Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

8. mūḍhagarbhanidānam

Adhikarana 1 (1-2) · Śloka 2

अथातो मूढगर्भनिदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अथात इत्यादि| मूढो निरुद्धगतिः| तदुक्तं- ‘सर्वावयवसम्पूर्णो मनोबुद्ध्यादिसंयुतः| विगुणापानसम्मूढो मूढगर्भोऽभिधीयते”- इति||१-२||

Adhikarana 2 (3) · Śloka 3

ग्राम्यधर्मयानवाहनाध्वगमनप्रस्खलनप्रपतनप्रपीडनधावनाभिघातविषमशयनासनोपवासवेगाभिघातातिरूक्ष- कटुतिक्तभोजनशोकातिक्षारसेवनातिसारवमनविरेचनप्रेङ्खोलनाजीर्णगर्भशातनप्रभृतिभिर्विशेषैर्बन्धनान्मुच्यते गर्भः, फलमिव वृन्तबन्धनादभिघातविशेषैः; स विमुक्तबन्धनो गर्भाशयमतिक्रम्य यकृत्प्लीहान्त्रविवरैरवस्रंसमानः कोष्ठसङ्क्षोभमापादयति, तस्या जठरसङ्क्षोभाद्वायुरपानो मूढः पार्श्वबस्तिशीर्षोदरयोनिशूलानाहमूत्रसङ्गानामन्यतममापद्य गर्भं च्यावयति तरुणं शोणितस्रावेण; तमेव कदाचिद्विवृद्धमसम्यगागतमपत्यपथमनुप्राप्तमनिरस्यमानं विगुणापानसम्मोहितं गर्भं मूढगर्भमित्याचक्षते ||३||

🔊 Audio coming soon

तस्य हेतुं दर्शयन्नाह- ग्राम्यधर्मेत्यादि| ग्राम्यधर्मो मैथुनं, यानं रथादि, वाहनमश्वादि, अध्वगमनं पद्भ्यां मार्गगमनं, प्रस्खलनमाखुडनादि, प्रपतनं प्रासादादेः सकाशादतिशयेन पतनं, प्रपीडनमतिशयेन पीडनं, प्रधावनमतिशयेन धावनम्, अभिघातः शस्त्रलोष्टकशादिभिः प्रहारः, वेगाभिघातो वाताद्यवरोधः, प्रेङ्खोलनं हिन्दोलनं, गर्भशातनं भेषजेन गर्भपातनम्| केचिदेतद्गद्यमन्यथा पठन्ति, तत्त्वभावान्न लिखितम्| बन्धनमत्र गर्भाशयप्रतिबद्धाः सिराः पेश्यश्च| मोचने उपमानमाह- फलमित्यादि| एतेनैतदुक्तं भवति- यथा वृक्षेऽपरिपक्वं फलमभिघातैरकाल एव पतति, तद्वद्यथोक्तपातनहेतुसामर्थ्यादप्रसवकाल एव गर्भः पतति| अतिक्रम्य उल्लङ्घ्य| विवरैः अन्तरालैः| अवस्रंसमानः अधः पतन्| कोष्ठशब्देनामाशयपक्वाशयादिस्थानम्| सङ्क्षोभश्चलनम्| तस्याः स्त्रियाः| मूढो विमार्गगामी | अन्यतमम् एकतमम्| आपाद्य निर्वर्त्य| तरुणं गर्भमपानो मूढः सन् च्यावयतीति सम्बन्धः| तरुणम् अघनाङ्गमव्यक्तचेतनम्| मूढगर्भस्य निरुक्तिमाह- तमेवेत्यादि| असम्यगागतं विलोमभागेनागतम्, अवाग्गमनात्| अपत्यपथं योनिम्| अनुप्राप्तम् आश्रितम्| अनिरस्यमानम् अनिःसरन्तम्| सम्मोहितं मूर्च्छितम्||३||

