Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

34. yuktasēnīyādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो युक्तसेनीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

युक्तसेनीयमिति युक्ता सेना यस्य स युक्तसेनो राजेत्यर्थः; तमधिकृत्य कृतोऽध्यायो युक्तसेनीयः||१-२||

Adhikarana 2 (3-4) · Śloka 4

नृपतेर्युक्तसेनस्य परानभिजिगीषतः | भिषजा रक्षणं कार्यं यथा तदुपदेक्ष्यते ||३|| विजिगीषुः सहामात्यैर्यात्रायुक्तः प्रयत्नतः | रक्षितव्यो विशेषेण विषादेव नराधिपः ||४||

🔊 Audio coming soon

युक्तसेनस्येति सज्जसेनस्य, गजतुरगरथपदातिलक्षणचतुरङ्गबलस्येत्यर्थः| अन्ये युक्तसेनस्य मिलितसेनस्येति कथयन्ति| परान् शत्रून्; अभिजिगीषतः जेतुमिच्छत इत्यर्थः| विजिगीषुः जेतुमिच्छुः| सहामात्यैरिति क्रमागतैः पुरुषैः सहेत्यर्थः| यात्रायुक्त इति दत्तप्रयाण इत्यर्थः| रक्षितव्य इति सर्वेभ्य आगन्तुमृत्युभ्यः| विशेषेण अतिशयेन| विषं स्थावरं, जङ्गमं, कृत्रिमं च||३-४||

Adhikarana 3 (5) · Śloka 5

पन्थानमुदकं छायां भक्तं यवसमिन्धनम् | दूषयन्त्यरयस्तच्च जानीयाच्छोधयेत्तथा ||५||

🔊 Audio coming soon

विषप्रयोगभेदं चिकित्सार्थं दर्शयन्नाह- पन्थानमित्यादि| पन्थानं मार्गं; स च विषेण दूषितोऽश्वादिखुरक्षुण्णरेणुना रोमकूपनासाविवरादिषु प्रविशन् विकारं जनयति| छायामिति विषेण वृक्षादिदूषणाच्छायादोषः, द्रव्यस्वभावाद्वा छायामपि विषं दूषयति; यद्वा भल्लातकच्छाया तत्क्षणाच्छोफकारिणीति| भक्तम् ओदनादिकम्| यवसं बुसादि| दूषयन्ति विकृतिं कुर्वन्ति| अरयः शत्रवः| तच्चेति पन्थादि| जानीयात् ‘लिङ्गैः कृत्वा’ इति शेषः| शोधयेत् चिकित्सेत्|||५||

Adhikarana 4 (6) · Śloka 6

तस्य लिङ्गं चिकित्सा च कल्पस्थाने प्रवक्ष्यते |६|

🔊 Audio coming soon

किं तल्लिङ्गं का वा चिकित्सेत्याह- तस्येत्यादि|६|-

Adhikarana 5 (6) · Śloka 7

एकोत्तरं मृत्युशतमथर्वाणः प्रचक्षते ||६|| तत्रैकः कालसंयुक्तः शेषा आगन्तवः स्मृताः |७|

