Adhikarana 1 (1-2) · Śloka 2
अथातः क्षुद्ररोगाणां निदानं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
अथात इत्यादि| यद्यपि क्षुद्ररोगेषु रोहिणीवल्मीकादयो महाव्याधयः सन्ति, तथाऽपि क्षुद्ररोगाणां बहुत्वात्तैरेव व्यपदेशः; यथा बहुषु छत्रिषु गच्छत्सु अच्छत्रिष्वपि केषुचिच्छत्रिणो यान्तीति व्यपदेशः, तथाऽत्रापीति न दोषः| अन्ये तु क्षुद्रा लघवस्तिलकाद्यपेक्षया, अग्निरोहिणीवल्मीकाद्यपेक्षया क्षुद्रास्तीक्ष्णाः ; अथवा पूर्वाचार्यप्रसिद्धा निर्हेतुकेयं सञ्ज्ञा||१-२||
Adhikarana 2 (3) · Śloka 3
समासेन चतुश्चत्वारिंशत् क्षुद्ररोगा भवन्ति |
तद्यथा,- अजगल्लिका, यवप्रख्या, अन्धालजी, विवृता, कच्छपिका, वल्मीकं, इन्द्रवृद्धा , पनसिका, पाषाणगर्दभः, जालगर्दभः, कक्षा , विस्फोटकः, अग्निरोहिणी, चिप्पं, कुनखः, अनुशयी, विदारिका शर्करार्बुदं, पामा, विचर्चिका, रकसा, पाददारिका, कदरं, अलसेन्द्रलुप्तौ , दारुणकः, अरुंषिका, पलितं, मसूरिका, यौवनपिडका, पद्मिनीकण्टकः, जतुमणिः, मशकः, चर्मकीलः , तिलकालकः, न्यच्छं, व्यङ्गः, परिवर्तिका, अवपाटिका, निरुद्धप्रकशः सन्निरुद्धगुदः, अहिपूतनं, वृषणकच्छ्रः, गुदभ्रंशश्चेति ||३||
सङ्ख्यामाह- समासेनेत्यादि| समासेन सङ्क्षेपेण, विस्तरेण प्रमाणं तु नास्त्येव| श्रीब्रह्मदेवस्तु गर्दभिकेरिवेल्लिकागन्धपिडिकानीलिकानां सङ्ग्रहणेनाष्टचत्वारिंशदिति पठति| श्रीजेज्झटेन तु गर्दभिकादयश्चत्वारो न पठिताः| पूर्वव्याख्यातारोऽपि सुवीरनन्दिवाराहादयः समानतन्त्रापाठात् गर्दभिकादीनां चतुर्णां पाठं गर्हितं मन्यन्ते| गयदासाचायस्तु समानतन्त्रादर्शनेऽपि सर्वेष्वेव पाठेषु पाताद् गर्दभिकादीन् पठति, पामादींश्च क्षुद्रत्वेऽपि चतुरः कुष्ठ एव पठति||३||
Adhikarana 3 (4) · Śloka 4
स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा |
कफवातोत्थिता ज्ञेया बालानामजगल्लिका ||४||
तेषां प्रत्येकं लक्षणमाह- स्निग्धेत्यादि| “प्रायोग्रहणमत्र लुप्तनिर्दिष्टं द्रष्टव्यं, तेन क्वचिदबालेष्वपि” इत्येके मन्यन्ते||४||
Adhikarana 4 (5) · Śloka 5
यवाकारा सुकठिना ग्रथिता मांससंश्रिता |
पिडका श्लेष्मवाताभ्यां यवप्रख्येति सोच्यते ||५||
यवेत्यादि| यवाकारा स्थूलमध्यनिम्नान्तत्वेन ||५||
Adhikarana 5 (6) · Śloka 6
घनामवक्त्रां पिडकामुन्नतां परिमण्डलाम् |
अन्धालजीमल्पपूयां तां विद्यात् कफवातजाम् ||६||
