Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

9. vidradhinidānam

Adhikarana 1 (1-2) · Śloka 2

अथातो विद्रधीनां निदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अथात इत्यादि||१-२||

Adhikarana 2 (3) · Śloka 3

सर्वामरगुरुः श्रीमान्निमित्तान्तरभूमिपः | शिष्यायोवाच निखिलमिदं विद्रधिलक्षणम् ||३||

🔊 Audio coming soon

सर्वामरगुरुरिदं निखिलं विद्रधीलक्षणं शिष्यार्थमुवाचेति सम्बन्धः| अमृतदानेन सर्वे देवा अमराः कृताः, तेनासौ धन्वन्तरिः सर्वेषां देवानां गुरुरित्यर्थः| श्रीमान् ज्ञानातिशयेनैश्वर्येण च युक्त इत्यर्थः| निमित्तान्तरभूमिप इति निमितान्तरेण कारणान्तरेण नरेष्वपि भैषज्यामृतप्रदानलक्षणेन भूपालतां गत इत्यर्थः| अन्ये तु ‘अपुत्रस्य काशिराजस्य परमाराधनया निर्वाणे चित्तमधिष्ठाय पुत्रत्वमापन्न’ इति कारणान्तरं व्याख्यानयन्ति| शिष्यायोवाच शिष्यार्थं कथितवानित्यर्थः| निखिलं समस्तम्| इदं वक्ष्यमाणम्| अनेन धन्वन्तरिस्वरूपोपवर्णनेन विद्रधेर्गरीयस्त्वं ख्यापितं भवति||३||

Adhikarana 3 (4-6) · Śloka 6

त्वग्रक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिताः | दोषाः शोफं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम् ||४|| महामूलं रुजावन्तं वृत्तं चा(वाऽ)प्यथवाऽऽयतम् | तमाहुर्विद्रधिं धीरा, विज्ञेयः स च षड्विधः ||५|| पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा | षण्णामपि हि तेषां तु लक्षणं सम्प्रवक्ष्यते ||६||

🔊 Audio coming soon

सम्प्राप्तिं सामान्यलक्षणं च दर्शयन्नाह- त्वग्रक्तेत्यादि| भृशमित्यतिशयेनोच्छ्रिता इति सम्बन्धः| धीरा धीमन्तः| एतेन सम्प्राप्तिरुक्ता| महामूलमित्यादि सामान्यलक्षणमुक्तं, विशिष्टं कृष्णोऽरुण इत्यादि, कारणं तु सामान्यं शोफकारणाभिधानेनैवोक्तम्| सङ्ख्यामाह- विज्ञेयः स च षड्विध इति| स विद्रधिः| तदेव षड्विधत्वमाह- पृथगित्यादि| समस्तैश्चेत्येकः, क्षतेनाप्येकः, असृजाऽप्येक इति षट्||४-६||

Adhikarana 4 (7) · Śloka 7

कृष्णोऽरुणो वा परुषो भृशमत्यर्थवेदनः | चित्रोत्थानप्रपाकश्च विद्रधिर्वातसम्भवः ||७||

🔊 Audio coming soon

वातविद्रधिलक्षणमाह- कृष्ण इत्यादि| चित्रोत्थानप्रपाक इति नानाप्रकारोत्थानो नानाप्रकारपाकश्चेत्यर्थः||७||

Adhikarana 5 (8) · Śloka 8

पक्वोदुम्बरसङ्काशः श्यावो वा ज्वरदाहवान् | क्षिप्रोत्थानप्रपाकश्च विद्रधिः पित्तसम्भवः ||८||

🔊 Audio coming soon

पित्तविद्रधिमाह- पक्वेत्यादि||८||

Adhikarana 6 (9) · Śloka 9

शरावसदृशः पाण्डुः शीतः स्तब्धोऽल्पवेदनः | चिरोत्थानप्रपाकश्च सकण्डुश्च कफोत्थितः ||९||

🔊 Audio coming soon

कफजमाह- शरावसदृश इत्यादि| शरावसादृश्येन महत्त्वमुक्तम्||९||

Adhikarana 7 (10) · Śloka 10

तनुपीतसिताश्चैषामास्रावाः क्रमशः स्मृताः |१०|

🔊 Audio coming soon

तेषां विद्रधीनां यथाक्रममास्रावानाह- तन्वित्यादि| एषां वातापित्तकफोत्थानां विद्रधीनाम्|१०|-

