Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

36. bhūmipravibhāgavijñānīyādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो भूमिप्रविभागीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

भूमेः प्रकृष्टो विभागो भूमिप्रविभागः, भूमिप्रविभागार्थोऽध्यायो भूमिप्रविभागीयः| पूर्वाध्याये भूमिपरीक्षा भूतकार्यैः शीतोष्णवर्षादिभिस्तथा पर्वतवृक्षादिभिः कृता, इह त्वध्याये भूतगुणैरेव परीक्षा कर्तव्येति| केचिदत्रान्तराले मिश्रकाध्यायं पठन्ति; तन्न, पूर्वाचार्यैरपठितत्वात्||१-२||

Adhikarana 2 (3) · Śloka 3

श्वभ्रशर्कराश्मविषमवल्मीकश्मशानाघातनदेवतायतनसिकताभिरनुपहतामनूषरामभङ्गुरामदूरोदकां स्निग्धां प्ररोहवतीं मृद्वीं स्थिरां समां कृष्णां गौरीं लोहितां वा भूमिमौषधग्रहणाय परीक्षेत | तस्यां जातमपि कृमिविषशस्त्रातपपवनदहनतोयसम्बाधमार्गैरनुपहतमेकरसं पुष्टं पृथ्ववगाढमूलमुदीच्यां चौषधमाददीतेत्येष भूमिपरीक्षाविशेषः सामान्यः ||३||

🔊 Audio coming soon

स भूमिविभागो द्विविधः- सामान्यो विशिष्टश्च| तत्र प्रथमं सामान्यमेव भूमिविभागमाह- श्वभ्रेत्यादि| अनुपहतामिति श्वभ्रादिभिः सिकतान्तैः सह प्रत्येकं सम्बध्यते| श्वभ्रशर्कराश्मभिर्विषमो निम्नोन्नतः, तेनानुपहतामिति सम्बन्धः| श्वभ्रं बिलं; शर्करा पक्वभाण्डसूक्ष्मखण्डं शर्करेति लोके; अश्मा पाषाणः; वल्मीकेति, ननु वल्मीकमूर्धन्येव श्वेतकपोती गृह्यते, तत् कथं वल्मीकजातौषधिनिषेधः? सत्यम्, आशीविषविषैस्तस्या दिव्यौषधेर्वीर्यं न हन्यते, अथवा तत्रैव सा विशेषेण वीर्यवती भवतित्यदोषः; श्मशानं मृतमर्त्यदाहस्थानम्; आघातनं वधस्थानं; सिकता वालुका; अनुपहताम्; अनुपद्रुताम्; अनूषराम् ऊषरवर्जिताम्; अभङ्गुरां राजिरहितां; अदूरोदकत्वेन साधारणत्वमुक्तं; स्निग्धां चिक्कणां; प्ररोहवतीं बीजाङ्कुरजननीं; मृद्वीं कोमलां; अस्थिरां वाततोयादिभिरचलितमृत्तिकाम्; समाम् अनिम्नोन्नतां; गौरीं सुवर्णवर्णां; औषधग्रहणायेति औषधग्रहणार्थम्| न केवलं भूमिगुणैरेव भेषजानि विभजनीयानि, किं तर्हि स्वदोषगुणैरपीति दर्शयन्नाह- तस्यां जातमित्यादि| क्रिम्यादिभिः सम्बाधमार्गान्तैः सह प्रत्येकमनुपहतशब्दः सम्बध्यते; सम्बाधः सङ्कटः| एकरसम् उत्कृष्टरसम्| पृथ्ववगाढमूलं चेति पृथु पृथुवल्कलं, अवगाढमूलं भूम्यन्तःस्थितं मूलं यस्य तत्तथा; चकारादनुपहतप्रशस्तमूलत्वं च समुच्चीयते| उदीच्यामिति उत्तरस्यां दिशि, एतेनोत्तराभिमुखो भूत्वा गृह्णीयादित्यर्थः विशेषो भेदः||३||