घनामित्यादि| अवक्त्रामिति अल्पमुखीम्| परिमण्डलां वर्तुलामित्यर्थः| अन्धालजीं स्नायुप्रसृतान्तर्मुखीम्||६||
Adhikarana 6 (7) · Śloka 7
विवृतास्यां महादाहां पक्वोदुम्बरसन्निभाम् |
विवृतामिति तां विद्यात् पित्तोत्थां परिमण्डलाम् ||७||
विवृतास्यामित्यादि| विवृतास्यामिति व्यात्तमुखीम्||७||
Adhikarana 7 (8) · Śloka 8
ग्रथिताः पञ्च वा षड्वा दारुणाः कच्छपोन्नताः |
कफानिलाभ्यां पिडका ज्ञेया कच्छपिका बुधैः ||८||
दारुणाः कठिनाः||८||
Adhikarana 8 (9-10) · Śloka 10
पाणिपादतले सन्धौ ग्रीवायामूर्ध्वजत्रुणि |
ग्रन्थिर्वल्मीकवद्यस्तु शनैः समुपचीयते ||९||
तोदक्लेदपरीदाहकण्डूमद्भिर्मुखैर्वृतः |
व्याधिर्वल्मीक इत्येष कफपित्तानिलोद्भवः ||१०||
ग्रन्थय इत्यादि||९-१०||
Adhikarana 9 (11) · Śloka 12
पद्मपुष्करवन्मध्ये पिडकाभिः समाचिताम् |
इन्द्रवृद्धां तु तां विद्याद्वातपित्तोत्थितां भिषक् ||११||
मण्डलं वृत्तमुत्सन्नं सरक्तं पिडकाचितम् |
रुजाकरीं गदर्भिकां तां विद्याद्वातपित्तजाम् |१२|
पद्मेत्यादि| पद्मपुष्करं पद्मकर्णिका| गयी त्वत्र गर्दभिकां पठति; यथा- “मण्डलां वृत्तमुत्सन्नां सरक्तां पिडकाचिताम्| रुजाकरीं गर्दभिकां तां विद्याद्वातपित्तजाम्”||११||-
Adhikarana 10 (12) · Śloka 12
कर्णौ परि समन्ताद्वा पृष्ठे वा पिडकोग्ररुक् |
शालूकवत्पनसिकां तां विद्याच्छ्लेष्मवातजाम् ||१२||
कर्णस्याभ्यन्तरे देशे जाता वातकफात्मिका| समन्तत इति वचनात् कर्णाद्बहिरपीति व्याचक्षते, तन्न, सर्वेषु पादेषु बहिरिति अप्राप्तेः| न च समानतन्त्रेषु बहिरिति लभ्यते| तथाहि भोजः- “कफवातौ प्रकुपितौ मांसमाश्रित्य कर्णयोः| समन्ततः परिस्तब्धां कुरुतः पिडकां स्थिराम्|| विषमां दाहसंयुक्तां विद्यात् पनसिकां तु ताम्” इति| भोजेऽस्यां वातकफजायां दाहः पठितः, स हि विकृतिविषमसमवायारम्भादधिष्ठानप्रभावाद्वाऽवगन्तव्यः||१२||
Adhikarana 11 (13) · Śloka 13
हनुसन्धौ समुद्भूतं शोफमल्परुजं स्थिरम् |
पाषाणगर्दभं विद्याद्बलासपवनात्मकम् ||१३||
हनुसन्धिसमुद्भूतमित्यादिना पाषाणगर्दभः| स्थिरकठिनपाषाणवत् काठिन्येन पाषाणगर्दभः||१३||
Adhikarana 12 (14) · Śloka 14
विसर्पवत् सर्पति यो दाहज्वरकरस्तनुः |
अपाकः श्वयथुः पित्तात् स ज्ञेयो जालगर्दभः ||१४||