🔊 Audio coming soon

ननु यद्यकालमृत्युरस्ति तदा विषादिभ्यो नृपतिरक्षणं युक्तं, विषभक्षकस्य लिङ्गचिकित्से च युक्ते, अथ नास्त्यकालमृत्युस्तदा किं निष्फलप्रयासेनेत्याशङ्क्याकालमृत्युं प्रमाणैः साधयन्नादावागममेव प्रमाणमाह- एकोत्तरमित्यादि| एकेनाधिकं मृत्युशतमथर्वाणोऽथर्ववेदविदः पुरुषाः, प्रचक्षते कथयन्ति| तत्रैकः कालसंयुक्तः इति तत्र तेषां मृत्यूनां मध्ये एकः कालसंयुक्तः कालमृत्युरित्यर्थः| शेषा आगन्तवः स्मृता इति शेषा उर्वरिता आगन्तवोऽपमृत्यवः स्मृताः कथिताः इत्यर्थः| तत्र गर्भवर्षेण सहैकोत्तरशतवर्षैरेकोत्तरशतं मृत्यवः पूर्यन्ते; ततः शतादर्वागकालमृत्यवः, शतादनन्तरं कालमृत्युरिति केचिन्मन्यन्ते| अपरे ब्रुवते- ‘शतशब्दोऽत्रासङ्ख्यावाचकः, उत्तरशब्दस्तु प्रधानवाचकः; तेनासङ्ख्या मृत्यवः, कारणानामसङ्ख्येयत्वात्; एकश्च मृत्युः प्रधानं, स च कालमृत्युः कथ्यते| ननु, यो यस्मिन् काले म्रियते स तस्य कालमृत्युरेव, तत् कथमकालमृत्युरित्युच्यते? तथा चोक्तं- “नाकाले म्रियते कश्चिन्नास्ति मृत्युरकालजः यो यस्मिन् म्रियते काले मृत्युकालः स तस्य हि- ” इति| व्यासभट्टारकेणायुक्तं- “नाकाले म्रियते कच्चिद्विद्धः शरशतैरपि| कालप्राप्तस्य कौन्तेय! वज्रायन्ते तृणान्यपि”- इति| नैतदस्ति, उपमानादिप्रमाणैर्बहुधाऽऽचार्यैरकालमृत्योः स्थापितत्वात्| तथाच- “यथा वर्षमकाले च यथा पुष्पं यथा फलम्| यथा स्याद्दीपनिर्वाणमकाले मरणं तथा”- इति| व्यासवचनमप्यर्जुनप्रोत्साहकमकालमृत्युस्थापकं दृश्यते; तथाहि- “जलमग्निर्विषं शस्त्रं स्त्रियो राजकुलानि च| अकालमृत्यवो ह्येते तेभ्यो बिभ्यति पण्डिताः”- इति| अन्यैरप्युक्तं;- “कालः सुरैरपि हि वञ्चयितुं न शक्यो वक्ष्ये विधानमपमृत्युविनाशनाय| मृत्युर्भवेद्यदि कथञ्चन नापमृत्युर्व्यर्थास्तदा चरकसुश्रुतवाग्भटाद्याः”- इति| तस्मात् कालाकालयोर्मृत्युर्भवत्येवेति| अपरे, ‘शेषा आगन्तवः स्मृताः’ इत्यस्याग्रतः, “विष्वग्वातादिभिर्यद्वद्दीपस्तैलादिसंयुतः| निर्वात्यते क्षणाद्देही तथैवागन्तुमृत्युभिः”- इति श्लोकं पठन्ति, व्याख्यानयन्ति च- विष्वग्वातः प्रबलवातः| आदिशब्देन शलभादिनिपातः कथ्यते||६||-

Adhikarana 6 (7) · Śloka 8

दोषागन्तुजमृत्युभ्यो रसमन्त्रविशारदौ ||७|| रक्षेतां नृपतिं नित्यं यत्तौ वैद्यपुरोहितौ |८|

🔊 Audio coming soon

अथर्ववेदोऽकालामृत्युप्रशमनहेतुः, तदङ्गानि च वैद्यपुरोहितौ पठतः, अतस्तयो राजरक्षणे व्यापारं दर्शयन्नाह- दोषेत्यादि| दोषाः वातादयः, आगन्तवो विषाभिघातादयः| रसमन्त्रविशारदाविति यथासङ्ख्येन रसविशारदो वैद्यः, मन्त्रविशारदः पुरोधाः| तत्र केचित् ‘रसविशारद’ इत्यत्रादिशब्दलोपाद्रसवीर्यविपाकविशारदः; अथवा रसशब्देन रसवन्ति द्रव्याणि कथ्यन्ते, तेषां विशारदः, अथवा रसशब्दोऽत्र विषवाचकः तद्विशारद इति कथयन्ति| विशारदः पण्डितः| मन्त्राणामृग्यजुःसामोक्तानामथर्ववेदोक्तानां चेत्यर्थः| यत्तौ यत्नपरौ||७||

Adhikarana 7 (8) · Śloka 9

ब्रह्मा वेदाङ्गमष्टाङ्गमायुर्वेदमभाषत ||८|| पुरोहितमते तस्माद्वर्तेत भिषगात्मवान् |९|

