Adhikarana 1 (1-2) · Śloka 2
अथातः प्रनष्टशल्यविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथातः प्रनष्टशल्येत्यादि||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातः प्रनष्टशल्यविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथातः प्रनष्टशल्येत्यादि||१-२||
Adhikarana 2 (3) · Śloka 3
‘शल’ ‘श्वल’ आशुगमने धातूः; तयोराद्यस्य शल्यमिति रूपम् ||३||
🔊 Audio coming soon
तत्र शल्यस्य स्वकीयलक्षणबोधार्थं निरुक्तिं दर्शयन्नाह- शलेत्यादि| ‘शल’ ‘श्वल’ आशुगमन इति ‘शल’ ‘श्वल’ आशुगतौ धातूअनयोराशुगमनमित्यर्थः, तयोराद्यस्य शलधातोः शल्यमिति रूपं निष्पद्यत इत्यर्थः; ‘शल’ हिंसायां धातुः तस्य शल्यमिति रूपम इति केचित् पठन्ति; अपरे ‘शल’ ‘रुजायाम्’ इति पठन्ति||३||
Adhikarana 3 (4) · Śloka 4
तद्द्विविधं शारीरमागन्तुकं च ||४||
🔊 Audio coming soon
तस्य चिकित्सोपयोगिभेदं दर्शयन्नाह- तदवित्यादि||४||
Adhikarana 4 (5) · Śloka 5
सर्वशरीराबाधकरं शल्यं, तदिहोपदिश्यत इत्यतः शल्यशास्त्रम् ||५||
🔊 Audio coming soon
कथं पुनः शल्यशास्त्रमेतदुच्यत इत्याह- सर्वशरीरेत्यादि|- सर्वशरीरे येन अबाधा भवति तत् शल्यं; तदिहोपदिश्यते कथ्यतेऽतः, शल्यशास्त्रमेतदित्यर्थः||५||
Adhikarana 5 (6) · Śloka 6
तत्र शारीरं दन्तरोमनखादि धातवोऽन्नमला दोषाश्च दुष्टाः; आगन्त्वपि शारीरशल्यव्यतिरेकेण यावन्तो भावा दुःखमुत्पादयन्ति ||६||
🔊 Audio coming soon
शारीरागन्तुकयोर्भेदमाह- तत्रेत्यादि| आदिशब्दात् कैश्चित् श्मश्रुपूयपक्ष्माणि गृह्यन्ते| धातवो रसादयः; मला मूत्रपुरीषकर्णमलस्वेदनेत्रविट्प्रभृतयः, दोषा वातादयः| परमेते धात्वन्नदोषा दुष्टाः सन्तः शल्यभूताः; अमुमेवार्थं केचिद्दुष्टाश्चेति चकारात् कथयन्ति| धातवोऽन्नमला इत्याद्यसमस्तानां पृथगुपादानं यत् कृतं तदुपधातुग्रहणार्थम्| आगन्तुशल्यं प्रतिपादयन्नाह- आगन्त्वपीत्यादि| भावा इति पदार्थातृणकाष्ठपाषाणलोहलोष्ट्रप्रभृतयः||६||
Adhikarana 6 (7) · Śloka 7
अधिकारो हि लोहवेणुवृक्षतृणशृङ्गास्थिमयेषु; तत्रापि विशेषतो लोहेष्वेव , विशसनार्थोपपन्नत्वाल्लोहस्य; लोहानामपि दुर्वारत्वादणुमुखत्वाद्दूरप्रयोजनकरत्वाच्च शर एवाधिकृतः | स च द्विविधः कर्णी , श्लक्ष्णश्च; प्रायेण विविधवृक्षपत्रपुष्पफलतुल्याकृतयो व्याख्याताः, व्यालमृगपक्षिवक्रसदृशाश्च ||७||
🔊 Audio coming soon