विसर्पवत् सर्पति य इत्यादिना जालगर्दभः| अपाकवान् ईषत्पाकवान्, ईषदर्थे नञ्; पित्तकृतत्वेनात्यर्थं पाकाभावस्यायुक्तत्वादल्पपाक इत्यङ्गीक्रियते| प्रतनुस्तोकपाकपिडिकाजालाभत्वाज् जालगर्दभः| पित्तादित्युद्भूतपित्तात्, पित्तोत्कटैस्त्रिभिरेव दोषैरन्यत्र पठ्यते| तथाहि भोजः- “पित्तोत्कटास्त्रयो दोषा जनयन्ति त्वगाश्रिताः| श्यावरक्ततनुशोथप्रपाकं बहुवेदनम्|| विसर्पिणं सदाहं च तृष्णाज्वरसमन्वितम्| विसर्पमाहुस्तं व्याधिमपरे जालगर्दभम्” इति||१४||
Adhikarana 13 (15) · Śloka 15
पिडिकामुत्तमाङ्गस्थां वृत्तामुग्ररुजाज्वराम् |
सर्वात्मकां सर्वलिङ्गां जानीयादिरिवेल्लिकाम् ||१५||
पिडकामुत्तमाङ्गस्थामित्यादिना इरिवेल्लिका| सा च सर्वजा सर्वदोषारब्धेत्यर्थः| सर्वेषां वातादिदोषाणां स्वभावकार्याणां लिङ्गदर्शनं सन्निपातेन प्रकृतिसमवायारब्धत्वान्मन्यन्ते| इयं सर्वेष्वेव पाठेषु पठ्यते, न तु समानतन्त्रेष्विति पूर्वव्याख्यातारो मन्यन्ते||१५||
Adhikarana 14 (16) · Śloka 16
बाहुपार्श्वांसकक्षासु कृष्णस्फोटां सवेदनाम् |
पित्तप्रकोपसम्भूतां कक्षामिति विनिर्दिशेत् ||१६||
बाहुपार्श्वांसकक्षेत्यादिना कक्षा||१६||
Adhikarana 15 (17) · Śloka 17
एकामेवंविधां दृष्ट्वा पिटिकां स्फोटसन्निभाम् |
त्वग्गतां पित्तकोपेन गन्धनामां प्रचक्षते ||१७||
एकामेतादृशीं कक्षानिर्दिष्टस्फोटसदृशीं गन्धनामां वदन्ति||१७||
Adhikarana 16 (18) · Śloka 18
अग्निदग्धनिभाः स्फोटाः सज्वराः पित्तरक्ततः |
क्वचित् सर्वत्र वा देहे स्मृता विस्फोटका इति ||१८||
अग्निदग्धनिभाः| स्फोटा इत्यादिना विस्फोटकाः| अन्यैः पुनरमी विसर्पभेदत्वादेषां न पठ्यन्ते| अत एवान्यतन्त्रीयैर्विसर्पभेदत्वादेषां दोषभेदेन लक्षणं पठ्यते| क्षुद्ररोगपाठे तु दोषभेदोऽत्र न युज्यते| अत्रार्थे भोजः “पित्तं रक्तं च कुपितं वातेनातुगतं त्वचि| अग्निदग्धनिभान् स्फोटान् कुरुते सर्वदेहगान्|| सज्वरान् सपरीदाहान् विद्याद्विस्फोटकांस्तु तान्” इति||१८||
Adhikarana 17 (19-20) · Śloka 20
कक्षाभागेषु ये स्फोटा जायन्ते मांसदारु(र)णाः |
अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः ||१९||
सप्ताहाद्वा दशाहाद्वा पक्षाद्वा न्घन्ति मानवम् |
तामग्निरोहिणीं विद्यादसाध्यां सन्निपाततः ||२०||