Adhikarana 3 (4) · Śloka 4

विशेषतस्तु तत्र, अश्मवती स्थिरा गुर्वी श्यामा कृष्णा वा स्थूलवृक्षशस्यप्राया स्वगुणभूयिष्ठा; स्निग्धा शीतलाऽऽसन्नोदका स्निग्धशस्यतृणकोमलवृक्षप्राया शुक्लाऽम्बुगुणभूयिष्ठा; नानावर्णा लघ्वश्मवती प्रविरलाल्पपाण्डुवृक्षप्ररोहाऽग्निगुणभूयिष्ठा; रूक्षा भस्मरासभवर्णा तनुवृक्षाल्परसकोटरवृक्षप्रायाऽनिलगुणभूयिष्ठा; मृद्वी समा श्वभ्रवत्यव्यक्तरसजला सर्वतोऽसारवृक्षा महापर्वतवृक्षप्राया श्यामा चाकाशगुणभूयिष्ठा ||४||

🔊 Audio coming soon

सामान्यभूमेर्गुणं प्रदर्श्य विशिष्टं प्रतिभूतं गुणं निर्दिशन्नाह- विशेषतस्त्वित्यादि| स्वगुणभूयिष्ठेत्यर्थः| तनुवृक्षा ह्रस्ववृक्षेत्यर्थः| अस्य पाञ्चभौतिकविशेषगुणकथनस्यायमभिप्रायः- पृथिव्याद्युत्कटत्वेन द्रव्याणां स्वस्यां स्वस्यां भूमौ जातं ग्राह्यम्, एवं बलवत्तराण्यौषधानि भवन्ति||४||

Adhikarana 4 (5) · Śloka 5

अत्र केचिदाहुराचार्याः- प्रावृड्वर्षाशरद्धेमन्तवसन्तग्रीष्मेषु यथासङ्ख्यं मूलपत्रत्वक्क्षीरसारफलान्याददीतेति; तत्तु न सम्यक्, सौम्याग्नेयत्वाज्जगतः | सौम्यान्यौषधानि सौम्येष्वृतुष्वाददीत, आग्नेयान्याग्नेयेषु; एवमव्यापन्नगुणानि भवन्ति | सौम्यान्यौषध्मनि सौम्येष्वृतुषु गृहीतानि सोमगुणभूयिष्ठायां भूमौ जातान्यतिमधुरस्निग्धशीतानि जायन्ते | एतेन शेषं व्याख्यातम् ||५||

🔊 Audio coming soon

सौम्येषु वर्षाहेमन्तशिशिरेष्वित्यर्थः| आग्नेयेषु शरद्वसन्तग्रीष्मेषु| आत्ययिके कार्ये पुनः पूर्वाह्णादिषु वसन्तादिषु यथायथमौषधान्याददीत| अयमभिप्रायः- आग्नेयान्यौषधान्याग्नेयेषु ऋतुषु गृहीतान्याग्नेयगुणभूयिष्ठायां भूमावतिकटुरूक्षोष्णानि जायन्त इति||५||

Adhikarana 5 (6) · Śloka 6

तत्र पृथिव्यम्बुगुणभूयिष्ठायां भूमौ जातानि विरेचनद्रव्याण्याददीत , अग्न्याकाशमारुतगुणभूयिष्ठायां वमनद्रव्याणि, उभयगुणभूयिष्ठायामुभयतोभागानि, आकाशगुणभूयिष्ठायां संशमनानि, एवं बलवत्तराणि भवन्ति ||६||

🔊 Audio coming soon

वमनादिद्रव्याणि कीदृशायां भूमौ ग्रहीतव्यानीत्याह- तत्रेत्यादि| संशमनानीति यद्द्रव्यं न वामयति न विरेचयति व्याधिना सहैकीभूय तत्स्थमेव व्याधिमुपशमयति तत् संशमनमुच्यते||६||

