Adhikarana 1 (1-2) · Śloka 2
अथात उदराणां निदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथात उदराणां निदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि||१-२||
Adhikarana 2 (3) · Śloka 3
धन्वन्तरिर्धर्मभृतां वरिष्ठो राजर्षिरिन्द्रप्रतिमोऽभवद्यः | ब्रह्मर्षिपुत्रं विनयोपपन्नं शिष्यं शुभं सुश्रुतमन्वशात् सः ||३||
🔊 Audio coming soon
यो धन्वन्तरिरभवत् स सुश्रुतमन्वशादिति सम्बन्धः, शिक्षितवानित्यर्थः| धर्मभृतां धार्मिकाणां मध्ये| इन्द्रप्रतिमो ज्ञानैश्वर्यादिभिः| ब्रह्मर्षिर्विश्वामित्रः, राजर्षिरपि तपसा ब्रह्मर्षित्वं प्राप्तवान्| विनयोपपन्नं जितेन्द्रियम्| शुभमिति पूर्वोक्तैरन्वयवयःशीलादिगुणैरुपेतम्||३||
Adhikarana 3 (4) · Śloka 4
पृथक् समस्तैरपि चेह दोषैः प्लीहोदरं बद्धगुदं तथैव | आगन्तुकं सप्तममष्टमं च दकोदरं चेति वदन्ति तानि ||४||
🔊 Audio coming soon
उदराणां सङ्ख्यामाह- पृथगित्यादि| पृथग्दोषैस्त्रीणि, समस्तैर्दोषैरेकम्; एतेन चत्वारि दोषप्रधानानि| इहेति अस्मिञ्छास्त्रे| तानीति उदराणीत्यर्थः| प्लीहोदरादीनि चत्वारि दूष्यप्रधानानि| अष्टममिति सङ्ख्योक्त्या प्लीहोदरयकृद्दाल्युदरयोरैक्यमेव ज्ञातव्यम्||४||
Adhikarana 4 (5) · Śloka 6
सुदुर्बलाग्नेरहिताशनस्य संशुष्कपूत्यन्ननिषेवणाद्वा | स्नेहादिमिथ्याचरणाच्च जन्तोर्वृद्धिं गताः कोष्ठमभिप्रपन्नाः ||५|| गुल्माकृतिव्यञ्जितलक्षणानि कुर्वन्ति घोराण्युदराणि दोषाः |६|
🔊 Audio coming soon
उदराणां हेतुं दर्शयन्नाह- सुदुर्बलाग्नेरितादि दुर्बलाग्नेः अत्यन्तनष्टाग्नेः| अहिताशनस्येति विरुद्धसमशनाध्यशनविषमाशनस्य| स्नेहादीत्यादिशब्दाद्वमनविरेचनास्थापनानुवासनपरिग्रहः| मिथ्याचरणं यथोक्तानुष्टानपरित्यागः| जन्तोः प्राणिनः| अभिप्रपन्नाः प्राप्ता इत्यर्थः| किंविशिष्टान्युदरणि कुर्वन्ति? गुल्माकृतिव्यञ्जितलक्षणानि गुल्माकृत्या गुल्मरूपेण व्यञ्जितानि प्रकटितानि लक्षणानि येषां तानि तथा| पुनरपि किंविशिष्टानि? घोराणि कृच्छ्रतमानि||५||-
Adhikarana 5 (6) · Śloka 7
कोष्ठादुपस्नेहवदन्नसारो निःसृत्य दुष्टोऽनिलवेगनुन्नः ||६|| त्वचः समुन्नम्य शनैः समन्ताद्विवर्धमानो जठरं करोति |७|
🔊 Audio coming soon
सम्प्राप्ति दर्शयन्नाह- कोष्ठादित्यादि| उपस्नेहवदिति नवघटाद्युपस्नेहो यथाऽणुतमस्रोतोभिर्बहिःस्रवद् दृश्यते तद्वत् कोष्ठादन्नसारोऽन्नरसो निःसृत्य, शनैः क्रमेण, जठरमुदराख्यं रोगं करोतीति सम्बन्धः| कोष्ठशब्देनात्राहारपाकाधार उच्यते| किम्भूतोऽन्नसारः? दुष्टः| पुनः किम्भूतः? अनिलवेगनुन्नो वातवेगप्रेरितः| किं कृत्वा? त्वचः समुन्नम्य आनद्धाः कृत्वा| पुनः किम्भूतो रसः? समन्ताद्विवर्धमानः समन्तात् सर्वतो वृद्धिं गच्छन्||६||-