तत्रापि प्रसिद्धशल्यभेदान् दर्शयितुमाह- अधिकारो हीत्यादि| अधिकारो योग्यत्वं शल्यत्वेन लोहादिषु| लोहादिभिर्मयशब्दः प्रत्येकं सम्बध्यते| तेषां मध्ये लौहस्य प्राधान्यं दर्शयन्नाह- तत्रापीति; तेषामपि मध्ये| विशेषत अतिशयेन| लोहेष्वेवेति ‘अधिकारः’ इत्यनुवर्तते| कथं पुनर्लोहेष्वेवाधिकार इत्यत्र हेतुमाह- विशसनार्थोपपन्नत्वाल्लोहस्येति; मारणार्थुयुक्तत्वाल्लोहस्येत्यर्थः| लोहेष्वपि कुन्तादिभेदेनानेकप्रकारेषु शरस्यैव प्राधान्यं दर्शयन्नाह- लोहानामित्यादि|- लोहादीनामपि कुन्तादीनामपि मध्य इत्यर्थः| शरः काण्डः, अधिकृत इति योग्य इत्यर्थः| अन्ये तु ‘दुर्वारत्वात्’ इत्यत्र ‘निर्वाहित्वात् ’ इति पठन्ति, व्याख्यानयन्ति च- देशाद्देशान्तरप्रापणशीलत्वादित्यर्थः; अन्ये तु ‘निर्वासित्वात्’ इति पठन्ति, तत्रापि स एवार्थः| तस्य शरस्यापहरणोपयोगिभेदं दर्शयन्नाह- कर्णीत्यादि|- कर्णीति कर्णयुक्तः, श्लक्ष्णः अकर्ण इत्यर्थः| ‘कर्णवान’ इत्यन्ये पठन्ति, तत्रापि स एवार्थः| तदाकृतीनामानन्त्येन दर्शयितुमशक्यत्वात् सङ्क्षेपेण सदृशनानाविधवस्त्वाकृतिसारूप्येण दर्शयन्नाह- प्रायेणेत्यादि| प्रायेणेति बाहुल्येनेत्यर्थः| विविधवृक्षपत्राकृतयः पिप्पलपत्रकरवीरपत्राद्याकाराः, पुष्पाकृतयो मालतीकुमुदोत्पलपत्राद्याकाराः, फलाकृतय एलाद्याकाराः| सिंहव्याघ्रादिमुखसदृशाः सर्पफणाकारा वा; मृगवक्त्रसदृशाः श्रुगालमार्जारादिमुखसमानाः; पक्षिवक्त्रसदृशाः काककङ्कादिवक्त्रसदृशाः ||७||
Adhikarana 7 (8) · Śloka 8
सर्वशल्यानां तु महतामणूनां वा पञ्चविधो गतिविशेष ऊर्ध्वमधोऽर्वाचीनस्तिर्यगृजुरिति ||८||
🔊 Audio coming soon
शराणामाहरणोपयोगिगतिभेदान् दर्शयितुमाह- सर्वशल्यानामित्यादि| तत्र, ऊर्ध्वगतिविशेषोऽधस्तादागतस्य शरस्य, अधोगतिविशेष उपरिष्टादागतस्य शरस्य, अर्वाचीनगतिविशेषः पश्चादागतस्य शरस्य, तिर्यग्गतिविशेषः पार्श्वाभ्यामागतस्य शरस्य, ऋजुगतिविशेषोऽग्रदेशादागतस्य शरस्य| अन्ये तु व्यत्ययेन पञ्चगतिपाठं पठन्ति, किञ्चिदन्यथा व्याख्यानयन्ति; तच्चास्माभिर्विस्तरभयान्न लिखितम्| अन्ये तु ‘शरीरे सर्वशल्यानां’ इत्यादिपाठं पठन्ति||८||
Adhikarana 8 (9) · Śloka 9
तानि वेगक्षयात् प्रतिघाताद्वा त्वगादिषु व्रणवस्तुष्वतिष्ठन्ते, धमनीस्रोतोऽस्थिविवरपेशीप्रभृतिषु वा शरीरप्रदेशेषु ||९||
🔊 Audio coming soon