Adhikarana 8 (10) · Śloka 11

नानावर्णरुजास्रावो घाटालो विषमो महान् ||१०|| विषमं पच्यते चापि विद्रधिः सान्निपातिकः |११|

🔊 Audio coming soon

सान्निपातिकमाह- नानेत्यादि| नानावर्णाः कृष्णपीतशुक्लाः, नानारुजास्तोददाहकण्ड्वाद्याः, नानास्रावास्तनुपीतशुक्लाः, ते यस्य सन्ति स यथोक्तः| घाटाल इति घाटा ऊर्ध्वभागो महान् यस्यास्तीति स घाटालः| विषमोऽसाध्यत्वात्| विषमं पच्यते चापीति चिराचिरगम्भीरोत्तानानुन्नतोन्नतभेदेन ||१०||-

Adhikarana 9 (11-12) · Śloka 13

तैस्तैर्भावैरभिहते क्षते वाऽपथ्यसेविनः ||११|| क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत् | ज्वरस्तृष्णा च दाहश्च जायते तस्य देहिनः ||१२|| एष विद्रधिरागन्तुः पित्तविद्रधिलक्षणः |१३|

🔊 Audio coming soon

आगन्तोः सम्प्राप्तिं दर्शयन्नाह- तैस्तैरित्यादि| तैस्तैरिति अश्वपतनगू(मू)ढप्रहारादिभिरित्यर्थः; तेनास्रुतशोणितपिच्चितादीनां ग्रहणम्| क्षते वेत्यत्र तैस्तैर्भावैरिति तीक्ष्णप्रहारादिभिरित्यर्थः; अनेन च स्रुतशोणितानां छिन्नादीनां ग्रहणम्| क्षतोष्मा वायुविसृतो वातेन विस्तारितः| पित्तविद्रधिलक्षणो ‘भवति’ इत्यध्याहारः||११-१२||-

Adhikarana 10 (13) · Śloka 14

कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः ||१३|| पित्तविद्रधिलिङ्गस्तु रक्तविद्रधिरुच्यते |१४|

🔊 Audio coming soon

रक्तविद्रधिलक्षणमाह- कृष्णस्फोटावृत इत्यादि||१३||-

Adhikarana 11 (14) · Śloka 14

उक्ता विद्रधयो ह्येते तेष्वसाध्यस्तु सर्वजः ||१४||

🔊 Audio coming soon

बाह्येष्वसाध्यमाह- उक्ता इत्यादि| सर्वजः सान्निपातिकः||१४||

Adhikarana 12 (15-18) · Śloka 19

आभ्यन्तरानतस्तूर्ध्वं विद्रधीन् परिचक्षते | गुर्वसात्म्यविरुद्धान्नशुष्कसंसृष्टभोजनात् ||१५|| अतिव्यवायव्यायामवेगाघातविदाहिभिः | पृथक् सम्भूय वा दोषाः कुपिता गुल्मरूपिणम् ||१६|| वल्मीकवत्समुन्नद्धमन्तः कुर्वन्ति विद्रधिम् | गुदे बस्तिमुखे नाभ्यां कुक्षौ वङ्क्षणयोस्तथा ||१७|| वृक्कयोर्यकृति प्लीह्नि हृदये क्लोम्नि वा तथा | तेषां लिङ्गानि जानीयाद्बाह्यविद्रधिलक्षणैः ||१८|| आमपक्वैषणीयाच्च पक्वापक्वं विनिर्दिशेत् |१९|

