Adhikarana 1 (1-4) · Śloka 5
अथातोऽष्टविधशस्त्रकर्मीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
छेद्या भगन्दरा ग्रन्थिः श्लैष्मिकस्तिलकालकः |
व्रणवर्त्मार्बुदान्यर्शश्चर्मकीलोऽस्थिमांसगम् ||३||
शल्यं जतुमणिर्मांससङ्घातो गलशुण्डिका |
स्नायुमांससिराकोथो वल्मीकं शतपोनकः ||४||
अध्रुषश्चोपदंशाश्च मांसकन्द्यधिमांसकः |५|
तत्र पूर्वं छेद्यकर्मण एव दर्शितत्वात्तद्भेदमेव दर्शयन्नाह- छेद्या भगन्दरा इत्यादि| ग्रन्थिः श्लैष्मिक इति आमो न तु पक्वः| तिलकालक इति क्षुद्ररोगपरिपठितः; न तु शूकदोषोक्तः, तस्यासाध्यत्वात्| व्रणवर्त्मेति क्लिन्नो व्रणौष्ठः| अर्बुदानि सर्वाणि| अर्शो वातिकं श्लैष्मिकं च| चर्मकील इति गुदपार्श्ववर्ती मांसाङ्कुरः| स्नाय्वादिभिः सह कोथशब्दः प्रत्येकं सम्बध्यते, कोथः पूतीभावः| शतपोनक इति शूकदोषपठितः; अन्ये तु “भगन्दरग्रहणेनाप्युपात्तस्य शतपोनकस्य पुनरुपादानमत्यन्तच्छेदनार्थम्, अनन्यप्रतीकारत्वात्”||१-४||
Adhikarana 2 (5-8) · Śloka 8
भेद्या विद्रधयोऽन्यत्र सर्वजाद्ग्रन्थयस्त्रयः ||५||
आदितो ये विसर्पाश्च वृद्धयः सविदारिकाः |
प्रमेहपिडकाः शोफः स्तनरोगोऽवमन्थकाः ||६||
कुम्भीकानुशयी नाड्यो वृन्दौ पुष्करिकाऽलजी |
प्रायशः क्षुद्ररोगाश्च पुप्पुटौ तालुदन्तजौ ||७||
तुण्डिकेरी गिलायुश्च पूर्वं ये च प्रपाकिणः |
बस्तिस्तथाऽश्मरीहेतोर्मेदोजा ये च केचन ||८||
भेद्यविषयं दर्शयन्नाह- भेद्या इत्यादि| ग्रन्थयस्त्रय इति वातपित्तकफजाः| आदितो ये विसर्पाश्चेति वातपित्तश्लेष्मजाः| विदारिका क्षुद्ररोगेषु| अवमन्थक इति शूकदोषेषु| वृन्दाविति एकवृन्दो वृन्दश्च कण्ठगतरोगेषु| पुष्करिका शूकदोषेषु| पुप्पुटौ तालुदन्तजाविति तालुपुप्पुटो दन्तपुप्पुटश्च| पूर्वं ये च प्रपाकिण इति भगन्दरादयः| बस्तिस्तथाऽश्मरीहेतोरिति अश्मरीनिमित्तमेव बस्तिर्भेद्यो नान्यहेतोः, अभेदे ध्रुवमरणाद्भेदे च संशयात्||५-८||
Adhikarana 3 (9) · Śloka 10
लेख्याश्चतस्रो रोहिण्यः किलासमुपजिह्विका |
मेदोजो दन्तवैदर्भो ग्रन्थिर्वर्त्माधिजिह्विका ||९||
अर्शांसि मण्डलं मांसकन्दी मांसोन्नतिस्तथा |१०|
लेख्यविषयं दर्शयन्नाह- लेख्याश्चतस्र इत्यादि| चतस्रो रोहिण्यः इति वातपित्तश्लेष्मसन्निपातोत्थाः, रक्तजाः पुनरेकान्तासाध्यत्वादिह नोक्ताः| वर्त्म इति व्रणवर्त्म नेत्रवर्त्म चेत्यर्थः| मण्डलं कण्डूकुष्ठादीनाम्| मांसकन्दी स्वल्पमांसाङ्कुरः||९||-
Adhikarana 4 (10) · Śloka 10
वेध्याः सिरा बहुविधा मूत्रवृद्धिर्दकोदरम् ||१०||
वेध्यविषयं दर्शयन्नाह- वेध्या इत्यादि||१०||
Adhikarana 5 (11) · Śloka 11