यथा शल्यानि शरीरे स्थितिं कुर्वन्ति तथा हेतुं दर्शयन्नाह- तानीत्यादि| तानि शल्यानि मर्मावरणेषु सन्नाहादिषु प्रतिघाताद्वेगनिवृत्तेरित्यर्थः| त्वगादिष्वित्यत्रादिशब्दान्मांससिरास्नायुसन्धिकोष्ठास्थिमर्माणि गृह्यन्ते| अवतिष्ठन्त इति ‘शल्यानि’ इति शेषः| शल्यावस्थाने त्वगादिभ्योऽधिकमपि स्थानं सम्भवतीति पक्षान्तरमाह- धमनीत्यादि| धमन्यादिभिस्त्रिभिः सह विवरशब्दः प्रत्येकमभिसम्बध्यते; विवरं छिद्रं, पेशी मांसखण्डः, वाशब्देन पक्षान्तरं सूचयति| शरीरप्रदेशेष्विति धमन्यादय एव शरीरप्रदेशास्तेष्वित्यर्थः| अवतिष्ठन्ते शल्यानीति सम्बध्यते||९||
Adhikarana 9 (10) · Śloka 10
तत्र शल्यलक्षणमुच्यमानमुपधारय | तद्द्विधं सामान्यं वैशेषिकं च | श्यावं पिडकाचितं शोफवेदनावन्तं मुहुर्मुहुः शोणितास्राविणं बुद्बुदवदुन्नतं मृदुमांसं च व्रणं जानीयात् सशल्योऽयमिति; सामान्यमेतल्लक्षणमुक्तम् | वैशेषिकं तु- त्वग्गते विवर्णः शोफो भवत्यायतः कठिनश्च; मांसगते शोफाभि(ति)वृद्धिः शल्यमार्गानुपसंरोहः पीडनासहिष्णुता चोषपाकौ च; पेश्यन्तरस्थेऽप्येतदेव चोषशोफवर्जं; सिरागते सिराध्मानं सिराशूलं सिराशोफश्च; स्नायुगते स्नायुजालोत्क्षेपणं संरम्भश्चोग्रा रुक् च; स्रोतोगते स्रोतसां स्वकर्मगुणहानिः; धमनीस्थे सफेनं रक्तमीरयन्ननिलः सशब्दो निर्गच्छत्यङ्गमर्दः पिपासा हृल्लासश्च; अस्थिगते विविधवेदनाप्रादुर्भावः शोफश्च; अस्थिविवरगतेऽस्थिपूर्णताऽस्थितोदः संहर्षो बलवांश्च; सन्धिगतेऽस्थिवच्चेष्टोपरमश्च; कोष्ठगत आटोपानाहौ मूत्रपुरीषाहारदर्शनं च व्रणमुखात्; मर्मगते मर्मविद्धवच्चेष्टते | सूक्ष्मगतिषु शल्येष्वेतान्येव लक्षणान्यस्पष्टानि भवन्ति ||१०||
🔊 Audio coming soon
त्वगादिशल्यानां लक्षणानि निर्दिशन्नाह- तत्रेत्यादि| तत्र तेषु त्वगादिष्वित्यर्थः| लक्षणं चिह्नम्| उपधारय शृणु| तत्र प्रथमं सामान्यलक्षणमाह- श्यावमित्यादि| पिडकाचितमिति पिडकाव्याप्तम्|| सामान्यमभिधाय वैशेषिकं लक्षणमाह- वैशेषिकमित्यादि| चोषः चूष्यत इव वेदनाविशेषः, पिपासेत्यन्ये| चोषशोफवर्जं पाकाभावात्| स्नायुगत इत्यादि| स्नायुजालोत्क्षेपणं स्नायुसमूहस्योर्ध्वं नयनं, संरम्भः श्वयथुः| स्रोतसां स्वकर्मगुणहानिरिति रसादिवहानां स्रोतसां रसादिवहनादिकर्म, गुणाः पुनरेषां वातादिवहानामरुणपीतसितरक्तादयो वर्णाः, तेषां हानिरित्यर्थः| धमनीस्थ इत्यादि| अङ्गमर्दः स्फुटनिका, हृल्लासः असकृत्ष्ठीवनम्| संहर्ष इति मारुतोपद्रवो रोमाञ्चप्रायो वेदनाविशेषः ‘संहर्षः सङ्घटनम्’ इत्यन्ये| चेष्टोपरम इति आकुञ्चनप्रसारणादिहानिः| कोष्ठगते इत्यादि| आटोपः सतोदो वातसङ्क्षोभः, आनाहो वातमूत्रपुरीषादिनिरोधः| मर्मविद्धवत् चेष्टते इति सिरादिमर्मविद्धे यानि लिङ्गानि भवन्ति तानीत्यर्थः; चेष्टते चेष्टां कुरुते| स्थूलशल्यानां लक्षणमभिधाय सूक्ष्मशल्यलक्षणमाह- सूक्ष्मगतिषु शल्येष्विति| अस्पष्टानि इति अस्फुटानीत्यर्थः||१०||