Adhikarana 3 (4) · Śloka 4

ततः कीलः प्रतिखुरो बीजकः परिघ इति | तत्र, ऊर्ध्वबाहुशिरःपादो यो योनिमुखं निरुणद्धि कील इव स कीलः; निःसृतहस्तपादशिराः कायसङ्गी प्रतिखुरः; यो निर्गच्छत्येकशिरोभुजः स बीजकः; यस्तु परिघ इव योनिमुखमावृत्य तिष्ठति स परिघः; इति चतुर्विधो भवतीत्येके भाषन्ते | तत्तु न सम्यक्; कस्मात्? स यदा विगुणानिलप्रपीडितोऽपत्यपथमनेकधा प्रपद्यते तदा सङ्ख्या हीयते ||४||

🔊 Audio coming soon

तस्य चातुर्विध्यमाह- तत इत्यादि| ततः असम्यगागमनात्| तान् प्रकारान् प्रकटयन्नाह- तत्रोर्ध्वबाहुशिर इत्यादि| कायसङ्गी निरुद्धकायः| एकशिरोभुज इति एको भुजः शिरसा सह यस्य निर्गच्छतीत्यर्थः| परिघ इवेति परिघोऽर्गलादण्डः||४||

Adhikarana 4 (5) · Śloka 5

तत्र, कश्चिद्द्वाभ्यां सक्थिभ्यां योनिमुखं प्रतिपद्यते; कश्चिदाभुग्नैकसक्थिरेकेन; कश्चिदाभुग्नसक्थिशरीरः स्फिग्देशेन तिर्यगागतः; कश्चिदुरःपार्श्वपृष्ठानामन्यतमेन योनिद्वारं पिधायावतिष्ठते; अन्तःपार्श्वापवृत्तशिराः कश्चिदेकेन बाहुना; कश्चिदाभुग्नशिरा बाहुद्वयेन; कश्चिदाभुग्नमध्यो हस्तपादशिरोभिः; कश्चिदेकेन सक्थ्ना योनिमुखं प्रतिपद्यतेऽपरेण पायुम्; इत्यष्टविधा मूढगर्भगतिरुद्दिष्टा समासेन ||५||

🔊 Audio coming soon

तानेवानेकप्रकारान् दर्शयन्नाह- तत्रेत्यादि| आभुग्नं सङ्कुचितम्| एकेन सक्थ्ना ‘योनिमुखं प्रतिपद्यते’ इति सम्बन्धनीयम्| आभुग्नं सक्थिशरीरं यस्येत्यर्थः| ‘योनिमुखं प्रतिपद्यते’ इत्यत्रापि सम्बन्धनीयम्| पिधाय आच्छाद्य| अन्तःपार्श्वापवृत्तशिराः पार्श्वमध्यनिक्षिप्तशिराः| एकेन बाहुना ‘योनिमुखं प्रतिपद्यते’ इति सम्बन्धनीयम्| कश्चिदित्यादि अत्रापि ‘योनिमुखं प्रतिपद्यते’ इति सम्बन्धनीयम्| कश्चिदाभुग्नमध्य इत्यादि ‘योनिमुखं प्रतिपद्यते’ इत्यत्रापि सम्बन्धनीयम्| समासेनाष्टविधा विस्तरेण तु तिर्यग्ग्रीवोरुजङ्घाप्रकारेणानन्ताः||५||

Adhikarana 5 (6) · Śloka 6

तत्र द्वावन्त्यावसाध्यौ मूढगर्भौ, शेषानपि विपरीतेन्द्रियार्थाक्षेपकयोनिभ्रंशसंवरणमक्कल्लश्वासकासभ्रमनिपीडितान् परिहरेत् ||६||