एष्या नाड्यः सशल्याश्च व्रणा उन्मार्गिणश्च ये |११|
एष्यविषयं दर्शयन्नाह- एष्या इत्यादि| एष्या इति लोहादिशलाकयाऽन्तरन्वेषणीया इत्यर्थः, शल्यस्थितिज्ञानार्थं, सुखेनापकर्षणाय च| उन्मार्गी तिर्यग्गतिः|११|-
Adhikarana 6 (11) · Śloka 12
आहार्याः शर्करास्तिस्रो दन्तकर्णमलोऽश्मरी ||११||
शल्यानि मूढगर्भाश्च वर्चश्च निचितं गुदे |१२|
आहार्यविषयं दर्शयन्नाह- आहार्या इत्यादि| आहार्या आकर्षणीयाः| शर्करास्तिस्र इति मूत्रशर्करा पादशर्करा दन्तशर्करा चेति||११||-
Adhikarana 7 (12-15) · Śloka 16
स्राव्या विद्रधयः पञ्च भवेयुः सर्वजादृते ||१२||
कुष्ठानि वायुः सरुजः शोफो यश्चैकदेशजः |
पाल्यामयाः श्लीपदानि विषजुष्टं च शोणितम् ||१३||
अर्बुदानि विसर्पाश्च ग्रन्थयश्चादितश्च ते |
त्रयस्त्रयश्चोपदंशाः स्तनरोगा विदारिका ||१४||
सु(शु)षिरो गलशालूकं कण्टकाः कृमिदन्तकः |
दन्तवेष्टः सोपकुशः शीतादो दन्तपुप्पुटः ||१५||
पित्तासृक्कफजाश्चौष्ठ्याः क्षुद्ररोगाश्च भूयशः |१६|
विस्राव्यविषयं दर्शयन्नाह- स्राव्या इत्यादि||१२-१५||-
Adhikarana 8 (16) · Śloka 17
सीव्या मेदःसमुत्थाश्च भिन्नाः सुलिखिता गदाः ||१६||
सद्योव्रणाश्च ये चैव चलसन्धिव्यपाश्रिताः |१७|
सीव्यविषयं दर्शयन्नाह- सीव्या इत्यादि| मेदःसमुत्था इति ये केचन मेदोभवविकाराः| भिन्ना इति विदीर्णा इत्यर्थः| सुलिखिता गदा इति निरवशेषलिखिता इत्यर्थः| व्यपाश्रिता इति विशेषेणाश्रिता इत्यर्थः| ‘साध्याः’ इति केचित् पठन्ति||१६||-
Adhikarana 9 (17) · Śloka 18
न क्षाराग्निविषैर्जुष्टा न च मारुतवाहिनः ||१७||
नान्तर्लोहितशल्याश्च... |१८|
अथ के न सीव्या इत्याह- न क्षारेत्यादि||१७||
Adhikarana 10 (18) · Śloka 18
... तेषु सम्यग्विशोधनम् |१८|
तेषु किं कर्तव्यमित्याह- तेष्वित्यादि|१८|-
Adhikarana 11 (18-19) · Śloka 19
पांशुरोमनखादीनि चलमस्थि भवेच्च यत् ||१८||
अहृतानि यतोऽमूनि पाचयेयुर्भृशं व्रणम् |
रुजश्च विविधाः कुर्युस्तस्मादेतान् विशोधयेत् ||१९||
कान् विशोधयेदित्याह- पांश्वित्यादि| अन्ये ‘तृणादीनि’ इति पठन्ति| कस्मादेते विशोध्या इत्याह- अहृतानीत्यादि||१८-१९||
Adhikarana 12 (20-26) · Śloka 26
ततो व्रणं समुन्नम्य स्थापयित्वा यथास्थितम् |
सीव्येत् सूक्ष्मेण सूत्रेण वल्केनाश्मन्तकस्य वा ||२०||
शणजक्षौमसूत्राभ्यां स्नाय्वा बालेन वा पुनः |
मूर्वागुडूचीतानैर्वा सीव्येद्वेल्लितकं शनैः ||२१||
सीव्येद्गोफणिकां वाऽपि सीव्येद्वा तुन्नसेवनीम् |
ऋजुग्रन्थिमथो वाऽपि यथायोगमथापि वा ||२२||
देशेऽल्पमांसे सन्धौ च सूची वृत्ताऽङ्गुलद्वयम् |
