Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

35. āturōpakramaṇīyādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथात आतुरोपक्रमणीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

यादृश आतुर उपक्रम्यो भवति तादृशोपक्रमणमधिकृत्य कृतोऽध्याय इत्यर्थः||१-२||

Adhikarana 2 (3) · Śloka 3

आतुरमुपक्रममाणेन भिषजाऽऽयुरादावेव परीक्षितव्यं ; सत्यायुषि व्याध्यृत्वग्निवयोदेहबलसत्त्वसात्म्यप्रकृतिभेषजदेशान् परीक्षेत ||३||

🔊 Audio coming soon

उपक्रमणं चिकित्सा, सा च दीर्घायुषि कर्तव्येत्याह- आतुरमित्यादि| सत्यायुषीति| विद्यमाने सति जीविते व्याध्यादीनां परीक्षा कर्तव्या| तत्र व्याधिः साध्यासाध्यभेदेन; ऋतवः इति अग्निवयोदेहबलानामृत्वायत्तत्वात्; अग्निरिति दीप्ताग्निमन्दाग्न्यादिभेदेन; वयो बाल्याद्यवस्थाभेदेन; देहबलं कृशस्थूलादिभेदेन; सत्त्वं गुणः, स चोत्तमादिभेदेन; सात्म्यं प्राणिना सेवितो यो मधुरादिरसो व्यायामादिर्वा सुखाय भवति तत् सात्म्यमुच्यते, एतदपि परीक्ष्यं; प्रकृतिर्वातादिका; भेषजमौषधं परीक्ष्यमिति सम्बन्धः, दोषसात्म्यप्रकृत्याद्यपेक्षाणि बलवन्ति भेषजानि भवन्तीति परीक्षा; देशो जाङ्गलानूपभेदेन, ‘देशशब्दानन्तरं लुप्तादिशब्दनिर्देशादौषधकालादीन् परीक्षेत’ इति केचिद्वदन्ति||३||

Adhikarana 3 (4) · Śloka 4

तत्र महापाणिपादपार्श्वपृष्ठस्तनाग्रदशनवदनस्कन्धललाटं दीर्घाङ्गुलिपर्वोच्छ्वासप्रेक्षणबाहुं, विस्तीर्णभ्रूस्तनान्तरोरस्कं ह्रस्वजङ्घामेढ्रग्रीवं, गम्भीरसत्त्वस्वरनाभिम् , अनुच्चैर्बद्धस्तनम्, उपचितमहारोमशकर्णं, पश्चान्मस्तिष्कं, स्नातानुलिप्तं मूर्धानुपूर्व्या विशुष्यमाणशरीरं पश्चाच्च विशुष्यमाणहृदयं पुरुषं जानीयाद्दीर्घायुः खल्वयमिति | तमेकान्तेनोपक्रमेत् | एभिर्लक्षणैर्विपरीतैरल्पायुः; मिश्रैर्मध्यमायुरिति ||४||

🔊 Audio coming soon

तत्र दीर्घायुषो लक्षणानि निर्देष्टुमाह- तत्रेत्यादि| महच्छब्दः पाणिपादादिभिर्ललाटान्तैः सह प्रत्येकं सम्बध्यते| महत्वं च स्वैरङ्गुलैरुक्तप्रमाणात् किञ्चिदाधिक्यम्| दीर्घशब्दोऽङ्गुलिप्रभृतिभिर्बाह्वन्तैः सह प्रत्येकं सम्बध्यते| दीर्घत्वमप्युक्तप्रमाणात् किञ्चिदाधिक्यं ज्ञेयम्| तत्र महत्त्वं विस्तारेण सह, दैर्घ्यं विस्तारं विना| अङ्गुलिपर्वाणि अङ्गुलिग्रन्थयः| प्रेक्षणानि लोचनानि| विस्तीर्णशब्दो भ्रूप्रभृतिभिरुरोन्तैः सह प्रत्येकं सम्बध्यते; विस्तीर्णं विपुलम्| स्तनान्तरं स्तनयोर्मध्यम्| उरो हृदयकण्ठान्तरम्| ह्रस्वशब्दो जङ्घादिभिर्ग्रीवान्तैः सह प्रत्येकम् सम्बध्यते| मेढ्रं लिङ्गम्| गम्भीरशब्दोऽपि सत्त्वादिभिर्नाभ्यन्तैः सह प्रत्येकं सम्बध्यते| गम्भीरं गहनम्| सत्त्वस्य गाम्भीर्यं प्राचुर्यमुच्यते, स्वरस्य गाम्भीर्यं सुस्निग्धानुनादित्वं , नाभेर्गम्भीरत्वं निम्नता| अनुच्चैर्बद्धस्तनमिति किञ्चिदुच्चनिबिडस्तनम्| उपचितमहारोमशकर्णमिति उपचितौ मांसलौ महान्तौ विस्तीर्णौ लोमशौ कर्णौ यस्य तम्| पश्चान्मस्तिष्कमिति पश्चाद्ग्रीवाभागे मस्तिष्को रोमावर्तो विद्यते यस्य तम्; ‘पार्श्वमस्तिष्कम्’ इत्यन्ये पठन्ति, तत्र पार्श्वयोर्मस्तिष्कौ द्वावावर्तौ चूडाभागे यस्येत्यर्थः; अपरे मस्तिष्कशब्देन मस्तकस्नेहं घृतिकामिति वदन्ति, स पश्चाद्भागे भवतीत्यर्थः; अन्ये तु ‘उपचितमहारोमशकर्णपार्श्वमस्तिष्कं’ इति समुदितं पदं पठन्ति, व्याख्यानयन्ति च- उपचिता मांसलाः, महान्तो विस्तीर्णाः, रोमशा लोमवन्तः, कर्णपार्श्वमस्तिष्का यस्य तं; कर्णपार्श्वमस्तिष्कशब्देन कर्णस्य पार्श्वौ द्वौ, तयोरेवोपरितनभागो मस्तिष्कं; ‘कालमस्तकम्’ इत्यन्ये पठन्ति| स्नातानुलिप्तमित्यादि| मूर्धानुपूर्व्या मस्तकानुक्रमेण, एतेन प्रथमं मस्तकादिशरीरं शुष्यति पश्चाद्धृदयमित्यर्थः| खल्वयमिति खलु निश्चयेन, अयं पुरुषः| दीर्घायुषं ज्ञात्वा किं कुर्यादित्याह- तमित्यादि|- तं पुरुषम्, एकान्तेन एकनिश्चयेन अदोलायमानहृदयेनेत्यर्थः, उपक्रमेत् चिकित्सेत्; अन्ये त्वाहुः- एकान्तेन सातत्येनेत्यर्थः| अल्पस्यायुषो लक्षणमतिदेशेन निर्दिशन्नाह- एभिरित्यादि| अन्ये ‘तत्रैतैर्लक्षणैः’- इत्यादिपाठं पठन्ति| मध्यमायुषो लक्षणमाह- मिश्रैरित्यादि| मिश्रैरिति अल्पायुर्दीर्घायुर्लक्षणैरित्यर्थः||४||

Adhikarana 4 (5-6) · Śloka 6

भवन्ति चात्र | गूढसन्धिसिरास्नायुः संहताङ्गः स्थिरेन्द्रियः | उत्तरोत्तरसुक्षेत्रो यः स दीर्घायुरुच्यते ||५|| गर्भात् प्रभृत्यरोगो यः शनैः समुपचीयते | शरीरज्ञानविज्ञानैः स दीर्घायुः समासतः ||६||

🔊 Audio coming soon

प्रागनुक्तं दीर्घायुषो लक्षणमाह- गूढेत्यादि| गूढा गुप्ताः सन्धिसिरास्नायवो यस्येत्यर्थः| संहताङ्गो गूढाङ्गः| स्थिरेन्द्रिय इति अचलेन्द्रिय इत्यर्थः; अन्ये तिन्द्रियशब्देनेन्द्रियाधिष्ठानं वदन्ति; तेन स्थिरेन्द्रियाधिष्ठान इत्यर्थः| एतेन विमुक्ताक्षित्वादयो भावास्तस्य न सन्तीत्युकम्| उत्तरोत्तरसुक्षेत्र इति उत्तरोत्तरं श्रेष्ठाच्छ्रेष्ठं, सुक्षेत्रः शोभनशरीरः| तत्र पादगुल्फौ प्रथमं क्षेत्रं, जङ्घे जानुनी चेति द्वितीयमित्यादि यावत् “केशान्तं च शिरश्चैव दशमं क्षेत्रमुच्यते” इति| गर्भादित्यादि शनैरिति क्रमेण, समुपचीयते वृद्धिं याति| कैः कृत्वेत्याह- शरीरज्ञानविज्ञानैः|- तत्र शरीरवृद्धिर्मेदःप्रभृतिका; ज्ञानविज्ञाने मानसौ धर्मौ, ज्ञानं तत्त्वावबोधः, विज्ञानं चित्रादिकर्मकौशल्यम्| समासतः सङ्क्षेपतः| विज्ञानशब्दान्तरं लुप्तादिशब्दनिर्देशादन्येऽपि शुभादयः| तदुक्तं,- “व्यञ्जनादि शुभा विद्या मेदो मेधा धनं यशः| अल्पे वयसि यस्यैतन्न स जीवेच्चिरं नरः”- इति||५-६||