🔊 Audio coming soon

अन्तर्विद्रधेर्हेतुसम्प्राप्तिलक्षणान्याह- आभ्यन्तरानित्यादि| संसृष्टभोजनात् कदशनभोजनात्| सम्भूय मिलित्वा| गुल्मरूपिणं वल्मीकवत्समुन्नद्धं विद्रधिं कुर्वन्तीति सम्बन्धः; गुल्मरूपिणं काठिन्येन, वल्मीकवत्समुन्नद्धं सर्वत उन्नतम्| गुर्वसात्म्येत्यादि विदाहिभिरिति यावद्धेतुः, पृथक् सम्भूय वेति सम्प्राप्तिः, गुल्मरूपिणं वल्मीकवत्समुन्नद्धमिति च सामान्यलक्षणम्| तत्रापि वल्मीकवत्समुन्नद्धत्वं पच्यमानावस्थायाम्| तेषां वातादिभेदभिन्नानां विशेषवर्णलिङ्गसङ्ख्यादिकं बाह्यविद्रधिवज्ज्ञेयम्| जेज्जटस्तु आभ्यन्तरस्यागन्तोरभावमेव मन्यते| तेषां बाह्यानामाभ्यन्तराणां च स्थानमाह- गुदे इत्यादि| गुदादिषु स्थानेषु दोषा विद्रधिं कुर्वन्तीति सम्बन्धः| बस्तिमुखे न तु बस्तौ, तत्र मांसमेदसोरभावात्| वङ्क्षण ऊरुमूलाश्रयः ‘गण्डक’ इति लोके| वृक्कौ मांसपिण्डद्वयम् (एको वामपार्श्वस्थितः, द्वितीयो दक्षिणपार्श्वस्थितः )| यकृत् कालखण्डं दक्षिणपार्श्वस्थम्| प्लीहा उदरवामपार्श्वे स्थितः| हृदयं कमलमुकुलाकारमधोमुखम्| क्लोम कालखण्डादधस्तात् स्थितं दक्षिणपार्श्वस्थं तिलकं प्रसिद्धम्| तेषामाभ्यन्तराणामित्यर्थः||१५-१८||-

Adhikarana 13 (19-22) · Śloka 22

अधिष्ठानविशेषेण लिङ्गं शृणु विशेषतः ||१९|| गुदे वातनिरोधस्तु बस्तौ कृच्छ्राल्पमूत्रता | नाभ्यां हिक्का तथाऽऽटोपः कुक्षौ मारुतकोपनम् ||२०|| कटीपृष्ठग्रहस्तीव्रो वङ्क्षणोत्थे तु विद्रधौ | वृक्कयोः पार्श्वसङ्कोचः प्लीह्न्युच्छ्वासावरोधनम् ||२१|| सर्वाङ्गप्रग्रहस्तीव्रो हृदि शूलश्च दारुणः | श्वासो यकृति तृष्णा च पिपासाक्लोमजेऽधिका ||२२||

🔊 Audio coming soon

बाह्यानामाभ्यन्तराणां चाधिष्ठानविशेषेण लक्षणं दर्शयन्नाह- अधिष्ठानेत्यादि| आटोपः सङ्क्षोभः| पार्श्वसङ्कोचः पार्श्वोत्पाटनमिव| हृदीति हृदयोत्थे विद्रधौ, सर्वाङ्गप्रग्रहादय उपद्रवा भवन्तीत्यर्थः| ‘क्लोम्नि पिपासा’ इत्यादि पाठान्तरं केचित् पठन्ति, तच्चाभावान्न लिखितम्||१९-२२||

Adhikarana 14 (23) · Śloka 23

आमो वा यदि वा पक्वो महान् वा यदि वेतरः | सर्वो मर्मोत्थितश्चापि विद्रधिः कष्ट उच्यते ||२३||

🔊 Audio coming soon

तत्र मर्मोत्थितानां सर्वावस्थासु कष्टत्वं दर्शयन्नाह- आम इत्यादि| यदि वेतर इति इतरोऽल्पः||२३||

Adhikarana 15 (24-25) · Śloka 25

नाभेरुपरिजाः पक्वा यान्त्यूर्ध्वमितरे त्वधः | जीवत्यधो निःस्रुतेषु स्रुतेषूर्ध्वं न जीवति ||२४|| हृन्नाभिबस्तिवर्ज्या ये तेषु भिन्नेषु बाह्यतः | जीवेत् कदाचित् पुरुषो नेतरेषु कदाचन ||२५||