Adhikarana 10 (11) · Śloka 11
महान्त्यल्पानि वा शुद्धदेहानामनुलोमसन्निविष्टानि रोहन्ति विशेषतः कण्ठस्रोतःसिरात्वक्पेश्यस्थिविवरेषः | दोषप्रकोपव्यायामाभिघाताजीर्णेभ्यः प्रचलितानि पुनर्बाधन्ते ||११||
🔊 Audio coming soon
इदानीं शल्यप्रनष्टस्य हेतुं दर्शयन्नाह- महान्तीत्यादि| शुद्धदेहानामिति वाताद्यदूषितदेहानां पाकाभावाद्रोहन्तीत्यर्थः| अनुलोमसन्निविष्टानीति रोममानुकूल्येन प्रविष्टानीत्यर्थः| विशेषतः इत्यतिशयेन, कण्ठादिषु प्रविष्टानि शल्यानि ‘रोहन्ति' इति शेषः| केचित् ‘महान्ति’ इत्यत्र स्थाने ‘मृदून्यल्पानि’ इति पाठं पठन्ति| यदि रूढान्यप्यदोषकराणि तत् किं तेषां विज्ञानेनाहरणेन चेत्याह- दोषप्रकोपेत्यादि||११||
Adhikarana 11 (12) · Śloka 12
तत्र, त्वक्प्रनष्टे स्निग्धस्विन्नायां मृन्माषयवगोधूमगोमयमृदितायां त्वचि यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात्, स्त्यानघृतमृच्चन्दनकल्कैर्वा प्रदिग्धायां शल्योष्मणाऽऽशु विसरति घृतमुपशुष्यति चालेपो यत्र तत्र शल्यं विजानीयात्; मांसप्रनष्टे स्नेहस्वेदादिभिः क्रियाविशेषैरविरुद्धैरातुरमुपपादयेत्, कर्शितस्य तु शिथिलीभूतमनवबद्धं क्षुभ्यमाणं यत्र संरम्भं वेदनां वा जनयति तत्र शल्यं विजानीयात्; कोष्ठास्थिसन्धिपेशीविवरेष्ववस्थितमेवमेव परीक्षेत; सिराधमनीस्रोतःस्नायुप्रनष्टे खण्डचक्रसंयुक्ते याने व्याधितमारोप्याशु विषमेऽध्वनि यायात् यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात्; अस्थिप्रनष्टे स्नेहस्वेदोपपन्नान्यस्थीनि बन्धनपीडनाभ्यां भृशमुपाचरेत्, यत्र संरम्भो वेदना भवति तत्र शल्यं विजानीयात्; सन्धिप्रनष्टे स्नेहस्वेदोपपन्नान् सन्धीन् प्रसरणाकुञ्चनबन्धनपीडनैः भृशमुपाचरेत्, यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात्, सन्धिप्रनष्टे स्नेहस्वेदोपपन्नान् सन्धीन् प्रसरणाकुञ्चनबन्धनपीडनैर्भृशमुपाचरेत्; यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात्, मर्मप्रनष्टे त्वनन्यभावान्मर्मणामुक्तं परीक्षणं भवति ||१२||
🔊 Audio coming soon