🔊 Audio coming soon

तेष्वसाध्यान्निर्दिशन्नाह- तत्रेत्यादि| द्वावन्त्यौ सप्तमाष्टमावसाध्यौ स्वभावेनैव| अन्येष्वप्यवस्थयाऽसाध्यत्वं दर्शयन्नाह- शेषानपीत्यादि| विपरीतेन्द्रियार्थादिभिः पीडिता जननी यैर्मूढगर्भैस्ते तथाविधास्तान्| विपरीतेन्द्रियार्था रूपाद्यर्थग्रहणभ्रान्ताः| योनिभ्रंशो योनिबहिर्गमनम्| योनिसंवरणं योनिसङ्कोचः| प्रसूताया वायुरसृगारोध्य बस्तिशिरःप्रभृतिषु शूलं करोति स मक्कल्लः| भ्रमश्चक्राधिरूढस्येव भ्रमणम्||६||

Adhikarana 6 (7-8) · Śloka 8

भवन्ति चात्र- कालस्य परिणामेन मुक्तं वृन्ताद्यथा फलम् | प्रपद्यते स्वभावेन नान्यथा पतितुं ध्रुवम् ||७|| एवं कालप्रकर्षेण मुक्तो नाडीनिबन्धनात् | गर्भाशयस्थो यो गर्भो जननाय प्रपद्यते ||८||

🔊 Audio coming soon

स्वभावप्रजननकाले यथा मूढगर्भो न भवति तथा श्लोकद्वयेन दर्शयन्नाह- कालस्येत्यादि| यथा कालस्य परिणामेन कालकृतपरिपाकेन वृन्तान्मुक्तं फलं स्वभावेन पतितुं प्रपद्यते पतनं प्राप्नोति, अन्यथा कालपरिपाकाभावेन पतितुं न प्रपद्यते पतनं न प्राप्नोति, एवं कालप्रकर्षेण नाडीनिबन्धनान्मुक्तो यो गर्भाशयस्थो गर्भः स जननाय प्रपद्यते जन्म प्राप्नोतीत्यर्थः||७-८||

Adhikarana 7 (9) · Śloka 9

कृमिवाताभिघातैस्तु तदेवोपद्रुतं फलम् | पतत्यकालेऽपि यथा तथा स्याद्गर्भविच्युतिः ||९||

🔊 Audio coming soon

मूढगर्भो यथा भवति तथा दर्शयन्नाह- कृमिवाताभिघातैरित्यादि| गर्भविच्युतिर्द्विविधा - द्रवस्य स्रावरूपेण, घनावयवस्य पातरूपेण| तत्र द्रवस्य स्रवणे मूढगर्भनाम नास्ति, विगुणानिलसम्मोहानिर्गमलक्षणस्याभावात्||९||

Adhikarana 8 (10) · Śloka 10

आचतुर्थात्ततो मासात् प्रस्रवेद्गर्भविच्युतिः | ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः ||१०||

🔊 Audio coming soon

परतस्त्वस्तीति दर्शयन्नाह- आचतुर्थादित्यादि| गर्भविच्युतिः गर्भविमुक्तिः; प्रस्रवेत् स्रावरूपा भवेत्| एतेन मासचतुष्टयं यावन्मूढगर्भता नास्तीत्युक्तम्| तत इत्यादि| ततश्चतुर्थमासादूर्ध्वं स्थिरशरीरस्य विच्युतिः पातः पातरूप भवेत्| एतेन विच्युतिरियं न स्रावरूपा; तस्माच्चतुर्थमासानन्तरं घनावयवत्वान्मूढगर्भो भवतीत्युक्तम्||१०||

Adhikarana 9 (11) · Śloka 11

प्रविध्यति शिरो या तु शीताङ्गी निरपत्रपा | नीलोद्धतसिरा हन्ति सा गर्भं स च तां तथा ||११||