🔊 Audio coming soon

पुरोहितो वेदानधीते, वैद्यस्तु तदङ्गमायुर्वेदमिति वैद्यात् पुरोधसः प्राधान्यं दर्शयन्नाह- ब्रह्मेत्यादि| ब्रह्मा आयुर्वेदमभाषत, किंविशिष्टम्? अष्टाङ्गं; पुनः किंविशिष्टं? वेदाङ्गम्| वर्तेत व्यवहरेदित्यर्थः| आत्मवान् बुद्धिमान्||८||-

Adhikarana 8 (9) · Śloka 10

सङ्करः सर्ववर्णानां प्रणाशो धर्मकर्मणाम् ||९|| प्रजानामपि चोच्छित्तिर्नृपव्यसनहेतुतः |१०|

🔊 Audio coming soon

सर्वप्रजानां राजायत्ता स्थितिरिति राजरक्षणं यत्नेन कार्यमिति दर्शयन्नाह- सङ्कर इत्यादि|| सङ्करः एकत्वं ब्राह्मणाशूद्रादीनां वर्णानां दण्डाभावेनाचारलोपात्| धर्मकर्मणामिति वर्णानामेव धर्मस्य कर्मणामन्येषामपि| अन्ये तु ‘धर्मिकर्मणाम्’ इति पठन्ति, तत्र धर्मयोगादाश्रमाश्चत्वारो धर्मिणः, ब्रह्मचारिगृहस्थवानप्रस्थयतयश्चत्वार आश्रमाः, तत्कर्मणां प्राणाशः| प्रजानामुच्छित्तिरिति दण्डाभावेन कृषिपाशुपाल्यवाणिज्यराजोपसेवानामभावादुच्छित्तिरुच्छेदो भवतीत्यर्थः| नृपव्यसनहेतुत इति वर्णसङ्करादयोऽनर्था राजव्यसनात् कारणाद्भवन्ति, तस्माद्राजा यत्नेन रक्षणीय इत्यर्थः| अन्ये ‘नृपव्यसनहेतुका’ इति पठन्ति; तत्र उच्छित्तिरिति सम्बध्यते||९||-

Adhikarana 9 (10-11) · Śloka 12

पुरुषाणां नृपाणां च केवलं तुल्यमूर्तिता ||१०|| आज्ञा त्यागः क्षमा धैर्यं विक्रमश्चाप्यमानुषः | तस्माद्देवमिवाभीक्ष्णं वाङ्मनःकर्मभिः शुभैः ||११|| चिन्तयेन्नृपतिं वैद्यः श्रेयांसीच्छन् विचक्षणः |१२|

🔊 Audio coming soon

राज्ञो मनुजत्वे समानेऽप्यमानुषानुवर्तिभिर्गुणेर्देवत्वं साधयन्नाह- पुरुषाणामित्यादि| केवलं निश्चितं, मूर्तिराकृतिः; आज्ञा अनुल्लङ्घनीय आदेशः, त्यागः कीर्तिधर्मार्थं बहुप्रकारो वित्तविसर्गः, क्षामा सर्वंसहता, धैर्यं व्यसनेषु धीरता, विक्रमः पराक्रमः, अमानुषः एष गुणसमूहो मानुषेषु न सम्भवतीत्यर्थः| तस्मादित्यादि|- अभीक्ष्णमनवरतं, तस्मात् कारणाद्देवमिव नृपतिं वैद्यश्चिन्तयेदिति सम्बन्धः| कैः कृत्वा चिन्तयेदित्याह- वाङ्मनः कर्मभिः शुभैरिति|- शुभैः शोभनैरित्यर्थः||१०-११||

Adhikarana 10 (12-14) · Śloka 15

स्कन्धावारे च महति राजगेहादनन्तरम् ||१२|| भवेत्सन्निहितो वैद्यः सर्वोपकरणान्वितः | तत्रस्थमेनं ध्वजवद्यशःख्यातिसमुच्छ्रितम् ||१३|| उपसर्पन्त्यमोहेन विषशल्यामयार्दिताः | स्वतन्त्रकुशलोऽन्येषु शास्त्रार्थेष्वबहिष्कृतः ||१४|| वैद्यो ध्वज इवाभाति नृपतद्विद्यपूजितः |१५|