कक्षाभागेष्वित्यादि| असाध्यामिति अत एवास्याश्चिकित्सितेषु न चिकित्साभिधानम्| ‘मांसदारणा” इत्यपि पाठः| तथाहि तन्त्रान्तरम्,- “पित्तोत्कटा नृणां दोषाः प्रदीप्ताङ्गारसन्निभान्| कक्षाभागेषु कुर्वन्ति तीव्रदाहरुजाज्वरान्|| मांसावदारणान् स्फोटान् ये हन्युरनुपक्रमात्| पक्षाद्दशाहादर्वाग्वा सा ज्ञेया वह्निरोहिणी” इति| तत्र वाताधिकैः सप्ताहात्, पित्ताधिकैर्दशाहात्, कफाधिकैः पक्षात्||१९-२०||
Adhikarana 18 (20-22) · Śloka 23
नखमांसमधिष्ठाय पित्तं वातश्च वेदनाम् |
करोति दाहपाकौ च तं व्याधिं चिप्पमादिशेत् ||२१||
तदेवाक्षतरोगाख्यं तथोपनखमित्यपि |
अभिघातात् प्रदुष्टो यो नखो रूक्षोऽसितः खरः ||२२||
भवेत्तं कुनखं विद्यात् कुलीनमिति सञ्ज्ञितम् |२३|
नखेत्यादि| चिप्पमिति तन्त्रान्तरेऽङ्गुलीवेष्ठकमिति प्रसिद्धम्||२०-२२||-
Adhikarana 19 (23) · Śloka 24
गम्भीरामल्पसंरम्भां सवर्णामुपरिस्थिताम् ||२३||
कफादन्तःप्रपाकां तां विद्यादनुशयीं भिषक् |२४|
गम्भीरामित्यादि| अन्तःपाकेन गम्भीराम्| अल्पसंरम्भाम् अल्पशोथाम्| उपरिस्थितां मस्तके स्थिताम्||२३||-
Adhikarana 20 (24) · Śloka 25
विदारीकन्दवद्वृत्तां कक्षावङ्क्षणसन्धिषु ||२४||
रक्तां विदारिकां विद्यात् सर्वजां सर्वलक्षणाम् |२५|
विदारीकन्दवदित्यादि| वङ्क्षणसन्धिः गण्डकः| रक्तां लोहिताम्| सर्वजां सन्निपातजां; परं तथाऽपि साध्या, न हि सर्व एव सन्निपातजा व्याधयोऽसाध्याः| सर्वलक्षणां दोषसमुदायलक्षणां, न तु प्रत्येकदोषलक्षणां, दोषेभ्यो दोषसमुदायस्यान्यत्वात्, चूर्णहरिद्रासंयोगस्येव| अन्ये तु “सर्वेभ्यो वातपित्तकफेभ्यः पृथक् द्विशस्त्रिशो वा जायत इति सर्वजा इत्यस्याः साप्तविध्यं दोषलिङ्गैः सूक्ष्ममतिनाऽनुक्तमप्यूह्यम्” इत्याचक्षते; तन्नेच्छति गयी “येन क्षुद्ररोगसामान्यन्यायेनास्याः साप्तविध्यं न प्रपद्यते, न हि क्षुद्ररोगेषु कोऽपि व्याधिः पठितो यः प्रत्येकादिदोषजः, अपि च यद्याचार्यस्य साप्तविध्यमभिप्रेतं स्यात्तदा ‘दोषैः सप्तविधा तु सा’ इति पाठं कुर्यात्; तन्त्रान्तरे चेयं वातकफान्विता पठिता, तस्माद्वातकफाधिक्येन हीनपित्ततया अस्या उत्पत्तिर्ज्ञेया” इति||२४||-
Adhikarana 21 (25-27) · Śloka 28
प्राप्य मांससिरास्नायु श्लेष्मा मेदस्तथाऽनिलः ||२५||
ग्रन्थिं कुर्वन्ति भिन्नोऽसौ मधुसर्पिर्वसानिभम् |
स्रवत्यास्रावमत्यर्थं तत्र वृद्धिं गतोऽनिलः ||२६||
मांसं विशोष्य ग्रथितां शर्करां जनयेत् पुनः |
दुर्गन्धं क्लिन्नमत्यर्थं नानावर्णं ततः सिराः ||२७||