आयता त्र्यङ्गुला त्र्यस्रा मांसले चाऽपि पूजिता ||२३||
धनुर्वक्रा हिता मर्मफलकोशोदरोपरि |
इत्येतास्त्रिविधाः सूचीस्तीक्ष्णाग्राः सुसमाहिताः ||२४||
कारयेन्मालतीपुष्पवृन्ताग्रपरिमण्डलाः |
नातिदूरे निकृष्टे वा सूचीं कर्मणि पातयेत् ||२५||
दूराद्रुजो व्रणौष्ठस्य सन्निकृष्टेऽवलुञ्चनम् ||२६||
तत्र सप्तानां छेद्यादिकर्मणामवचारणस्यान्यत्र दर्शितत्वात् सीव्यस्य पुनरत्रैव विस्तरेण निर्दिशन्नाह- ततो व्रणमित्यादि| समुन्नम्य उन्नतं कृत्वा| अश्मन्तकः अम्ललोटकसदृशो वृक्षः| क्षौममिति क्षुमा अतसी तस्या इदं क्षौमम्| स्नायुरिति शणाकार उपधातुविशेषः, येन धनूंषि नह्यन्ते| मूर्वा चौरस्नायुः, यया पूर्वदेशे गुणान् कुर्वन्ति धनुषाम्| अन्ये कोविदारसदृशयुग्मपत्रां लताविशेषां मूर्वामाचक्षते| तानैरिति तन्तुभिरित्यर्थः| वेल्लितकं वक्रम्| गोफणिकां गोफणाकाराम्| तुन्नसेवनीमिति यथा वस्त्रं पाटितं तन्तुवायकाः सन्दधति तद्वत्तुन्नसेवनीं सीव्येत्| ऋजुग्रन्थिमिति ऋजुग्रन्थेः सदृशो बन्धो यस्यां सेवन्यां सा ऋजुग्रन्थिः| त्र्यस्रेति त्रिधारेत्यर्थः| फलकोषः अण्डकोषः| सुसमाहिताः इति सुहस्ता इत्यर्थः| परिमण्डला इति वर्तुला इत्यर्थः| सन्निकृष्टे निकट इत्यर्थः| अवलुच्चनमिति त्रुटनमित्यर्थः||२०-२६||-
Adhikarana 13 (27-28) · Śloka 28
अथ क्षौमपिचुच्छन्नं सुस्यूतं प्रतिसारयेत् |
प्रियङ्ग्वञ्जनयष्ट्याह्वरोध्रचूर्णैः समन्ततः ||२७||
शल्लकीफलचूर्णैर्वा क्षौमध्यामेन वा पुनः |
ततो व्रणं यथायोगं बद्ध्वाऽऽचारिकमादिशेत् ||२८||
सीवनस्य पश्चात्कर्म दर्शयन्नाह- अथ क्षौमेत्यादि| क्षौमेण अतसीवस्त्रेण, पिचुना कार्पासतूलेन, आभ्यां द्वाभ्यां छन्नमित्यर्थः| सुस्यूतमिति ‘सम्यक्सीवितम्’ इति लोके| प्रतिसारयेत् अवचूर्णयेदित्यर्थः| अवचूर्णनद्रव्याण्याह- प्रियङ्ग्वञ्जनेत्यादि| अञ्जनं सौवीराञ्जनम्| समन्तत इति सर्वत्रेत्यर्थः| क्षौमध्यामेनेति अतसीभववस्त्रभस्मना| आचारिकमादिशेदिति व्रणितोपासनीयोक्तमाचारं कथयेदित्यर्थः| केचिदिह छेद्यादीनि गद्येनैव पठन्ति यावत् ‘बद्ध्वाऽऽचारिकमादिशेत्’ इति||२७-२८||
Adhikarana 14 (29) · Śloka 29
एतदष्टविधं कर्म समासेन प्रकीर्तितम् |
चिकित्सितेषु कार्त्स्न्येन विस्तरस्तस्य वक्ष्यते ||२९||
सङ्क्षेपोक्तिरियं, विस्तरोऽस्य वक्ष्यत इति दर्शयन्नाह- एतदित्यादि| अष्टग्रहणं पुनर्यदिह कृतं तच्चरकोक्तषट्सङ्ख्यानिराकरणार्थम् ||२९||
Adhikarana 15 (30) · Śloka 30
हीनातिरिक्तं तिर्यक् च गात्रच्छेदनमात्मनः |
एताश्चतस्रोऽष्टविधे कर्मणि व्यापदः स्मृताः ||३०||
