाः प्रवृद्धा मांसशोणिते प्रदूष्य शोथं जनयन्त्युपद्रवांश्च कांश्चित्, तत्रोक्तः प्रतीकारः सिरामोक्षश्च; एतदप्यकुर्वतः पिडकाः, तत्कर्माप्यकुर्वतः पञ्चत्वम् ” (चि. १९) इति||२३||
Adhikarana 20 (24) · Śloka 24
पिडकापीडितं गाढमुपसृष्टमुपद्रवैः | मधुमेहिनमाचष्टे स चासाध्यः प्रकीर्तितः ||२४||
🔊 Audio coming soon
सर्वप्रमेहाणामवस्थान्तरप्राप्तानां सज्ञान्तरमसध्यित्वं च दर्शयन्नाह- पिडकापीडितमित्यादि| स चेति चकार उत्पत्तौ वातजानामसाध्यत्वं समुच्चिनोति| अत्पत्तौ च सहजो याप्यत्वादसाध्यः, पित्तजः पुनरसाध्यतरः, वातजः पुनरुत्पत्तिक्रमेणासाध्यतमः||२४||
Adhikarana 21 (25) · Śloka 25
स चापि गमनात् स्थानं स्थानादासनमिच्छति | आसनादृणुते शय्यां शयनात् स्वप्नमिच्छति ||२५||
🔊 Audio coming soon
इदानीं मधुमेहिनो विहाराख्यं पञ्चविधिक्रियाश्रयं लिङ्गं दर्शयन्नाह- स चापीत्यादि| स्थानमूर्ध्वभवनमिच्छतीति सम्बन्धः| वृणुते प्रार्थयते| शयनात् शय्यातः||२५||
Adhikarana 22 (26) · Śloka 26
यथा हि वर्णानां पञ्चानामुत्कर्षापकर्षकृतेन संयोगविशेषेण शबलबभ्रुकपिलकपोतमेचकादीनां वर्णानामनेकेषामुत्पत्तिर्भवति, एवमेव दोषधातुमलाहारविशेषेणोत्कर्षापकर्षकृतेन संयोगविशेषेण प्रमेहाणां नानाकरणं भवति ||२६||
🔊 Audio coming soon
इदानीं दोषाणां त्रयाणामपि यथा विंशतिप्रमेहसम्भवस्तथोपमानेनाह- यतेत्यादि| पञ्चानां वर्णानां सितहरितकृष्णपीतरक्तानाम्| उत्कर्षापकर्षकृतेन वृद्धिह्रासकृतेन| बभ्रुः कपिलपिङ्गलः, कपोतः कपोताभः, मेचकः श्यामलः| मलग्रहणमुपधातुभूतवसालसीकयोरुदकस्य चोपलक्षणम्||२६||
Adhikarana 23 (27) · Śloka 27
भवति चात्र- सर्व एव प्रमेहास्तु कालेनाप्रतिकुर्वतः | मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति हि ||२७||
🔊 Audio coming soon
इदानीं सर्वेष्वेव प्रमेहेषु पूर्वरूपादीनामुपेक्षालक्षणमनर्थं दर्शयन्नाह- भवति चात्रेत्यादि| कालः प्रथमक्रियाकालादिकः| अप्रतिकुर्वतः अप्रतिक्रियमाणस्य||२७||
Adhikarana puShpikA · Śloka 6
इति सुश्रुतसंहितायां निदानस्थाने प्रमेहनिदानं नाम षष्ठोऽध्यायः ||६||
🔊 Audio coming soon
इति श्रीडह्ल(ल्ह)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां निदानस्थाने षष्ठोऽध्यायः||६||