Adhikarana 5 (7-8) · Śloka 9

मध्यमस्यायुषो ज्ञानमत ऊर्ध्वं निबोध मे | अधस्तादक्षयोर्यस्य लेखाः स्युर्व्यक्तमायताः ||७|| द्वे वा तिस्रोऽधिका वाऽपि पादौ कर्णौ च मांसलौ | नासाग्रमूर्ध्वं च भवेदूर्ध्वं लेखाश्च पृष्ठतः ||८|| यस्य स्युस्तस्य परममायुर्भवति सप्ततिः |९|

🔊 Audio coming soon

प्रागनुक्तस्य मध्यमायुषो लक्षणं निर्दिशन्नाह- मध्यमेत्यादि| अक्षयोः कोष्टकास्थ्नोः, लेखा राजयः, ‘अधस्ताद्धस्तयोः’ इत्यादि पाठं केचित् पठन्ति||७-८||-

Adhikarana 6 (9-11) · Śloka 11

जघन्यस्यायुषो ज्ञानमत ऊर्ध्वं निबोध मे ||९|| हस्वानि यस्य पर्वाणि सुमहच्चापि मेहनम् | तथोरस्यवलीढानि न च स्यात्पृष्ठमायतम् ||१०|| ऊर्ध्वं च श्रवणौ स्थानान्नासा चोच्चा शरीरिणः | हसतो जल्पतो वाऽपि दन्तमांसं प्रदृश्यते | प्रेक्षते यश्च विभ्रान्तं स जीवेत्पञ्चविंशतिम् ||११||

🔊 Audio coming soon

प्रागनुक्तस्याल्पायुषो लक्षणं निर्देष्टुमाह- जघन्यस्येत्यादि| जघन्यस्य अल्पस्य| मेहनं मेढ्रम्| तथोरस्यवलीढानीति उरसि वक्षःस्थले, अवलीढानि आवर्तभेदाः प्रतिलोमानुलोमत्वेन| ‘तथोरस्यवलीढानि’ इत्यत्र स्थाने केचिदन्यथा पाठं पठन्ति, स चाभावान्न लिखितः| विभ्रान्तं विशेषेण मोहयुक्तं यथा भवति| पञ्चविंशतिं ‘वर्षाणि’ इति शेषः||९-११||

Adhikarana 7 (12) · Śloka 12

अथ पुनरायुषो विज्ञानार्थमङ्गप्रत्यङ्गप्रमाणसारानुपदेक्ष्यामः | तत्राङ्गान्यन्तराधिसक्थिबाहुशिरांसि, तदवयवाः प्रत्यङ्गानीति | तत्र, स्वैरङ्गुलैः पादाङ्गुष्ठप्रदेशिन्यौ द्व्यङ्गुलायते ; प्रदेशिन्यास्तु मध्यमानामिकाकनिष्ठिका यथोत्तरं पञ्चमभागहीनाः; चतुरङ्गुलायते पञ्चाङ्गुलविस्तृते प्रपदपादतले; पञ्चचतुरङ्गुलायतविस्तृता पार्ष्णिः; चतुर्दशाङ्गुलायतः पादः; चतुर्दशाङ्गुलपरिणाहानि पादगुल्फजङ्घाजानुमध्यानि; अष्टादशाङ्गुला जङ्घा, जानूपरिष्टाच्च द्वात्रिंशदङ्गुलम्, एते पञ्चाशत्; जङ्घायामसमावूरू; द्व्यङ्गुलानि वृषणचिबुकदशननासापुटभागकर्णमूलभ्रूनयनान्तराणि; चतुरङ्गुलानि मेहनवदनान्तरनासाकर्णललाटग्रीवोच्छ्रायदृष्ट्यन्तराणि; द्वादशाङ्गुलानि भगविस्तारमेहननाभिहृदयग्रीवास्तनान्तरमुखायाममणिबन्धप्रकोष्ठस्थौल्यानि; इन्द्रबस्तिपरिणाहांसपीठकूर्परान्तरायामः षोडशाङ्गुलः; चतुर्विंशत्यङ्गुलो हस्तः; द्वात्रिंशदङ्गुलपरिमाणौ भुजौ; द्वात्रिंशत्परिणाहावूरू; मणिबन्धकूर्परान्तरं षोडशाङ्गुलं; तलं षट्चतुरङ्गुलायामविस्तारम्; अङ्गुष्ठमूलप्रदेशिनीश्रवणापाङ्गान्तरमध्यमाङ्गुल्यौ पञ्चाङ्गुले; अर्धपञ्चाङ्गुले प्रदेशिन्यनामिके; सार्धत्र्यङ्गुलौ कनिष्ठाङ्गुष्ठौ; चतुर्विंशतिविस्तारपरिणाहं मुखग्रीवं; त्रिभागाङ्गुलविस्तारा नासापुटमर्यादा; नयनत्रिभागपरिणाहा तारका; नवमस्तारकांशो दृष्टिः; केशान्तमस्तकान्तरमेकादशाङ्गुलं; मस्तकादवटुकेशान्तो दशाङ्गुलः; कर्णावट्वन्तरं चतुर्दशाङ्गुलं; पुरुषोरःप्रमाणविस्तीर्णा स्त्रीश्रोणिः; अष्टादशाङ्गुलविस्तारमुरः; तत्प्रमाणा पुरुषस्य कटी; सविंशमङ्गुलशतं पुरुषायाम इति ||१२||