स्रवन्ति सहसा रक्तं तद्विद्याच्छर्करार्बुदम् |२८|
प्राप्येत्यादि| इयं शर्करासम्प्राप्तिरुक्ता, सा च शर्करा हेतुः शर्करार्बुदस्य| काठिन्यादेव शर्करासादृश्येन शर्करा| अत्यगाधोच्छ्रायाभ्यामर्बुदम्| नानावर्णं मधुघृतवसासन्निभम्| तत इत्यादि ततः शर्करायाः सिरा रक्तं स्रवन्तीत्यर्थः| केचित् शर्करा शर्करार्बुदं चेति व्याधिद्वयं वदन्ति; तन्नेच्छति गयी, सङ्ख्यातिरेकाच्छर्करायाः पृथक्त्वेनोक्तेरदर्शनाच्च||२५-२७||-
Adhikarana 22 (28) · Śloka 28
पामाविचर्च्यौ कुष्ठेषु रकसा च प्रकीर्तिता ||२८||
पामेत्यादि| कुष्ठेष्विति कुष्ठनिदाने इत्यर्थः||२८||
Adhikarana 23 (29) · Śloka 29
परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः |
पादयोः कुरुते दारीं सरुजां तलसंश्रितः ||२९||
परीत्यादि| परिक्रमणशीलस्य सर्वतो भ्रमणस्वभावस्य| दारीमिति विपादिकां; ‘विश्रावाकु’ इति लोके||२९||
Adhikarana 24 (30-31) · Śloka 31
शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः |
मेदोरक्तानुगैश्चैव दोषैर्वा जायते नृणाम् ||३०||
सकीलकठिनो ग्रन्थिर्निम्नमध्योन्नतोऽपि वा |
कोलमात्रः सरुक् स्रावी जायते कदरस्तु सः ||३१||
शर्करेत्यादि| शर्करा घटकर्परखण्डादयः, ताभिरुन्मथिते पीडिते| कीलेन सदृशं सकीलमित्यव्ययीभावः, सकीलं चासौ कठिनश्च सकीलकठिनः| ‘हस्तयोरपि’ इति भोजः||३०-३१||
Adhikarana 25 (32) · Śloka 32
क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहरुगन्वितौ |
दुष्टकर्दमसंस्पर्शादलसं तं विनिर्दिशेत् ||३२||
क्लिन्नेत्यादि| अयं कफेन सशोणितेन||३२||
Adhikarana 26 (33-34) · Śloka 34
रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम् |
प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः ||३३||
रुणद्धि रोमकूपांस्तु ततोऽन्येषामसम्भवः |
तदिन्द्रलुप्तं खालित्यं रुज्येति च विभाव्यते ||३४||
रोमकूपानुगमित्यादि| खालित्यं पुंसामेव न तु योषिताम्| तथाच विदेहः- “अत्यन्तसुकुमाराङ्ग्यो रजो दुष्टं स्रवन्ति च| अव्यायामरता यस्मात्तस्मान्न खलितिः स्त्रियाः” इति||३३-३४||
Adhikarana 27 (35) · Śloka 35
दारुणा कण्डुरा रूक्षा केशभूमिः प्रपाट्यते |
कफवातप्रकोपेण विद्याद्दारुणकं तु तम् ||३५||
दारुणेन्यादि| दारुणा कठिना| कण्डुरा कण्डूयुक्ता| प्रपाट्यते प्रकर्षेण पाट्यते | पित्तरुधिरयोरप्यनुबन्धो ज्ञेयः, विदेहवचनान्| दारुणकं ‘पहा ’ इति लोके||३५||