Adhikarana 6 (7-9) · Śloka 9

सर्वाण्येव चाभिनवानि, अन्यत्र मधुघृतगुडपिप्पलीविडङ्गेभ्यः ||७|| विडङ्गं पिप्पली क्षौद्रं सर्पिश्चाप्यनवं हितम् | शेषमन्यत्वभिनवं गृह्णीयाद्दोषवर्जितम् ||८|| (सर्वाण्येव सक्षीराणि वीर्यवन्ति;) तेषामसम्पत्तावतिक्रान्तसंवत्सराण्याददीतेति ||९||

🔊 Audio coming soon

सर्वाणीत्यादि| सर्वाण्येव चाभिनवानि ‘बलवत्तराणी’ इत्यत्रापि सम्बध्यते| अभिनवमत्र परिणतिकालानन्तरत्वमभिप्रेतं, न पुनर्जन्मनवत्वम्| एतस्यैवापवादसूत्रं दर्शयन्नाह- अन्यत्रेत्यादि| दोषवर्जितमिति क्रिमिविषशस्त्राद्युपघातादिदोषैस्त्यक्तम्| अत्रान्तरे वृद्धैः पठितः पाठः- सर्वाणीत्यादि| तत्र सक्षीराणि सरसानीत्यर्थः| मध्वादीनि यथोक्तानि यदा न प्राप्यन्ते तदा किं कर्तव्यमित्याह- तेषामित्यादि | तेषां मधुघृतादीनाम् असम्पत्तौ अत्यन्तपुराणानामप्राप्तौ||७-९||

Adhikarana 7 (10) · Śloka 10

भवन्ति चात्र- गोपालास्तापसा व्याधा ये चान्ये वनचारिणः | मूलाहाराश्च ये तेभ्यो भेषजव्यक्तिरिष्यते ||१०||

🔊 Audio coming soon

कुतः पुनर्भेषजानि ज्ञातव्यानीत्याह- गोपाला इत्यादि| गोपाला गोमहिष्यजादिपालकाः प्रोच्यन्ते, तापसाः तपस्विनो जटाधारिप्रभृतयः, व्याधा वागुरिकादयः, वनचारिणो म्लेच्छादयः||१०||

Adhikarana 8 (11) · Śloka 11

सर्वावयवसाध्येषु पलाशलवणादिषु | व्यवस्थितो न कालोऽस्ति तत्र सर्वो विधीयते ||११||

🔊 Audio coming soon

तत्र केचिदाहुराचार्याः प्रावृड्वर्षाशरद्धेमन्तेत्यादि गद्येन व्यभिचार्य, श्लोकैर्व्याभिचारयितुमाह- सर्वावयवसाध्येष्वित्यादि| सर्वावयवसाध्येषु अशेषमूलाद्यवयवग्राह्येषु योगेष्वित्यर्थः| पलाशलवणादिषु पत्रलवणादिषु; पत्रलवणयोगश्च वातव्याधिपठितो ज्ञेयः| तत्र सर्वो विधीयत इति तत्र तेषु पत्रलवणादियोगेषु, सर्वः समस्तोऽपि कालः प्रावृडादिर्विधीयते कथ्यत इत्यर्थः| एतेन सर्वस्मिन्नपि काले मेलापकः क्रियत इत्यर्थः||११||

Adhikarana 9 (12) · Śloka 12

गन्धवर्णरसोपेता षड्विधा भूमिरिष्यते | तस्माद्भूमिस्वभावेन बीजिनः षड्रसायुताः ||१२||

🔊 Audio coming soon

येन च हेतुना स्वगुणपरित्यागस्तमाह- गन्धेत्यादि| गन्धवर्णरसोपेतेति लुप्तादिशब्दनिर्देशाद् गन्धवर्णरसस्पर्शशब्दोपेता कथिता| षड्विधा पञ्चभूतात्मिका सर्वलक्षणा च| बीजिनो वृक्षादयः| ते च भूमिस्वभावेन युताः षड्रसोपेता भवन्ति; अथवा एते षड्रसा भूमिस्वभावेन युता मिलिताः सन्तो बीजिनो भवन्ति वृक्षादिरूपा भवन्तीत्यर्थः||१२||