त्वगादिप्रविष्टानां विज्ञानोपायं दर्शयन्नाह- तत्रेत्यादि| संरम्भो रागशोथाभिसम्भवः| आशु विसरतीति शीघ्रं विलीयते| मांसेत्यादि| क्रियाविशेषैः सहातुरमुपपादयेत् योजयेदित्यर्थः| कर्शितस्य आतुरस्येत्यर्थः| शिथिलीभूतमनवबद्धं क्षुभ्यमाणं ‘शल्यं’ इति शेषः, क्षुभ्यमाणमिति चलदित्यर्थः| एवमेवेति पूर्वोक्तन्यायेनेत्यर्थः| खण्डचक्रसंयुक्ते यान इति खण्डितचक्रसमन्विते रथ इत्यर्थः| आरोप्येति आरोह्येत्यर्थः, विषमेऽध्वनि निम्नोन्नतमार्गे इत्यर्थः| स्नेहस्वेदोपपन्नानि स्नेहस्वेदयुक्तानीत्यर्थः| मर्मप्रनष्टे इत्यादि मर्माणि त्वगादिष्वष्टसु व्रणवस्तुष्वेव भवन्ति, नान्यत्र भवन्तित्यनन्यभावान्मर्मणां प्रनष्टशल्ये त्वगाद्युक्तमेव परीक्षणं कर्तव्यमित्यर्थः||१२||
Adhikarana 12 (13) · Śloka 13
सामान्यलक्षमपि च हस्तिस्कन्धाश्वपृष्ठपर्वतद्रुमारोहणधनुर्व्यायामद्रुतयाननियुद्धाध्वगमनलङ्घनप्लवनप्रतरण- व्यायामैर्जृम्भोद्गारकासक्षवथुष्ठीवनहसनप्राणायामैर्वातमूत्रपुरीषशुक्रोत्सर्गैर्वा यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात् ||१३||
🔊 Audio coming soon
सामान्यविज्ञानोपायमपि दर्शयन्नाह- सामान्यलक्षणमित्यादि| अष्टस्वपि त्वगादिव्रणवस्तुष्ववस्थितशल्यस्य लक्षणं सामान्यलक्षणम्| हस्तिस्कन्धादिभिः सहारोहणशब्दः प्रत्येकं सम्बध्यते| धनुर्व्यायामः इति धनुराकर्षणजनितश्रमः, द्रुतयानमिति शीघ्रगमनं, नियुद्धं बाहुयुद्धं, लङ्घनमिति कुड्यादीनामुत्प्लुत्यातिक्रमणं, प्लवनं उत्पतनं, प्रतरणं नद्यादौ, व्यायामः शरीरायासजनकं कर्म| जृम्भेति पीतैकमारुतोच्छ्वासस्य व्यात्तमुखेन परिमोक्षणं, उद्गारेति उद्गतस्य वायोरुद्गिरणमुद्गारः, कासेति दोषदुष्टोदानानुगतप्राणवायोर्निर्गमनं भिन्नकांस्यध्वनिकं कासः, क्षवथुरिति ऊर्ध्वस्रोतोऽवस्थितप्राणोदानयोराकुलितयोर्नासाविवरतो निर्गमनं क्षवथुः, ष्ठीवनं कफादेस्थूत्करणं, हसनं हासो विकृताङ्गवचःकृत्यजातस्य हास्यरसस्य स्थायीभावोऽङ्गकपोलनासौष्ठस्पन्दनलक्षणः, प्राणायामेति प्राणवायोरायमनमवरोधनं प्राणायामः, उत्सर्गशब्दो वातादिभिः सह प्रत्येकं सम्बध्यते, उत्सर्गः प्रमोचनम्| केचिद् ‘यत्र संरम्भो वेदना वा’ इत्यत्र’ स्थाने ‘उत्सर्गेर्वा यत्र तोदादयस्तत्र शल्यं विजानीयात्’ इति पाठं पठन्ति, व्याख्यानयन्ति च- आदिशब्दात् पाकरागशोथादयः| श्यावं पिडकाचितमित्यादीनि पूर्वोक्तसामान्यलक्षणानि सन्निकृष्टानि; एतानि पुनर्हस्तिस्कन्धारोहणादीनि विप्रकृष्टानि; यत एतैरेव श्यावं पिडकाचितमित्यादि लक्षयितव्यम्; इत्यनयोः सामान्यलक्षणपाठयोर्न पौनरुक्त्यम्||१३||
Adhikarana 13 (14-15) · Śloka 15
भवन्ति चात्र- यस्मिंस्तोदादयो देशे सुप्तता गुरुताऽपि च | घट्टते बहुशो यत्र शूयते रुज्यतेऽपि च ||१४|| आतुरश्चापि यं देशमभीक्ष्णं परिरक्षति | संवाह्यमानो बहुशस्तत्र शल्यं विनिर्दिशेत् ||१५||