🔊 Audio coming soon

असाध्यमूढगर्भगर्भिण्योर्लक्षणं दर्शयन्नाह- प्रविध्यतीत्यादि| प्रविध्यति ताडयति, अतिशयेन धुनोतीत्यर्थः| अन्ये ‘अपविद्धशिरा’ इति पठन्ति; तत्रावनतशीर्षेत्यर्थः| या स्त्री निरपत्रपा लज्जारहिता| नीलोद्धतसिरा कृष्णोद्धतसिरा| सा गर्भं स च तां तथेति सा स्त्री गर्भं हन्ति, स च गर्भवतीं स्त्रीं हन्तीत्यर्थः| तथा तेन प्रकारेण||११||

Adhikarana 10 (12-13) · Śloka 13

गर्भास्पन्दनमावीनां प्रणाशः श्यावपाण्डुता | भवत्युच्छ्वासपूतित्वं शूलं चान्तर्मृते शिशौ ||१२|| मानसागन्तुभिर्मातुरुपतापैः प्रपीडितः | गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च प्रपीडितः ||१३||

🔊 Audio coming soon

गर्भिणीरक्षार्थमन्तर्मृतस्य गर्भस्यापकर्षणाय तल्लक्षणं दर्शयन्नाह- गर्भास्पन्दनमित्यादि| आवी प्रसववेदना; अथवा आवीशब्देन योनेर्मूत्रकफप्रसेकादीन्यावीलिङ्गान्युच्यन्ते||१२-१३||

Adhikarana 11 (14) · Śloka 14

बस्तमारविपन्नायाः कुक्षिः प्रस्पन्दते यदि | तत्क्षणाज्जन्मकाले तं पाटयित्वोद्धरेद्भिषक् ||१४||

🔊 Audio coming soon

मातुर्मृताया अपि जीवतो गर्भस्यापकर्षणं दर्शयन्नाह- बस्तमारेत्यादि| बस्तमारश्छगलवन्मरणम्, एतेन ग्रीवामोटनेनाशुतममक्लिष्टं मरणमुक्तं; तेन विपन्नाया मृतायाः स्त्रिय इत्यर्थः| अयमभिप्रायः- यथा बस्तं निरुच्छ्वासं कृत्वा याज्ञिका मारयन्ति, एवं या मृता तस्या इत्यर्थः| तत्क्षणात् घटिकाद्वयमध्ये, परतस्तु गर्भोऽपि म्रियत इति भावः| अन्ये ‘तत्क्षणात्’ इत्यत्र ‘मुहूर्तात्’ इति पठन्ति, तत्रापि स एवार्थः| जन्मकाले नवममासादिकाल इत्यर्थः| तं गर्भं, पाटयित्वा स्त्रीकुक्षिं विदार्य| अत्र केचित्- “यदा सोऽन्तर्मृतो गर्भः शूनो बस्तिरिवाततः| तेनावृताया नार्यास्तु कुक्षिरानह्यते भृशम्|| उत्क्षिप्यन्त इवाङ्गानि मूत्रबस्तिश्च भिद्यते| क्लोम प्लीहा यकृच्चैव फुफ्फुसं हृदयं तथा|| गर्भेण पीडितं ह्येतदूर्ध्वं प्रक्रामति स्त्रियाः| सा शूयते मुह्यति च कृच्छ्रोच्छ्वासा च जायते|| पूतिगन्धस्तथा स्वेदो जिह्वा तालु च शुष्यति| वेपते भ्राम्यति तथा जीवितं चोपरुध्यते|| एतैर्लिङ्गैर्विजानीयान्मृतं गर्भं चिकित्सकः”- इति पठन्ति; तन्न पठनीयं पुनरुक्तत्वात्, जेज्जटादिभिः परिहृतत्वाच्च| श्रीब्रह्मदेवेन तु किञ्चिद्व्याख्यातं, तेन त्वार्षानार्षचिन्ता न कृता||१४||

Adhikarana puShpikA · Śloka 8

इति सुश्रुतसंहितायां निदानस्थाने मूढगर्भनिदानं नामाष्टमोऽध्यायः ||८||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां निदानस्थानेऽष्टमोऽध्यायः||८||