Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

1. vātavyādhinidānam

Adhikarana 1 (1-2) · Śloka 2

अथातो वातव्याधिनिदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Adhikarana 2 (3-4) · Śloka 4

धन्वन्तरिं धर्मभृतां वरिष्ठममृतोद्भवम् | चरणावुपसङ्गृह्य सुश्रुतः परिपृच्छति ||३|| वायोः प्रकृतिभूतस्य व्यापन्नस्य च कोपनैः | स्थानं कर्म च रोगांश्च वद मे वदतां वर ||४||

🔊 Audio coming soon

Adhikarana 3 (5-8) · Śloka 9

तस्य तद्वचनं श्रुत्वा प्राब्रवीद्भिषजां वरः | स्वयम्भूरेष भगवान् वायुरित्यभिशब्दितः ||५|| स्वातन्त्र्यान्नित्यभावाच्च सर्वगत्वात्तथैव च | सर्वेषामेव सर्वात्मा सर्वलोकनमस्कृतः ||६|| स्थित्युत्पत्तिविनाशेषु भूतानामेष कारणम् | अव्यक्तो व्यक्तकर्मा च रूक्षः शीतो लघुः खरः ||७|| तिर्यग्गो द्विगुणश्चैव रजोबहुल एव च | अचिन्त्यवीर्यो दोषाणां नेता रोगसमूहराट् ||८|| आशुकारी मुहुश्चारी पक्वाधानगुदालयः |९|

🔊 Audio coming soon

Adhikarana 4 (9-10) · Śloka 10

देहे विचरतस्तस्य लक्षणानि निबोध मे ||९|| दोषधात्वग्निसमतां सम्प्राप्तिं विषयेषु च | क्रियाणामानुलोम्यं च करोत्यकुपितोऽनिलः ||१०|| (इन्द्रियार्थोपसम्प्राप्तिं दोषधात्वग्न्यवैकृतम्| क्रियाणामानुलोम्यं च कुर्याद्वायुरदूषितः ||१०||) |

🔊 Audio coming soon

Adhikarana 5 (11) · Śloka 11

यथाऽग्निः पञ्चधा भिन्नो नामस्थानक्रियामयैः | भिन्नोऽनिलस्तस्था ह्येको नामस्थानक्रियामयैः ||११||

🔊 Audio coming soon

Adhikarana 6 (12) · Śloka 12

प्राणोदानौ समानश्च व्यानश्चापान एव च | स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम् ||१२||

🔊 Audio coming soon

Adhikarana 7 (13) · Śloka 14

यो वायुर्वक्त्रसञ्चारी स प्राणो नाम देहधृक् | सोऽन्नं प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते ||१३|| प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान् |१४|

🔊 Audio coming soon

Adhikarana 8 (14-15) · Śloka 15

उदानो नाम यस्तूर्ध्वमुपैति पवनोत्तमः ||१४|| तेन भाषितगीतादिविशेषोऽभिप्रवर्तते | ऊर्ध्वजत्रुगतान् रोगान् करोति च विशेषतः ||१५||

🔊 Audio coming soon

Adhikarana 9 (16) · Śloka 17

आमपक्वाशयचरः समानो वह्निसङ्गतः | सोऽन्नं पचति तज्जांश्च विशेषान्विविनक्ति हि ||१६|| गुल्माग्निसादातीसारप्रभृतीन् कुरुते गदान् |१७|

🔊 Audio coming soon

Adhikarana 10 (17-18) · Śloka 18

कृत्स्नदेहचरो व्यानो रससंवहनोद्यतः ||१७|| स्वेदासृक्स्रावणश्चापि पञ्चधा चेष्टयत्यपि | क्रुद्धश्च कुरुते रोगान् प्रायशः सर्वदेहगान् ||१८||

🔊 Audio coming soon

Adhikarana 11 (19) · Śloka 20

पक्वाधानालयोऽपानः काले कर्षति चाप्यधः | समीरणः शकृन्मूत्रं शुक्रगर्भार्तवानि च ||१९|| क्रुद्धश्च कुरुते रोगान् घोरान् बस्तिगुदाश्रयान् |२०|