🔊 Audio coming soon

यदपेक्षया ललाटादीनां महत्त्वह्रस्वत्वाद्युक्तं तदेवाङ्गुलिमानेन निर्दिशन्नाह- अथेत्यादि| साराः सत्त्वादिकाः| कानि पुनस्तान्यङ्गानि प्रत्यङ्गानि चेत्याह- तत्रेत्यादि| अन्तराधिः शरीरमध्यभागः| कटिसन्धिमारभ्य पादाङ्गुलीर्यावत् ‘सक्थि’ उच्यते| तदवयवा इति अन्तराधिबाहुद्वयसक्थिद्वयशिरसामवयवा इत्यर्थः| तत्र पादाङ्गुष्ठात् प्रभृति यावन्मस्तकमनुक्रमेण मानं दर्शयन्नाह- तत्रेत्यादि| तत्र तेषां प्रत्यङ्गानां मध्ये| पादाङ्गुष्ठः पादस्यैव प्रदेशिनी च, द्व्यङ्गुलायते अङ्गुलद्वयदीर्घे, ‘नखं विहाय’ इति शेषः| प्रदेशिन्यास्त्विति प्रदेशिन्याः सकाशान्मध्यमाङ्गुली पञ्चमभागहीना, ततोऽपि मध्यमायाः सकाशादनामिका पञ्चमभागहीना, ततोऽप्यनामिकायाः कनिष्ठिका पञ्चमभागहीनेत्यर्थः| पञ्चमभागस्तु अर्धाङ्गुलमात्रः| प्रपदं पादाग्रं, पादतलं पादमध्यम्; अन्ये ‘षट्पञ्चाङ्गुलविस्तृते प्रपदपादतले’ इति पठन्ति, व्याख्यानयन्ति च- ‘प्रपदं षडङ्गुलविस्तारं, पञ्चाङ्गुलविस्तारं, पादतलम्’ इति| पञ्चचतुरङ्गुलायतविस्तृतेति पञ्चाङ्गुलायता चतुरङ्गुलविस्तारेत्यर्थः| पादमध्यगुल्फमध्यजङ्घामध्यजानुमध्यानीत्यर्थः- चतुर्दशाङ्गुलपरिणाहानीति परिणाहो वर्तुलता चतुर्दशाङ्गुलमानरज्ज्वा वेष्टनमित्यर्थः| अन्ये ‘त्रयोदशाङ्गुलपरिणाहानि ’ इति पठन्ति| अष्टेत्यादि| जङ्घाशब्देन गुल्फजानुमध्यमुच्यते, सा अष्टादशाङ्गुलप्रमाणा दैर्घ्येण| अन्ये ‘चतुर्विंशत्यङ्गुला जङ्घा’ इति पठन्ति| जानूपरिष्टाच्चेत्यादि उपरिष्टादुपरितनविभागः, जानुनोऽधःसन्धिमारभ्य कटिसन्धिं यावद्वात्रिंशदङ्गुलो दैर्घ्येणेत्यर्थः; एते पञ्चाशत् जङ्घाजानूपरिष्टाच्चेत्येकत्र मिलिताः पञ्चाशदङ्गुला भवन्ति| जङ्घेत्यादि जङ्घयोरायामेन दैर्घ्येण समावूरू, ऊरू अप्यष्टादशाङ्गुलावित्यर्थः; जानुन उपरि वङ्क्षणसन्धिपर्यन्तमूरू| द्व्यङ्गुलानीत्यादि| वृषणम् अण्डं, विस्तारे द्व्यङ्गुलं; अधरौष्ठादधस्ताच्चिबुकं तदपि द्व्यङ्गुलम्| अर्धं बहिरर्धं मांसवेष्टितमिति दन्ता द्व्यङ्गुलाः| नासापुटभाग इति द्वयोर्नासापुटयोर्भागो बहिर्भागः प्रत्येकमङ्गुलद्वयप्रमाण इत्यर्थः| नयनान्तराणि नयनयोर्मध्यम्| अत्रापि पाठान्तराणि सन्ति, तानि चाभावान्न लिखितानि| चतुरङ्गुलानीत्यादि| मेहनमुच्छ्रायहीनं चतुरङ्गुलं शशजातेः पुंसः, सोच्छ्रायं तु षडङ्गुलम्| व्यात्तस्य मुखस्यान्तरमपि चतुरङ्गुलं, नासावंशो दैर्घ्येण चतुरङ्गुलः, कर्णललाटग्रीवाणामुच्छ्रायो दीर्घत्वं चतुरङ्गुलं; दृष्ट्यन्तराणीति दृष्टी अत्र कृष्णतारके मसूरदलप्रमाणे भवतः, तयोर्दृष्ट्योरन्तरं चतुरङ्गुलम्| द्वादशेत्यादि| भगो योनिः, तस्य विस्तारो रन्ध्रः, तस्य परिणाहो द्वादशाङ्गुलः, इदं तु भगप्रमाणं हस्तिनीजातिस्त्रिया ज्ञेयं, कामशास्त्रोक्तत्वात्| मेहननाभ्योन्तरं द्वादशाङ्गुलं, तथा नाभिहृदययोर्ग्रीवाहृदययोः स्तनयोश्चान्तरमिति ज्ञेयम्| मुखायामो मुखदैर्घ्यम्, एतच्च चिबुकादारभ्य ललाटान्तं यावद्वादशाङ्गुलम्| मणिबन्धप्रकोष्ठाभ्यां सह स्थौल्यशब्दः प्रत्येकं सम्बध्यते; तत्र मणिबन्धस्य पाणिमूलस्य परिणाहो द्वादशाङ्गुलः, प्रकोष्ठस्य परिणाहो द्वादशाङ्गुलः; प्रकोष्ठो मणिबन्धोपरिष्टाचतुरङ्गुले कलाविके इत्यर्थः| इन्द्रबस्तीत्यादि इन्द्रबस्तेर्जङ्घामध्यस्य परिणाहः षोडशाङ्गुलः| अंसपीठो बाहुशिरः, कूर्परो भुजमध्यं, तयोरन्तरायामो दैर्घ्यं षोडशाङ्गुल इत्यर्थः| ‘षोडशाङ्गुल’ इत्यस्य स्थाने केचित् ‘विंशत्यङ्गुल’ इति पठन्ति| पूर्वं ‘जङ्घामध्यं चतुर्दशाङ्गुलपरिणाहम्’ इति यत्प्रोक्तं तद्गुल्फाश्रितं जङ्घामध्यं ज्ञेयं, इह तु जान्वाश्रितम्, अतो न विरोधः| चतुर्विंशतीत्यादि| हस्तोऽत्र कूर्परादिमध्यमाङ्गुल्यन्तपर्यन्तो ज्ञेयः| द्वात्रिंशदित्यादि| मणिबन्धः पाणिमूलं, कूर्परं कुहणिका, तयोरन्तरं मध्यं षोडशाङ्गुलम्; ‘अष्टादशाङ्गुलम्’ इत्यपरे| तलमित्यादि तलमत्र हस्ततलं षडङ्गुलायामं, चतुरङ्गुलविस्तारम्| अङ्गुष्ठेत्यादि अङ्गुष्ठमूलस्य प्रदेशिन्याश्चान्तरं पञ्चाङ्गुलं, श्रवणस्य कर्णविवरस्य अपाङ्गस्य भ्रूपुच्छान्तस्य चान्तरं पञ्चाङ्गुलं, मध्यमाङ्गुली पञ्चाङ्गुला चेत्यर्थः| ‘अङ्गुष्ठमूलकनिष्ठिका’ इत्यादिपाठं केचित् पठन्ति| अर्धेत्यादि सार्धचतुरङ्गुले प्रदेशिन्यनामिके अङ्गुल्यौ दैर्घ्येणेत्यर्थः| सार्धत्र्यङ्गुलाविति ‘दैर्घ्येण’ इति शेषः| चतुर्विंशतीत्यादि चतुरङ्गुलिविस्तारं मुखं, विंशत्यङ्गुलिपरिणाहा ग्रीवेत्यर्थः; अन्ये ‘चतुर्विंशत्यङ्गुलविस्तारमुरः, चतुर्विंशत्यङ्गुलविस्तारा ग्रीवा’ इति पाठान्तरमत्र मन्यन्ते| त्रिभागेत्यादि अङ्गुलस्य त्रिभागेन सहाङ्गुलं त्रिभागाङ्गुलं, तावन्मात्रस्तिर्यङ्मित एको नासापुटः; अन्ये तु ‘त्रिभागहीनाङ्गुलविस्तारा नासापुटमर्यादा’ इति पाठं मन्यन्ते; तेषां मते तरुणास्थिहीनस्यैकस्यैव नासारन्ध्रस्य प्रमाणं, न तु तरुणास्थिसहितयोर्द्वयोरपि नासापुटयोः| नयनेत्यादि नयनत्रिभागो द्वियवप्रमाणः, तत्परिणाहा तारका कृष्णभाग इत्यर्थः| नवमेत्यादि तारकानवमांशो दृष्टिमण्डलं शल्यतन्त्राभिहितप्रमाणं, शालाक्यतन्त्रप्रमाणं तु मसूरदलमात्रमेव, अतो न दोषः; अथवा तारकानवांशेनापि मसूरदलमात्रमेव भवति, तारकाशब्देनात्रापि कृष्णविभागः| केशान्तेत्यादि केशान्तः शङ्खयोरुपरि, मस्तकशब्देनात्र मस्तकमध्यविभागो रोमावर्तान्वितः, तत्र केशान्तमस्तकयोरन्तरमेकादशाङ्गुलम्| मस्तकादित्यादि मस्तकात् मस्तकमध्यविभागात्| अवटुकेशान्त इति अवटुः कृकाटिका ‘गिविडिका ’ इति लोके, तत्केशान्तः तत्केशपर्यन्तः, तयोरन्तरं दशाङ्गुलम्| कर्णेत्यादि कर्णद्वयस्य यौ अवटू गर्तौ, तयोरन्तरं चतुर्दशाङ्गुलं पश्चात्कर्णयोरित्यर्थः; न पुनः कर्णावट्वोरेवान्तरं, तदन्तरस्याल्पप्रमाणत्वात्| पुरुषोर इत्यादि श्रोणिरत्रोरुसन्धेरधस्तात् स्मरमन्दिरोपरितनविभागः| हृदयादूर्ध्वं कण्ठस्याधः पुरुषोरो द्वादशाङ्गुलं, तत्प्रमाणा स्त्रीश्रोणिरित्यर्थः| अन्येषां मते चतुर्विंशत्यङ्गुलविस्तारमुर इति; तन्मते स्त्रीश्रोणिरपि तत्प्रमाणैवेति| अष्टादशेत्यादि अष्टादशाङ्गुलविस्तीर्णमुरः स्त्रिया इत्यर्थः, तत्प्रमाणा अष्टादशाङ्गुलविस्तीर्णा पुरुषस्य कटी| पूर्वोक्तप्रमाणमेकत्वेनाह- सविंशमित्यादि| विंशत्या अङ्गुलैः सह शतं सविंशमङ्गुलशतं, पुरुषायामः पादाग्रस्थितस्योर्ध्वबाहोः पुरुषस्य दैर्घ्यम्||१२||

Adhikarana 8 (13) · Śloka 13

भवन्ति चात्र श्लोकाः | पञ्चविंशे ततो वर्षे पुमान् नारी तु षोडशे | समत्वागतवीर्यौ तौ जानीयात् कुशलो भिषक् ||१३||

🔊 Audio coming soon

तत्र स्त्रीश्रोणिपुरुषोरःप्रभृतीनां यौवन एव यथोक्तप्रमाणता भवति, न त्वल्पे वयसीत्याह- पञ्चविंश इत्यादि| एतेन पञ्चविंशे वर्षे पुरुषं समत्वागतवीर्यम् जानीयात्; षोडशे तु वर्षे नारीं समत्वागतवीर्यां जानीयात्, तयोश्च समत्वागतवीर्ययोरेव यथोक्तं प्रमाणं भवति| अन्यत्राप्युक्तं, “वर्षेऽथ पञ्चविंशे नरः समन्वितबलः षोडशे नारी| अर्हति मानोन्मानं जीवितभागे चतुर्थे वा”- इति| समत्वागतवीर्याविति समत्वं परिपूर्णत्वमागतं वीर्यं ययोस्तौ समत्वागतवीर्यौ, रसादिधातुपरिपूर्त्या वीर्यपूर्तिः, परिपूर्णसर्वधातुकावित्यर्थः| अन्ये त्वेवं पठन्ति ‘समन्वागतवीर्यौ’ इति; “सम्यगनु पश्चादागतं वीर्यमुपचयशक्तिलक्षणं ययोः” इति च व्याख्यानयन्ति||१३||

Adhikarana 9 (14) · Śloka 14

देहः स्वैरङ्गुलैरेष यथावदनुकीर्तितः |१४|

🔊 Audio coming soon

कैः पुनरङ्गुलैरिदं मानमुक्तमित्याह- देह इत्यादि| एष देहः स्वैरङ्गुलैर्यथावदुक्तमानेनानुकीर्तितः कथित इत्यर्थः|१४|-

Adhikarana 10 (14-15) · Śloka 15

युक्तः प्रमाणेनानेन पुमान् वा यदि वाऽङ्गना ||१४|| दीर्घमायुरवाप्नोति वित्तं च महदृच्छति | मध्यमं मध्यमैरायुर्वित्तं हीनैस्तथाऽवरम् ||१५||

🔊 Audio coming soon

उक्तप्रमाणप्रयोजनं दर्शयन्नाह- युक्त इत्यादि| मध्यमैरिति मध्यमलक्षणैः| वित्तं धनम्; अवरं हीनं भवति| तथा तेन प्रकारेण| कैरित्याह- हीनैः; हीनलक्षणैरित्यर्थः||१४-१५||