Adhikarana 6 (7) · Śloka 8
तत्पूर्वरूपं बलवर्णकाङ्क्षावलीविनाशो जठरे हि राज्यः ||७|| जीर्णापरिज्ञानविदाहवत्यो बस्तौ रुजः पादगतश्च शोफः |८|
🔊 Audio coming soon
पूर्वरूपमाह- तदित्यादि| विनाशशब्दो बलादिभिः प्रत्येकं सम्बध्यते| काङ्क्षा अन्नाभिलाषः| वली त्वक्सङ्कोचः| राज्यो रेखाः ‘भवन्ति’ इति शेषः| जीर्णापरिज्ञानविदाहवत्यो बस्तौ रुज इति जीर्णापरिज्ञानविदाहौ विद्येते यासु बस्तिरुजासु तास्तथा| जीर्णापरिज्ञानमन्नपरिणामानिश्चयः; जीर्णापरिज्ञानं तु यथासम्भवत्वात् पुरुषस्यैव ज्ञेयम्||७||-
Adhikarana 7 (8) · Śloka 9
सङ्गृह्य पार्श्वोदरपृष्ठनाभीर्यद्वर्धते कृष्णसिरावनद्धम् ||८|| सशूलमानाहवदुग्रशब्दं सतोदभेदं पवनात्मकं तत् |९|
🔊 Audio coming soon
वातोदरमाह- सङ्गृह्येत्यादि||८||-
Adhikarana 8 (9) · Śloka 10
यच्चोषतृष्णाज्वरदाहयुक्तं पीतं सिरा भान्ति च यत्र पीताः ||९|| पीताक्षिविण्मूत्रनखाननस्य पित्तोदरं तत्त्वचिराभिवृद्धि |१०|
🔊 Audio coming soon
पित्तोदरमाह- यदित्यादि| अचिराभिवृद्धि शीघ्रवर्धनशीलम्||९||-
Adhikarana 9 (10) · Śloka 11
यच्छीतलं शुक्लसिरावनद्धं गुरु स्थिरं शुक्लनखाननस्य ||१०|| स्निग्धं महच्छोफयुतं ससादं कफोदरं तत्तु चिराभिवृद्धि |११|
🔊 Audio coming soon
श्लेष्मोदरमाह- यच्छीतलमित्यादि| स्थिरं कठिनम्| ससादमङ्गग्लानियुक्तम्||१०||-
Adhikarana 10 (11-13) · Śloka 14
स्त्रियोऽन्नपानं नखरोममूत्रविडार्तवैर्युक्तमसाधुवृत्ताः ||११|| यस्मै प्रयच्छन्त्यरयो गरांश्च दुष्टाम्बुदूषीविषसेवनाद्वा | तेनाशु रक्तं कुपिताश्च दोषाः कुर्वन्ति घोरं जठरं त्रिलिङ्गम् ||१२|| तच्छीतवाताभ्रसमुद्भवेषु विशेषतः कुप्यति दह्यते च स चातुरो मूर्च्छति सम्प्रसक्तं पाण्डुः कृशः शुष्यति तृष्णया च ||१३|| प्रकीर्तितं दूष्युदरं तु घोरं ... |१४|
🔊 Audio coming soon
सन्निपातोदरमाह- स्त्रिय इत्यादि| स्त्रियोऽन्नपानं नखरोममूत्रविडार्तवयुक्तं यस्मै पुरुषाय प्रयच्छन्ति ददति| किम्भूताः स्त्रियः? असाधुवृत्ता दुराचाराः| स्त्रीग्रहणमत्रोपलक्षणं, तेनान्येऽपि सन्निहिता अविवेकिनो ग्राह्याः| अरयः शत्रवः| गरान् कृत्रिमविषाणि यस्मै प्रयच्छन्ति| दुष्टाम्बु सविषमत्स्यादिसम्बन्धात्| विषमेव दावाग्निवातातपाद्यभिभवेन मन्दतां गतं विषपीतस्य वा विषं दूषीविषं; तेन नखरोमादिना विषकल्पेन गरेण दूषीविषेण वाऽऽशु शीघ्रं रक्तं कुपितमिति बोद्धव्यम्| त्रिलिङ्गं वातपित्तश्लेष्मलिङ्गम्| सम्प्रसक्तं निरन्तरम्| दूष्युदरमिति यदेव सान्निपातिकोदरं तदेव दूष्युदरम्, एतेन न सङ्ख्यातिरेकः| घोरं भयानकं, पुनर्घोरं कष्टकारि||११-१३||-