🔊 Audio coming soon

Adhikarana 12 (20) · Śloka 20

शुक्रदोषप्रमेहास्तु व्यानापानप्रकोपजाः ||२०||

🔊 Audio coming soon

Adhikarana 13 (21) · Śloka 21

युगपत् कुपिताश्चापि देहं भिन्द्युरसंशयम् |२१|

🔊 Audio coming soon

Adhikarana 14 (21-24) · Śloka 24

अत ऊर्ध्वं प्रवक्ष्यामि नानास्थानान्तराश्रितः ||२१|| बहुशः कुपितो वायुर्विकारान् कुरुते हि यान् | वायुरामाशये क्रुद्धश्छर्द्यादीन् कुरुते गदान् ||२२|| मोहं मूर्च्छां पिपासां च हृद्ग्रहं पार्श्ववेदनाम् | पक्वाशयस्थोऽन्त्रकूजं शूलं नाभौ करोति च ||२३|| कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम् | श्रोत्रादिष्विन्द्रियवधं कुर्यात् क्रुद्धः समीरणः ||२४||

🔊 Audio coming soon

Adhikarana 15 (25-29) · Śloka 29

वैवर्ण्यं स्फुरणं रौक्ष्यं सुप्तिं चुमुचुमायनम् | त्वक्स्थो निस्तोदनं कुर्यात् त्वग्भेदं परिपोटनम् ||२५|| व्रणांश्च रक्तगो, ग्रन्थीन् सशूलान् मांससंश्रितः | तथा मेदःश्रितः कुर्याद्ग्रन्थीन्मन्दरुजोऽव्रणान् ||२६|| कुर्यात् सिरागतः शूलं सिराकुञ्चनपूरणम् | स्नायुप्राप्तः स्तम्भकम्पौ शूलमाक्षेपणं तथा ||२७|| हन्ति सन्धिगतः सन्धीन् शूलशोफौ करोति च | अस्थिशोषं प्रभेदं च कुर्याच्छूलं च तच्छ्रितः ||२८|| तथा मज्जगते रुक् च न कदाचित् प्रशाम्यति | अप्रवृत्तिः प्रवृत्तिर्वा विकृता शुक्रगेऽनिले ||२९||

🔊 Audio coming soon

Adhikarana 16 (30) · Śloka 30

हस्तपादशिरोधातूंस्तथा सञ्चरति क्रमात् | व्याप्नुयाद्वाऽखिलं देहं वायुः सर्वगतो नृणाम् ||३०||

🔊 Audio coming soon

Adhikarana 17 (31) · Śloka 31

स्तम्भनाक्षेपणस्वापशोफशूलानि सर्वगः |३१|

🔊 Audio coming soon

Adhikarana 18 (31) · Śloka 31

स्थानेषूक्तेषु सम्मिश्रः सम्मिश्राः कुरुते रुजः ||३१||

🔊 Audio coming soon

Adhikarana 19 (32) · Śloka 32

कुर्यादवयवप्राप्तो मारुतस्त्वमितान् गदान् |३२|

🔊 Audio coming soon

Adhikarana 20 (32-39) · Śloka 39

दाहसन्तापमूर्च्छाः स्युर्वायौ पित्तसमन्विते ||३२|| शैत्यशोफगुरुत्वानि तस्मिन्नेव कफावृते | सूचीभिरिव निस्तोदः स्पर्शद्वेषः प्रसुप्तता ||३३|| शेषाः पित्तविकाराः स्युर्मारुते शोणितान्विते | प्राणे पित्तावृते छर्दिर्दाहश्चैवोपजायते ||३४|| दौर्बल्यं सदनं तन्द्रा वैवर्ण्यं च कफावृते | उदाने पित्तसंयुक्ते मूर्च्छादाहभ्रमक्लमाः ||३५|| अस्वेदहर्षौ मन्दोऽग्निः शीतस्तम्भौ कफावृते | समाने पित्तसंयुक्ते स्वेददाहौष्ण्यमूर्च्छनम् ||३६|| कफाधिकं च विण्मूत्रं रोमहर्षः कफावृते | अपाने पित्तसंयुक्ते दाहौष्ण्ये स्यादसृग्दरः ||३७|| अधःकायगुरुत्वं च तस्मिन्नेव कफावृते | व्याने पित्तावृते दाहो गात्रविक्षेपणं क्लमः ||३८|| गुरूणि सर्वगात्राणि स्तम्भनं चास्थिपर्वणाम् | लिङ्गं कफावृते व्याने चेष्टास्तम्भस्तथैव च ||३९||