🔊 Audio coming soon
प्रनष्टशल्यविज्ञानोपायमुद्दिश्यापराण्यपि राजार्षिः पुनर्लिङ्गानि निश्चयार्थमाह- यस्मिन्नित्यादि| यस्मिन् देशे शरीरावयवे| तोदादयो ‘भवन्ति’ इत्यध्याहारः| आदिग्रहणाद् रागपाकादयः| सुप्तता स्पर्शनानभिज्ञत्वम्| घट्टते बहुशो यत्रेति यस्मिन् प्रदेशे बहुशो वारंवारं पुरुषः स्वयमेव घट्टते चालयति| तुद्यतेऽपि चेत्यत्र पीडाया अतिशयख्यापनं न पुनरुक्तिः| आतुरश्चापि यं देशमित्यादि| आतुरो यं देशमभीक्ष्णमनवरतं रक्षति, किंविशिष्टः? संवाह्यमानो मृद्यमानः, कथं बहुशो वारंवारं; एतेन यदा यदाऽऽतुरो मृद्यते तदा तदा तं देशं रक्षतीत्यर्थः||१४-१५||
Adhikarana 14 (16-17) · Śloka 17
अल्पाबाधमशूनं च नीरुजं निरुपद्रवम् | प्रसन्नं मृदुपर्यन्तं निराघट्टमनुन्नतम् ||१६|| एषण्या सर्वतो दृष्ट्वा यथामार्गं चिकित्सकः | प्रसाराकुञ्चनान्नूनं निःशल्यमिति निर्दिशेत् ||१७||
🔊 Audio coming soon
निःशल्यस्य लक्षणं दर्शयन्नाह- अल्पाबाधमित्यादि| अल्पाबाधम् अल्पदुःखम्| नीरुजं निर्गतशूलादिवेदनम्| मृदुपर्यन्तं मृद्वन्तम्, निराघट्टं निश्चलम्| एषणेत्यादि| चिकित्सको वैधः, निःशल्यमिति निर्दिशेत् कथयेत्; किं कृत्वा? दृष्ट्वा, कया एषण्या लोहादिशलाकया, सर्वतः सर्वत्र, कथं? यथामार्गं मार्गानतिक्रमेण; कथं कथयेत् नूनं निश्चितं, कस्मात्? प्रसारणादाकुञ्चनाच्च अल्पापि यदि बाधा न भवतीत्यर्थः| ‘अल्पबाधं’ इत्यत्र ‘अल्पतापं इत्यन्ये पठन्ति,| केचित ‘अनुन्नतम्’ इति न पठन्ति, अशूनमित्यनेनैव गतार्थत्वात्||१६-१७||
Adhikarana 15 (18) · Śloka 18
अस्थ्यात्मकं भज्यते तु शल्यमन्तश्च शीर्यते | प्रायो निर्भुज्यते शार्ङ्गमायसं चेति निश्चयः ||१८||
🔊 Audio coming soon
आहरणोपयोगिनीं हेतुभेदेनान्तः स्थशल्यावस्थां दर्शयन्नाह- अस्थ्यात्मकमित्यादि| अस्थ्यात्मकम् अस्थिजं; भज्यत इति स्वयं द्विधा त्रिधा वा भवतीत्यर्थः| एतेनैवास्याहरणेऽवयवान्तरं विचार्याहरणं कर्तव्यमित्यभिप्रायः| शीर्यते इति शटतीत्यर्थः| ननु, ‘केशास्थिवेणुदारुपलानि तु न विशीर्यन्ते’ इत्यग्रे वक्ष्यति, अत्र तु ‘अन्तश्च शीर्यते’ इति कथयति, तत्कथं न विरोधः? उच्यते अन्तश्च शीर्यत इति चकारो विषयभेदप्रतिपादनार्थं; तेन केषाञ्चिदेवास्थनां शीर्णत्वं न सर्वेषामिति नास्ति विरोधः| निर्भुज्यते इति कुटिलीभवति| शार्ङ्गमिति शृङ्गमयम्| आयसं चेति लोहमयमपि निर्भुज्यत इत्यर्थः||१८||
Adhikarana 16 (19) · Śloka 19