तत्राष्टानामपि कर्मणां व्यापदं दर्शयन्नाह- हीनातिरिक्तमित्यादि| गात्रच्छेदनमात्मनः इति शस्त्रकर्म कुर्वतः स्वशरीर छेदनमित्यर्थः| चतस्रो व्यापद इति; अन्ये तु ‘एता हि तिस्र’ इति पठन्ति; स तु प्रमादपाठः||३०||
Adhikarana 16 (31) · Śloka 31
अज्ञानलोभाहितवाक्ययोगभयप्रमोहैरपरैश्च भावैः |
यदा प्रयुञ्जीत भिषक् कुशस्त्रं तदा स शेषान् कुरुते विकारान् ||३१||
व्यापदो हेतून् दर्शयन्नाह- अज्ञानेत्यादि| अहितवाक्ययोगः शत्रुवचनप्रयोगः| प्रमोहे वैचित्त्यम् | अपरैश्च भावैरिति प्रयोजनव्यग्रत्वादिभिरित्यर्थः| कुशस्त्रमिति ईषच्छस्त्रम्| स शेषानिति स इति वैद्यः शेषान् अपरानित्यर्थः||३१||
Adhikarana 17 (32) · Śloka 32
तं क्षारशस्त्राग्निभिरौषधैश्च भूयोऽभियुञ्जानमयुक्तियुक्तम् |
जिजीविषुर्दूरत एव वैद्यं विवर्जयेदुग्रविषाहितुल्यम् ||३२||
प्रागुक्ताज्ञानादिदोषदूषितं वैद्यं प्रत्यातुरः किं कुर्यादित्याह- तं क्षारशस्त्राग्निभिरित्यादि| तं तथाविधं भिषक्छद्मचरम्| अयुक्तियुक्तं यथा भवतीत्यर्थः| जिजीविषुः जीवितुमिच्छुः| दूरत एव वैद्यं विवर्जयेदिति तस्मै दर्शनमपि न दद्यात्||३२||
Adhikarana 18 (33) · Śloka 33
तदेव युक्तं त्वति मर्मसन्धीन् हिंस्यात् सिराः स्नायुमथास्थि चैव |
मूर्खप्रयुक्तं पुरुषं क्षणेन प्राणैर्वियुञ्ज्यादथवा कदाचित् ||३३||
हीनव्यापदमभिधायातिरिक्तशस्त्रव्यापदं दर्शयन्नाह- तदेवेत्यादि|- तदेव शस्त्रं, युक्तं प्रयुक्तं, तु पुनरर्थे, अतीति अतिशयेन, प्राणैर्वियुञ्ज्यादिति प्राणैः सह वियोगं कारयेदित्यर्थः||३३||
Adhikarana 19 (34-35) · Śloka 35
भ्रमः प्रलापः पतनं प्रमोहो विचेष्टनं संलयनोष्णते च |
स्रस्ताङ्गता मूर्च्छनमूर्ध्ववातस्तीव्रा रुजो वातकृताश्च तास्ताः ||३४||
मांसोदकाभं रुधिरं च गच्छेत् सर्वेन्द्रियार्थोपरमस्तथैव |
दशार्धसङ्ख्येष्वपि विक्षतेषु सामान्यतो मर्मसु लिङ्गमुक्तम् ||३५||
मर्मसन्धिसिरास्नाय्वस्थिपञ्चानां छेदनात् पञ्चप्रकारामतिरिक्तशस्त्रव्यापदं दर्शयित्वेदानीं तेष्वेव मर्मादिषु विद्धेषु यानि लिङ्गानि भवन्ति तानि सामान्येन दर्शयन्नाह- भ्रम इत्यादि|- भ्रमः चक्रारूढस्येव| प्रलापः असम्बद्धभाषणम्| पतनम् अनूर्ध्वस्थितिः| प्रमोहः नैवात्यन्तं चित्तनाशः| विचेष्टनं विगतकायपरिस्पन्दनम्| संलयनं सुषुप्तावस्थस्येव चित्तस्याकर्मण्यता| उष्णता शरीरस्य परितापः| स्रस्ताङ्गता शरीरशैथिल्यम्| मूर्च्छनं चेतनाच्युतिः| ऊर्ध्ववात इति श्वासोऽत्राभिप्रेतो न रोगविशेषः| मांसोदकाभं मांसधावनजलसदृशम्| उपरमो निवृत्तिः| दशार्धसङ्ख्येष्विति ‘तदेव युक्तं’ इत्यादिश्लोकोक्तेषु मर्मसन्धिशिरास्नाय्वस्थिषु पञ्चसु क्षतेषु विद्धेषु||३४-३५||