🔊 Audio coming soon

Adhikarana 21 (40-41) · Śloka 41

(प्रायशः सुकुमाराणां मिथ्याऽऽहारविहारिणाम् | रोगाध्वप्रमदामद्यव्यायामैश्चातिपीडनात् ||४०|| ऋतुसात्म्यविपर्यासात् स्नेहादीनां च विभ्रमात् | अव्यवाये तथा स्थूले वातरक्तं प्रकुप्यति ) ||४१||

🔊 Audio coming soon

Adhikarana 22 (42-44) · Śloka 44

हस्त्यश्वोष्ट्रैर्गच्छतोऽन्यैश्च वायुः कोपं यातः कारणै सेवितैः स्वैः | तीक्ष्णोष्णाम्लक्षारशाकादिभोज्यैः सन्तापाद्यैर्भूयसा सेवितैश्च ||४२|| क्षिप्रं रक्तं दुष्टिमायाति तच्च वायोर्मार्गं संरुणद्ध्याशु यातः | क्रुद्धोऽत्यर्थं मार्गरोधात् स वायुरत्युद्रिक्तं दूषयेद्रक्तमाशु ||४३|| तत् सम्पृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम् | तद्वत् पित्तं दूषितेनासृजाऽऽक्तं श्लेष्मा दुष्टो दूषितेनासृजाऽऽक्तः ||४४||

🔊 Audio coming soon

Adhikarana 23 (45-46) · Śloka 46

स्पर्शोद्विग्नौ तोदभेदप्रशोषस्वापोपेतौ वातरक्तेन पादौ | पित्तासृग्भ्यामुग्रदाहौ भवेतामत्यर्थोष्णौ रक्तशोफौ मृदू च ||४५|| कण्डूमन्तौ श्वेतशीतौ सशोफौ पीनस्तब्धौ श्लेष्मदुष्टे तु रक्ते | सर्वैर्दुष्टे शोणिते चापि दोषाः स्वं स्वं रूपं पादयोर्दर्शयन्ति ||४६||

🔊 Audio coming soon

Adhikarana 24 (47) · Śloka 47

प्राग्रूपे शिथिलौ स्विन्नौ शीतलौ सविपर्ययौ | वैवर्ण्यतोदसुप्तत्वगुरुत्वौषसमन्वितौ ||४७||

🔊 Audio coming soon

Adhikarana 25 (48) · Śloka 48

पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि | आखोर्विषमिव क्रुद्धं तद्देहमनुसर्पति ||४८||

🔊 Audio coming soon

Adhikarana 26 (49) · Śloka 50

आजानुस्फुटितं यच्च प्रभिन्नं प्रस्रुतं च यत् | उपद्रवैश्च यज्जुष्टं प्राणमांसक्षयादिभिः ||४९|| शोणितं तदसाध्यं स्याद्याप्यं संवत्सरोत्थितम् |५०|

🔊 Audio coming soon

Adhikarana 27 (50-51) · Śloka 51

यदा तु धमनीः सर्वाः कुपितोऽभ्येति मारुतः ||५०|| तदाक्षिपत्याशु मुहुर्मुहुर्देहं मुहुश्चरः | मुहुर्मुहुस्तदाक्षेपादाक्षेपक इति स्मृतः ||५१||

🔊 Audio coming soon

Adhikarana 28 (52-58) · Śloka 58

सोऽपतानकसञ्ज्ञो यः पातयत्यन्तराऽन्तरा | कफान्वितो भृशं वायुस्तास्वेव यदि तिष्ठति ||५२|| स दण्डवत् स्तम्भयति कृच्छ्रो दण्डापतानकः | हनुग्रहस्तदाऽत्यर्थं सोऽन्नं कृच्छ्रान्निषेवते ||५३|| धनुस्तुल्यं नमेद्यस्तु स धनुःस्तम्भसञ्ज्ञकः | अङ्गुलीगुल्फजठरहृद्वक्षोगलसंश्रितः ||५४|| स्नायुप्रतानमनिलो यदाऽऽक्षिपति वेगवान् | विष्टब्धाक्षः स्तब्धहनुर्भग्नपार्श्वः कफं वमन् ||५५|| अभ्यन्तरं धनुरिव यदा नमति मानवः | तदाऽस्याभ्यन्तरायामं कुरुते मारुतो बली ||५६|| बाह्यस्नायुप्रतानस्थो बाह्यायामं करोति च | तमसाध्यं बुधाः प्राहुर्वक्षःकट्यूरुभञ्जनम् ||५७|| कफपित्तान्वितो वायुर्वायुरेव च केवलः | कुर्यादाक्षेपकं त्वन्यं चतुर्थमभिघातजम् ||५८||