Adhikarana 28 (36) · Śloka 36
अरूंषि बहुवक्त्राणि बहुक्लेदीनि मूर्धनि |
कफासृक्कृमिकोपेन नृणां विद्यादरुंषिकाम् ||३६||
अरूंषीत्यादि| अरूंषि व्रणान्||३६||
Adhikarana 29 (37) · Śloka 37
क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः |
पित्तं च केशान् पचति पलितं तेन जायते ||३७||
क्रोधेत्यादि| क्रोधादिकृतेन शरीरोष्मणा शिरोगतेन वैकृतं, पित्तेन पुनः प्राकृतं पलितम्; अन्यथा पित्तोष्मणोरभेदात् पुनरुक्तिदोषः स्यात्; पञ्जिकाकारस्तु “शरीरोष्मा पावकः, पित्तं तदाश्रयः, एतौ पित्तपावकावेकीभूय केशान् पचतः; एतेन केवलोष्मकृतस्य वैकृतस्यादोषजप्रसङ्गो निराकृतः” इति मन्यते||३७||
Adhikarana 30 (38) · Śloka 38
दाहज्वररुजावन्तस्ताम्राः स्फोटाः सपीतकाः |
गात्रेषु वदने चान्तर्विज्ञेयास्ता मसूरिकाः ||३८||
दाहेत्यादि| ताम्रत्वेन शोणितानुबन्धोऽप्येषां; तथाहि तन्त्रान्तरं- “पित्तं शोणितसंसृष्टं यदा दूषयति त्वचम्| तदा करोति पिडकाः सर्वगात्रेषु देहिनः|| मसूरमुद्गमाषाणां तुल्याः कोलोपमा अपि| मसूरिकास्तु विज्ञेयाः पिडका रक्तपित्तजाः”- इति| एतासां ‘शीतलिका’ इति लोकाश्रया सञ्ज्ञा||३८||
Adhikarana 31 (39) · Śloka 39
शाल्मलीकण्टकप्रख्याः कफमारुतशोणितैः |
जायन्ते पिडका यूनां वक्त्रे या मुखदूषिकाः ||३९||
शाल्मलीत्यादि| शाल्मलीकण्टकप्रख्याः शाल्मलीकण्टकसदृशाः| यूनां तरुणानाम्||३९||
Adhikarana 32 (40) · Śloka 40
कण्टकैराचितं वृत्तं कण्डूमत् पाण्डुमण्डलम् |
पद्मिनीकण्टकप्रख्यैस्तदाख्यं कफवातजम् ||४०||
कण्टकैरित्यादि| पद्मिनीकण्टकप्रख्यैः पद्मिनीकण्टकसदृशैः| आचितं व्याप्तम्| तदाख्यं पद्मिनीकण्टकाख्यम्||४०||
Adhikarana 33 (41) · Śloka 41
नीरुजं सममुत्सन्नं मण्डलं कफरक्तजम् |
सहजं रक्तमीषच्च श्लक्ष्णं जतुमणिं विदुः ||४१||
नीरुजमित्यादि| समं सूक्ष्मम्| उत्सन्नमुन्नतम्| सहजं जन्मबलप्रवृत्तम्| श्लक्ष्णमकर्कशम्| जतुमणिः ‘जदुल’ इति लोकाश्रया तत्सञ्ज्ञा||४१||
Adhikarana 34 (42) · Śloka 42
अवेदनं स्थिरं चैव यस्य गात्रेषु दृश्यते |
माषवत्कृष्णमुत्सन्नमनिलान्मषकं वदेत् ||४२||
अवेदनमित्यादि| स्थिरं कठिनम्||४२||
Adhikarana 35 (43) · Śloka 43
कृष्णानि तिलमात्राणि नीरुजानि समानि च |
वातपित्तकफोच्छोषात्तान् विद्यात्तिलकालकान् ||४३||