Adhikarana 11 (14-15) · Śloka 16
... प्लीहोदरं कीर्तयतो निबोध | विदाह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्टमत्यर्थमसृक् कफश्च ||१४|| प्लीहाभिवृद्धिं सततं करोति प्लीहोदरं तत् प्रवदन्ति तज्ज्ञाः | वामे च पार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरोऽत्र ||१५|| मन्दज्वराग्निः कफपित्तलिङ्गैरुपद्रुतः क्षीणबलोऽतिपाण्डुः |१६|
🔊 Audio coming soon
निबोध जानीहि| अभिष्यन्दि दोषधातुमलस्रोतसां क्लेदप्राप्तिजनकम्| असृक् कफश्चेति असृग्ग्रहणेन पित्तस्यापि ग्रहणम्| प्लीहा उदरस्य वामपार्श्वस्थितः| एति गच्छति| सीदति अङ्गग्लानियुक्तो भवति| अत्र प्लीहोदरे||१४-१५||-
Adhikarana 12 (16) · Śloka 16
सव्येतरस्मिन् यकृति प्रदुष्टे ज्ञेयं यकृद्दाल्युदरं तदेव ||१६||
🔊 Audio coming soon
यकृद्दाल्युदरस्य प्लीहोदरे एवावरोधं दर्शयन्नाह- सव्येतरस्मिन्नित्यादि| सव्येतरस्मिन् दक्षिणपार्श्वे| तदेव प्लीहोदरं यकृद्दाल्युदरं ज्ञेयम्| क्व ज्ञेयमित्याह- यकृति कालखण्डे; किम्भूते? प्रदुष्टे; एतेन न सङ्ख्यातिरेकः||१६||
Adhikarana 13 (17-18) · Śloka 19
यस्यान्त्रमन्नैरुपलेपिभिर्वा बालाश्मभिर्वा सहितैः पृथग्वा | सञ्चीयते तत्र मलः सदोषः क्रमेण नाड्यामिव सङ्करो हि ||१७|| निरुध्यते चास्य गुदे पुरीषं निरेति कृच्छ्रादपि चाल्पमल्पम् | हृन्नाभिमध्ये परिवृद्धिमेति त(य)च्चोदरं विट्समगन्धिकं च ||१८|| प्रच्छर्दयन् बद्धगुदी विभाव्यः, ... |१९|
🔊 Audio coming soon
बद्धगुदं दर्शयन्नाह- यस्येत्यादि| यस्य पुरुषस्य अन्त्रं निरुध्यत इति सम्बन्धः| कैर्निरुध्यत इत्याह- अन्नैरित्यादि| उपलेपिभिः पिच्छिलादिभिः| वा अत्र समुच्चये| सहितैरिति एकत्र मिलितैः समुदितैरित्यर्थः| पृथग्वेति एकैकैरित्यर्थः| मलः पुरीषम्| सदोषो दोषत्रयसहितः| नाड्यां प्रणालिकायाम्| सङ्करोऽवकरः, प्रचुरतृणादिसमूह इत्यर्थः| निरेति निःसरति| बद्धगुदी विभाव्यः स पुरुषो बद्धगुदी ज्ञेयः||१७-१८||-
Adhikarana 14 (19-20) · Śloka 21