Adhikarana 10 (13) · Śloka 13

अव्यक्तः किल तोयस्य रसो निश्चयनिश्चितः | रसः स एव चाव्यक्तो व्यक्तो भूमिरसाद्भवेत् ||१३||

🔊 Audio coming soon

यदि द्रव्याणां परिणामविशेषेण मधुरादिरसता तत्कथमुच्यते आप्यो रस इत्याह- अव्यक्त इत्यादि| अव्यक्त इति मधुरादिभावेनापरिस्फुट इत्यर्थः| किल अवधारणे| निश्चयनिश्चितो रसोऽस्तीत्यर्थः| यद्येवं मधुरादिभेदानुपपत्तिरित्यत आह- रसः स एवेत्यादि| स एवाव्यक्तो रसो व्यक्तो भवति मधुरादिभावं याति| कस्मात्? भूमिरसादिति सम्बन्धः||१३||

Adhikarana 11 (14) · Śloka 14

सर्वलक्षणसम्पन्ना भूमिः साधारणा स्मृता | द्रव्याणि यत्र तत्रैव तद्गुणानि विशेषतः ||१४||

🔊 Audio coming soon

भूमिद्रव्ययोः साधारणयोः कारणमाह- सर्वेत्यादि| सर्वलक्षणसम्पन्नेति पृथिव्यादिपञ्चमहाभूतलक्षणयुक्तेत्यर्थः| तद्गुणानि साधारणानि द्रव्याणीत्यर्थः||१४||

Adhikarana 12 (15) · Śloka 15

विगन्धेनापरामृष्टमविपन्नं रसादिभिः | नवं द्रव्यं पुराणं वा ग्राह्यमेवं विनिर्दिशेत् ||१५||

🔊 Audio coming soon

नवं पुराणं वा कीदृशं द्रव्यं गृह्यत इत्याह- विगन्धेनेत्यादि| विगन्धेनापरामृष्टमिति विरोधिना गन्धेनास्पृष्टमित्यर्थः| अविपन्नं रसादिभिरिति अक्षीणं रसादिभिरित्यर्थः||१५||

Adhikarana 13 (16) · Śloka 16

जङ्गमानां वयःस्थानां रक्तरोमनखादिकम् | क्षीरमूत्रपुरीषाणि जीर्णाहारेषु संहरेत् ||१६||

🔊 Audio coming soon

स्थावराणि नियम्य जङ्गमानि नियन्तुमाह- जङ्गमानामित्यादि| वयःस्थानामिति तरुणानां, न बालवृद्धानामित्यर्थः||१६||

Adhikarana 14 (17) · Śloka 17

प्लोतमृद्भाण्डफलकशङ्कुविन्यस्तभेषजम् | प्रशस्तायां दिशि शुचौ भेषजागारमिष्यते ||१७||

🔊 Audio coming soon

गृहीतौषधस्थापनोपायं दर्शयन्नाह- प्लोतेत्यादि| प्लोतः; कर्पटः| मृद्भाण्डं मृत्तिकापात्रं, फलकं पट्टकं, शङ्कुः कीलकः एतेषु प्लोतादिषु विन्यस्तं घृतमौषधं यस्मिन् गृहे तद्भेषजागारं भेषजगृहमिष्यत इति सम्बन्धः| प्रशस्तायां पूर्वस्यामुत्तरस्यां वा| शुचौ देशे| भूमिप्रविभागीयाध्याये निबन्धेषु व्यत्ययेन पाठो दृश्यते; अस्माभिस्तु वृद्धक्रमरीत्यैव पाठो लिखित इति| सर्वावयवसाध्येष्वित्यादि यावन्नवं द्रव्यं पुराणं वेति पाठं केचिदाचार्या न पठन्ति||१७||

Adhikarana puShpikA · Śloka 36

इति सुश्रुतसंहितायां सूत्रस्थाने भूमिप्रविभागीयो नाम षट्त्रिंशोऽध्यायः ||३६||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ण)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुत व्याख्यायां सूत्रस्थाने षट्त्रिंशोऽध्यायः||३६||