🔊 Audio coming soon

Adhikarana 29 (59) · Śloka 59

गर्भपातनिमित्तश्च शोणितातिस्रवाच्च यः | अभिघातनिमित्तश्च न सिध्यत्यपतानकः ||५९||

🔊 Audio coming soon

Adhikarana 30 (60-62) · Śloka 62

अधोगमाः सतिर्यग्गा धमनीरूर्ध्वदेहगाः | यदा प्रकुपितोऽत्यर्थं मातरिश्वा प्रपद्यते ||६०|| तदाऽन्यतरपक्षस्य सन्धिबन्धान् विमोक्षयन् | हन्ति पक्षं तमाहुर्हि पक्षाघातं भिषग्वराः ||६१|| यस्य कृत्स्नं शरीरार्धमकर्मण्यमचेतनम् | ततः पतत्यसून् वाऽपि त्यजत्यनिलपीडितः ||६२||

🔊 Audio coming soon

Adhikarana 31 (63) · Śloka 63

शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः | साध्यमन्येन संसृष्टमसाध्यं क्षयहेतुकम् ||६३||

🔊 Audio coming soon

Adhikarana 32 (64-66) · Śloka 66

वायुरूर्ध्वं व्रजेत् स्थानात् कुपितो हृदयं शिरः | शङ्खौ च पीडयत्यङ्गान्याक्षिपेन्नमयेच्च सः ||६४|| निमीलिताक्षो निश्चेष्टः स्तब्धाक्षो वाऽपि कूजति | निरुच्छ्वासोऽथवा कृच्छ्रादुच्छ्वस्यान्नष्टचेतनः ||६५|| स्वस्थः स्याद्धृदये मुक्ते ह्यावृते तु प्रमुह्यति | कफान्वितेन वातेन ज्ञेय एषोऽपतन्त्रकः ||६६||

🔊 Audio coming soon

Adhikarana 33 (67) · Śloka 67

दिवास्वप्नासनस्थानविवृताध्वनिरीक्षणैः | मन्यास्तम्भं प्रकुरुते स एव श्लेष्मणाऽऽवृतः ||६७||

🔊 Audio coming soon

Adhikarana 34 (68-72) · Śloka 72

(गर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्क्षये |) उच्चैर्व्याहरतोऽत्यर्थं खादतः कठिनानि वा | हसतो जृम्भतो भाराद्विषमाच्छयनादपि ||६८|| शिरोनासौष्ठचिबुकललाटेक्षणसन्धिगः | अर्दयित्वाऽनिलो वक्त्रमर्दितं जनयत्यतः ||६९|| वक्रीभवति वक्त्रार्धं ग्रीवा चाप्यपवर्तते | शिरश्चलति वाक्सङ्गो नेत्रादीनां च वैकृतम् ||७०|| ग्रीवाचिबुकदन्तानां तस्मिन् पार्श्वे तु वेदना | यस्याग्रजो रोमहर्षो वेपथुर्नेत्रमाविलम् ||७१|| वायुरूर्ध्वं त्वचि स्वापस्तोदो मन्याहनुग्रहः | तमर्दितमिति प्राहुर्व्याधिं व्याधिविशारदाः ||७२||

🔊 Audio coming soon

Adhikarana 35 (73) · Śloka 73

क्षीणस्यानिमिषाक्षस्य प्रसक्तं सक्तभाषिणः | न सिध्यत्यर्दितं बाढं त्रिवर्षं वेपनस्य च ||७३||

🔊 Audio coming soon

Adhikarana 36 (74) · Śloka 74

पार्ष्णिप्रत्यङ्गुलीनां तु कण्डरा याऽनिलार्दिता | सक्थ्नः क्षेपं निगृह्णीयाद्गृध्रसीति हि सा स्मृता ||७४||