...ततः परिस्राव्युदरं निबोध | शल्यं यदन्नोपहितं तदन्त्रं भिनत्ति यस्यागतमन्यथा वा ||१९|| तस्मात् स्रुतोऽन्त्रात् सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु भूयः | नाभेरधश्चोदरमेति वृद्धिं निस्तुद्यतेऽतीव विदह्यते च ||२०|| एतत् परिस्राव्युदरं प्रदिष्टं... |२१|
🔊 Audio coming soon
परिस्राव्युदरमाह- तत इत्यादि| यच्छल्यमन्नोपहितमन्नसम्बद्धं भुक्तं, तदन्त्रं भिनत्ति विदारयति| यस्य पुरुषस्य| शल्यं शर्कराकाष्ठास्थिकण्टकादिकम्| आगतमन्यथा वेति वाशब्दोऽवधारणे, तेनान्यथैव विलोमेन तिर्यगेवागतं, नत्वनुलोमेन| स्रुतो गलितः||१९-२०||-
Adhikarana 15 (21-23) · Śloka 23
... दकोदरं कीर्तयतो निबोध | यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्यथवा निरूढः ||२१|| पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दुष्यन्ति हि तद्वहानि | स्नेहोपलिप्तेष्वथवाऽपि तेषु दकोदरं पूर्ववदभ्युपैति ||२२|| स्निग्धं महत् सम्परिवृत्तनाभि भृशोन्नतं पूर्णमिवाम्बुना च | यथा दृतिः क्षुभ्यति कम्पते च शब्दायते चापि दकोदरं तत् ||२३||
🔊 Audio coming soon
उदकोदरमाह- दकोदरमित्यादि| दकोदरम् उदकोदरमित्यर्थः| तद्वहानि तोयवहानि| स्नेहोपलिप्तेष्वथवाऽपि तेष्विति स्नेहादिपानं विनाऽपि तेषु स्रोतःसु स्नेहोपलिप्तेषु यदा शीतलं जलं पिबेत्तदाऽपीत्यर्थः| पूर्ववदिति क्षतान्त्रोदरे यथा सलिलस्याधोगामित्वादधो नाभेरुदरोत्पत्तिर्यथा च गुदादास्रावस्तद्वदिति; जेज्जटेन पुनः ‘पूर्ववदित्यत्रान्यान्युदराणि यथा भवन्ति तथेदमपि’ इति व्याख्यातं, तन्नेच्छति गयी| परिवृत्तनाभि| उच्छलितनाभि| दृतिः खल्ला| क्षुभ्यति चलति| कम्पते चेति कम्पनमतिशयेन चलनम्||२१-२३||
Adhikarana 16 (24) · Śloka 24
आध्मानं गमनेऽशक्तिर्दौर्बल्यं दुर्बलाग्निता | शोफः सदनमङ्गानां सङ्गो वातपुरीषयोः | दाहस्तृष्णा च सर्वेषु जठरेषु भवन्ति हि ||२४||
🔊 Audio coming soon
तेषामष्टानामपि सामान्यं लिङ्गं दर्शयन्नाह- आध्मानमित्यादि| जेज्जटेन पुनरेते उपद्रवा व्याख्याताः; तन्नेच्छति गयी||२४||
Adhikarana 17 (25) · Śloka 25
अन्ते सलिलभावं हि भजन्ते जठराणि तु | सर्वाण्येव परीपाकात्तदा तानि विवर्जयेत् ||२५||
🔊 Audio coming soon
साध्यासाध्यविभागमाह- अन्त इत्यादि| परिपाकात् परिणामेन दकोदरता सर्वेषामेव; अन्यान्युदराणि परिपाकादुदकभावं भजन्ते, दकोदरं प्रागेवेति विशेषः||२५||
Adhikarana puShpikA · Śloka 7
इति सुश्रुतसंहितायां निदानस्थाने उदरनिदानं नाम सप्तमोऽध्यायः ||७||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां निदानस्थाने सप्तमोऽध्यायः||७||