🔊 Audio coming soon

अवस्थाविशेषादसाध्यत्वमाह- नाभेरित्यादि| नाभेरुपरिजाः प्लीहयकृत्क्लोमकुक्षिहृदयजाः, पक्वा ऊर्ध्वं यान्ति स्रवन्ति| इतरे गुदबस्तिवृक्कवङ्क्षणजा अधो यान्ति| एषु चाधोनिःस्रुतेषु जीवति, नोर्ध्वनिःस्रुतेषु| हृन्नाभिबस्तिजान् वर्जयित्वा येऽन्ये गुदकुक्षिवङ्क्षणवृक्कप्लीहयकृत्क्लोमजास्तेष्वन्तर्विद्रधिषु बाह्यातो भिन्नेषु कदाचिद्दैववशाज्जीवेत्, न पुनरितरेष्वभ्यन्तरतो भिन्नेष्वित्यर्थः| हृन्नाभिबस्तिजानां चासाध्यत्वमग्रेवाच्यम्||२४-२५||

Adhikarana 16 (26) · Śloka 26

स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः | दाहज्वरकरो घोरो जायते रक्तविद्रधिः ||२६||

🔊 Audio coming soon

आभ्यन्तरं रक्तजं नारीणामेव दर्शयन्नाह- स्त्रीणामित्यादि| स्त्रीणां रक्ताविद्रधिर्जायत इति सम्बन्धः| किम्भूतानां स्त्रीणाम्? अपप्रजातानां, पतितगर्भणां; पुनरपि किम्भूतानां? प्रजातानां सम्यक्कालप्रसूतानाम्| अहितैः शीतरूक्षाहारविहारैः||२६||

Adhikarana 17 (27) · Śloka 28

अपि सम्यक्प्रजातानामसृक् कायादनिःसृतम् | रक्तजं विद्रधिं कुर्यात् कुक्षौ मक्कल्लसञ्ज्ञितम् ||२७|| सप्ताहान्नोपशान्तश्चेत्ततोऽसौ सम्प्रपच्यते |२८|

🔊 Audio coming soon

तस्यैव रक्तविद्रधेर्विशेषमाह- अपि सम्यगित्यादि| मक्कल्लसञ्ज्ञितं मक्कल्लजनितं, कारणे कार्योपचारात्; घृतमायुरिति यथा| सप्तरात्रमप्रशान्तः पित्तोष्मणाऽन्तः पच्यते, पक्वश्चासाध्यः||२७||-

Adhikarana 18 (28-33) · Śloka 33

विशेषमथ वक्ष्यामि स्पष्टं विद्रधिगुल्मयोः ||२८|| गुल्मदोषसमुत्थानाद्विद्रधेर्गुल्मकस्य च | कस्मान्न पच्यते गुल्मो विद्रधिः पाकमेति च ||२९|| न निबन्धोऽस्ति गुल्मानां विद्रधिः सनिबन्धनः | गुल्माकाराः स्वयं दोषा विद्रधिर्मांसशोणिते ||३०|| विवरानुचरो ग्रन्थिरप्सु बुद्बुदको यथा | एवम्प्रकारो गुल्मस्तु तस्मात् पाकं न गच्छति ||३१|| मांसशोणितबाहुल्यात् पाकं गच्छति विद्रधिः | मांसशोणितहीनत्वाद्गुल्मः पाकं न गच्छति ||३२|| गुल्मस्तिष्ठति दोषे स्वे विद्रधिर्मांसशोणिते | विद्रधिः पच्यते तस्माद्गुल्मश्चापि न पच्यते ||३३||