🔊 Audio coming soon

वैद्यस्य सन्ततोपयोगित्वादुचितप्रदेशवासं निर्दिशन्नाह- स्कन्धावार इत्यादि| स्कन्धावारे कटके| महति गुरुतरे| अनन्तरमिति अव्यवधाने अन्तरायवर्जिते| सर्वोपकरणान्वित इति यन्त्रशस्त्रक्षारौषधागदादियुक्तः| तत्रेत्यादि|- तत्रस्थं राजगृहसमिपस्थम्| एनमिति वैधम्| ध्वजवत् पताकावत्| निर्मलगुणकीर्तनं यशः, ख्यातिः स्वाभाविकी स्तुतिः, समुच्छ्रितं वृद्धिङ्गतम्| उपसर्पन्ति समीपं गच्छन्ति| अमोहेन निश्चिन्तमनसा| विषशल्यामयार्दिता इति अर्दिताः पीडिताः; तेन विषार्दिताः शल्यार्दिता आमयार्दिताश्चेत्यर्थः| वैद्यं बहुश्रुतं स्तुवन्नाह- स्वतन्त्रेत्यादि| कुशलः प्रवीणः| अबहिष्कृत इति नात्यन्तमकुशलः| नृपतद्विद्यपूजित इति नृपैस्तद्विद्यैश्च पूजितः सम्मानितः, तद्विद्यैः वैद्यैरित्यर्थः||१२-१४||-

Adhikarana 11 (15-16) · Śloka 17

वैद्यो व्याध्युपसृष्टश्च भेषजं परिचारकः ||१५|| एते पादाश्चिकित्सायाः कर्मसाधनहेतवः | गुणवद्भिस्त्रिभिः पादैश्चतुर्थो गुणवान् भिषक् ||१६|| व्याधिमल्पेन कालेन महान्तमपि साधयेत् |१७|

🔊 Audio coming soon

पादचतुष्टयं चिकित्सासाधकं दर्शयन्नाह- वैद्य इत्यादि| व्याध्युपसृष्टो रोगी; परिचारकः शुश्रूषकः पुरुषः| कर्मसाधनहेतव इति आरोग्यहेतव इत्यर्थः||१५-१६||-

Adhikarana 12 (17) · Śloka 18

वैद्यहीनास्त्रयः पादा गुणवन्तोऽप्यपार्थकाः ||१७|| उद्गातृहोतृब्रह्माणो यथाऽध्वर्युं विनाऽध्वरे |१८|

🔊 Audio coming soon

वैद्यस्य प्राधान्यं दर्शयन्नाह- वैद्येत्यादि| अपार्थका निष्फलाः| उद्गाता सामावित्, होता ऋग्वेदवित्, ब्रह्मा तु त्रयीवित्, अध्वर्युर्यर्वेदविदुपाध्यायः सर्वेषामुपदेष्टा| अध्वरे यज्ञे||१७||

Adhikarana 13 (18) · Śloka 19

वैद्यस्तु गुणवानेकस्तारयेदातुरां सदा ||१८|| प्लवं प्रतितरैर्हीनं कर्णधार इवाम्भसि |१९|

🔊 Audio coming soon

पादत्रयव्यतिरेकेऽपि वैद्यक्रियायाः साफल्यं दर्शयन्नाह- वैद्यस्त्वित्यादि| प्लवं नावं, प्रतितरैरन्तःप्रविष्टजलोत्क्षेपकैः पुरुषैः| कर्णधारो नौकाया नेता||१८||

Adhikarana 14 (19-20) · Śloka 21

तत्त्वाधिगतशास्त्रार्थो दृष्टकर्मा स्वयङ्कृती ||१९|| लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः | प्रत्युत्पन्नमतिर्धीमान् व्यवसायी विशारदः ||२०|| सत्यधर्मपरो यश्च स भिषक् पाद उच्यते |२१|