Adhikarana 20 (36-39) · Śloka 39
सुरेन्द्रगोपप्रतिमं प्रभूतं रक्तं स्रवेद्वै क्षततश्च वायुः |
करोति रोगान् विविधान् यथोक्तांश्छिन्नासु भिन्नास्वथवा सिरासु ||३६||
कौब्ज्यं शरीरावयवावसादः क्रियास्वशक्तिस्तुमुला रुजश्च |
चिराद्व्र्रणो रोहति यस्य चापि तं स्नायुविद्धं मनुजं व्यवस्येत् ||३७||
शोफातिवृद्धिस्तुमुला रुजश्च बलक्षयः पर्वसु भेदशोफौ |
क्षतेषु सन्धिष्वचलाचलेषु स्यात् सन्धिकर्मोपरतिश्च लिङ्गम् ||३८||
घोरा रुजो यस्य निशादिनेषु सर्वास्ववस्थासु न शान्तिरस्ति |
तृष्णाङ्गसादौ श्वयथुश्च रुक् च तमस्थिविद्धं मनुजं व्यवस्येत् ||३९||
अमर्मविद्धसिरादिलिङ्गं दर्शयन्नाह- सुरेन्दत्यादि| सुरेन्द्रगोपप्रतिममिति इन्द्रगोपकीटसन्निभमित्यर्थः| यथोक्तानिति शोणितवर्णनीयोक्तशिरोरोगाधिमन्थादीन्| कौब्ज्यमित्यादि कौब्ज्यमिति अन्तर्बहिरायामजं द्विधा| अवयवावसाद इति अवयवस्य स्वकर्मण्यसामर्थ्यम्| क्रियास्वशक्तिरिति सामान्येन सर्वशरीरस्य, क्रियाश्चात्रोत्क्षेपणापक्षेपणप्रसारणाकुञ्चनलक्षणाः| तुमुला गहनाः; अन्ये तु “वातपित्तश्लेष्मजनिता एकत्र व्याकुलीभूतवेदनास्तुमुला उच्यन्ते” इति वदन्ति| व्यवस्येत् जानीयादित्यर्थः| शोफातिवृद्धिरित्यादि शोफः प्रसिद्धः| पर्वस्विति सन्धिषु| भेदः स्फुटनमिव| चलेष्विति शाखाहनुकरग्रीवासु चलाः सन्धयः||३६-३९||
Adhikarana 21 (40) · Śloka 40
यथास्वमेतानि विभावयेच्च लिङ्गानि मर्मस्वभिताडितेषु |४०|
सिरादीनां मर्मरहितानां विद्धलक्षणमभिधाय सिरादिमर्मविद्धलक्षणमतिदेशेन दर्शयन्नाह- यथास्वमित्यादि| चकारोऽयं भिन्नक्रमे एतानि चेत्यत्र द्रष्टव्यः, तेन न केवलं भ्रमप्रलापादीनि पूर्वोक्तानि , किन्तु अवमर्मविद्धसिरादिलिङ्गान्यपि यथास्वं बोद्धव्यानीत्यर्थः|४०|-
Adhikarana 22 (40) · Śloka 40
स्पर्शं न जानाति विपाण्डुवर्णो यो मांसमर्मण्यभिताडितः स्यात् ||४०||
अनुक्तस्य मांसस्य मर्मविद्धलक्षणं दर्शयन्नाह- स्पर्शमित्यादि| सिरादिवन्मांसमपि पूर्वं कुतो न निर्दिष्टमिति चेत्? केवलमांसविद्धस्याव्यापकत्वात्| केचिदाचार्या भ्रमप्रलापादीनि लिङ्गानि सद्यःप्राणहरादीनां मर्मणां मन्यन्ते, अत एव तेषां मते दशार्धसङ्ख्येष्वित्यत्र सद्यःप्राणहरकालान्तरप्राणहरविशल्यप्राणहरवैकल्यकररुजाकराख्येषु पञ्चसु मर्मस्विति व्याख्यानं, तथा तेषां मते यानि सिरादीनां ‘सुरेन्द्रगोपप्रतिमां’ इत्यादिलक्षणान्युक्तानि तान्यपि सिरादिमर्मविद्धेषु ज्ञातव्यानि, न पुनर्मर्मरहितसिरादिविद्धेषु, अत एव तेषां मते ‘यथास्वमेतानि विभावयेच्च’ इत्यत्र न चकारार्थं कथयन्ति, किन्तु सुरेन्द्रगोपप्रतिममित्याद्युक्तलक्षणेष्वन्तर्भावयन्ति यथास्वमित्यादिपाठम्||४०||