Adhikarana 11 (16) · Śloka 16

अथ सारान् वक्ष्यामः- स्मृतिभक्तिप्रज्ञाशौचशौर्योपेतं कल्याणाभिनिवेशं सत्त्वसारं विद्यात्; स्निग्धसंहतश्वेतास्थिदन्तनखं बहुलकामप्रजं शुक्रेण; अकृशमुत्तमबलं स्निग्धगम्भीरस्वरं सौभाग्योपपन्नं महानेत्रं च मज्ज्ञा; महाशिरःस्कन्धं दृढदन्तहन्वस्थिनखमस्थिभिः; स्निग्धमूत्रस्वेदस्वरं बृहच्छरीरमायासासहिष्णुं मेदसा; अच्छिद्रगात्रं गूढास्थिसन्धिं मांसोपचितं च मांसेन; स्निग्धताम्रनखनयनतालुजिह्वौष्ठपाणिपादतलं रक्तेन; सुप्रसन्नमृदुत्वग्रोमाणं त्वक्सारं विद्यादिति | एषां पूर्वं पूर्वं प्रधानमायुःसौभाग्ययोरिति ||१६||

🔊 Audio coming soon

सारेणाप्यायुर्निर्दिशन्नाह- अथेत्यादि| स्मृतिः स्मरणं, प्रज्ञा कालत्रयात्मिका बुद्धिः, शौर्यं सर्वकर्मस्वविषादिता| कल्याणाभिनिवेशं कल्याणविषये यत्नपरम्| सत्त्वसारं विद्यादिति सत्त्वगुणबहुलं जानीयादित्यर्थः| स्निग्धेत्यादि| स्निग्धसंहतश्वेतशब्दास्त्रयोऽप्यस्थिदन्तनखैः सह प्रत्येकं सम्बध्यन्ते| संहतं घनम्| बहुलकामप्रजमिति बहुकामं बहुप्रजमित्यर्थः| शुक्रेणेति शुक्रेण कृत्वा सारं विद्यादिति सम्बन्धः| उपपन्नमिति युक्तमित्यर्थः| मज्ज्ञेति मज्जधातुना कृत्वा सारं विद्यादिति सम्बन्धः| महाशब्दः शिरःस्कन्धाभ्यां सह सम्बध्यते| दृढशब्दो दन्तहन्वस्थिनखैः सह प्रत्येकं सम्बध्यते| अस्थिभिः हड्डैः कृत्वा सारं विद्यादिति सम्बन्धः| स्निग्धेत्यादि| स्निग्धशब्दो मूत्रस्वेदस्वरैः सह प्रत्येकं सम्बध्यते| बृहच्छरीरमिति प्रबलकायम्| आयासासहिष्णुमिति कष्टकारिकर्माक्षमम्| मेदसेति मेदसा कृत्वा सारं जानीयादिति सम्बन्धः| अच्छिद्रगात्रमिति अनिम्नशरीरमित्यर्थः| गूढेत्यादि गूढास्थिसन्धिः गुप्तहड्डसन्धिरित्यर्थः| मांसोपचितमिति मांसलशरीरमित्यर्थः| मांसेनेति मांसेन कृत्वा सारं विद्यादिति सम्बन्धः| स्निग्धेत्यादि| स्निग्धताम्रशब्दौ पाणितलान्तैर्नखादिभिः सह प्रत्येकं सम्बध्यते| रक्तेनेति रुधिरेण कृत्वा सारं विद्यादित्यर्थः| सुप्रसन्नेत्यादि| सुप्रसन्नमृदुशब्दौ त्वग्रोमभ्यां सह प्रत्येकं सम्बध्येते| त्वक्सारं रससारं; त्वक्शब्देन त्वक्स्थो रसोऽभिहितः| एषामिति एषां पूर्वोक्तसाराणां मध्ये, पूर्वं पूर्वं प्रधानमिति यो यः पूर्वः सारः स स प्रधानमित्यर्थः| कयोः प्रधानं श्रेष्ठमित्याह- आयुःसौभाग्ययोरिति|- सौभाग्यं सर्वस्यापि प्रतिभासमानत्वम्||१६||

Adhikarana 12 (17) · Śloka 17

विशेषतोऽङ्गप्रत्यङ्गप्रमाणादथ सारतः | परीक्ष्यायुः सुनिपुणो भिषक् सिध्यति कर्मसु ||१७||

🔊 Audio coming soon

अङ्गप्रत्यङ्गमानसारज्ञानफलमाह- विशेषत इत्यादि| विशेषत इति परस्परव्यावर्तनेनेत्यर्थः| एतेन विपरीतव्रणदूतादिच्छायाशरीरस्वभावविप्रतिपत्त्युपद्रवासाध्यतादिभिश्चायुर्निश्चित्य विशेषतो महाललाटेत्यादिलक्षणभेदेन प्रवरावरमध्यमान्यायूंषि परीक्ष्य भिषक् सिध्यतीत्यर्थः| सुनिपुण इति सुष्ठु अतिशयेन निपुणः कुशलः| भिषक् सिध्यति कर्मस्विति वैद्यः कर्मविषये सिद्धिं प्राप्नोतीत्यर्थः| केचित् ‘सामान्यतोऽङ्गप्रत्यङ्ग ...’ इत्यादि पठन्ति| तेषां मते सामान्यतः स्थूलवृत्त्येत्यर्थः||१७||

Adhikarana 13 (18) · Śloka 18

व्याधिविशेषास्तु प्रागभिहिताः; सर्व एवैते त्रिविधाः- साध्या, याप्याः, प्रत्याख्येयाश्च | तत्रैतान् भूयस्त्रिधा परीक्षेत- किमयमौपसर्गिकः, प्राक्केवलः, अन्यलक्षण इति | तत्र, औपसर्गिको नाम यः पूर्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधिरुपसृजति, स तन्मूल एवोपद्रवसञ्ज्ञः; प्राक्केवलो नाम यः प्रागेवोत्पन्नो व्याधिरपूर्वरूपोऽनुपद्रवश्च; अन्यलक्षणो नाम यो भविष्यद्व्याधिख्यापकः, स पूर्वरूपसञ्ज्ञः | तत्र, सोपद्रवमन्योन्याविरोधेनोपक्रमेत, बलवन्तमुपद्रवं वा; प्राक्केवलं यथास्वं प्रतिकुर्वीत; अन्यलक्षणे त्वादिव्याधौ प्रयतेत ||१८||

🔊 Audio coming soon

व्याधिपरीक्षां निर्दिशन्नाह- व्याधीत्यादि| प्रागभिहिता इति वेदोत्पत्त्यध्याये व्याधिसमुद्देशीये च ये उक्ताः| प्रत्याख्येयाश्चेति चकारात् प्रत्याख्येयानामपि साध्यत्वं दर्शयति; यथा- "वल्यामाभ्यन्तरायां तु प्रत्याख्याय समाचरेत्"; तथा मुखरोगेषु मांसतानालासप्रभृतिषूक्तं- "तेषु चापि क्रियां वैद्यः प्रत्याख्याय समाचरेत्"- (चि. अ. १२) इति| एतान् व्याधीन्| भूयः पुनरपि| कथं परीक्षेतेत्याह- किमयमौपसर्गिक इति; किमयमुपद्रव इत्यर्थः| किमयं प्राक्केवल इति किमयं पूर्वरूपेणोपद्रवेण च रहित इत्यर्थः| किमयमन्यलक्षण इति किमयं व्याधेः पूर्वरूपमित्यर्थः| तेषां लक्षणमाह- तत्रेत्यादि| तत्र तेषां मध्ये औपसर्गिकस्तावत् कथ्यते| जघन्यकालजातो व्याधिरिति पश्चात्कालजातो रोग इत्यर्थः| उपसृजति समीपे आत्मानं नयतीत्यर्थः| एतेन तेन सह मिलतीत्युक्तम्| स इति पश्चादुत्पन्नो व्याधिरित्यर्थः| तन्मूल एवेति प्रागुत्पन्नव्याधिहेतुक एवेत्यर्थः| पश्चादुत्पन्नो व्याधिरेवोपद्रवो भवति, न पुनर्मूलव्याधिना सह भूतानि लिङ्गान्युपद्रवसञ्ज्ञानि; लिङ्गान्यपि यदि चिरकालानुबन्धीनि भवन्ति तदा तान्यप्युपद्रवसञ्ज्ञानि भवन्ति| उपसृजतीति अत्रैकवचनादेक एव व्याधिरुपद्रव इति न मन्तव्यम्, अपरेऽपि ये मूलव्याधेरनन्तरमुत्पद्यन्ते व्याधयस्तेऽप्युपद्रवाः; एकवचनस्याप्रधानत्वात्| उपद्रवसञ्ज्ञ इति उपसर्ग इति चैकैव सञ्ज्ञेत्यर्थः| अपूर्वरूपः पूर्वरूपरहित इत्यर्थः| अनुपद्रवश्चेति उपद्रवरहित इत्यर्थः| एतेन मशकतिलकालकन्यच्छव्यङ्गादयः प्राक्केवला व्याधयः कथ्यन्ते, व्याधिस्वभावात् पूर्वरूपमन्तरेणापि प्रागेवोत्पद्यन्त इत्यर्थः| अन्यलक्षण इत्यादि यो भाविनं व्याधिं ख्यापयति स पूर्वरूपसञ्ज्ञः| व्याधीनां बहुत्वात् कः प्रथमं प्रतिकरणीय इत्याह- तत्रेत्यादि| सहोपद्रवेण वर्तत इति सोपद्रवो मूलव्याधिरित्यर्थस्तं, तथोपद्रव उत्तरकालजो व्याधिस्तम्| अन्योन्याविरोधेन उभयाविरोधेनेत्यर्थः| बलवन्तमुपद्रवं वेति बलवन्तमुपद्रवं प्रथमं चोपक्रमेतान्योन्याविरोधेनेति सम्बन्धः| यथास्वं यथात्मीयचिकित्सितम्| अन्यलक्षण इत्यादि अन्यलक्षणे पुनः पूर्वरूपसञ्ज्ञिते, आदिव्याधौ प्रयतेत प्रयत्नं कुर्वीत, ‘यथास्वम्’ इत्यनुवर्तते||१८||