🔊 Audio coming soon

वैद्यादीनां गुणानाह- तत्त्वेत्यादि| तत्त्वाधिगतशास्त्रार्थ इति यथावदधीतशास्त्रो यथावज्ज्ञाततदर्थश्चेत्यर्थः| दृष्टकर्मेति छेद्यादौ स्नेहादौ च कुशल इत्यर्थः| स्वयङ्कृती स्वप्रज्ञया चिकित्सायां प्रवृत्तः| लघुहस्त इति छेद्यादिक्रियासु वेपनादिदोषरहितः| शुचिरिति बाह्याभ्यन्तरशौचयुक्तः| शूरो विषादरहितः| सज्जोपस्करभेषज इति सज्जानि प्रगुणान्युपस्तराण्यग्रोपहरणीयपठितानि यन्त्रशस्त्रादीनि भेषजानि च यस्य स तथा| प्रत्युत्पन्नमतिः योऽवस्थासु न मुह्यति| धीमानिति अनुक्तदुरुक्तोहापोहलक्षणबुद्धियुक्तः| व्यवसायी विषमावस्थास्वपि चिकित्सां कुर्वन्न मुह्यति; अन्ये उत्साहीति मन्यन्ते| विशारदः पण्डितः, कृच्छ्रपदमात्रेषु न मुह्यति| सत्यधर्मपर इति सत्यं मिथ्याभाषणनिवृत्तिः; धर्मः अनेकसाधनसाध्यः||१९-२०||

Adhikarana 15 (21) · Śloka 22

आयुष्मान् सत्त्ववान् साध्यो द्रव्यवानात्मवानपि ||२१|| आस्तिको वैद्यवाक्यस्थो व्याधितः पाद उच्यते |२२|

🔊 Audio coming soon

आयुष्मानित्यादि|- आयुष्मान् दीर्घायुः| सत्त्ववान् क्लेशसहिष्णुः| साध्यः साध्यव्याधियुक्त इत्यर्थः| आत्मवान् अलोलुपः| आस्तिक इति दत्तमस्ति हुतमस्ति परलोकोऽस्त्येवं मतिर्यस्य स आस्तिकः| वैद्यवाक्यस्थो वैद्यवचनकर इत्यर्थः||२१||-

Adhikarana 16 (22-23) · Śloka 23

प्रशस्तदेशसम्भूतं प्रशस्तेऽहनि चोद्धृतम् ||२२|| युक्तमात्रं मनस्कान्तं गन्धवर्णरसान्वितम् | दोषघ्नमग्लानिकरमविकारि विपर्यये | समीक्ष्य दत्तं काले च भेषजं पाद उच्यते ||२३||

🔊 Audio coming soon

प्रशस्तदेशसम्भूतमित्यादि|- युक्तमात्रं युक्तप्रमाणम्| मनस्कान्तं मनःप्रियम्| दोषघ्नमिति दोषशब्देन वातादय उच्यन्ते तद्दूषिता धातुमलाश्च, अथवा दोषहरं दुष्टिं हरत्यदुष्टं न च कोपयति| अग्लानिकरं हर्षक्षयं न करोतीत्यर्थः| अविकारि विपर्यय इति विपर्यये व्यापत्तावप्यल्पविकारं निर्विकारं वा| समीक्ष्य दत्तमिति किमभिसमीक्ष्य? आतुरोपक्रमोक्तान् परीक्ष्यानायुरादीन् देशान्तान्, कालावस्थाः पूर्वाह्णादिका वा||२२-२३||

Adhikarana 17 (24) · Śloka 24

स्निग्धोऽजुगुप्सुर्बलवान् युक्तो व्याधितरक्षणे | वैद्यवाक्यकृदश्रान्तः पादः परिचरः स्मृतः ||२४||

🔊 Audio coming soon

स्निग्ध इतादि| स्निग्धः प्रीतियुक्तः| अजुगुप्सुरिति अनिन्दकः; एतेन कष्टव्याधाववस्थास्वप्यातुरं न निन्दतीत्यर्थः| बलवानिति बलवत्त्वात् सर्वक्लेशसहः| युक्तो व्याधितरक्षण इति युक्तो निपुणः, एतेन व्याधितस्य रक्षणे तत्पर इत्यर्थः| वैद्यवाक्यकृदिति वैद्यवाक्यमविकल्पं करोतीत्यर्थः| अश्रान्तः इति खदेरहितः| ‘पादैश्चतुर्भिः सम्पूर्णैरेभिः कर्म प्रसिध्यति’ इति केचिदध्यायान्ते पठन्ति| एतच्च न पठनीयं, सर्वेषु निबन्धेष्वदर्शनात्||२४||

Adhikarana puShpikA · Śloka 34

इति सुश्रुतसंहितायां सूत्रस्थाने युक्तसेनीयो नाम चतुस्त्रिंशत्तमोऽध्यायः ||३४||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ण)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने चतुस्त्रिंशत्तमोऽध्यायः||३४||