वार्क्षवैणवतार्णानि निर्ह्रियन्ते तु नो यदि | पचन्ति रक्तं मांसं च क्षिप्रमेतानि देहिनाम् ||१९||
🔊 Audio coming soon
वार्क्षादीनां विशल्यघ्ने मर्मणि पाकात् स्वयं पतितानामवश्यमनिर्हरणीयत्वं दर्शयन्नाह- वार्क्षेत्यादि|- वार्क्ष्यं वृक्षमयं, वैणवं वेणुमयं, तार्णं तृणमयम्| निर्ह्रियन्ते तु नो यदीति अनिर्हरणं च विशल्यप्राणहरप्रदेशे बोद्धव्यम्| पचन्ति रक्तं मांसं चेत्यादिना वार्क्षादीनि शल्यानि पाकात् स्वयं पतन्तीत्युक्तं भवति||१९||
Adhikarana 17 (20) · Śloka 20
कानकं राजतं ताम्रं रैतिकं त्रपु सीसकम् | चिरस्थानाद्विलीयन्ते पित्ततेजःप्रतापनात् ||२०||
🔊 Audio coming soon
विशल्यप्राणहरादिषु प्रदेशेषु कानकादीनामनाहरणेऽदोषं दर्शयन्नाह- कानकमित्यादि| रैतिकमिति रीतिः पित्तलभेदः, तन्मयं रैतिकम्| केचिदत्र रैतिकमिति पदं विहाय कृष्णायस्त्रपुसीसकम्’ इति पठन्ति||२०||
Adhikarana 18 (21) · Śloka 21
स्वभावशीता मृदवो ये चान्येऽपीदृशा मताः | द्रवीभूताः शरीरेऽस्मिन्नेकत्वं यान्ति धातुभिः ||२१||
🔊 Audio coming soon
अन्येषामपि कांस्यप्रभृतीनां कानकादिधर्मं दर्शयन्नाह- स्वभावेत्यादि||२१||
Adhikarana 19 (22) · Śloka 22
विषाणदन्तकेशास्थिवेणुदारुपलानि तु | शल्यानि न विशीर्यन्ते शरीरे मृन्मयानि च ||२२||
🔊 Audio coming soon
अपरेषां चिरकालसंस्थितावपि न शरीरधातुभिरेकत्वमिति दर्शयन्नाह- विषाणेत्यादि|- विषाणं शृङ्गं, दारु काष्ठं, उपलः पाषाणः, न विशीर्यन्त इति न शटन्तीत्यर्थः| मृन्मयानि मृत्तिकामयानि||२२||
Adhikarana 20 (23) · Śloka 23
द्विविधं पञ्चगतिमत्त्वगादिव्रणवस्तुषु | यो वेत्ति विष्टितं शल्यं स राज्ञः कर्तुमर्हति ||२३||
🔊 Audio coming soon
अध्यायपिण्डार्थज्ञानेन वैद्यस्तुति दर्शयन्नाह- द्विविधमित्यादि|- द्विविधं द्विप्रकारं कर्णी श्लक्ष्णश्चेति; अन्ये शरीरागन्तुभेदेन द्वैविध्यं मन्यन्ते| पञ्चगतिमदिति ऊर्ध्वाधोऽर्वाचीनतिर्यगृजुगतिकम्| त्वगादिव्रणवस्तुष्विति त्वगादिव्रणवस्तुष्वष्टासु विष्टितं विविधप्रकारं स्थितम्| राजग्रहणं प्रधानसङ्ग्रहार्थम्| कर्तुमिति प्रतीकारं कर्तुमित्यर्थः, अर्हति योग्यो भवति| ‘यो वेत्त्यधिष्ठितं शल्यं’ इति केचित् पठन्ति||२३||
Adhikarana puShpikA · Śloka 26
इति सुश्रुतसंहितायां सूत्रस्थाने प्रनष्टशल्यविज्ञानीयो नाम षड्विंशतितमोऽध्यायः ||२६||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां सुश्रुतव्याख्यायां निबन्धसङ्ग्रहाख्यायां सूत्रस्थाने षड्विंशतितमोऽध्यायः||२६||