Adhikarana 14 (19) · Śloka 19

भवति चात्र | नास्ति रोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः | अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत् ||१९||

🔊 Audio coming soon

व्याधीनामानन्त्याद्दोषभेदेनानुक्तस्य व्याधेर्दोषव्यपेक्षाचिकित्सार्थं, तथा रोगकृतस्यापि रोगस्य चिकित्सामपि कर्तुं, न कार्यव्याधिमात्रस्य नापि तु हेतुव्याधिमात्रस्येति कथयन्नाह- नास्तीत्यादि| अनुक्तमपि व्याधिं दोषाणां लिङ्गैः कृत्वोपाचरेदिति सम्बन्धः||१९||

Adhikarana 15 (20) · Śloka 20

प्रागभिहिता ऋतवः ||२०||

🔊 Audio coming soon

ऋतुपरीक्षां निर्दिशन्नाह- प्रागित्यादि| प्रागिति ऋतुचर्याध्याये||२०||

Adhikarana 16 (21) · Śloka 21

शीते शीतप्रतीकारमुष्णे चोष्णनिवारणम् | कृत्वा कुर्यात् क्रियां प्राप्तां क्रियाकालं न हापयेत् ||२१||

🔊 Audio coming soon

विसदृशकालजस्यात्ययिकस्य व्याधेर्विध्यन्तरमुपदिशन्नाह- शीते इत्यादि| शीते शीतकाले, शीतप्रतीकारं शीतविपर्ययं कृत्वा, उष्णमित्यर्थः; उष्णे उष्णकाले, उष्णनिवारणमुष्णविपर्ययं कृत्वा, शीतमित्यर्थः| कुर्यात् क्रियामिति क्रियामग्निकर्मादिकाम्| तदुक्तं,- “तत्राप्यात्ययिकेऽग्निकर्मसाध्ये व्याधौ तत्प्रत्यनीकं विधिं कृत्वा” (सू. अ. १२) इत्यादि| प्राप्तामिति योग्याम्| काल एवावश्यं क्रिया करणीयेत्याह- क्रियाकालं न हापयेत्|- न हापयेत् नोल्लङ्घयेत्, अतिक्लेशवैफल्यव्याध्यसाध्यत्वभयात् कालशक्तेरतिशयप्रभविष्णुत्वात्| तद्यथा- अप्राप्ते काले आमज्वरे ‘भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम्’ (उ. ३९) इत्यादि| उष्णे चोष्णनिवारणमित्यत्र चकाराद्वृष्टौ वृष्टिप्रतीकारोऽनुक्तोऽपि समुच्चीयते| अन्ये तु वृष्टेरपि शीतत्वाच्छीते शीतप्रतीकारमित्यनेनैव तद्ग्रहणमिति मन्यन्ते||२१||

Adhikarana 17 (22) · Śloka 22

अप्राप्ते वा क्रियाकाले प्राप्ते वा न कृता क्रिया | क्रिया हीनाऽतिरिक्ता वा साध्येष्वपि न सिध्यति ||२२||

🔊 Audio coming soon

कीदृशी क्रिया न सिध्यतीत्याह- अप्राप्ते वेत्यादि| अप्राप्ते काले अनागते काले, क्रिया कृता साध्येष्वपि न सिध्यतीति सम्बन्धः| अनागते हि काले क्रिया कृता न सिध्यति, तथाच प्रागुक्तं- भेषजं ह्यामदोषस्येत्यादि| प्राप्ते वा न कृता क्रियेति अतीते काले क्रिया कृतेत्यर्थः; साऽपि साध्येष्वपि व्याधिषु न सिध्यति| यथा- जीर्णज्वरे क्षीरमांसरसस्नेहसाध्ये लङ्घनमिति| क्रिया हीनाऽतिरिक्ता वेति बहुदोषे हीना क्रियाऽकिञ्चित्करी, अल्पदोषे महती रोगिजीवितहरी रोगान्तकारिणी च| चकारान्मिथ्या क्रिया चानुक्ता समुच्चीयते; तद्यथा- शीतसाध्ये उष्णा, उष्णसाध्ये शीता चेति||२२||

Adhikarana 18 (23) · Śloka 23

या ह्युदीर्णं शमयति नान्यं व्याधिं करोति च | सा क्रिया, न तु या व्याधिं हरत्यन्यमुदीरयेत् ||२३||

🔊 Audio coming soon

क्रियाऽक्रिययोर्लक्षणमाह- येत्यादि| उदीर्णम् उत्कटम्| न तु या व्याधिं हरत्यन्यमुदीरयेदिति न पुनः सा क्रिया कथ्यते, या एकं व्याधिं हरत्यन्यं प्रकोपयतीत्यर्थः| यथा- कृशबृंहणेऽग्निसादमेहातीसारादयः, यथा वा स्थौल्यापकर्षणे मेहचिकित्सापतर्पणे च यक्ष्मवातरोगादयः||२३||

Adhikarana 19 (24) · Śloka 24

प्रागभिहितोऽग्निरन्नस्य पाचकः | स चतुर्विधो भवति- दोषानभिपन्न एकः, विक्रियामापन्नस्त्रिविधो भवति- विषमो वातेन, तीक्ष्णः पित्तेन, मन्दः श्लेष्मणा, चतुर्थः समः सर्वसाम्यादिति | तत्र, यो यथाकालमुपयुक्तमन्नं सम्यक् पचति स समः, समैर्दोषैः; यः कदाचित् सम्यक् पचति, कदाचिदाध्मानशूलोदावर्तातिसारजठरगौरवान्त्रकूजनप्रवाहणानि कृत्वा, स विषमः; यः प्रभूतमप्युपयुक्तमन्नमाशु पचति स तीक्ष्णः, स एवाभिवर्धमानोऽत्यग्निरित्याभाष्यते, स मुहुर्मुहुः प्रभूतमप्युपयुक्तमन्नमाशुतरं पचति, पाकान्ते च गलताल्वोष्ठशोषदाहसन्तापाञ्जनयति; यस्त्वल्पमप्युपयुक्तमुदरशिरोगौरवकासश्वासप्रसेकच्छर्दिगात्रसदनानि कृत्वा महता कालेन पचति, स मन्दः ||२४||

🔊 Audio coming soon

अग्निपरीक्षां निर्दिशन्नाह- प्रागित्यादि| प्राक् व्रणप्रश्ने| पञ्चप्रकारो भ्राजकादिभेदेन| कथं पुनश्चतुर्विध इत्याह- दोषेत्यादि| दोषाभिपन्नो दोषैः प्राप्त एक एवाग्निर्विक्रियामापन्नस्त्रिविधो भवति- विषम इत्यादि| विषमो वातेन, तीक्ष्णः पित्तेन, मन्दः श्लेष्मणा, अनेन प्रकारेणेत्यर्थः; चतुर्थः समः सर्वसाम्यादिति| ननु, दोषाभिपन्नत्वेनैव विक्रियामापन्न इति प्राप्यते, तत् किमर्थं विक्रियामापन्न इत्युक्तं? नैष दोषः, वातादिकप्रकृतीनां पुरुषाणां वातादिदोषाभिपन्नत्वं भवति, न च विक्रिया काचिद्भवतीति| तेषां चतुर्णामग्नीनां| लक्षणमाह- तत्रेत्यादि| यथाकालमिति कालस्यानुल्लङ्घनेन| प्रथमं प्रकृतिः प्रकृतेरनन्तरं विकृतिरिति ज्ञापनार्थं प्रथमं व्यत्ययेन समाग्निलक्षणमुक्तं- य इत्यादि| विषमाग्नेर्वायुर्यदा न विक्षिपति तदाऽग्निः सम्यक् पचति, यदा पुनरितश्चेतश्च भागशो विक्षिप्तः स्यात्तदा सम्यङ्ग पचति| एतान्याध्मानादीनि कृत्वा यः पचति स विषम इति सम्बन्धः| कूजनं गुडगुडायनशब्दः| प्रवाहणं निकुन्थनम्| उपयुक्तं दत्तम्| तीक्ष्ण इति तीक्ष्णस्तु त्रिविधः- एकस्तीक्ष्ण आशुपाचकः, अन्य उपेक्षितोऽत्यग्निसञ्ज्ञो भस्मकापरपर्यायः, अपर उपेक्षितस्तीक्ष्णतमो मुहुर्मुहुरित्यादिना कथितः| यश्च मुहुर्मुहुः पचति वह्निस्तत्र पाकान्ते गलादिशोषादीन् जनयतीति सम्बन्धः| ‘सन्तापञ्जनयती’ इत्यस्याग्रे केचिद् ‘यथा वातेनानुबध्यते पित्तं तदत्यर्थं द्रवोपेतम्’ इत्यादि पाठं पठन्ति, स चाभावान्न लिखितः| यस्त्वित्यादि| प्रसेको लालास्रावः| गात्रसदनम् अङ्गग्लानिः||२४||