कृष्णानीत्यादि| वातपित्तकफोच्छोषादिति वातपित्ताभ्यां कफस्य शोषादित्यर्थः| अन्ये तु “वातपित्तासृगुच्छोषात्” इति पठन्ति, व्याख्यानयन्ति च- वातपित्ताभ्यां रक्तस्य शोषादित्यर्थः; अत एव तिलकालके कार्ष्ण्यम्| ‘वातपित्तकफोद्रेकात्’ इति क्वचित् पाठः, तस्मिन् पाठे कफोद्रेकलक्षणं तिलकालके नास्ति||४३||
Adhikarana 36 (44) · Śloka 44
मण्डलं महदल्पं वा श्यामं वा यदि वा सितम् |
सहजं नीरुजं गात्रे न्यच्छमित्यभिधीयते ||४४||
मण्डलमित्यादि| सहजं जन्मबलप्रवृत्तम्| न्यच्छं लोका लाञ्छनमिति वदन्ति; पित्तरक्तान्वितो वायुरस्य कारणम्||४४||
Adhikarana 37 (45) · Śloka 45
समुत्थाननिदानाभ्यां चर्मकीलं प्रकीर्तितम् |४५|
समुत्थानेत्यादि| समुत्थानं सम्प्राप्तिः, निदानं हेतुलक्षणनिर्देशः| गयी तु समुत्थाननिदानाभ्यामित्यादि चर्मकीलप्रतिपादकं वाक्यमेव न पठति|४५|-
Adhikarana 38 (45-46) · Śloka 47
क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः ||४५||
सहसा मुखमागत्य मण्डलं विसृजत्यतः |
नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् ||४६||
कृष्णमेवङ्गुणं गात्रे मुखे वा नीलिकां विदुः |४७|
क्रोधेत्यादि| “व्यङ्गमेव स्थानान्तरेण वर्णान्तरेण च नीलिका” इत्यन्ये||४५-४६||-
Adhikarana 39 (47-49) · Śloka 50
मर्दनात् पीडनाच्चाति तथैवाप्यभिघाततः |
मेढ्रचर्म यदा वायुर्भजते सर्वतश्चरः ||४७||
तदा वातोपसृष्टं तु चर्म प्रतिनिवर्तते |
मणेरधस्तात् कोशश्च ग्रन्थिरूपेण लम्बते ||४८||
सवेदनः सदाहश्च पाकं च व्रजति क्वचित् |
मारुतागन्तुसम्भूतां विद्यात्तां परिवर्तिकाम् ||४९||
सकण्डूः कठिना चापि सैव श्लेष्मसमुत्थिता |५०|
मर्दनादित्यादि| अतीति मर्दनपीडनाभ्यां प्रत्येकं सम्बध्यते; सम्यक्कृतौ हि मर्दनपीडनौ वायुप्रशान्तिकरावेव भवतः| भजते आश्रयति| सर्वतश्चरो वायुर्व्यानः| चर्म प्रतिनिवर्तत इति मणिं विहाय सर्वतो व्याघुटतीत्यर्थः| कोशः चर्मकोशः| सैव परिवर्तिकेत्यर्थः||४७-४९||-
Adhikarana 40 (50-51) · Śloka 52
अल्पीयःखां यदा हर्षाद्बालां गच्छेत् स्त्रियं नरः ||५०||
हस्ताभिघातादथवा चर्मण्युद्वर्तिते बलात् |
मर्दनात्पीडनाद्वाऽपि शुक्रवेगविघाततः ||५१||
यस्यावपाट्यते चर्म तां विद्यादवपाटिकाम् |५२|