🔊 Audio coming soon

Adhikarana 37 (75) · Śloka 75

तलप्रत्यङ्गुलीनां तु कण्डरा बाहुपृष्ठतः | बाह्वोः कर्मक्षयकरी विश्वाचीति हि सा स्मृता ||७५||

🔊 Audio coming soon

Adhikarana 38 (76) · Śloka 76

वातशोणितजः शोफो जानुमध्ये महारुजः | शिरः क्रोष्टुकपूर्वं तु स्थूलः क्रोष्टुकमूर्धवत् ||७६||

🔊 Audio coming soon

Adhikarana 39 (77) · Śloka 77

वायुः कट्यां स्थितः सक्थ्नः कण्डरामाक्षिपेद्यदा | खञ्जस्तदा भवेज्जन्तुः, पङ्गुः सक्थ्नोर्द्वयोर्वधात् ||७७||

🔊 Audio coming soon

Adhikarana 40 (78) · Śloka 78

प्रक्रामन् वेपते यस्तु खञ्जन्निव च गच्छति | कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम् ||७८||

🔊 Audio coming soon

Adhikarana 41 (79) · Śloka 79

न्यस्ते तु विषमं(मे) पादे रुजः कुर्यात् समीरणः | वातकण्टक इत्येष विज्ञेयः खडु(ल)काश्रितः ||७९||

🔊 Audio coming soon

Adhikarana 42 (80) · Śloka 80

पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः | विशेषतश्चङ्क्रमणात् पाददाहं तमादिशेत् ||८०||

🔊 Audio coming soon

Adhikarana 43 (81) · Śloka 81

हृष्यतश्चरणौ यस्य भवतश्च प्रसुप्तवत् | पादहर्षः स विज्ञेयः कफवातप्रकोपजः ||८१||

🔊 Audio coming soon

Adhikarana 44 (82) · Śloka 82

अंसदेशस्थितो वायुः शोषयित्वांऽसबन्धनम् | सिराश्चाकुञ्च्य तत्रस्थो जनयत्यवबाहुकम् ||८२||

🔊 Audio coming soon

Adhikarana 45 (83) · Śloka 83

यदा शब्दवहं स्रोतो वायुरावृत्य तिष्ठति | शुद्धः श्लेष्मान्वितो वाऽपि बाधिर्यं तेन जायते ||८३||

🔊 Audio coming soon

Adhikarana 46 (84) · Śloka 84

हनुशङ्खशिरोग्रीवं यस्य भिन्दन्निवानिलः | कर्णयोः कुरुते शूलं कर्णशूलं तदुच्यते ||८४||

🔊 Audio coming soon

Adhikarana 47 (85) · Śloka 85

आवृत्य सकफो वायुर्धमनीः शब्दवाहिनीः | नरान् करोत्यक्रियकान्मूकमिन्मिणगद्गदान् ||८५||

🔊 Audio coming soon

Adhikarana 48 (86-87) · Śloka 87

अधो या वेदना याति वर्चोमूत्राशयोत्थिता | भिन्दतीव गुदोपस्थं सा तूनीत्यभिधीयते ||८६|| गुदोपस्थोत्थिता सैव प्रतिलोमविसर्पिणी | वेगैः पक्वाशयं याति प्रतितूनीति सा स्मृता ||८७||

🔊 Audio coming soon

Adhikarana 49 (88) · Śloka 88

साटोपमत्युग्ररुजमाध्मातमुदरं भृशम् | आध्मानमिति जानीयाद्घोरं वातनिरोधजम् ||८८||

🔊 Audio coming soon

Adhikarana 50 (89) · Śloka 89

विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम् | प्रत्याध्मानं विजानीयात् कफव्याकुलितानिलम् ||८९||

🔊 Audio coming soon

Adhikarana 51 (90-91) · Śloka 91

अष्ठीलावद्घनं ग्रन्थिमूर्ध्वमायतमुन्नतम् | वाताष्ठीलां विजानीयाद्बहिर्मार्गावरोधिनीम् ||९०|| एनामेव रुजायुक्तां वातविण्मूत्ररोधिनीम् | प्रत्यष्ठीलामिति वदेज्जठरे तिर्यगुत्थिताम् ||९१||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 1

इति सुश्रुतसंहितायां निदानस्थाने वातव्याधिनिदानं नाम प्रथमोऽध्यायः ||१||

🔊 Audio coming soon