Adhikarana 23 (41) · Śloka 41
आत्मानमेवाथ जघन्यकारी शस्त्रेण यो हन्ति हि कर्म कुर्वन् |
तमात्मवानात्महनं कुवैद्यं विवर्जयेदायुरभीप्समानः ||४१||
अतिरिक्तशस्त्रव्यापदमभिधाय वैद्यस्यैवात्मगात्रच्छेदनव्यापदं दर्शयन्नाह- आत्मानमेवेत्यादि| आत्मानमेवेति स्वाङ्गमेवेत्यर्थः; शस्त्रग्रहणधारणावचारणानभिज्ञत्वाद्धिनस्तीत्यर्थः| जघन्यकारी अतिहीनकर्मकारी| तं तथाविधं कुवैद्यम्| आत्मवान् बुद्धिमान्, ‘आतुर’ इति शेषः| आत्महनम् आत्मच्छेदिनम्, आत्मतुदम् इति केचित् पठन्ति| आयुः जीवितम्||४१||
Adhikarana 24 (42) · Śloka 42
तिर्यक् प्रणिहिते शस्त्रे दोषाः पूर्वमुदाहृताः |
तस्मात् परिहरन् दोषान् कुर्याच्छस्त्रनिपातनम् ||४२||
तिर्यक्शस्त्रप्रणिधानकर्मव्यापदं दर्शयन्नाह- तिर्यक्प्रणिहित इत्यादि| दोषाः पूर्वमुदाहृता इति अग्रोपहरणीयाध्याये ‘सिरास्नायुच्छेदनम्’ (सू. अ.५) इत्यादयो दोषाः| दोषपरिहारं दर्शयन्नाह- तस्मादित्यादि||४२||
Adhikarana 25 (43) · Śloka 44
मातरं पितरं पुत्रान् बान्धवानपि चातुरः |
अप्येतानभिशङ्केत वैद्ये विश्वासमेति च ||४३||
विसृजत्यात्मनाऽऽत्मानं न चैनं परिशङ्कते |४४|
इदानीं वैद्यं प्रत्यातुरेण किं कर्तव्यमित्याह- मातरमित्यादि| अत्र श्लोके प्रथमोऽपिशब्दः समुच्चये, द्वितीयस्तु सम्भावनायाम्| विसृजति ददाति| आत्मना स्वयमेव| आत्मानं शरीरम्| एनं वैद्यम्||४३||-
Adhikarana 26 (44) · Śloka 44
तस्मात् पुत्रवदेवैनं पालयेदातुरं भिषक् ||४४||
वैद्येनैवंविधे आतुरे विश्वस्ते यत् कर्तव्यं तदाह- तस्मादित्यादि| एमातुरमित्यत्र सम्बन्धः| साध्वेकपुत्रवत् पालयेदित्यर्थः||४४||
Adhikarana 27 (45) · Śloka 45
धर्मार्थौ कीर्तिमित्यर्थं सतां ग्रहणमुत्तमम् |
प्राप्नुयात् स्वर्गवासं च हितमारभ्य कर्मणा ||४५||
सम्यक्पालने महदेव फलं भवतीति दर्शयन्नाह- धर्मार्थावित्यादि| सतां ग्रहणमुत्तममिति शिष्टानां मध्ये ग्रहणमुपादानमुत्तमं भवतीत्यर्थः||४५||
Adhikarana 28 (46) · Śloka 46
कर्मणा कश्चिदेकेन द्वाभ्यां कश्चित्त्रिभिस्तथा |
विकारः साध्यते कश्चिच्चतुर्भिरपि कर्मभिः ||४६||
साध्योऽपि व्याधिरनेककर्मसाध्यो भवतीति दर्शयन्नाह- कर्मणेत्यादि| कर्मणेति छेद्यादिकेन स्नेहादिकेन वा; अपिशब्दात् पञ्चादिभिरपि| केचित् ‘धर्मार्थौ’ इत्यादिश्लोकमध्यायान्ते पठन्ति||४६||
Adhikarana puShpikA · Śloka 25
इति सुश्रुतसंहितायां सूत्रस्थानेऽष्टविधशस्त्रकर्मीयो नाम पञ्चविंशोऽध्यायः ||२५||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने पञ्चविंशतितमोऽध्यायः||२५||