🔊 Audio coming soon

पृथक् सम्भूय वा दोषाः कुपिता गुल्मरूपिणमित्यत्रैकरूपत्वादन्तर्विद्रधिगुल्मयोः कुतो गुल्मादस्य विद्रधेः पाककृतो विशेष इत्याह- विशेषमित्यादि| विशेषं भेदम्| समुत्थानं कारणं, दोषा एव समुत्थानं, तच्च द्वयोस्तुल्यम्| सिद्धान्तमाह- न निबन्धोऽस्तीति; निश्चित्य बन्धातीति निबन्धो मूलं; तद्गुल्मानां मूलं नास्तीति, रसरक्तादिदूष्याणामभावत्वात्| कुतः पुनरेषां शोफरूपाणामपि मूलं नास्तीत्याह- गुल्माकारा गुल्मरूपाः, स्वयमात्मनैव, दोषा वातादयः, न पुनर्दूष्यसंश्रयाः| विद्रधेर्मूलसम्भवे हेतुमाह- विद्रधिर्मांसशोणिते इति; ‘भवति’ इति शेषः| तत्र कथं पित्ते कफे वा द्रवे वातजनितस्य गुल्मस्य स्थितिरित्याह- विवरानुचर इत्यादि| यथाऽप्सु बुद्बुदकः, एवम्प्रकारो विवरानुचरः स्रोतोऽनुसा(चा)री वातग्रन्थिरूपो गुल्मः, ‘कफपित्तयोः’ इति शेषः; तस्मात् पूर्वोक्ताद्धेतोः पाकं न याति| अमुमेवार्थं नियमयन्नाह- मांसशोणितबाहुल्यादित्यादि| विद्रधिगुल्मयोर्मूलसम्भवासम्भवाभ्यां पाकापाकौ प्रतिपाद्य स्थानविशेषादपि हेतोः पाकापाकौ प्रतिपादयन्नाह- गुल्मस्तिष्ठतीत्यादि| गुल्मश्चापि न पच्यत इति अपिशब्देन पच्यते गुल्म इति कायचिकित्सायामुक्तं गुल्मपाकित्वं समुच्चीयते||२८-३३||

Adhikarana 19 (34) · Śloka 34

हृन्नाभिबस्तिजः पक्वो वर्ज्यो यश्च त्रिदोषजः |३४|

🔊 Audio coming soon

हृदित्यादि| एतेन सान्निपातिकः पक्वो यत्र कुत्रचित् स्थितो विद्रधिर्वर्जनीयः| केचिद्गुल्मविद्रध्योर्मानकथनाय श्लोकं पठन्ति- “मुष्टिप्रमाणो गुल्मस्तु विद्रधिश्च ततः परम्”- इति; ततः परमिति मुष्टेरधिक इत्यर्थः|३४|-

Adhikarana 20 (34-38) · Śloka 38

अथ मज्जपरीपाको घोरः समुपजायते ||३४|| सोऽस्थिमांसनिरोधेन द्वारं न लभते यदा | ततः स व्याधिना तेन ज्वलनेनेव दह्यते ||३५|| अस्थि(थ) मज्जोष्मणा तेन शीर्यते दह्यमानवत् | विकारः शल्यभूतोऽयं क्लेशयेदातुरं चिरम् ||३६|| अथास्य कर्मणा व्याधिर्द्वारं तु लभते यदा | ततो मेदःप्रभं स्निग्धं शुक्लं शीतमथो गुरु ||३७|| भिन्नेऽस्थ्नि निःस्रवेत् पूयमेतदस्थिगतं विदुः | विद्रधिं शास्त्रकुशलाः सर्वदोषरुजावहम् ||३८||

🔊 Audio coming soon

प्राक्तनकर्मवशादुपेक्षणाद्वा यो विद्रधिष्वस्थ्यन्तर्गतः पाको भवति तस्य लक्षणमाह- अथेत्यादि| सर्वविद्रधयो वातादिना यदाऽस्थ्याश्रित्य जायन्ते, उपेक्षणादनन्तरं तद्गतमज्जा च परिपच्यते तदेतद्रूपमुक्तम्| सोऽस्थिमांसनिरोधेनेति स मज्जापरिपाकः| ततः स व्याधिना तेनेति तदा स पुरुषः, तेन व्याधिना मज्जपरिपाकेन| अस्थि(थ)मज्जोष्मणा तेन शीर्यते दह्यमानवदिति तेन मज्जोष्मणा, अथ उपेक्षणादनन्तरं, शीर्यते विनश्यति, किंवत्? दह्यमानवत्| अथास्य कर्मणेति कर्मणा शस्त्रकर्मणा| व्याधिः पूयम्||३४-३८||

Adhikarana puShpikA · Śloka 9

इति सुश्रुतसंहितायां निदानस्थाने विद्रधिनिदानं नाम नवमोऽध्यायः ||९||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां निदानस्थाने नवमोऽध्यायः||९||