Adhikarana 20 (25) · Śloka 25

विषमो वातजान् रोगांस्तीक्ष्णः पित्तनिमित्तजान् | करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान् ||२५||

🔊 Audio coming soon

एते विषमादयोऽग्नय उत्पन्नाः किं कुर्वन्तीत्याह- विषम इत्यादि||२५||

Adhikarana 21 (26) · Śloka 26

तत्र, समे परिरक्षणं कुर्वीत; विषमे स्निग्धाम्ललवणैः क्रियाविशेषैः प्रतिकुर्वीत; तीक्ष्णे मधुरस्निग्धशीतैर्विरेकैश्च; एवमेवात्यग्नौ, विशेषेण माहिषैश्च क्षीरदधिसर्पिर्भिः; मन्दे कटुतिक्तकषायैर्वमनैश्च ||२६||

🔊 Audio coming soon

समाग्न्यादीनां चिकित्सितमाह- तत्रेत्यादि| परिरक्षणमिति यथा सममेवाग्निस्तिष्ठतीत्यर्थः| एवमेवेति मधुरस्निग्धशीतैस्त्रिभिस्तथा विरेचनैश्चेत्यर्थः||२६||

Adhikarana 22 (27) · Śloka 27

जाठरो भगवानग्निरीश्वरोऽन्नस्य पाचकः | सौक्ष्म्याद्रसानाददानो विवेक्तुं नैव शक्यते ||२७||

🔊 Audio coming soon

अग्नेरिदानीं प्रत्यक्षानुपलभ्यस्याप्यस्तित्वमाह- जाठर इत्यादि| जठरमुदरं, तत्र भवो जाठरः| भगवानिति माहात्म्यवानित्यर्थः| ईश्वर इति अष्टमहैश्वर्यगुणयुक्तः, अत एवाणिमादिगुणयुक्त इति| सूक्ष्मत्वान्न दृश्यते, कार्यैरुपलभ्यते| ननु, यद्यसावीश्वरस्तत् कथमस्य मान्द्यादयो दोषा भवन्ति? सत्यं; पुरुषस्य प्राक्तनकर्मणा मान्द्यादयः क्रियन्ते, अथवाऽग्निः पित्ताश्रितः, ततः पित्तविघातादग्निमान्द्यादयो दोषा न स्वत इति| सौक्ष्म्यात् अणिमादिगुणयुक्तत्वात्| रसान् मधुरादीन्| आददान इति परिपक्तुं गृह्णन्| विवेक्तुं नैव शक्यत इति साक्षान्नोपलभ्यत इत्यर्थः; अपि त्वन्नपाकलक्षणेन कार्येणानुमीयतेऽस्त्यग्निरिति||२७||

Adhikarana 23 (28) · Śloka 28

प्राणापानसमानैस्तु सर्वतः पवनैस्त्रिभिः | ध्मायते पाल्यते चापि स्वां स्वां गतिमवस्थितैः ||२८||

🔊 Audio coming soon

यथा बाह्यस्याग्नेर्वायुः सहायो भवति, तद्वज्जाठरस्यापि वायुसहायत्वं दर्शयन्नाह- प्राणेत्यादि| सर्वतः सर्वासु दिक्षु, अन्ये ‘सर्वत इति सर्वेभ्यो वायुभ्य’ इत्यर्थं वदन्ति; तेन सर्वेभ्योऽपि वायुभ्यः सकाशात्त्रय एव वाता धमनपालनसमर्था न व्यानोदानावित्युक्तं भवति| ध्मायते प्राणापानाभ्यां; पाल्यते समानेन| स्वां स्वां गतिमवस्थितैः स्वस्वमार्गे स्वस्याः स्वस्याः क्रियायाः कारकैरविकृतैरित्यर्थः| ‘स्वां स्वां गतिमवस्थितैः’ इत्यस्याग्रे वह्नेः प्राधान्यख्यापनाय केचित् ‘युक्तेऽग्नौ’ इत्यादिपाठं पठन्ति, स चाभावान्न लिखितः||२८||

Adhikarana 24 (29) · Śloka 29

वयस्तु त्रिविधं- बाल्यं, मध्यं, वृद्धमिति | तत्रोनषोडशवर्षीया बालाः | ते त्रिविधाः- क्षीरपाः, क्षीरान्नादा, अन्नादा इति | तेषु संवत्सरपराः क्षीरपाः, द्विसंवत्सरपराः क्षीरान्नादाः, परतोऽन्नादा इति | षोडशसप्तत्योरन्तरे मध्यं वयः | तस्य विकल्पो- वृद्धिः, यौवनं, सम्पूर्णता, परिहाणिरिति | तत्र, आविंशतेर्वृद्धिः, आत्रिंशतो यौवनम्, आचत्वारिंशतः सर्वधात्विन्द्रियबलवीर्यसम्पूर्णता, अत ऊर्ध्वमीषत्परिहाणिर्यावत् सप्ततिरिति | सप्ततेरूर्ध्वं क्षीयमाणधात्विन्द्रियबलवीर्योत्साहमहन्यहनि वलीपलितखालित्यजुष्टं कासश्वासप्रभृतिभिरुपद्रवैरभिभूयमानं सर्वक्रियास्वसमर्थं जीर्णागारमिवाभिवृष्टमवसीदन्तं वृद्धमाचक्षते ||२९||

🔊 Audio coming soon

इदानीं वयःपरीक्षां निर्दिशन्नाह- वयस्त्वित्यादि| तत्रोनषोडशवर्षीया बाला इति पञ्चदशवर्षीया इत्यर्थः| क्षीरान्नादा इति दुग्धान्नभोजिन इत्यर्थः| अन्नादा इति केवलान्नभक्षका इति| क्षीरपाः स्तननिःसृतक्षीरभक्षका इत्यर्थः| तेषामवधिमाह- तेष्वित्यादि| संवत्सरपरा इति परशब्देनात्रावधिरुक्तः| परतोऽन्नादा इति तृतीयादिसंवत्सरेष्वित्यर्थः| अत्रापि केचित् पाठान्तरं मन्यन्ते, तच्चाभावान्न लिखितम्| मध्यमवयसोऽवधिं भेदांश्च कथयन्नाह- षोडशेत्यादि| अन्तरे अन्तराले| मध्यं वयः ‘कथ्यते’ इति शेषः| विकल्पो भेद इत्यर्थः| वृद्धिर्वर्धनं; यौवनमिति वृद्धिसम्पूर्णतयोर्मिश्रीभावः, ‘यूनो विकारो यौवनम्’ इत्येके; सम्पूर्णतेति वृद्धानामवयवानामाप्यायनं सम्पूर्णता| आविंशतेरिति विंशतिवर्षाणि मर्यादीकृत्येत्यर्थः| ‘यावत् सप्ततिः’ इत्यत्र स्थाने ‘यावत् षष्टिः’ इति केचित् पठन्ति| सप्ततेरनन्तरं यादृशो भवति यन्नामा च कथ्यते तदाह- सप्ततेरित्यादि| वीर्यं रेतः, वली त्वक्सङ्कोचः, पलितं केशशुक्लत्वं, खालित्यं खल्वाटत्वं ‘चान्दिलत्वम्’ इति लोके| अभिवृष्टं मेघवृष्ट्या सिक्तमित्यर्थः| अवसीदन्तं पतन्तम्||२९||

Adhikarana 25 (30) · Śloka 30

तत्रोत्तरोत्तरासु वयोवस्थासूत्तरोत्तरा भेषजमात्राविशेषा भवन्ति, ऋते च परिहाणेः; तत्राद्यापेक्षया प्रतिकुर्वीत ||३०||

🔊 Audio coming soon

वयोज्ञानस्य भेषजमात्राप्रयोगः फलमिति दर्शयन्नाह,- तत्रेत्यादि| तत्र वयोज्ञाने| उत्तरोत्तरासु वयोवस्थास्विति बाल्ययौवनादिकासु| उत्तरोत्तरा इति उत्कृष्टोत्कृष्टाः, भेषजमात्राविशेषा इति औषधप्रमाणविशेषाः, ऋते च परिहाणेरिति सप्ततेरूर्ध्वं वर्जयित्वेत्यर्थः| तत्राद्यापेक्षया प्रतिकुर्वीतेति तत्र परिहाणौ, आद्यापेक्षया बाल्यापेक्षया , षोडशवर्षवद्भेषजमात्रेत्यर्थः| भेषजमात्रा च तन्त्रान्तरोक्ता ग्राह्या| तद्यथा- “प्रथमे मासि जातस्य शिशोर्भेषजरक्तिका| अवलेह्या तु कर्तव्या मधुक्षीरसिताघृतैः|| एकैकां वर्धयेत्तावद्यावत्संवत्सरो भवेत्| तदूर्ध्वं माषवृद्धिः स्याद्यावत् षोडशकाब्दिकाः|| षोडशाब्दात्ततस्तूर्ध्वं यावदासप्ततेरिति| एवमेव विभागोऽयं तदूर्ध्वं बालवत्क्रिया|| मानमेतत् प्रयोक्तव्यं सर्वमानविधावपि" इति| स्वतन्त्रेऽपि सांवत्सरिकाष्टद्विरष्टवर्षाणामित्यादि| अन्ये ‘तत्राद्यापेक्षया’ इत्यत्र ‘अन्यापेक्षया’ इति पठन्ति, व्याख्यानयन्ति च- परिहाणेरन्या वृद्धिरुच्यते, तदपेक्षयेत्यर्थः; एतेन षोडशवर्षवन्मात्रा प्रयोक्तव्येत्यर्थः||३०||