अल्पीयःखामित्यादि| अल्पीयःखाम् अल्पतरयोनिद्वाराम्| चर्मण्युद्वर्तिते उत्तानीभूय व्याघुटिते| यस्य चर्म मर्दनादिभिरवपाट्यते विदीर्यते तस्य तामवपाटिकां विद्यादित्यर्थः| चर्म कर्तृ| उद्वर्तते निश्चितमूर्ध्वं प्रवर्तत इत्यन्ये||५०-५१||-
Adhikarana 41 (52-54) · Śloka 54
वातोपसृष्टमेवं तु चर्म संश्रयते मणिम् ||५२||
मणिश्चर्मोपनद्धस्तु मूत्रस्रोतो रुणद्धि च |
निरुद्धप्रकशे तस्मिन्मन्दधारमवेदनम् ||५३||
मूत्रं प्रवर्तते जन्तोर्मणिर्न च विदीर्यते |
निरुद्धप्रकशं विद्याद्दुरूढां चावपाटिकाम् ||५४||
वातोपसृष्टमित्यादि| एवमिति मर्दनपीडनाभिघातादिनेत्यर्थः| संश्रयते समग्रं श्रयते| दुरूढां चावपाटिकामिति अवपाटिकाऽपि दुरूढा निरुद्धप्रकाशाख्यां लभते||५२-५४||
Adhikarana 42 (55-56) · Śloka 56
वेगसन्धारणाद्वायुर्विहतो गुदमाश्रितः |
निरुणद्धि महत्स्रोतः सूक्ष्मद्वारं करोति च ||५५||
मार्गस्य सौक्ष्म्यात् कृच्छ्रेण पुरीषं तस्य गच्छति |
सन्निरुद्धगुदं व्याधिमेनं विद्यात् सुदुस्तरम् ||५६||
वेगसन्धारणादित्यादि| विहतो निरुद्धगतिः| महत्स्रोतो गुदम्||५५-५६||
Adhikarana 43 (57-58) · Śloka 58
शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत् |
स्विन्नस्यास्नाप्यमानस्य कण्डू रक्तकफोद्भवा ||५७||
कण्डूयनात्ततः क्षिप्रं स्फोटाः स्रावश्च जायते |
एकीभूतं व्रणैर्घोरं तं विद्यादहिपूतनम् ||५८||
शकृदित्यादि| शकृन्मूत्रसमायुक्तेऽपाने गुदे, अधौते अक्रियमाणशौचे, शिशो रक्तकफोद्भवा कण्डूर्भवेदिति सम्बन्धः| कथम्भूतस्य? स्विन्नस्य अस्नाप्यमानस्य च| एकीभूतमपानं व्रणैः ‘सह’ इत्यध्याहार्यम्| अहिपूतनं कफरक्तजं ज्ञेयम्||५७-५८||
Adhikarana 44 (59-60) · Śloka 60
स्नानोत्सादनहीनस्य मलो वृषणसंश्रितः |
यदा प्रक्लिद्यते स्वेदात् कण्डूं सञ्जनयेत्तदा ||५९||
तत्र कण्डूयनात् क्षिप्रं स्फोटाः स्रावश्च जायते |
प्राहुर्वृषणकच्छूं तां श्लेष्मरक्तप्रकोपजाम् ||६०||
स्नानोत्सादनेत्यादि| उत्सादनम् उद्वर्तनम्||५९-६०||
Adhikarana 45 (61) · Śloka 61
प्रवाहणातिसाराभ्यां निर्गच्छति गुदं बहिः |
रूक्षदुर्बलदेहस्य तं गुदभ्रंशमादिशेत् ||६१||
प्रवाहणेत्यादि| प्रवाहणं प्रकर्षेण निर्वाहणम्| अयं वातकोपजः||६१||
Adhikarana puShpikA · Śloka 13
इति सुश्रुतसंहितायां निदानस्थाने क्षुद्ररोगनिदानं नाम त्रयोदशोऽध्यायः ||१३||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां निदानस्थाने त्रयोदशोऽध्यायः||१३||