Adhikarana 26 (31) · Śloka 31

भवन्ति चात्र- बाले विवर्धते श्लेष्मा मध्यमे पित्तमेव तु | भूयिष्ठं वर्धते वायुर्वृद्धे तद्वीक्ष्य योजयेत् ||३१||

🔊 Audio coming soon

दोषचयादावपि वयोज्ञानफलं दर्शयन्नाह- बाले इत्यादि| भूयिष्ठं बहुतरम्| एतेन यथा बाले श्लेष्मा न तथा पित्तवातावित्यर्थः; एवं शेषयोरपि||३१||

Adhikarana 27 (32) · Śloka 32

अग्निक्षारविरेकैस्तु बालवृद्धौ विवर्जयेत् | तत्साध्येषु विकारेषु मृद्वीं कुर्यात् क्रियां शनैः ||३२||

🔊 Audio coming soon

वयोज्ञानफलं क्रियाविशेषेऽपि भवतीत्याह- अग्नीत्यादि| मृद्वीं कुर्यात् क्रियामिति अजाशकृदादिमृदुद्रव्यसंश्रयोऽग्निरपि मृदुः, आश्रयविशेषादप्येषां मार्दवादि भवति; तदुक्तं, “स्नेहदग्धेऽधिका रुजो भवन्ति” (सु. १२)- इति| अथवा मृद्वीमिति छेद्यभेद्यादिकां प्रतिनियतभेषजेन; तदुक्तं- “बालवृद्धासहक्षीणभीरूणां योषितामपि| मर्मोपरि च जातेषु रोगेषूक्तेषु दारणम्” (चि. अ. १) इति; उक्तेषु दारणमिति मिश्रकोक्तेषु| तद्यथा- "कपोतकङ्कगृध्राणां पुरीषाणि च दारणम्"(सु.३७) इति| क्षारोऽप्यावापप्रतिवापहीनो मृदुः, एवं विरेकोऽपि चतुरङ्गुलादिमृदुद्रव्याश्रयो मृदुः| शनैर्मन्दमित्यर्थः||३२||

Adhikarana 28 (33) · Śloka 33

देहः स्थूलः, कृशो, मध्य, इति प्रागुपदिष्टः ||३३||

🔊 Audio coming soon

देहपरीक्षां निर्दिशन्नाह- देह इत्यादि| प्रागुपदिष्ट इति दोषधातुमलक्षयवृद्धिविज्ञानीये||३३||

Adhikarana 29 (34) · Śloka 34

कर्शयेद्बृंहयेच्चापि सदा स्थूलकृशौ नरौ | रक्षणं चैव मध्यस्य कुर्वीत सततं भिषक् ||३४||

🔊 Audio coming soon

तयोरपि करणीयमनिर्दिष्टं निर्दिशन्नाह- कर्शयेदित्यादि||३४||

Adhikarana 30 (35) · Śloka 35

बलमभिहितगुणं; दौर्बल्यं तु स्वभावदोषजरादिभिरवेक्षितव्यम् | यस्माद्बलवतः सर्वक्रियाप्रवृत्तिस्तस्माद्बलमेव प्रधानमधिकरणानाम् ||३५||

🔊 Audio coming soon

बलपरीक्षां निर्दिशन्नाह- बलमित्यादि| अभिहितगुणं कथितगुणम्, ‘ओजः सोमात्मकम्’ (सू. अ. १५) इत्यादिना| अनुपदिष्टमपि चिकित्सोपयोगि दौर्बल्यं कारणभेदेन निर्दिशन्नाह- दौर्बल्यमित्यादि| स्वभावान्मातृपितृशोणितशुक्रस्वभावादित्यर्थः, दोषैर्वातादिभिः, जरया वार्धक्येन; अवेक्षितव्यं स्वभावादिभिर्ज्ञातव्यमित्यर्थः| अन्ये तु ‘अवेक्षितव्यम्’ इत्यत्र स्थाने ‘जरापेक्षितं भवति’ इति पठन्ति, व्याख्यानयन्ति च- यथा क्षीरपात् क्षीरान्नादः, क्षीरान्नादादन्नाद इति| बलप्राधान्यं दर्शयन्नाह- यस्मादित्यादि| प्रवृत्तिः अनुष्ठानं करणमित्यर्थः| अन्ये ‘प्रतिपत्तिः’ इति पठन्ति; तत्रापि स एवार्थः| अधिकरणानां क्रियाधाराणाम्||३५||

Adhikarana 31 (36) · Śloka 36

केचित् कृशाः प्राणवन्तः स्थूलाश्चाल्पबला नराः | तस्मात् स्थिरत्वं व्यायामैर्बलं वैद्यः प्रतर्कयेत् ||३६||

🔊 Audio coming soon

तत्र बलयोरुपचयशक्तिलक्षणयोर्व्यभिचारमाह- केचिदित्यादि| स्थिरत्वमिति स्थैर्यलक्षणं यद्बलं तद् व्यायामैः कृत्वा प्रतर्कयेत् विचारयेदित्यर्थः||३६||

Adhikarana 32 (37-38) · Śloka 38

सत्त्वं तु व्यसनाभ्युदयक्रियादिस्थानेष्वविक्लवकरम् ||३७|| सत्त्ववान् सहते सर्वं संस्तभ्यात्मानमात्मना | राजसः स्तभ्यमानोऽन्यैः सहते नैव तामसः ||३८||

🔊 Audio coming soon

सत्त्वं दर्शयन्नाह- सत्त्वमित्यादि| सत्त्वं मनोबलं गुणविशेषो रजस्तमसोर्विपक्षः; सत्त्वे सति पीडादिसहिष्णुत्वलक्षणं मनोबलं भवति| व्यसनं दुःखं, सुखस्य हेतुरभ्युदयः, तयोः क्रियास्थानानि, येषु स्थानेषु व्यसनाभ्युदयक्रिये भवतः, तानि व्यसनाभ्युदयक्रियास्थानानि तेषु| अविक्लवकरम् अग्लानिकरमहर्षकरं च| सत्त्वे उत्तमं मनोबलं, रजसि मध्यमं मनोबलं, तमसि मनोदौर्बल्यमेवेति| त्रयमपि श्लोकेन निर्दिशन्नाह- सत्त्ववानित्यादि| सर्वमिति कायपीडादिकं दुःखमित्यर्थः| संस्तभ्यात्मानमिति संस्तभ्य दृढीकृत्य; कम्? आत्मानं मन इत्यर्थः| केन मनः संस्तभ्येत्याह- आत्मना, बुध्द्येत्यर्थः| स्तभ्यमानोऽन्यैरिति अन्यैः पुरुषैदृढीक्रियमाणः| नैव तामस इति तामसस्तमोगुणबहुलः; अन्यैरप्यवष्टभ्यमानो न सहत इत्यर्थः||३७-३८||

Adhikarana 33 (39-40) · Śloka 40

सात्म्यानि तु देशकालजात्यृतुरोगव्यायामोदकदिवास्वप्नरसप्रभृतीनि प्रकृतिविरुद्धान्यपि यान्यबाधकराणि भवन्ति ||३९|| यो रसः कल्पते यस्य सुखायैव निषेवितः | व्यायामजातमन्यद्वा तत् सात्म्यमिति निर्दिशेत् ||४०||

🔊 Audio coming soon

सात्म्यपरीक्षां निर्दिशन्नाह- सात्म्यानीत्यादि| सात्म्यं नाम सुखं यत् करोति तदुच्यते| तत्र देशसात्म्यं यथा- देशो हि द्विविधः- भूमिः, आतुरशरीरं च| तत्रातुरशरीरसात्म्यं द्विविधं- समुदायस्यैकम्, अन्यदवयवस्य| तत्र समुदायस्य यथा- मधुरो रसः सर्वधातुवर्धनः, अवयवसात्म्यं यथा- चक्षुष्यकेश्यकण्ठ्यादिद्रव्यम्| भूमिसात्म्यमपि समुदायैकदेशभेदेन द्विविधं; तत्र समुदायस्य यथा- जाङ्गलदेशे यौ आहाराचारौ तौ अनूपे विपरीतौ| देशावयवानामपि यथा- बाह्लीकपल्लवचीनादीनां माषगोधूममाध्वीकादिभिः सात्म्यम्| जातिसात्म्यं यथा- मनुष्यजातेः सात्म्यं शाल्यादयः, मृगपक्षिजातीनां च तृणपतङ्गादीनि| ऋतुसात्म्यं यथा- ऋत्वभिहितमन्नपानादि| रोगसात्म्यं यथा- गुल्मिनां क्षीरम्, उदावर्तिनां घृतं, प्रमेहिणां क्षौद्रमित्यादि| व्यायामस्त्रिविधः- कायवाङ्मनोभेदात्| उदकग्रहणमाहारोपलक्षणं, तेन चतुर्विधोऽप्याहारः सङ्गृहीतः| दिवास्वप्नप्रभृतीनीति प्रभृतिग्रहणाज्जागरणादीनां ग्रहणम्| दिवास्वप्नरसप्रभृतीनीति केचिद्रसशब्दं पठन्ति| तेषां मते रसोदकग्रहणाद्रसनेन्द्रियग्राह्यं दुग्धदधिघृतसलिलाद्यन्नपानं गृह्यते| प्रकृतिविरुद्धान्यपीति स्वभावेन विरुद्धानीत्यर्थः| अन्ये तु प्रकृतिः स्वभावतो वातादिभेदेन भिन्नेत्याचक्षते| तदेव सात्म्यं विस्तरोक्तमाहाराचारभेदेन द्विभेदं सङ्क्षिप्य श्लोकेन दर्शयन्नाह- यो रस इत्यादि| कल्पते भवति| सुखायैव निषेवितः सुखकारणमेव सेवितः सन्नित्यर्थः| अन्ये ‘सुखायैवातिसेवित’ इति पठन्ति| व्यायामजातमिति व्यायामसमूहः, अन्यद्वेति देशजात्यादि||३९-४०||

Adhikarana 34 (41) · Śloka 41

प्रकृतिं भेषजं चोपरिष्टाद्वक्ष्यामः ||४१||

🔊 Audio coming soon

प्रकृतेर्भेषजस्य च क्व पुनः परीक्षेत्याह- प्रकृतिमित्यादि| प्रकृतिं शारीरे, भेषजं भूमिप्रविभागीये, आतुरोपक्रमणीयाध्यायादनन्तरं सूत्रस्थानसमाप्तिं यावद्भेषजपरीक्षैवेत्येके||४१||

Adhikarana 35 (42) · Śloka 42

देशस्त्वानूपो जाङ्गलः साधारण इति | तत्र, बहूदकनिम्नोन्नतनदीवर्षगहनो मृदुशीतानिलो बहुमहापर्वतवृक्षो मृदुसुकुमारोपचितशरीरमनुष्यप्रायः कफवातरोगभूयिष्ठश्चानूपः; आकाशसमः प्रविरलाल्पकण्टकिवृक्षप्रायोऽल्पवर्षप्रस्रवणोदपानोदकप्राय उष्णदारुणवातः प्रविरलाल्पशैलः स्थिरकृशशरीरमनुष्यप्रायो वातपित्तरोगभूयिष्ठश्च जाङ्गलः; उभयदेशलक्षणः साधारण इति ||४२||

🔊 Audio coming soon

देशपरीक्षां निर्दिशन्नाह- देश इत्यादि| तेषां लक्षणमाह- तत्रेत्यादि| बहुशब्द उदकादिभिर्वर्षान्तैः सह प्रत्येकं सम्बध्यते| गहन इति एतैः कृत्वा गहनीभूत इत्यर्थः| आकाशसम इति निरावरणत्वान्निम्नोन्नततारहितत्वेन समभूमिभाग इत्यर्थः| प्रविरलाल्पकण्टकिवृक्षप्राय इति प्रविरला अल्पा कण्टकिनो वृक्षाः प्रायेण यत्र देशे स तथा| अल्पवर्षप्रस्रवणोदपानोदकप्राय इति अल्पं वर्षायाः प्रस्रवणानां निर्झराणामुदपानानां च कूपानामुदकं प्रायेण यत्र स तथा||४२||

Adhikarana 36 (43) · Śloka 43

भवन्ति चात्र- समाः साधारणे यस्माच्छीतवर्षोष्ममारुताः | दोषाणां समता जन्तोस्तस्मात्साधारणो मतः ||४३||

🔊 Audio coming soon

त्रिविधदेशपरिज्ञाने दोषचयादिफलं दर्शयन्नाह- समा इत्यादि||४३||

Adhikarana 37 (44-45) · Śloka 45

न तथा बलवन्तः स्युर्जलजा वा स्थलाहृताः | स्वदेशे निचिता दोषा अन्यस्मिन् कोपमागताः ||४४|| उचिते वर्तमानस्य नास्ति देशकृतं भयम् | आहारस्वप्नचेष्टादौ तद्देशस्य गुणे सति ||४५||

🔊 Audio coming soon

तुल्यगुणदेशजातस्य रोगस्य विपरीतगुणे देशे सुचिकित्स्यतां दर्शयन्नाह- न तथेत्यादि| जलजा इति आनूपदेशजाताः श्लीपदादयः| स्थलाहृता इति जाङ्गलदेशं नीता इत्यर्थः| उक्तव्याधिकारणदोषचयादेर्विसदृशदेशाश्रयं प्रथमं दर्शयन्नाह- स्वदेश इत्यादि| स्वदेशे इति यथा- आनूपे देशे सञ्चितः कफो जाङ्गलदेशे कुपितः| उचित इति न्याय्य इत्यर्थः| यदि पुनराहारादावनुचिते वर्तते तदा भवत्येव भयं; यथा अनूपदेशे सञ्चिते कफे जाङ्गलदेशेऽपि दिवास्वप्नादि कुर्वतः पुरुषस्य भयं भवत्येव| आहारस्वप्नेत्यादि| तद्देशस्य गुणे सति जाङ्गलदेशस्य रौक्ष्यौष्ण्यादौ गुणे सत्यप्युचिते वर्तेत| एतदुक्तं भवति- यद्यप्याहारस्वप्नचेष्टादयो गुणा अपि सन्ति, तथाऽप्युचिते वर्तेत कफविपरीतगुणे वर्तेतेत्यर्थः||४४-४५||

Adhikarana 38 (46-47) · Śloka 47

देशप्रकृतिसात्म्यर्तुविपरीतोऽचिरोत्थितः | सम्पत्तौ भिषगादीनां बलसत्त्वायुषां तथा ||४६|| केवलः समदेहाग्नेः सुखसाध्यतमो गदः | अतोऽन्यथा त्वसाध्यः स्यात्कृच्छ्रो व्यामिश्रलक्षणः ||४७||

🔊 Audio coming soon

सुखसाध्यादीनां लक्षणमाह- देशेत्यादि| देशविपरीतो यथा- जाङ्गलदेशे कफरोगोत्पत्तिः; प्रकृतिविपरीतो यथा- पित्तप्रकृतेः कफरोगोत्पत्तिः; सात्म्यविपरीतो यथा- कटुसात्म्यस्य कफरोगोत्पत्तिः, ऋतुविपर्ययो यथा- शरदि वातिकस्य, हेमन्ते पैत्तिकस्य, ग्रीष्मे श्लैष्मिकस्य व्याधेः प्रादुर्भाव इति| अचिरोत्थितो नव इत्यर्थः| अन्ये तु नञा निर्दिष्टत्वाद्रक्तगुल्मादिः पुराणोऽपि साध्य इति| सम्पत्ताविति परिपूर्णत्वे| बलसत्त्वायुषां तथेत्यत्रापि सम्पत्ताविति सम्बध्यते| केवल एकदोषजनितो निरुपद्रवो वा| समदेहाग्नेः समकायाग्नेः||४६-४७||

Adhikarana 39 (48) · Śloka 48

क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत् | पूर्वस्यां शान्तवेगायां न क्रियासङ्करो हितः ||४८||

🔊 Audio coming soon

क्रियाफलं यदा न दृश्यते तदाऽन्या क्रिया कर्तव्या; साऽपि विश्रम्य कालान्तरिता सती कर्तव्येति दर्शयन्नाह- क्रियाया इत्यादि| पञ्चरात्र्यन्तरिता षड्रात्र्यन्तरिता वाऽन्या क्रिया प्रयोक्तव्या| सङ्करो युगपद्द्वयोः प्रयोगः||४८||

Adhikarana 40 (49) · Śloka 49

गुणालाभेऽपि सपदि यदि सैव क्रिया हिता | कर्तव्यैव तदा व्याधिः कृच्छ्रसाध्यतमो यदि ||४९||

🔊 Audio coming soon

यस्यापि फलं न दृश्यते साऽपि सप्तरात्रं प्रकर्तव्येत्याह- गुणालाभ इत्यादि| सपदि शीघ्रं यदा पुनः कृच्छ्रसाध्यो व्याधिस्तदा गुणस्य क्रियाफलस्यालाभेऽपि हिता या क्रिया सैव प्रयोक्तव्या| अस्मिञ्छ्लोके पाठान्तरमस्ति, तच्चाभावान्न लिखितम्||४९||

Adhikarana 41 (50) · Śloka 50

य एवमेनं विधिमेकरूपं बिभर्ति कालादिवशेन धीमान् | स मृत्युपाशाञ्जगतो गदौघाञ्छिनत्ति भैषज्यपरश्वधेन ||५०||

🔊 Audio coming soon

अत्र तु स्तुत्यर्थं श्लोकमाह- य एवमित्यादि| एवमनेन प्रकारेण, एनं विधिं पूर्वोक्तं विधानम्, एकरूपं बिभर्ति अप्रकल्पं(म्पं) धारयति, कालादिवशेन कालादिसामर्थ्येनेत्यर्थः, गदौघान् विकारसमूहान्, भैषज्यपरश्वधेनेति औषधकुठारेणेत्यर्थः| केचिदमुं श्लोकं न पठन्ति| एके आचार्या विपरीताविपरीतव्रणाद्यवारणीयपर्यन्तमरिष्टाध्यायान् षट् वदन्ति; अपरे तु आतुरोपक्रमणीयमरिष्टमिति वदन्ति| वृद्धाश्चात्रैवमुपदिशन्ति- अरिष्टाध्याया विघ्नभयाद्गृहाद्बहिः पाठनीया देवालयादिषु||५०||

Adhikarana puShpikA · Śloka 35

इति सुश्रुतसंहितायां सूत्रस्थाने आतुरोपक्रमणीयो नाम पञ्चत्रिंशोऽध्यायः ||३५||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ण)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने पञ्चत्रिंशत्तमोऽध्यायः||३५||